संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ८०

तिष्यसन्तानः - अध्यायः ८०

लक्ष्मीनारायणसंहिता


श्रीबद्रीप्रियोवाच-
सर्वकल्याणकर्तः श्रीकान्त कृष्णनरायणः ।
किं चकार ततः सर्वं चरित्रं वक्तुमर्हसि ॥१॥
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि स्वामिकृष्णनरायणः ।
नागविक्रमभूपेन यज्ञे त्वाकारितो ययौ ॥२॥
पारवत्या निजपत्न्या प्रभया निजकान्तया ।
युतः सन्तुष्टया स्वस्रा दासदासीगणैर्युतः ॥३॥
ययावस्मै कृष्णनारायणाय शर्करापुरे ।
प्रतिज्ञातं तु यज्ञार्थं युद्धपुराऽधिपेन यत् ॥४॥
नागविक्रमसंज्ञेन समारब्धो मखस्तु सः ।
तत्राऽनादिकृष्णनारायणो ययौ निमन्त्रितः ॥५॥
सर्वमेधं महायज्ञं कारयामास माधवः ।
अनादिश्रीकृष्णनारायणश्रीश्वरवल्लभः ॥६॥
नागविक्रमराजेशो महाभागवतोत्तमः ।
चातुर्मास्यव्रतं कुर्वन् सर्वमेधं चकार ह ॥७॥
युद्धपुरे लुनीनद्यास्तटे विशालभूतले ।
पञ्चयोजनविस्तारे मण्डपं स त्वकारयत् ॥८॥
श्रावणशुक्लैकादश्यां कृतसंभारसञ्चयः ।
यज्ञमारभत क्ष्मेशो विप्रयाज्ञिकनोदितः ॥९॥
आययुस्तत्र भूदेवाः साधवो वैष्णवा अपि ।
नरा नार्यो लक्षशो वै धर्मकार्यपरायणाः ॥१०॥
ब्रह्माऽभवत् कृष्णनारायणः श्रीभगवान् स्वयम् ।
यजमानो नागविक्रमाख्यो भूपो हि वैष्णवः ॥११॥
ऋत्विजो गालवाद्याश्च महर्षयोऽभवन्मखे ।
फालायनोऽभवत्तत्रोद्गाता सामपरायणः ॥१२॥
सारायणोऽभवत्प्रत्युद्गाता वेदार्थवित्तथा ।
अजायनोऽभवत्तत्राऽऽहर्ता वैदिकसत्क्रियः ॥१३॥
दण्डायनोऽभवत्प्रतिहर्ता सर्वक्रियापरः ।
भालायनस्तु ऋषिराट् प्रस्तोता चाभवन्मखे ॥१४॥
रसायनोऽभवत् प्रतिप्रस्तोता यज्ञकर्मणि ।
होता धारायणश्चैव प्रतिहोताऽलवायनः ॥१५॥
जापकाश्चार्बुदा विप्राः पौष्करा हवनार्थिनः ।
यामुनेया द्विजाश्चासन् दिक्पाला वैष्णवोत्तमाः ॥१६॥
सौराष्ट्रीयाः पूजकाश्च द्विजाश्चासँस्तदा मखे ।
गौर्जराः पाचकाश्चासन् मरुजाः परिवेषकाः ॥१७॥
गांगेया वेदमन्त्रादिव्याख्यातारोऽभवन्मखे ।
सिन्धुजाः पाठकाश्चासन् सभासदास्तु पूर्वजाः ॥१८॥
दक्षिणात्या हवनार्था आसँस्तत्र च जापकाः ।
महर्षयो वशिष्ठाद्या गुरवस्तु निरीक्षकाः ॥१९॥
द्रष्टारस्तत्र सर्वेषां कर्मणां वै तदाऽभवन् ।
मध्यस्था वैदिका विप्रा आसन् प्रख्यातनामिनः ॥२०॥
लोमशाद्यास्तथा मार्कण्डेयाद्या दिव्यदृष्टयः ।
हैमाचलाः कृष्णनाम्नां कीर्तनेष्वभवन् स्थिराः ॥२१॥
एवं वै बद्रिके यज्ञेऽभवन् विप्रा व्यवस्थिताः ।
साधवो लक्षशश्चाप्यभवन् भजनकारिणः ॥२२॥
प्रजाश्च खण्डराजन्या आमन्त्रिताः समाययुः ।
लक्षातिलक्षमनुजाः सर्वमेधेऽभवँस्तदा ॥२३॥
घृतकुल्या दधिकुल्याः सुधाकुल्यास्तदाऽभवन् ।
पयःकुल्या मधुकुल्या शर्करापर्वतास्तथा ॥२४॥
मिष्टान्नानां पर्वताश्च पानानां प्रसरांसि च ।
भक्ष्याणां सेतवश्चासन् सर्वमेधेऽत्र बद्रिके ॥२५॥
फलानां लेह्यचोश्यानां महाद्रयोऽभवन् मखे ।
दानार्हहोमयोग्यानां मेरवस्तत्र चाऽभवन् ॥२६॥
समिधां पायसान्नानां क्षीराणां सञ्चयोत्तमाः ।
कणानां चापि शिम्बीनां राशयोऽप्यभवन्मखे ॥२७॥
वस्त्राणां कम्बलानां च भूषाणामद्रयोऽभवन् ।
पात्राणां दाररत्नानां धेनूनां मण्डलान्यपि ॥२८॥
देहोपकरणानां च गृहोपकरणार्थिनाम् ।
आसन् प्रराशयस्तत्र सम्पदां दिव्यसम्पदाम् ॥२९॥
सुवर्णानां रजतानां सञ्चयाश्चाऽभवन्मखे
आसनानां स्रुक्स्रुवाणां हविष्याणां प्रपूर्णताः ॥३०॥
दश सूत्यास्तथा बद्रि दीक्षाश्च द्वादशापि वै ।
उपसदो द्वादशश्च यथायोग्यं व्यवर्तयन् ॥३१॥
भाद्रपूर्णावधिर्यागश्चतुस्त्रिंशद्दिनात्मकः ।
सर्वांगपूर्णो ह्यभवद् बद्रिके कृष्णसन्निधौ ॥३२॥
बृहस्पतिसवाद्याश्च आप्तोर्यामान्तकाः शुभाः ।
सांगोपांगा ह्यभवँश्च नारायणसमाहिताः ॥३३॥
बृहस्पतिसवे त्रयस्त्रिंशद्गोदानमाभवत् ।
वैश्यसवे विप्रसवे सोमसवे तथाऽभवत् ॥३४॥
पृथिसवे गोसवे ओदनसवे तथाऽभवत् ।
मरुत्स्तोमेऽग्निस्तुतौ च महेन्द्रस्तवने तथा ॥३५॥
आप्तोर्यामे निधने(निघने) च सवे गोदानकानि च ।
अभिषेकाः पृथक् चापि तत्तद्देवाऽभ्यपूजनम् ॥३६॥
पुरोडाशार्पणं चापि यथाकर्माऽभवन् खलु ।
सवोऽभिषेक उक्तो वै यजमानस्य चैव ह ॥३७॥
जलेनाऽऽज्येन दध्ना च घृतेन पयसा तथा ।
अभिषेको यथायोग्यमभवत्तत्र चाध्वरे ॥३८॥
पुरोडाशाश्चरवश्च हवींषि द्रव्यमुत्तमम् ।
ओदनानि सक्तवश्च मन्थास्तत्राऽभवन् शुभाः ॥३९॥
रथन्तरादिसोमाश्च संस्थाश्च हवनान्यपि ।
यथायोग्यानि जातानि निर्वर्तितानि शार्ङ्गिणा ॥४०॥
अवतारा ईश्वराश्च शक्तयो देवताः सुराः ।
प्रत्यक्षा आगमन् बद्रि कृष्णाऽऽहूतास्तदध्वरे ॥४१॥
सृष्टित्रये च ये देवा यज्ञाधिकारयोगिनः ।
सर्वे ते बलिभोगार्थमाययुर्गोचराः सुराः ॥४२॥
घृतधाराभिरेतेपि हविष्यान्नैरनुत्तमैः ।
रसैर्मिष्टान्नकैः क्षीरैः फलैः समिद्भिरित्यपि ॥४३॥
कणैः सुधाभिः पयसा तर्पिताः शाककन्दकैः ।
नित्यं तत्र प्रदीयन्ते स्वर्णगोदानकानि वै ॥४४॥
भोजनाऽम्बरदानानि धर्मदानानि यान्यपि ।
पितृतृप्तिप्रदानानि दीयन्ते वै नृपेण ह ॥४५॥
पूज्यन्ते साधवः सन्तः साध्व्यो विप्राश्च वैष्णवाः ।
आगन्तुकाऽनाथदीना नरा नार्यः प्रदानकैः ॥४६॥
लक्षशो मानवाद्याश्च भुञ्जते गृष्टमिष्टकम् ।
पिबन्ति सद्रसान् गृष्टिपुष्टिदान् तृप्तिकारकान् ॥४७॥
अग्नयो गोचरास्तत्र भुंजते स्वकरैर्मुखे ।
प्रसन्ना देवताः सौम्या भुञ्जते हव्यमुत्तमम् ॥४८॥
पितरो भुञ्जते बद्रि तथाऽन्यदेवतादिकाः ।
समस्ताः श्रीकृष्णहस्तार्पितप्रसादमुत्तमम् ॥४९॥
तृप्तास्तृप्ता वयं तृप्ता इत्यूचुश्चानलाननाः ।
ततो यज्ञस्य भाद्रस्य पूर्णायां पूर्णाताऽभवत् ॥५०॥
पूर्णाहुतौ हविष्याणि त्रैलोक्यसंभवानि वै ।
यान्यानीतानि तानि श्रीकृष्णो ददौ महानले ॥५१॥
उद्गारास्तृप्तिदास्तेषां सुराणां संभवन्ति च ।
मा मेति सुरवाचश्चाऽभवन् पूर्णाहुतौ मुदा ॥५२॥
सृष्टित्रयं तर्पितं श्रीकृष्णेन परमात्मना ।
नागविक्रमभूपस्य संकल्पः सफलीकृतः ॥५३॥
बद्रिके श्रीहरिर्यत्र विश्वात्मा सकलंभरः ।
दाता ग्रहीता भोक्ताऽत्ता नित्यतृप्तो जगन्मयः ॥५४॥
तत्राऽतृप्तिर्न विद्येत परिपूर्णो यतः स्वयम् ।
नागविक्रमभूपोऽपि कृत्वा यज्ञं सदक्षिणम् ॥५५॥
कृतकृत्योऽभवद् बद्रि महाभागवतोत्तमः ।
स्वर्णरूप्यमयीः सर्वा दक्षिणाः प्रददौ मखे ॥५६॥
गोधनानि विभूषाश्च कन्यादानानि वै ददौ ।
क्षितिदानानि रत्नानां दानानि विभवार्पणम् ॥५७॥
विद्यादानानि बहूनि धर्मदानानि सन्ददौ ।
गृहदानान्युत्तमानि वृत्तिदानानि सन्ददौ ॥५८॥
अवभृथं ततौ राजा चकार याज्ञिकैः सह ।
जलमातृपूजनादि जलदेवप्रपूजनम् ॥५९॥
तीर्थस्थाने लूणिकाया जले चकार भूपतिः ।
सर्वं विधिं सदानं च कृत्वा स्नानं समाचरत् ॥६०॥
लक्षाधिमानवाः साकं स्नानदानानि चाचरन् ।
नागविक्रमभूपस्य राज्ञी नाम्नाऽर्कमालिनी ॥६१॥
अवभृथान्ते दानानि योषिद्भ्यः प्रददौ मुदा ।
हीररत्नादिहाराँश्च स्वर्णभूषाम्बराणि च ॥६२॥
श़ृंगारवेषान् सुभगान् स्वर्णपात्राणि यानि च ।
देहोपकरणान्येव ददौ भूरीणि वै मुदा ॥६३॥
विप्रपत्न्यः कन्यकाश्च साध्व्यः सत्यः सखीजनः ।
प्रसन्नमानसा जातास्तृप्ता दानाप्तिसत्फलाः ॥६४॥
एवमवभृथे तत्र बद्रिके विस्मयावहः ।
चमत्कारोऽभवत्तूर्णं तं वदामि निबोध मे ॥६५॥
आगतं मण्डलं त्वेकं पिशाचानां महत्तदा ।
आकाशाज्जलमध्ये तत् पतितं निम्नवारिषु ॥६६॥
सहसा ते सहस्रं वै पपुर्वारि मुदान्विताः ।
पिशाचाः स्नातमात्राश्च दिव्यदेवास्तदाऽभवन् ॥६७॥
स्वर्णकुण्डलहाराद्यैर्भूषिताः सूर्यवर्चसः ।
सुरा देव्योऽभवन् सर्वे षोडशादिप्रवत्सराः ॥६८॥
कृताञ्जलयः श्रीकृष्णमस्तुवन् भावगर्भितम् ।
अहो वयं पुरा कृष्ण व्यापारार्थं वणिग्जनाः ॥६९॥
युद्धपुरात् थररणे निर्गताः शर्करापुरम् ।
स्त्रीबालसहिताः कृष्ण उष्ट्रमहोष्ट्रवाहनाः ॥७०॥
रणमध्ये गता यावज्झंझावातोऽतिदुःसहः ।
प्रोत्पन्नो वालुकावृष्टिवहो मध्याह्ननाशनः ॥७१॥
उष्ट्रा महोष्ट्रा बालाश्च नार्यः क्षितौ हि वायुभिः ।
वालुकासु मुहूर्तेन गर्भस्था अभवन्मृताः ॥७२॥
वयं ये बलिनश्चापि वालुकावृष्टिताडिताः ।
उपविष्टा वालुकाधस्तत्र छन्ना हि वालुभिः ॥७३॥
वालुकानामुच्छ्रया वै जाता वयं तदन्तरे ।
मृता गर्भगता सर्वे पिशाचता रणे गताः ॥७४॥
युद्धपुराभ्याशसीमप्रदेशेषु निरन्तरम् ।
सहस्रसंख्यकाः कृष्ण अभवाम रणालयाः ॥७५॥
अद्य ज्ञात्वा सर्वमेधयज्ञस्याऽवभृथोत्सवम् ।
अनादिश्रीकृष्णनारायणपादजलामृतम् ॥७६॥
पातुमुपागताश्चात्र पीत्वा स्नात्वा पदामृतम् ।
पावनाः स्म च सञ्जाताः पिशाचत्वविवर्जिताः ॥७७॥
स्नानेन पुण्यलाभेन देवानां योग्यतान्विताः ।
अद्य जाता वयं कृष्ण तथापि सुरभावनाम् ॥७८॥
नेच्छामहे यतः कृष्ण पुनरावर्तनात्मिकाम् ।
अपुनरावृत्तिभावं कांक्षामहे तु सर्वथा ॥७९॥
परमेशो भवानत्र साक्षाद् दृष्टोऽधुना प्रभुः ।
पीतं पादजलं तेऽत्र स्नातं प्रसादवारिभिः ॥८०॥
तद्वयं परमं मोक्षं कांक्षामहे तवाऽऽश्रिताः ।
शाश्वतं ब्रह्मनिर्वाणं प्रापयाऽस्मान् कृपां कुरु ॥८१॥
श्रुत्वैवं भगवान् बद्रि करे धृत्वा जलं पुनः ।
निजमन्त्रं चार्पणात्मात्मकमुच्चार्य तत्र च ॥८२॥
संकल्पं संप्रयोज्यैवाऽक्षिपद् वारि सुरोपरि ।
सर्वे सुरा द्रुतं मुक्ता अभवन् दिव्यविग्रहाः ॥८३॥
वैकुण्ठपार्षदाः सर्वे ततोऽक्षरस्य पार्षदाः ।
दिव्या भूत्वा हरिं नत्वा जयमुच्चार्य चाऽसकृत् ॥८४॥
आगतेन विमानेन ययुर्धामाऽक्षरं हरेः ।
पश्यतां लुनिकानद्यास्तटे वै लक्षदेहिनाम् ॥॥८५॥
ययुर्धामाऽक्षरं सर्वे पिशाचा मुक्ततान्विताः ।
अथाऽऽश्चर्यपरा लोकाः क्षणं स्तब्धा इवाऽभवन् ॥८६॥
ज्ञातवन्तः प्रतापं श्रीहरेर्मानवदेहिनः ।
कृत्वैवं मोक्षणं स्नात्वाऽवभृथान्ते नृपादयः ॥८७॥
साकं श्रीहरिणा नैजालयान् ययुर्मुदान्विताः ।
चक्रुस्ते वैष्णवाः सर्वे देवा देव्यश्च साधवः ॥८८॥
भोजनानि महीमानाः प्रजा आगन्तुका जनाः ।
प्राप्य प्रसादं कृतिनोऽभवन् पुण्यातिशालिनः ॥८९॥
रात्रौ विश्रान्तिमापुश्च राजा राज्ञी हरिं मुदा ।
सेषेवाते बालकृष्णं वल्लभाऽऽर्यं सुसत्पतिम् ॥९०॥
पादसंवाहनाद्यैश्चाथ प्रगे प्रतिपद्दिने ।
जजागर हरिः स्नातः कृतपूजन ईशिता ॥९१॥
व्यराजताऽऽसने दिव्ये सौवर्णे नृपदर्शिते ।
पूजां कर्तुं हरेस्तत्राऽऽययुर्युद्धपुराश्रिताः ॥९२॥
उपदाः श्रीहरेरग्रे न्यस्य चन्दनकुंकुमैः ।
अक्षतैः कुसुमैर्माल्यैहरिभूषाम्बरादिभिः ॥९३॥
अनाद्यैरार्चयन् कृष्णनारायणपतिं पतिम् ।
आशीर्वादान् जगृहुस्ते पूजका वैष्णवा जनाः ॥९४॥
राजा विदायं प्रददौ महीमानान् समन्ततः ।
आययुस्ते निजदेशान् वै कृतार्थना मुदान्विताः ॥९५॥
मध्वरं प्रशंसन्तो ययुरानन्दसंभृताः ।
युद्धपुरप्रजाः कृष्णं सिषेविरे गृहे गृहे ॥९६॥
ओत्वा स्वस्वालयान्नार्यो नरा आनन्दमाप्नुवन् ।
मन्त्रं जगृहुर्बहवो भक्ताः कृष्णस्य वैष्णवाः ॥९७॥
अभवन् युद्धपुरीयप्रजाजना विशेषतः ।
रिर्दिनत्रयं तत्रोवास राज्ञ्याग्रहेण तु ॥९८॥
चतुर्थ्यां श्रीहरिर्गन्तुं सज्जोऽभवन्निजालयम् ।
तावत् युद्धपुरे बद्रि सैन्यं शत्रोरुपागतम् ॥९९॥
नामतो नन्दिभिल्लस्य यमुनातटभूपतेः ।
दूतं सा प्रैषयत्तूर्णं रणार्थं नन्दिभिल्लकः ॥१००॥
युद्धं देहि च वा राज्यं देहि वा करदो भव ।
इत्युवाच हि दूतोऽपि नत्वा तु नागविक्रमम् ॥१०१॥
दूतं सत्कृत्य राजाऽपि कृष्णं न्यवेदयत्तु तत् ।
कृष्णो ज्ञात्वा मदं नन्दिभिल्लस्याऽऽज्ञापयद् रणम् ॥१०२॥
बद्रिके युद्धनगरे युद्धवार्ता स्थले स्थले ।
प्रासरद् भयदा सर्वदेहिनां तिष्ठति प्रभौ ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने युद्धपत्तनस्य नागविक्रमस्य नृपस्य सर्वमेधयज्ञं श्रीकृष्णनारायणः सम्पादयामासेत्यादिनिरूपण नामाऽशीतितमोऽध्यायः ॥८०॥


References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP