तिष्यसन्तानः - अध्यायः ८९
लक्ष्मीनारायणसंहिता
श्रीकृष्णनारायण उवाच-
शृणुतं माधवि साध्वि प्रज्ञे संसारमग्नताम् ।
ब्रह्मचारी प्रथमो वै स्वाभ्युदयं समिच्छति ॥१॥
जन्मतः सर्वबाला वै बालका ब्रह्मचारिणः ।
आगार्हस्थ्यं तर्कयन्ति श्रैष्ठ्यमुदयमुन्नतिम् ॥२॥
अध्ययनं कलाशिक्षां व्यापारं जीविकाक्रियाम् ।
भृत्यत्वं दासतां यद्वा कृषिं रक्षां च कारुताम् ॥३॥
तत्संकल्पाः प्रजायन्ते महत्त्वाऽऽकांक्षयाऽन्विताः ।
आकांक्षास्ताः समस्ता वै बन्धनं ब्रह्मचारिणाम् ॥४॥
गृहस्थानां प्रियायां वा स्वामिनि स्वसुतादिषु ।
धने गृहे च सम्पत्सु भवत्यासक्तिरन्वहम् ॥५॥
सा वासनास्वरूपा स्याद् बन्धनं वासनामयः ।
संसारस्तु गृहस्थानां कुणपे सुखमानिनाम् ॥६॥
वियोगं न सहन्ते वै मिथः सक्ता रुदन्ति च ।
वहन्ति कष्टं यत्पश्चान्मृतिं यन्त्यनु केचन ॥७॥
एवं रागाभिसन्नद्धा मग्नाः संसारसागरे ।
गृहस्थाः संप्रजायन्ते पुनरावृत्तिचक्रिणः ॥८॥
येषां लोकैषणा पुत्रैषणा वित्तैषणाऽस्ति च ।
ते वै संसारमग्ना हि नोत्तरन्ति कदाचन ॥९॥
अपि ये यतयो येषां नेष्टं वै कृष्णमन्तरा ।
तेषां चेद्देहपूजेष्टा रागासक्ती तु बन्धने ॥१०॥
त्यक्त्वा गृहं कुटुम्बं च ग्रामं धनं च सम्पदः ।
त्यागी मठे च शिष्येषु वासे द्रव्ये तथाश्रमे ॥११॥
आसक्तः स तु संसारे मग्न एव न संशयः ।
उपादिश्य जनान् द्रव्यादिभ्यः प्रच्याव्य तद्धनम् ॥१२॥
आकांक्षति स्वयं त्यागी संसारे मग्न एव सः ।
त्यागी भूत्वा गृहस्थानां शुश्रूषां तु करोति यः ॥१३॥
स्वार्थवृत्तिः स एवाऽस्ति मग्नः संसारकर्दमे ।
त्यागे स्थितश्चिन्तयति मानं मे न न पूजनम् ॥१४॥
न कीर्तिर्न यशो मेऽस्ति न मे राज्यादरस्तथा ।
न प्रजायां न सम्मानं सम्पदो मे न न प्रिया ॥१५॥
न प्रासादो न मे यानं वाहनं न न वाटिका ।
न मे क्षेत्रं नाऽम्बरं मे नर्द्धिर्न धिष्ण्यमित्यपि ॥१६॥
नाऽऽचार्यत्वं गुरुत्वं न नैश्वर्यं न प्रशंसनम् ।
न क्षेत्रं न सुतश्चापि न भृत्यो न पशुर्गजः ॥१७॥
नाऽश्वो नास्ति विमानं मे न मिष्टान्नाशनोत्सवः ।
न शृङ्गारो न चांऽगारो नाऽगारं मे न चत्वरम् ॥१८॥
न शय्या मे न पर्यंको न दासो मे न दास्यकृत् ।
न बन्दी मे न सेवाकृन्नास्ति विद्या न संस्कृतिः ॥१९॥
इत्येवमिहयाऽऽकृष्टो मज्जत्यगाधसागरे ।
संसारनामके मग्नो न निस्सरति कर्हिचित् ॥२०॥
माधवि विधिमुत्सृज्य वर्तन्ते कामगर्विताः ।
ये ते प्रज्ञे सुमज्जन्ति संसारे घोरसागरे ॥२१॥
विधिं दृष्ट्वा गुरोराज्ञां ममाऽऽज्ञां संप्रपाल्य च ।
वर्तन्ते ये ममवृत्तास्तेषां नैम्न्यं न वै क्वचित् ॥२२॥
पत्नी या पत्युराज्ञायां वर्तमानाऽतिगाऽपि च ।
सा निकृष्टा न वै क्वापि याऽऽज्ञा सा धर्मरूपिणी ॥२३॥
यतिः साधुः सती साध्वी त्यागी योगी विरक्तकः ।
ममाऽऽज्ञायां वर्तमानाः प्रणालीरीतिवर्जिताः ॥२४॥
अलोकमिलनाश्चापि समूहविपरीतगाः ।
अश्लीलवृत्तकाचारा अमर्यादास्थिता अपि ॥२५॥
ब्रह्मभावपराचाराः श्रेष्ठा एव सदा हि ते ।
न निम्नत्वं विरक्तानां ब्रह्मस्थितिजुषां क्वचित् ॥२६॥
न निम्नत्वं हि देवानामीश्वराणां तथा क्वचित् ।
न मुक्तानां निम्नता नाऽवताराणां तथा क्वचित् ॥२७॥
नाप्यवतारिणीनां च निम्नत्वं विद्यते क्वचित् ।
सतीनां चापि साध्वीनां निम्नता नास्ति कर्हिचित् ॥२८॥
आज्ञायां सम्पदो भोगा निर्गुणा न तु बन्धदाः ।
आज्ञालभ्या विरक्तानां भोगा नैर्गुण्यशालिनः ॥२९॥
बन्धदा न भवन्त्येते कृष्णप्रसादरूपिणः ।
त्यागिनां श्रीहरेराज्ञा मुक्तिदा सगुणाऽगुणा ॥३०॥
कृष्णाज्ञा निर्गुणा तस्मात्तकृतिर्निर्गुणा सदा ।
लोकवत्तु हरेर्लीला त्यागिलीलाऽपि मोक्षदा ॥३१॥
कृष्णार्पणीकृता चेष्टा सर्वा निर्गुणतां व्रजेत् ।
अमायिकी स्थितिश्चेयं त्यागिनां बन्धवर्जिता ॥२२॥
दारास्तु बन्धनं मोक्षे यदि विघ्नविधायिनी ।
पुमान् वै बन्धनं तद्वन्मोक्षे विघ्नकरो यदि ॥३३॥
मोक्षदौ तौ मिथश्चेद्वै परस्परं न बन्धनम् ।
प्रज्ञे श्रीमाधवि तत्त्वं चाकर्णय तु बन्धकृत् ॥३४॥
पतिव्रता यदि नारी मोक्षतत्त्वाभिवर्तिनी ।
सा नारी बन्धनं नैव पुमाँस्तस्यास्तु बन्धनम् ॥३५॥
पत्नीव्रतः पुमान् यस्या मोक्षमार्गाभिवर्तनः ।
स पुमान् बन्धनं नैव तस्य नारी हि बन्धनम् ॥३६॥
समशीलौ बन्धने न विशीलौ बन्धने मतौ ।
कामासक्तस्य वै नारी बन्धनं वर्तते सदा ॥३७॥
तद्विरक्तस्य वै नारी बन्धनं नास्ति सर्वथा ।
एवं स्त्रियास्तु तादृश्याः पुमान् बन्धो विबन्धनम् ॥२८॥
आसक्तिर्बन्धनं तृष्णा रागो गृध्ना च बन्धनम् ।
संस्कारा बन्धनं चापि वासना बन्धनानि वै ॥३९॥
नारीत्वं च नरत्वं च सापेक्षं देहयोगतः ।
यावदात्मनि स्फुरति तावद्वै बन्धनं मतम् ॥४०॥
ब्रह्मात्मभावतो नारीनरत्वे विगते यदा ।
तदा तु बन्धनं सर्वं लीयते मयि सत्प्रभौ ॥४१॥
माधवि गहना युष्मदस्मदर्थस्य वार्तिका ।
सा यावद् बन्धनं तावत् सा गता बन्धनं गतम् ॥४२॥
विलीयन्ते तु पापानि क्षीयन्ते कर्मराशयः ।
सेवयाऽहं प्रभुः प्रसादितो मोक्षं ददामि वै ॥४३॥
वैतृष्ण्यं गुणमात्रेषु स्नेहो गुणातिगे मयि ।
सर्वार्पणं यदा नार्या नरस्यापि च मोक्षणम् ॥४४॥
भ्रान्तिर्यदा लयं प्राप्ता विवेकश्च प्रकाशते ।
आकर्षणं मयि यत्र क्षणे तदा तु मुक्तता ॥४५॥
गुरुशास्त्रसतां सेवा शुश्रूषा परमात्मनः ।
अत्युत्कृष्टा पाकमाप्ता यदा तदा तु मोक्षणम् ॥४६॥
तत्त्वाभ्यासान्निजज्ञानं मयि स्नेहसमन्वितम् ।
प्रारब्धस्य क्षयान्तश्च मोक्षः फलं प्रपद्यते ॥४७॥
आत्माऽहं नैव देहोऽस्मि न मायाऽस्मि न वासना ।
न नारी न नरश्चाऽस्मीत्येवंविदस्य मोक्षणम् ॥४८॥
ब्रह्माऽस्मि ब्रह्मणश्चाऽस्मि सच्चिदानन्दरूप्यहम् ।
मयि नारायणश्चास्ते एवंपश्यस्य मोक्षणम् ॥४९॥
स्त्रीगोचरास्तु संकल्पाः संस्काराश्च यदा क्षयम् ।
यन्ति तदा नरस्यापि मोक्षणं नान्यथा क्वचित् ॥५०॥
क्षीयन्ते तु यदा नार्याः संकल्पा नरगोचराः ।
संस्काराश्च तदा मोक्षो मिथ्यास्फुरणसंक्षयात् ॥५१॥
स्त्रीलिङ्गोऽहं पुल्लिंगोऽहं यावदस्ति गुणाऽङ्कुरः ।
तावद् बद्धस्तत्क्षयेऽस्य मोक्षो भवति देहिनः ॥५२॥
कृताधिकारसर्वस्वो निवृत्तः सर्वरागतः ।
निर्वातस्थदीपशिखास्थिरस्तरंगवर्जितः ॥५३॥
अन्तस्तत्त्वे कृतस्नेहश्चान्तरात्माभिरामकः ।
तदन्यौदासीन्यमाप्तश्चात्मा मोक्षगतो भवेत् ॥५४॥
स्त्रिया राधारमातुल्या मतिर्मयि यदा भवेत् ।
तदा मोक्षे स्थिता साऽस्ति कृपया परमात्मनः ॥९५॥
स्त्री पत्यर्थं तु सर्वस्वं यथा करोति चार्पणम् ।
तथा मय्यर्पितायास्तु मोक्षणं कृपया मम ॥५६॥
यथैकस्मिन् प्रिये पुत्रे बाले मातुस्तदात्मता ।
तद्ध्यानं तच्चिन्तनादि तथा चेन्मयि मोक्षणम् ॥५७॥
शवहर्तुः श्मशाने वै क्षणं रागो विनश्यति ।
तथा रागादिहीनस्य द्रुतं भवति मोक्षणम् ॥५८॥
अनपत्या यथा नारी भर्तुर्मृत्यौ प्रशोचति ।
तथाऽऽवेगवती कृष्णे मुच्यते भवबन्धनात् ॥५९॥
महापत्स्वावरितो यो रक्षकं ध्यायति क्षणम् ।
तथा ध्यायति कृष्णं मां स द्रुतं मुच्यते भवात् ॥६०॥
आत्मार्थं क्रियते यावद्धर्यर्थं क्रियते यदि ।
तदा मोक्षः करे चास्ति फलं पक्वं भुनक्ति सः ॥६१॥
यथा नद्यः समुद्रेषु वेगवत्योऽभियन्ति वै ।
तथा नार्यो मयि वेगिन्यश्चेन्मोक्षं विशन्ति ताः ॥६२॥
यावत्पत्युरपेक्षाऽस्ति पत्न्यपेक्षा च वा मनाक् ।
तावन्मुक्तिर्भवेद् दूरेऽपेक्षानाशे करे भवेत् ॥६३॥
यस्या ब्रह्ममयी बुद्धिर्दृष्टिर्ब्रह्ममयी सदा ।
सर्वं ब्रह्मस्पृशं यस्यास्तस्या मोक्षसुखं त्विह ॥६४॥
यस्या निर्लेपताबुद्धिर्यस्याः शैत्यौष्ण्यवर्जिता ।
मायाऽऽस्वादा लयं प्राप्तास्तस्या मोक्षफलं त्विह ॥६५॥
यस्याः कामा निवर्तन्ते सन्ति चेत् कृष्णगोचराः ।
असांकर्यस्थितिं प्राप्तास्तदा मोक्षफलं त्विह ॥६६॥
जाग्रत्सु विषयः कृष्णः स्वप्नस्य विषयो हरिः ।
सुषुप्तेश्चान्तरात्मा च तुर्येऽक्षरस्थितः प्रभुः ॥६७॥
यस्या भवेत् सदा त्वेवं यस्य वा तौ हि मोक्षिणौ ।
तस्करस्य यथा चौर्ये नटस्य खेलने यथा ॥६८॥
शत्रोः शत्रौ यथा वृत्तिरेकाग्रा मोक्षदा मयि ।
साध्व्या स्नेहो यथा साधौ चकोरस्य निशाधिपे ॥६९॥
शलभानां प्रदीप्तेऽग्नौ मत्स्यानां पिष्टभोजने ।
कामातुरस्य वै नार्यां मोक्षदः स तथा मयि ॥७०॥
यथा मूर्छाऽतिरत्यन्ते शस्त्रघातेऽतिमूर्छना ।
सुषुप्तौ मादके वा च तथा वै मयि मुक्तिदा ॥७१॥
यथा मतिर्जीवने स्वे स्वार्थेऽभिगमनं यथा ।
स्वस्मिन् यथा गुणदृष्टिस्तथा वै मयि मोक्षदा ॥७२॥
गृहस्थस्य चिरं मोक्षस्त्यागिनस्तु द्रुतं मतः ।
गृहस्थस्त्यागमापन्नः शीघ्रं मोक्षं प्रविन्दति ॥७३॥
त्यागी गृहस्थाचारश्चेन्मोक्षार्थं स चिरायते ।
गृहस्थस्य त्यागिनो वा सादृश्यं ज्ञानसत्कृतम् ॥७४॥
विषवद् विषया यस्य सादृश्यं वै तयोर्मतम् ।
सुधावन्मोक्षणं यस्य सादृश्यं वा तयोः सदा ॥७५॥
लोकः सुधायतेऽन्यस्यैकस्य सुधायते हरिः ।
द्वयोः पन्था विभिन्नश्चेद् वैधर्म्यं तु तयोस्तदा ॥७६॥
ये वा के वा ब्रह्मभावा ब्रह्मज्ञाना हरिप्रियाः ।
भविष्यन्ति यदा साध्व्यौ! तदा मोक्षमवाप्नुयुः ॥७७॥
स्त्रीधर्मित्वं गृहस्थस्य वैधर्म्यं त्यागिनस्तु तत् ।
परिग्रहो गृहस्थस्य त्यागिनस्त्वपरिग्रहः ॥७८॥
तीव्रसंवेगमाप्तस्य द्रुतं मोक्षो भवेदिति ।
त्यागिनो वा गृहस्थस्य स मन्दस्य चिरायते ॥७९॥
सधर्मित्वं देहवत्त्वं विधर्मिताऽऽत्मभावना ।
धीस्वामित्वं सधर्मित्वं स्त्रीस्वामित्वं विधर्मिता ॥८०॥
सत्कर्मित्वं सधर्मित्वं नैष्कर्म्यं तु विधर्मिता ।
फले रागः सधर्मित्वं पुष्पे रागो विधर्मिता ॥८१॥
सापेक्षत्वं सधर्मित्वं नैरपेक्ष्यं विधर्मिता ।
यात्रालुत्वं सधर्मित्वं निक्षेपस्तु विधर्मिता ॥८२॥
अर्वाग्वृत्तिः सधर्मित्वं पराग्वृत्तिर्विधर्मिता ।
पुनरेच्छा सधर्मित्वं शाश्वतेच्छा विधर्मिता ॥८३॥
स्थूलभोगाः सधर्मित्वं प्रज्ञाभोगो विधर्मिता ।
चिदानन्दः सधर्मित्वं सदानन्दो विधर्मिता ॥८४॥
निजानन्दः सधर्मित्वं परानन्दो विधर्मिता ।
गृहस्थत्यागिनोश्चैवं त्यागिनः सा क्रमाद् विधा ॥८५॥
शृणुतं ज्ञानिपत्न्यौ मे ह्य्रुभयोर्गृहधर्मिताम् ।
एक आयाति गर्भाद्वै तथैको वर्धते सदा ॥८६॥
एको युवा च वृद्धश्च प्रयात्येकः परेतकः ।
पुनर्जन्म पुनर्मृत्युर्गृहे तिष्ठति वै पुनः ॥८७॥
गृहं गर्भो गृहं सौधं गृहं नैजं वपुस्तथा ।
गृहं कर्म गृहं तृष्णा गृहं यत्र प्रतिष्ठति ॥८८॥
स गृह्णाति गृहं तद्वै गृह्यते येन तद् गृहम् ।
चिता गृहं मरणोत्थं गर्भो गृहं तु कर्मजम् ॥८९॥
सौधं गृहं कृत्रिमं वै तद्वान् गृहस्थ उच्यते ।
त्यागिनो वा गृहस्थस्य द्वयोः सा गृहधर्मिता ॥९०॥
आतिथेयत्वमात्मनिष्ठत्वं देवार्पणं व्रतम् ।
दानं स्नानं ध्यानमिष्टाराधनं जपकीर्तने ॥९१॥
हवनं पितृतृप्तिश्च द्वयोः सा गृहधर्मिता ।
गृहिणी गृहमेवापि स्त्री गृहस्थस्य सा मता ॥९२॥
त्यागिनस्तु हरेर्मूर्तिर्गृहिणीव प्रिया सदा ।
तया साकं स्थितिर्या सा ह्युभयोर्गृहधर्मिता ॥९३॥
शृणुतं माधवि प्रज्ञे! द्वयोश्च त्यागधर्मिताम् ।
यथा युवां साधिके स्थो निर्द्वन्द्वे कृष्णमानसे ॥९४॥
यथाऽहं तापसश्चास्मि निर्द्वन्द्वो वां परायणः ।
युवां पत्न्यौ पतिश्चाऽहं तथापि द्वन्द्वता नहि ॥०१५॥
न संसारो गृहित्वं न किन्त्वस्ति त्यागधर्मिता ।
एवंविधयोर्दम्पत्योः सदाऽस्ति त्यागधर्मिता ॥९६॥
यथा शंभोश्च पार्वत्या योगः पुत्रार्थ इष्टकृत् ।
एवंविधयोर्दम्पत्योर्योगस्तु गृहधर्मिता ॥९७॥
आसने पर्णकुट्यां च वृक्षे देहे तु सुष्ठुता ।
भासते चेत् त्यागिनस्तद् बन्धनं गृहधर्मिता ॥९८॥
भोगो वै मानसो यस्य क्रिया तु चोभयात्मिका ।
अन्यतः सुखिता चेति त्यागिनो गृहधर्मिता ॥९९॥
त्यागे यत्नो हरौ प्रीतिर्मोक्षे चेच्छात्मनि स्थितिः ।
रतिर्ज्ञाने जपे कर्म ध्याने शान्तिः परात्मनः ॥१००॥
यस्य वै त्यागिनः सन्ति स त्यागित्याग उत्तमः ।
भोग्यं देहेन्द्रियबुद्ध्यादिकं मायामयं जगत् ॥१०१॥
भोक्ता तेन तु सम्बद्धश्चात्मा कर्मानुगो वशी ।
आत्मात्मा यः परमात्मा स त्वभोक्ता पृथग्विधः ॥१०२॥
अभोग्यं चेतनं सर्वं विकारवर्जितं यतः ।
भोगः सुखस्य दुःखस्य वा साक्षात्त्वं निजस्य वै ॥१०३॥
भोगं विहाय सततं वर्तते यः स मुक्तराट् ।
स एव त्वरितं साध्व्यौ! परब्रह्माभिविन्दति ॥१०४॥
इत्येतत् कथितं सर्वं ज्ञातव्यं हितकृत् तथा ।
एतज्ज्ञात्वा पालयित्वा मोक्षार्थं नावशिष्यते ॥१०५॥
गृहगीता मयोक्ता वो गृहबन्धननाशिनी ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिः करे भवेत् ॥१०५॥
चतुःपुमर्थलाभश्च परा शान्ति तथाऽऽत्मनि ।
सर्वोद्वेगाः प्रणश्येयुर्गृहगीतार्थचिन्तनात् ॥१०७॥
सर्वैषणानिवृत्तिश्च सकामानां सुखाप्तयः ।
गृहे मोक्षाभिगमनं गृहगीतार्थचिन्तनात् ॥१०८॥
नारी नारायणी स्याच्च नरो नारायणो भवेत् ।
अङ्गने! गृहगीतायाः स्वरूपं भगवन्मयम् ॥१०९॥
गृहगीतार्थविज्ञानां पापलेपो न कर्मभिः ।
गृहित्वेऽपि सदा त्यागिसमत्वं शोभतेऽमलम् ॥११०॥
सर्वे विघ्ना निवर्तन्ते बाधन्ते सिद्धयोऽपि न ।
संस्कारा न त्वरायन्ते गृहगीताभिपाठिनाम् ॥१११॥
सुवर्णता भवत्यस्याऽमृतता च भवत्यपि ।
भवेद् दिब्याम्बरता च गृहगीताभिपाठिनाम् ॥११२॥
कृष्णं मां पूज्य विधिवद् गृहगीतां पठेत्ततः ।
तस्येष्टसिद्धिर्जायेत त्वरिता नात्र संशयः ॥११३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने गृहगीतायां सर्वाश्रमिणां संसारमग्नता, विध्याज्ञावतां मग्नता न, स्त्रीपुंसोर्बन्धनाऽबन्धने, सेवादिभिर्मोक्षणम्, गृहित्यागिनो वैधर्म्यं साधर्म्यं च, गृहित्वार्थश्चेत्यादिनिरूपणनामा नवाऽशीतितमोऽध्यायः ॥८९॥
N/A
References : N/A
Last Updated : May 07, 2021
TOP