संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ९२

तिष्यसन्तानः - अध्यायः ९२

लक्ष्मीनारायणसंहिता


श्रीमाधवीप्रज्ञे प्रोचतुः-
भगवन् करुणासिन्धो कृष्णनारायणप्रभो ।
स्वः सञ्जाते कृतकृत्ये माहात्म्यश्रवणात् सताम् ॥१॥
अथाऽनादिकृष्णनारायणश्रीकृष्णमाधव! ।
कर्तुमीहामहे सर्वा भवज्जन्यजयन्तिकाम् ॥२॥
आज्ञां देहि पते स्वामिन् सर्वाः कुर्मो महोत्सवम् ।
अपूर्वमुत्सवं वीक्ष्य जीवानां मोक्षणं भवेत्। ॥३॥
श्रीश्वेतायनव्यास उवाच-
मुनयोऽनादिकृष्णाश्रीनारायणस्तदर्थनाम् ।
गृहीत्वाऽऽज्ञां ददौ कर्तुं ताभ्यः स्वाऽऽविर्दिनोत्सवम् ॥४॥
द्वाविंशतितमे जन्मवत्सरे कार्तिकेऽसिते ।
आद्ये दलेऽष्टमी प्राप्ता तज्जयोत्सवसिद्धये ॥५॥
श्रीमद्गोपालकृष्णस्तु पिता मण्डपमुत्तमम् ।
क्लृप्तयामास सहसा सौवर्णं राजतं शुभम् ॥६॥
विशालं योजनायामं पटमण्डपमित्यपि ।
गजासनं च सौवर्णमण्डपे सन्न्यधाद्धरेः ॥७॥
लोमशो हवनार्थं वै कुण्डं चाकारयत्तथा ।
समग्रोपकरणादि साधयामास लोमशः ॥८॥
ब्रह्मप्रियाद्याः प्रमदाः पक्वान्नानि प्रचक्रिरे ।
पद्मावतीप्रियायाश्च हरिप्रियास्तथाऽपराः ॥९॥
मण्डपेऽथ समाजस्योपवेशनानि सर्वशः ।
क्लृप्तयामास भगवान् ज्येष्ठो भ्राता हरेस्तदा ॥१०॥
शुको भ्राता द्वितीयश्च स्वागतार्थं स्थितोऽभवत् ।
सन्तुष्टाद्याः कुमार्यश्च देवीनां स्वागतं व्यधुः ॥।१॥
आययुः सर्वलोकेभ्यो धिष्ण्यपाः स्वविमानकैः ।
ऊर्जकृष्णाष्टमीप्रातः कृष्णाशीर्वादहेतवे ॥१२॥
योगेशा! ब्राह्मसमयेऽवाद्यन्त वाद्यकोटयः ।
संगृह्णाति च नारीणां कीर्तनान्यभवन् प्रगे ॥१३॥
विप्राणां वेदघोषाश्चाऽभवन्नाशीःपरायणाः ।
गीतयश्चाप्सरसां च सनृत्याः परितोऽभवन् ॥१४॥
गन्धर्वाणां किन्नराणां किंपुंसां गायनानि च ।
सूतमागधबन्दीनां वन्दनानि शुभानि च ॥१९॥
काव्योत्तमानि च कविवर्याणामभवँस्तदा ।
विद्याध्राणां चारणानामासन् कथानकानि च ॥१६॥
पण्डितानां नाटकानि सतानां कीर्तनानि च ।
नामधून्यानि साध्वीनां चासन् जयन्तिकोत्सवे ॥१७॥
नैष्ठिकाः! श्रीहरिः प्रातर्योगनिद्रां विहाय च ।
दिव्यवाद्यादिघोषादीन् शृण्वन् सस्नौ सरोजलैः ॥१८॥
दधार वेषं सुभगं भूषाः शृंगारकाणि च ।
सुगन्धानि सर्वस्वस्तिचन्द्रकः शुशुभे हरिः ॥१९॥
माताश्रीकम्भरालक्ष्मीः पुत्रस्य तिलकं व्यधात् ।
चन्द्रकं कौंकुमं चापि चान्दनं केसरान्वितम् ॥२०॥
सन्तुष्टा भगिनी भालेऽक्षतबिन्दुं व्यधाद्धरेः ।
पिता मालां ददौ पुत्रकण्ठे स्वर्णमणिस्रजम् ॥२१॥
अथैवं शोभितः कृष्णो मण्डपं समुपाययौ ।
लोमशश्चाययौ तत्र पूजोपकरणान्वितः ॥२२॥
सर्वैर्नमस्कृतस्तूर्णं वाचयामास मंगलम् ।
पुण्याहं स्वस्ति चैवापि गणेशपूजनं ततः ॥२३॥
देहशुद्धिं प्रोक्षणं च तिलकं चन्द्रकं हरेः ।
भाले चकार ऋषिराडाशीर्वादान् ददौ ततः ॥९४॥
पुष्पहारं गले रम्यं ददौ कृष्णस्य लोमशः ।
ततो माता पिता भाले बान्धवाश्च कुटुम्बिनः ॥२५॥
तिलकं साक्षतं चक्रुर्यवांकुराणि कर्णयोः ।
ददुश्चाशीर्वादवाणीं ततो ब्रह्मा ह्युपाययौ ॥२६॥
कृत्वा तु तिलकं हारं गले दत्वा स्तुतिं व्यधात् ।
नमस्कृत्याऽऽसनं प्राप विष्णुस्तत उपाययौ ॥२७॥
हारं च मुकुटं दिव्यं कुण्डले कौस्तुभं मणिम् ।
दत्वा ननाम च ततः शंभुरुपाययौ हरिम् ॥२८॥
नत्वा दत्वा पुष्पमालां चक्रे भाले सुचन्द्रकम् ।
इन्द्रादयस्ततो देवाः सिद्धाश्च साधवो ऽमलाः ॥२९॥
सनकाद्या भवन्तः श्रीहरिं पुपूजुरादरात् ।
नारदाद्याः ऋषयश्च सूर्याद्यास्तिलकं व्यधुः ॥३०॥
लोकपालाश्च पितरो गन्धर्वाः किन्नरास्तथा ।
किंपुमांसो मानवाश्च विप्राः सन्तो जलेशयाः ॥३१॥
तीर्थानि सागरा नद्यो वृक्षाश्च विरुधोऽपि च ।
देवा दैत्या दानवाश्च भक्ताः सूताश्च मागधाः ॥३२॥
चारणा वैष्णवाश्चान्ये शैवा गणाश्च पार्षदाः ।
अप्सरसो देवताश्च देव्यः साध्व्यश्च योगिनः ॥३३॥
योगिन्यो गणिकावृन्दा भक्तानिकाश्च योषितः ।
वर्णाश्रमा नरा नार्यो यक्षा रक्षांसि वन्दिनः ॥३४॥
विद्याधराश्च विद्वांसो कृष्णमानर्चुरुत्सुकाः ।
नागा यादांसि च जरायूजाश्च स्वेदजाश्च ये ॥३५॥
दिव्या दिव्यवपुष्मन्तः पुपूजुः परमेश्वरम् ।
आरार्त्रिकं महामुक्ताश्चक्रुर्मुक्तानिकास्तदा ॥३६॥
अभिषेकं ततो नद्यः पादयोश्चक्रुरुत्सवे ।
उपदाश्च ददुः सर्वे महीमानोत्तमाः सुराः ॥३७॥
चिरं जीवाऽव नः कृष्ण क्षेमं च कुशलं तव ।
आरोग्यं च धनं सम्पन्महैश्वर्याणि सन्तु ते ॥३८॥
शरण्यत्वं दयालुत्वं मोक्षदत्वं सदास्तु तै ।
वंशविस्तारवत्त्वं च देवाधिदेवराजता ॥३९॥
सौख्यं सर्वविधं तेऽस्तु सर्वानन्दादिशेवधेः ।
एवमाशीर्वादवाणीश्चाहुः सुरादयस्तथा ॥४०॥
लोमशः स्वागतं मानं धन्यवादान् ददौ तदा ।
ब्रह्मप्रियाः समस्ताश्च हरिप्रियाश्च योषितः ॥४१॥
राधारमाश्रीकमलावृन्दापाशंवतीप्रियाः ।
माणिकीसुखदालक्ष्मीभूलीलाभूतिशारदाः ॥४२॥
सावित्रीपार्वतीसंज्ञागायत्रीभगवत्प्रियाः ।
देव्यस्तथेश्वरपत्न्याऽवतारिण्योऽपराः स्त्रियः ॥४३॥
पुपूजुः परमात्मानं भालेऽस्य तिलकं व्यधुः ।
वृद्ध्यञ्जलिं दुःखनाशाञ्जलिं जगृहुरादरात् ॥४४॥
पुष्पाऽक्षताऽञ्जलीन् कृष्णे निदधुर्जगदुर्हरिम् ।
चिरं जीव सतीसाध्वीशक्तीशानन्ददो भव ॥४॥
सम्पत्प्रदो मोक्षदश्च नो हृत्स्वविचलो वस ।
एवमाशीर्ददुस्तस्मै कृष्णनारायणाय ताः ॥४६॥
आरार्त्रिकं च ताश्चक्रुर्जलं पपुश्च पादयोः ।
हरिस्ततो नरान्नारीर्नमश्चक्रे समुत्थितः ॥४७॥
वर्धितोऽहं महाभाग्यैर्नमामि परमेश्वरान् ।
गुरून् वृद्धान् मातृकाश्च देवीर्देवादिकान्मुहुः ॥४८॥
समागतान् कृपयाऽत्र मेऽर्थं तान्प्रणमाम्यहम् ।
सर्वे भवन्तु सुखिनो धिष्ण्यपाः सम्पदन्विताः ॥४९॥
वंशविस्तारवन्तश्च लोकधामाधिपास्तथा ।
निर्भया विमलानन्दभोगसम्पत्सुखोच्छ्रयाः ॥५०॥
इत्युक्त्वा श्रीकृष्णनारायणो राजन्निजासने ।
आहूय पूज्यवर्गांश्च प्रददौ बहुदानकम् ॥५१॥
सर्वसृष्ट्यधिपान् पूर्वं ददौ रत्नानि सर्वशः ।
ततः साधून् भूसुराँश्च सूतमागधबन्दिनः ॥५२॥
भिक्षुकान् बालिका बालान् योगिनश्च सतीजनान् ।
दासीर्दासांश्च भृत्याँश्च नरान्नारीः समस्तकान् ॥५३॥
नत्वा नत्वा महामूल्यं धनं तेभ्यो ददौ हरिः ।
यथायोग्यप्रसादाँश्च भूषापात्राऽम्बराणि च ॥५४॥
ददौ चक्रे ततः कृष्णः सभाविसर्जनं द्रुतम् ।
अथ तेभ्यो भोजनानि विचित्राण्युत्तमानि च ॥५५॥
कारयामास भगवान् पिता माता च बान्धवाः ।
तर्पयामासुरीशाद्यान् मिष्टान्नजलपानकैः ॥५६॥
मुखवासप्रदानैश्च विश्रामासनदानकैः ।
सेवाभिर्विविधाभिश्च सत्कारैर्योग्यवर्तनैः ॥५७॥
बुभूजुर्देहिनस्तत्र जन्मजयन्तिकादिने ।
द्वाविंशतिवर्षसंख्येऽष्टम्यां त्रिलोकवासिनः ॥५८॥
मध्याह्नोत्तरवेलायां प्रार्थयामासुरच्युतम् ।
निजलोकान् पावयितुं समागन्तुं हरिं तु ते ॥५९॥
तथाऽस्त्वेवं हरिः प्राह विससर्ज समाजकम् ।
विदाय प्राप्य ते सर्वे ययुर्लोकानजं विना ॥६०॥
ब्रह्मा तस्थौ गृहे तत्र कृष्णाज्ञया सुखेन वै ।
विमानैस्ते ययुः सर्वे मुदा स्वस्वालयान् प्रति ॥६१॥
अथाऽऽश्चर्यमभूत्तत्र शृणुतेदं मुनीश्वराः! ।
वर्धमाननगरस्य राजा नाम्ना पुरञ्जनः ॥६२॥
आगतोऽभूज्जन्ममहोत्सवे चान्ये नृपा यथा ।
पुरञ्जनस्य वै रात्रौ स्वप्नमभूच्चिरायितम् ॥६३॥
कुंकुमवापिकाक्षेत्रे मुहूर्ते ब्राह्मपूर्वके ।
स्वप्ने ददर्श राजा स्वं पतितं ज्वलितानले ॥६४॥
निन्युस्तं विकराला वै दूता यमस्य दक्षिणाम् ।
याम्यपुरीं सर्वकर्मफलभोगार्थसंस्थिताम् ॥६५॥
धर्मराजो ददौ दण्डं वीक्ष्य पापानि भूभृतः ।
परवित्ताऽपत्यनारीहर्ता त्वं कालपाशकम् ॥६६॥
तामिस्रं घोरनरकं भुंक्ष्वेत्याह यमाधिपः ।
नरनारीवञ्चकस्त्वमन्धतामिस्रगो भव ॥६७॥
भूतद्रोहकरस्त्वं च हिंसको रौरवं व्रज ।
देहंभरो न दाता त्वं महारौरवगो भव ॥६८॥
पशुपक्षिप्राणहा त्वं कुम्भीपाकगतो भव ।
पितृविप्रब्रह्मध्रुक् त्वं कालसूत्रगतो भव ॥६९॥
पाषण्डपोषकस्त्वं वै संविशाऽसिदलं वनम् ।
अदण्ड्यदण्डकर्ता त्वं सूकराननके पत ॥७०॥
प्राणिव्यथाप्रदाता त्वमन्धकूपगतो भव ।
पञ्चयज्ञविहीनस्त्वं कृमिकुण्डगतो भव ॥७१॥
हिरण्यरत्नहर्ता त्वं सन्दशे नरके पत ।
अगम्यागमकस्त्वं वै तिग्मसूर्म्यागतो भव ॥७२॥
पाषण्डपोषकस्त्वं वैतरण्यां पत सर्वथा ।
शौचाचारविहीनस्त्वं पूयकर्दमगो भव ॥७३॥
मृगयाव्यसनी त्वं वै याहि वैशसमुल्बणम् ।
अनृतार्थप्रवादी त्वं याह्यवीचिमधःशिराः ॥७४॥
मद्यपस्त्वं रक्तमद्याऽनलपानकरो भव ।
गुर्ववज्ञाविधाता त्वं क्षारकर्दमके पत ॥७५॥
सर्वोद्वेगकरस्त्वं वै दन्दशूकगतो भव ।
साध्वभ्यागतपूजाघ्नो वज्रतुण्डगतो भव ॥७६॥
एवमुक्त्वा यमो याम्यान्नृपं नेतुमुवाच ह ।
यमदूता ददौ दुःखं ताडनैश्छेदनैस्तथा ॥७७॥
घातनैर्वह्निदाहैश्च पेषणैः कर्तनैस्तथा ।
वह्निपानैर्विषदानैः क्षारपातनकैस्तथा ॥७८॥
गलरोधैश्चान्त्रकर्षैर्वज्रघातैर्मुहुर्मुहुः ।
कण्टकादौ गमनैश्चाकर्षणैः शस्त्रिभूतले ॥७९॥
ताम्रबन्धैर्ज्वालनैश्च पाशलम्बनकैस्तथा ।
खङ्गपत्रप्रवासैश्च पूयशोणितपातनैः ॥८०॥
एवंविधानि दुःखानि भुक्त्वा स्वप्ने नृपश्चिरम् ।
निष्कासितो बहिश्चापि प्रवासितो विदायवान् ॥८१॥
आययौ स्वनिवासे वै वर्धमानपुरे हि सः ।
सम्मानितो नृपो लोकैर्महोत्साहैः प्रजादिभिः ॥८२॥
राज्यासने स्थितः पश्चाद् विश्रम्य च दिनान्तरे ।
यात्रार्थं प्रययौ कुंकुमवापीं कृष्णसन्निधौ ॥८३॥
जन्मजयन्तिकाहे वै तत्र कृत्वा महोत्सवम् ।
विदायं स ललाभापि तावन्निद्रोत्थितोऽभवत् ॥८४॥
शुशोच बहुधा राजा किमिदं स्वप्नमुल्बणम् ।
पृच्छामि परमात्मानं दृष्टं यत् तत् समस्तकम् ॥८५॥
राजा पुरञ्जयः शीघ्रं कृष्णनारायणाय वै ।
श्रावयामास वृत्तान्तं शोकं चकार वै क्षणम् ॥८६॥
अनादिश्रीहरिः प्राह राजत्वं पापकृत् पुरा ।
पश्चाद् भक्तोऽसि जातोऽत्र महापापी पुराऽभवः ॥८७॥
सहस्रयुगपर्यन्तं पापफलं तवाऽभवत् ।
भोगाय यमलोके वै तत्सर्वं विलयं गतम् ॥८८॥
ममाश्रयेण वै राजन् यदंशः स्वप्नके त्वया ।
भुक्तः सर्वोऽपि रात्रौ वै न शेषं तव विद्यते ॥८९॥
अथाऽधुना मम मन्त्रं गृहाण शुद्धभावनः ।
मुक्तो भूत्वा प्रयाह्येवाऽक्षरं धाम परं पदम् ॥९०॥
त्वमग्नौ पतितो राजन् नाऽऽयुष्यं तव विद्यते ।
अश्वपट्टसरःक्षेत्रे याहि धामाऽक्षरं मम ॥९१॥
इत्युक्त्या श्रीकृष्णनारायणो मन्त्रं तु भूभते ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९२॥
ददौ वारि ददौ नैजं पादप्रक्षालनोद्भवम् ।
पपौ राजा पादजलं दिव्यदृष्टिर्बभूव ह ॥९३॥
मायापाराऽऽचारवाँश्चाऽभवत् करुणया हरेः ।
आचकर्ष समस्ता वै वृत्तिश्चेन्द्रियवाजिनाम् ॥९४॥
तूर्णं ब्रह्मस्थितौ तिष्ठन् पुपूज परमेश्वरम् ।
ऋषीन् साधून् वैष्णवाँश्च नेमे परमभाववान् ॥९५॥
स्वभृत्यान् शिक्षणं दत्वा स्वस्त्या तत्र कलेवरम् ।
आगतेन विमानेन दिव्येन मुक्तशोभिना ॥९६॥
ययौ धामाऽक्षरं शीघ्रं पश्यतां सर्वदेहिनाम् ।
श्रुत्वा याम्यप्रदत्तान् वै दण्डान् सर्वेऽनुयायिनः ॥९७॥
तत्यजुर्भृत्यवर्गास्ते दूषणानि ह्यघानि च ।
जयकारोऽभवद् राज्ञश्चौर्ध्वकृत्यं ततोऽभवत् ॥९८॥
भूपस्याऽनुचराः सर्वे मन्त्रं जगृहुरच्युतात् ।
नामधुन्यं जगृहुश्च कृष्णनारायणप्रभो ॥९९॥
बालकृष्णस्वामिकृष्णाऽनादिकृष्णप्रभो विभो ।
एवं धुन्यं प्रचक्रुस्ते ययुर्नैजं पुरं प्रति ॥१००॥
जगदुर्नृपमोक्षं च भेजुस्ततो हरिं प्रभुम् ।
इत्येवं वर्चुलं तत्राऽऽश्चर्यमभून्मयोदितम् ॥१०१॥
पठनाच्छ्रवणादस्य स्मरणान्मुक्तिभाग् भवेत् ।
मायां विहाय पापानि ब्रह्मलोकगतोऽभवत् ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीहरेर्द्वाविंशतितमो जन्मजयन्तीदिनोत्सवः, वर्धमानपुरेशितुः पुरञ्जयनृपतेः स्वप्ने सर्वनरकभोगस्ततः शीघ्रं श्रीकृष्णनारायणस्वामि-
सन्निधौ मोक्षणं चेत्यादिनिरूपणनामा द्वानवतितमोऽध्यायः ॥९२॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP