संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ७९

तिष्यसन्तानः - अध्यायः ७९

लक्ष्मीनारायणसंहिता


श्रीबदरीप्रियोवाच-
नारायणहरे कृष्ण ततः किं समजायत ।
क्व क्व यानं ततः कुंकुमाऽक्षरागमनं कदा ॥१॥
श्रीनरनारायण उवाच-
आषाढशुक्लद्वादश्यां कृतस्नानप्रपूजनः ।
अनादिश्रीकृष्णनारायणो नैजे गजासने ॥२॥
पद्मावतीप्रियायुक्तो व्यराजत स्वदर्शनम् ।
प्रातर्दातुं स्वतःप्रकाशोऽपि वै लोमशो मुनिः ॥३॥
श्रीमद्गोपालकृष्णाद्या पत्नीव्रताश्च भूसुराः ।
व्यराजन्त सभायां ते कृष्णनारायणान्तिके ॥४॥
विप्राः सत्यः साधवश्च सिद्धाश्च यतयोऽमलाः ।
विरेजिरे सभामध्ये सूर्यवर्चस्विनोऽनघाः ॥५॥
श्रीहरेर्दर्शनार्थं वै स्वायंभुवादिसृष्टिपाः ।
ब्रह्माद्या भगवन्तश्च महेन्द्राद्याश्च देवताः ॥६॥
महर्षयश्च राजानो राज्ञ्यश्च देविकागणाः ।
श्रेष्ठिनश्च प्रजावर्गा महाभागवतोत्तमाः ॥७॥
आययुश्चोपदा हस्ता पुपूजुः परमेश्वरम् ।
व्यासं गुरुं लोमशं च नत्वोपाविविशुश्च ते ॥८॥
लोमशः श्रीगुरुं सर्वान् धन्यवादानवासृजत् ।
विदायं प्रददौ योग्योत्तमेभ्यो हि यथायथम् ॥९॥
साधुभ्यश्च सतीभ्यश्च महर्षिभ्यो विदायकम् ।
महीमानेभ्य एवाप्यागन्तुकेभ्यो विदायकम् ॥१०॥
सुरेभ्यः पितृदेवेभ्यः सिद्धेभ्यः प्रददौ तथा ।
गान्धर्वसूतबन्दिभ्यः सेवकेभ्यो ददौ मुदा ॥११॥
कर्मचारेभ्य उत्कृष्टविदायानि ददौ मुनिः ।
पारितोषिकरूपाणि स्वर्णादीनि ददौ मुदा ॥१२॥
विप्रेभ्यो दक्षिणादानोत्तमानि कानकानि च ।
हीरकान् रत्नभूषाश्च धनानि प्रददौ मुनिः ॥१३॥
देवीभ्यः स्त्रीभ्य एवापि कन्याभ्यः प्रददौ मुनिः ।
बालेभ्यो ब्रह्मचारिभ्यो यतिनीभ्यो विदायकम् ॥१४॥
सांख्ययोगिनीभ्यो ब्रह्मचारिणीभ्यो ददौ मुनिः ।
यथायोग्यं विदायं वै पूर्णसन्तोषकारकम् ॥१५॥
स्वर्णहारान् स्वर्णभूषाः स्वर्णाम्बराणि मुद्रिकाः ।
सुवेषान् स्वर्णपात्राणि देहोपकरणान्यपि ॥१६॥
शृंगारोत्तमरूपाणि कल्पपात्राणि यान्यपि ।
कल्पचिन्तामणीन् मौक्तिकादिहारान् ददौ मुनिः ॥१७॥
यानानि गृहसामग्रीर्ददौ श्रीलोमशो गुरुः ।
आशीर्वादान् ददौ चान्ते महोत्सविभ्य आदरात् ॥१८॥
विहायं प्रददौ पुष्पहारान् कण्ठेषु देहिनाम् ।
अथ भूपाः सभायां ते जगदुर्लोमशं मुनिम् ॥१९॥
निजालयान्निजराज्यं पवित्रयितुमागमैः ।
अनादिश्रीकृष्णनारायणो व्यासश्च संहिताः ॥२०॥
लोमशः पितरौ चान्याः श्रीलक्ष्म्याद्याश्च देवताः ।
यथायोग्यं समायान्तु पवित्रयन्तु नः क्षितीः ॥२१॥
राष्ट्राणि नः प्रदेशांश्च प्रजाश्च मन्दिराणि नः ।
पवित्रयन्तु चागत्य भगवन्तः परेश्वराः ॥२२॥
स्वायम्भुवो मनुश्चापि प्रियव्रतो नृपस्तथा ।
उत्तानपादश्चाप्याह प्राहाऽऽग्निध्रो नृपस्तथा ॥२३॥
प्रार्थयँश्च तदा खण्डेश्वरा हिरण्यकादयः ।
पावयितुं निजावासान् निजप्रजादिभूमिकाः ॥२४॥
तथाऽस्त्वितिकृष्णनारायणस्तेभ्यो ददौ वचः ।
कोटिरायो रायहरिस्ततो विदायकं महत् ॥२५॥
यथायोग्यं नृपादीनां चक्रतुः सेवकाविव ।
सभाविसर्जनं बद्रि जयनादैस्ततोऽभवत् ॥२६॥
भोजनान्यभवँस्तत्र लक्षाऽयुताधिदेहिनाम् ।
सज्जता प्रस्थानकानि गमनानि ततोऽभवन् ॥२७॥
प्रजाः स्वस्वराष्ट्रदेशान् ययुः प्रसन्नमानसाः ।
महीमाना ययुश्चापि नृपभिन्नाः प्रजाजनाः ॥२८॥
देवा ययुश्चेश्वराश्च तदा कृष्णाज्ञया दिने ।
देवैरभ्यर्थितः कृष्णो गन्तुं स्वर्गादिकालयान् ॥२९॥
हरिः कालान्तरे गन्तुं स्वीकृत्यतानवासृजत् ।
ईश्वरानपि सर्वान् वै प्रार्थनाकारिणस्तथा ॥३०॥
कालान्तरे प्रयातुं स्वीकृत्येश्वरानवासृजत् ।
पितॄनपि तथोक्त्वैव पातालवासिनस्तथा ॥३१॥
कालान्तरे प्रगन्तुं च स्वीकृत्य तानवासृजत् ।
ओमित्याह हरिस्तत्र भूपेभ्यस्तद्दिने खलु ॥३२॥
पृथ्व्यामेव नृपाणां तु गन्तुं गृहाणि भूस्तरान् ।
स्वीचकार कृपासिन्धुर्लोमशस्यानुमन्त्रणात् ॥३३॥
अथ सर्वसमाजो द्वादश्यां विसृष्ट एव ह ।
केवलाश्च नृपाः सज्जा भूत्वा प्रतीक्षणे स्थिताः ॥३४॥
तदा व्यचिन्तयत् कृष्णः सर्वेषां लाभकांक्षया ।
नैकरूपधरत्वं वै सर्वैः सह प्रमाणकम् ॥३५॥
अथैवं संविचार्यैवाऽनादिकृष्णनरायणः ।
बद्रिकेऽधारयन्नैकरूपाणि सदृशानि सः ॥३६॥
स्वतःप्रकाशव्यासात्मा लोमशात्माऽभवत्प्रभुः ।
तावद्रूपश्च पित्रात्मा मात्रात्मा चाऽभवत्प्रभुः ॥३७॥
राधारमादिशक्त्यात्मा दासदासीस्वरूपवान् ।
यावन्तो राजन्यवर्यास्तावद्रूपाण्यधारयत् ॥३८॥
तेषां तावद्विमानेषु समारुरोह माधवः ।
तावत्सर्वस्वरूपात्मा सर्वस्ववर्गरूपवान् ॥३९॥
शर्करानगरं त्यक्त्वाऽम्बरे विमानकानि वै ।
अभवन् बद्रिके कृष्णाज्ञया तत्स्वामिजूंषि वै ॥४०॥
तदा वाद्यान्यवाद्यन्त जयशब्दास्तदाऽभवन् ।
ओं नमो बालकृष्णायाऽनादिकृष्णाय ते नमः ॥४१॥
नमस्काराश्चाभवँश्च पुष्पाऽक्षताऽभिवर्धनम् ।
चक्रुर्लोका देवताद्याश्चन्दनाद्यभिवर्षणम् ॥४२॥
कृष्णाज्ञया विमानानि निर्ययुः सिन्धुमण्डलात् ।
प्रथमं कोटिरायस्याऽऽलयं प्रति ययौ द्रुतम् ॥४३॥
द्वितीयं तु रायहरिमन्दिरं प्रति तद् ययौ ।
तृतीयं तु ययौ स्वायम्भुवमन्दिरमुज्ज्वलम् ॥४४॥
चतुर्थं तु ययौ दिव्यं प्रियव्रतालयं प्रति ।
पंचमं तु ययौ दिव्यमुत्तानपादमन्दिरम् ॥४५॥
षष्ठमाग्नीध्रराज्यं वै सप्तमं तु हिरण्यकम् ।
अष्टमं केतुमालं च नवमं तु कुरुं प्रति ॥४६॥
दशमं काशिकाराजं ययौ विमानमुत्तमम् ।
शावदीनं लक्ष्मणं च जुम्मासेम्लं नृपं प्रति ॥४७॥
दक्षजवंगरं शिबिदेवं प्रति पृथक् पृथक् ।
थर्कूटस्थं वीरजारं शक्त्यक्षिकं नृपं प्रति ॥४८॥
कालिमाशं बालकाशं कथकं प्रति वै पृथक् ।
पृथुराजं प्रत्युरलकेतुमुष्ट्रालराजकम् ॥४९॥
तीराणं चापि हंकारं जयकाष्ठलकं प्रति ।
पृथक् कृष्णस्य यानानि ययुस्तैस्तैः सहैव ह ॥५०॥
अल्वीनरं जीनवर्द्धिमल्पकेतुं पृथक् पृथक् ।
जयकृष्णवनृपतिं परीशाननृपं प्रति ॥५१॥
इन्दुरायं च मुद्राण्डं गण्डराजं पृथक् प्रति ।
वृहच्छरं च लीनोर्णं बललीनं पृथक् पृथक् ॥५२॥
रायगामलभूपं च वरसिंहं पृथग् ययुः ।
फेनतन्तुनृपं स्तोकहोमं च कोलकं प्रति ॥५३॥
काष्ठयानं दिनमानार्कं पृथग् रायकिन्नटम् ।
रायरोकीश्वरं रायरणजीवं पृथग् ययुः ॥५४॥
रायवाकक्षकं चापि रायमारीशकं प्रति ।
रायबलेश्वरं रायलम्बरं प्रति वै पृथक् ॥५५॥
रायनवार्कभूपं च रायहुण्डेशकं प्रति ।
रायकूपेशभूपं च कालिमाण्डलिकं प्रति ॥५६॥
वनजेलेशभूपं च पारावारपिबं पृथक् ।
हरेर्विमानवर्याणि ययुस्तान् प्रति वै पृथक् ॥५७॥
कोटीश्वरं श्रीसतीशं त्रेताकर्कशभूपतिम् ।
आण्डजरं बाल्यरजं रायसोमनकं पृथग् ॥५८॥
ऊरुगवाक्षकं पराङ्व्रतमीशानपानकम् ।
राजारायपतिं चापि विमानानि पृथग् ययुः ॥५९॥
यज्ञं धर्मं च धातारं विधातारं पृथक् पृथक् ।
नाभिं किम्पुरुषं चान्यं रम्यकं प्रति वै पृथक् ॥६०॥
उमारायं क्षीरपुरुं नागविक्रमणं प्रति ।
जयादित्यं विक्रमार्कं कृष्णदुर्गं च पाञ्चलम् ॥६१॥
प्रभालाक्षं लक्षसेनम् आम्रशालं श्रीलम्भनम् ।
प्रपत्पालं प्राणिपातं नन्दिभिल्लं पृथग् ययुः ॥६२॥
रायपारं चेन्द्रगृत्सं गवयेन्द्रं जनास्त्रकम् ।
कर्णपुत्समवध्याभं यागदेवं पटासनम् ॥६३॥
दाराभाग्यं राजमानं माधवं ब्रह्मपानकम् ।
शीलहारं माणिकाभं चित्तमांगेयकं प्रति ॥६४॥
चन्द्रनागं मेदकोशं पुरुकुत्सं पृथग् ययुः ।
बालसंघं पार्वतेशं नागविजयकं प्रति ॥६५॥
राजमारुं महेन्द्राभं मदाशनं नृपं प्रति ।
शररंगं मधुराजं विरामासं पृथग् ययुः ॥६६॥
त्रिकूटार्कं महासारं चित्रलास्यं नृपं प्रति ।
कलिकाञ्चनमापाण्डमक्कलार्यं विवर्धनम् ॥६७॥
मण्डलारं जवलीनमिन्द्रद्युम्नं नृपं प्रति ।
माठरसिंहं नृपं कुटिधरं चिचिन्तनं पृथग् ॥६८॥
उदङ्प्रभं श्रीनागारिं धरणिध्रं(घ्रं) रजिध्वजम् ।
मूरध्वजं कुंकुमास्यं नृपं प्रति पृथक् पृथक् ॥६९॥
ययुर्हरेर्विमानानि बद्रिके सह तैः पृथक् ।
तथा खण्डनृपैश्चापि द्वीपेशैश्चाब्धितीरगैः ॥७०॥
रणेशैरद्रिभूपैश्च चोपभूपैः पृथग् ययुः ।
तत्तद्देशान् समुल्लंघ्य तत्तद्राष्ट्राणि संययुः ॥७१॥
तत्तन्नृपालयोद्यानभूम्यादौ तान्यवातरन् ।
जलपानं भोजनादि कारयित्वाऽमृतादनम् ॥७२॥
नगरे भ्रामयामासुः स्वस्वस्मिन् भूमिपास्ततः ।
संहितायाः पूजनं च व्यासस्य पूजनं गुरोः ॥७३॥
स्वे स्वे दिव्ये महारम्ये प्रासादे चक्रुरुत्सुकाः ।
उपदाश्चार्पयामासू रत्नहीरकमालिकाः ॥७४॥
सर्वोत्कृष्टं गृहे यद्यद् राज्ये राष्ट्रे तथोत्तमम् ।
तत्तच्छ्रीकृष्णसेवायां न्यधुस्ते राजसत्तमाः ॥७५॥
आरार्त्रिकं प्रचक्रुश्च पपुः पादामृतं हरेः ।
प्रसादं भक्षयामासुः श्रीस्वामिकृष्णहस्ततः ॥७६॥
सेवयामासुरत्यर्थं पादसंवाहनादिभिः ।
एनं प्रसादयामासुर्भक्त्या पद्मावतीपतिम् ॥७७॥
जगृहुस्ते महामन्त्रान् प्रज्ञानारायणाननात् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥७८॥
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा ।
कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ॥७९॥
शूलमीनध्वजधनुश्चक्रस्वस्तिवानव' ।
'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः' ॥८०॥
'ब्राह्म्यहं श्रीकृष्णनारायणदासी भवामि ओम्' ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥८१॥
'अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥८२॥
पिता बन्धुः सुहृन्मित्रं रक्षकः पोषकोऽस्तु सः' ।
'बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।
तन्नः श्रीशः प्रचोदयात् ॥८३॥
'ओं श्रीलक्ष्म्यै महालक्ष्म्यै दुःखभंक्त्र्यै श्रियै नमः' ।
'ओं मां श्रीबालकृष्णाय समर्पयामि ओं नमः' ॥८४॥
'कृष्णनारायणभक्तोऽहं श्रीहरिः शरणं मम' ।
'श्रीकृष्णो वल्लभः स्वामी श्रीस्वामी शरणं मम' ॥८५॥
'श्रीकृष्णः श्रीहरिः स्वामी श्रीपतिः शरणं मम' ।
'श्रीकृष्णो वैष्णवाचार्यः प्रभुः पद्मावतीपतिः ॥८६॥
स्वामी मे शाश्वतः कान्तस्तस्याऽहं स्वामिनी प्रिया' ।
'प्रभुः कृष्णः पारमेशः श्रीकृष्णः शरणं मम' ॥८७॥
'प्रभुः कृष्णः पार्वणो नारायणः शरणं मम' ।
एतान्मन्त्रान् ददौ कृष्णनारायणः स्वयं हरिः ॥८८॥
'कृष्णनारायण कृष्णनारायण नरायण ।
अनादिश्रीकृष्णनारायण राधारमायण ॥८९॥
'प्रभो नारायण माधवीश्रीनारायण प्रभो ।
जयानारायण श्रीललितानारायण! विभो' ॥९०॥
'कंभरागोपाललालः स्वामी पतिश्च मामव' ।
एवं मन्त्रान् नामधुन्यं ददौ चापि स्वयं हरिः ॥९१॥
तुलसीकण्ठिकां चापि तिलकं चन्द्रशोभितम् ।
ददौ स्वचरणौ तेषां वक्षःस्थलेषु माधवः ॥९२॥
जगृहुस्ते हरे रक्तचरणौ रंगशोभितौ ।
मुद्रापितौ शुभौ सर्वपादचिह्नसुशोभितौ ॥९३॥
दक्षहस्ततलस्यापि सचिह्नमुद्रिकां शुभाम् ।
जगृहुस्ते तु पूजार्थं दर्शनार्थं तु रञ्जिताम् ॥९४॥
प्रतिकृतिं प्रतिमां च प्रतिरूपं च जगृहुः ।
चित्रं कृत्वा हरिं गेहे रक्षयामासुरन्वहम् ॥९५॥
बद्रिके द्वादशीरात्रिं सर्वगेहेषु माधवः ।
उषित्वा तु ततः प्रातः कृतसेवादराऽशनः ॥९६॥
कृतपूजः समस्तैश्च तोषितस्तोषितैश्च तैः ।
सवाद्यगीतयशसा जयनादैः समन्ततः ॥९७॥
प्रस्थापितो विमाने स्वे पृथक् समारुरोह च ।
तदा सर्वेऽन्तिमां नैजां प्रार्थनां चक्रुऽरीशिनः ॥९८॥
 'हरे स्वामिन् कृपासिन्धो पाविताः कृपया वयम् ।
तथैव चान्तकालेऽपि पावनान् स्वाक्षरं नय ॥९९॥
मध्ये सदा मूर्तिरूपो रक्षयाऽस्मान् तवाश्रितान् ।
हृदये स्वं दिव्यरूपं सदा चेदं प्रदर्शय ॥१००॥
तवाऽस्मीति तव स्मश्च तथा पालय सर्वदा ।
एवं मायाविमोहो न भवन्नैवेति चिन्तय' ॥१०१॥
इत्येवं बद्रिके सर्वे चक्रुश्चाभ्यर्थनां प्रभोः ।
पूजायामागतं यद्यत् सर्वं प्रसादरूपि तत् ॥१०२॥
हरिस्तेभ्यः प्रदातृभ्यः प्रत्यार्पयत् कृपावशः ।
आशीर्वादान् शुभान् दत्वा स्वीकृत्य प्रार्थनां ततः ॥१०३॥
प्राप्य विदायमेवाऽसौ पश्यन् भक्तान्नृपादिकान् ।
प्रजाजनाः प्रपश्यँश्च प्रेम्णा विमानमैरयत् ॥१०४॥
अम्बरे सहसा कृष्णविमानानि समौड्डयन् ।
तिरोऽभवन् चिदाकाशे कृष्णात्मकानि तानि वै ॥१०५॥
एकीभूतानि सर्वाणि सौराष्ट्रेऽश्वसरोऽन्तिके ।
कुंकुमवापिकाक्षेत्रे विमानमेकमाययौ ॥१०६॥
अवातिरच्छनैः क्षेत्रे द्योतयन् सर्वतोदिशः ।
भगवान् व्यासदेवाद्या लोमशाद्या महर्षयः ॥१०७॥
पितरौ दासिका दासा विविशुः स्वस्वमन्दिरम् ।
एवं श्रीबद्रिके पारायणस्याऽस्य महोत्सवः ॥१०८॥
अभूत् सर्वोत्सवाग्र्यश्च पारायणाग्र्य एव सः ।
ततस्तु चक्रिरे त्वन्ये मखान् भागवतोत्तमाः ॥१०९॥
स्वारोचिषस्तथा भूपा उत्तमस्तामसोऽपि च ।
रैवतश्चाक्षुषश्चापि वैवस्वतोऽपि तन्नृपाः ॥११०॥
एते च मनवः पारायणोत्सवान् प्रचक्रिरे ।
अन्ये चापि विधास्यन्ति महाभागवतोत्तमाः ॥१११॥
मोक्षशास्त्रमिदं बद्रि धर्मार्थकामनाफलम् ।
सर्वेष्टदायकं चात्मपरमात्मप्रसङ्गदम् ॥११२॥
पठनाच्छ्रवणादस्य कथोत्सवस्य चिन्तनात् ।
सर्वेष्टसिद्धिः सुलभा सुलभा दिव्यसम्पदः ॥११३॥
मोक्षलाभो भवेच्चापि सर्वेषणाप्रपूर्त्तयः ।
कल्पवृक्षसमास्तस्य संकल्पाः सफला द्रुतम् ॥११४॥
मनश्चिन्तामणिप्रख्यं प्रजायेत न संशयः ।
कथानां धारणाल्लक्ष्मीतुल्या नारी भवेदपि ॥११५॥
नरो नारायणः स्याच्च कथानां धारणादिह ।
बद्रिके सर्वसृष्टौ तत् पारायणं जयत्यति ॥११६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽखिलनृपार्थितः श्रीहरिर्नैकरूपधरः सन् सर्वनृपराष्ट्रमन्दिराणि ययौ, पूजां प्रगृह्य पावयित्वा तिरोभूयाऽश्वपट्टसरः प्रत्याययावित्यादिनिरूपणनामा नवाऽधिकसप्ततितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP