तिष्यसन्तानः - अध्यायः ४२
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि ततस्तत्र महोत्सवे ।
सप्तम्यां श्रीहरेर्दर्शनार्थं संसन्महत्यभूत् ॥१॥
दिव्ये गजासने रम्ये स्वर्णरत्नादिभास्वति ।
उच्चैरुच्चतमे कृष्णो न्यषीदद् दिव्यविग्रहः ॥२॥
लक्षलक्षातिलक्षाणां मानवानां हि गोचरः ।
महासनेऽभवत् कृष्णनारायणोऽर्कवत्तदा ॥३॥
दिव्यतेजोऽम्बारयुक्तो दिव्यैश्वर्यप्रतापवान् ।
असीमाऽनवधिप्रागल्भ्यौदार्यौज्ज्वल्यमण्डितः ॥४॥
तादृक्सौष्ठवमाधुर्यलावण्यहास्यशोभितः ।
तादृक्सौन्दर्यसाद्रूप्याऽऽकर्षणाऽऽनन्दपूरितः ॥५॥
तादृग्यौवनगाम्भीर्यवीर्यबलविराजितः ।
तादृक्कृपादयास्नेहप्रेमाऽनुग्रहवर्षकः ॥६॥
कोटिकामप्रमोहाढ्यसौष्ठवघट्टनात्मकः ।
व्यद्योतताऽक्षरधाम्ना तेजसा मूर्छनाकरः ॥७॥
नरनारीहृदयस्थोऽन्तरात्मा नेत्रगोचरः ।
सर्वावतारभगवान् तदानीं कृपयाऽभवत् ॥८॥
पूजितो वन्दितः सर्वैः स्वागतं तु नवं नवम् ।
कृतं लोकैर्भक्तवर्गैरासायं परमात्मनः ॥९॥
हरिश्चोपादिदेशापि कृपात्मकं तु संसदि ।
निजार्थकृतसर्वस्वभक्तेभ्योऽनुग्रहेण वै ॥१०॥
सर्वे भवन्तु सुखिनो दर्शनान्मम देहिनः ।
भवतां सुखलाभार्थं समागतोऽस्म्यनुग्रहात् ॥११॥
परे धाम्न्यक्षरे लोके दिव्योऽहं प्रभवामि यः ।
सर्वावतारधर्ता श्रीपतिः श्रीपुरुषोत्तमः ॥१२॥
सर्वेश्वरनियन्ता च सर्वशक्तिपतिः प्रभुः ।
सर्वसिद्धर्षिपित्रॄणां सुराणां दैवतं परम् ॥१३॥
अन्तरात्मा कालमायामहापुरुषशासकः ।
सोहमेव भवाम्यत्र बालकृष्णो भवादृशः ॥१४॥
मम योगं गता ये ये ते धामाऽक्षरं ययुः ।
वासुदेवा असंख्याता नारायणा ह्यसीमकाः ॥१५॥
श्रीकृष्णाश्चाप्यसंख्याता विष्णवोऽसंख्यमूर्तयः ।
रामा नरेश्वराः सिद्धेश्वराश्चाप्यतिसंख्यकाः ॥१६॥
मम योगेन जायन्ते क्लृप्ता वांऽशोद्भवा मम ।
मत्स्वरूपा मत्तादात्म्या मदभिन्ना भवन्ति ते ॥१७॥
मामाश्रित्य समस्तासु सृष्टिषु पारमेश्वराः ।
निष्पद्यन्तेऽनन्तशक्तिधरा मत्कृपया हि ते ॥१८॥
सोऽहं समस्तसृष्टीनां कृपाकटाक्षपावनः ।
गोचरोऽस्मि भवतां चाऽवतारी पुरुषोत्तमः ॥१९॥
संहितायाः कथां येऽत्र शृण्वन्ति संस्मरन्त्यपि ।
तेषामहं समुद्धर्ता मायासंसारवारिधेः ॥२०॥
ये मां श्रीमत्कृष्णनारायणेति संभजन्ति वै ।
तान् मत्वाऽहं निजान् भक्तान् तारयिष्यामि मोहतः ॥२१॥
नरा नार्यश्च षण्ढाश्च ये भजिष्यन्ति मां त्विह ।
सेविष्यन्ते च सर्वस्वार्पणैस्ते धामिनो मम ॥२२॥
सर्वेषां देहिनां कर्मतुल्यं फलं ददाम्यहम् ।
नीतिरेषा तु संसारे कृपा मे त्वतिरेकिणी ॥२३॥
कृपायां नियमो नास्ति फलकर्माभिबन्धकः ।
उद्धरामि जगत्सर्वं प्रसादेन न संशयः ॥२४॥
वह्नेर्योगात् समस्तं वै पावनं जायते यथा ।
मम योगेन सर्वं वै पावनं जायते तथा ॥२५॥
यथाऽहं पावनश्चाऽस्मि तथैव मम मूर्तयः ।
सन्तो मे पावनाः सर्वे वाणी मे पावनी सदा ॥२६॥
संहितेयं मम वाणी पावनी सर्वदेहिनाम् ।
लक्ष्मीश्चाऽहमहं लक्ष्मीश्चैकं तत्त्वं द्विधा कृतम् ॥२७॥
लक्ष्मीनारायणश्चाहं संहिता मे सरस्वती ।
तस्याः श्रवणमात्रेण मदक्षरमवाप्यते ॥२८॥
शब्दमूर्तिः साधुमूर्तिर्धातुमूर्तिर्मदात्मिका ।
अहं त्रिमूर्तिकश्चाऽस्मि साध्वीमूर्तिस्त्रिधा मम ॥२९॥
भक्तिमूर्तिस्तथोपास्तिमूर्तिर्दीक्षात्ममूर्तिकः ।
षण्मूर्तोऽहं सदा चास्मि मिलामि तत्र तत्र ह ॥३०॥
साक्षादहं विराजेऽद्य सिन्धुतीरे भवन्मठे ।
कल्याणार्थं भवतां वै कृपया मनुजाकृतिः ॥३१॥
नार्यश्चोपासते मां तु पतिरूपेण नित्यदा ।
उपासते पतयो मां धातुरूपेण नित्यदा ॥३२॥
षण्ढाः संकल्परूपेणोपासते मां फलोज्झिताः ।
वृक्षा रसप्रदं मां तूपासते पृथिवीभुजः ॥३३॥
पक्षिणश्चाम्बरात्मानं पशवश्चौषधिव्रजम् ।
देवाः सुधां दैत्यवर्या बलं क्लेदं तु जन्तवः ॥३४॥
उपासते यथायोग्यस्वभावानुगुणं तु माम् ।
चक्षुष्मन्तः सुरूपं मां विनेत्रा सूपवर्जितम् ॥३५॥
सेन्द्रियाः सेन्द्रियं निरिन्द्रिया मां तु निरिन्द्रियम् ।
सतत्त्वा मां तत्त्वयुक्तं निस्तत्त्वा तत्त्ववर्जितम् ॥३६॥
सगुणा गुणवन्तं मां निर्गुणा गुणवर्जितम् ।
सस्नेहा मां स्निग्धमूर्तिं निस्स्नेहा रूक्षमव्ययम् ॥३७॥
सत्यश्चानन्ददातारं सन्तः शान्तिखनीश्वरम् ।
उपासते यथायोग्यं फलं तथा ददाम्यहम् ॥३८॥
देहिनो देहवन्तं मां विदेहा देहवर्जितम् ।
स्वार्थाः परार्थघातारं निस्स्वार्थाश्चाऽपरिग्रहम् ॥३९॥
ज्ञानिनः स्वप्रकाशं मां जडा भूतात्मवर्तिनम् ।
विपन्नास्त्राणकर्तारं सम्पन्नाः सम्पदात्मकम् ॥४०॥
श्रान्ता उद्यमरूपं मां व्यापृता यत्नरूपिणम् ।
उपासतेऽलसाः फलोज्झितं मां रागिणः सुखम् ॥४१॥
तेषामुपास्तिमालम्ब्य ददामीष्टफलं सदा ।
अहं वै कृपया लभ्यो मन्त्रलभ्यो भवामि च ॥०५॥
भक्तिलभ्यः स्नेहलभ्यः समाधिलभ्य इत्यपि ।
अलभ्यः सुलभश्चास्मि संहितापाठिनां त्विह ॥४३॥
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
इतिमन्त्रप्रजप्तुस्तु सुलभोऽहं निरन्तरम् ॥४४॥
गुरोः सेवाफलं कृष्णनारायणाप्तिरुत्तमा ।
साक्षादत्र भवेच्चेति तथा प्राप्तोऽस्मि वस्त्विह ॥४५॥
यो मां स्मरति नमति चष्टे ध्यायति सेवते ।
तस्याऽहं हृदये नित्यं विशेषेण पुरोऽपि च ॥४६॥
यः पत्न्यां श्रियमीक्षेत पत्यौ नारायणं तु या ।
अपत्ये पार्षदान्मे च तद्गृहं मेऽक्षरं पदम् ॥४७॥
यः प्रवृत्तौ ममाऽऽज्ञां वै निवृत्तौ च मयि स्थितिम् ।
जीवने मम तादात्म्यं दधाति स प्रयाति माम् ॥४८॥
यस्येन्द्रियाणि सर्वाणि कृष्णार्थानि मनोऽपि च ।
आत्माऽपि श्रीकृष्णनारायणार्थः स पुमर्थवान् ॥४९॥
अपि लोके दुराचारो योऽनन्याश्रयवान् मयि ।
मद्भक्तिं कुरुते नित्यं स साधुर्मोक्षसाधनः ॥५०॥
अपि धर्मविरागाढ्यो निष्परिग्रह आत्मवान् ।
विहाय मां वर्तमानस्तस्य हानिर्महत्तमा ॥५१॥
असाधुः स तु मन्तव्यो यो न भजते मां प्रभुम् ।
न वा साधून् सेवतेऽपि नष्टार्थः स तु सर्वथा ॥५२॥
अपीन्द्रधिष्ण्यमापन्नो धर्मराजप्रतापवान् ।
सूर्यतेजोऽभिसम्पन्नो भक्तिहीनस्तु नारकी ॥५३॥
अपि भौतिकतत्त्वेशः सिद्ध्यैश्वर्यैकशेवधिः ।
बह्वण्डानां नियन्ता चेद् भक्तिहीनः स नारकी ॥५४॥
बुद्धेः पारं गतश्चापि मायापारं गतोऽपि च ।
ब्रह्मभावं गतश्चापि भक्तिहीनस्तु नोत्तमः ॥५५॥
प्रजापालनशक्तोऽपि सर्वाचारपरायणः ।
सतां सेवाविहीनो यः स फल्गुजन्मवानिह ॥५६॥
सर्वविद्याधरश्चापि सर्वशासनवीर्यवान् ।
सतां सेवाविहीनश्चेत् फल्गुजीवनवानिह ॥५७॥
देवकोटिं गतश्चापि महर्षितां गतोऽपि चेत् ।
मम सतां कृपाशून्यस्तस्य सर्वं निरर्थकम् ॥५८॥
कामधेनुर्गृहे यस्य कल्पद्रुमश्च मन्दिरे ।
यस्य गृहे न वै सन्तस्तद्गृहं फेरुराजवत् ॥५९॥
दृष्टिर्यस्याऽतिदिव्याऽपि सत्त्वं चान्तःस्थितं तथा ।
सतां दर्शनहीनश्चेत् सदाऽन्धः स तु नारकी ॥६०॥
पूजाभिः पूजितश्चापि कीर्त्या प्रकाशमानपि ।
सतां दर्शनहीनश्चेत् सदाऽन्धो दीनकिंकरः ॥६१॥
चतुर्दशसु लोकेषु गतिमानपि सर्वथा ।
साधून् प्रति गतिहीनो दुर्गतिः स तु नारकी ॥६२॥
आरण्यको मुनिश्चापि त्यागवैराग्यशीलवान् ।
साधुसत्संगहीनश्चेत् स स्यादारण्यकः पशुः ॥३३॥
मायापाशात् पशुत्वं वै जीवानां विद्यते सदा ।
माया तु वासना बोध्या भक्त्यन्तरायकारिणी ॥६४॥
सा तु प्रक्षालनीया वै सतां हरेश्च सेवया ।
आत्मार्पणं हरौ कार्यं सर्वार्पणं तु सत्स्वपि ॥६५॥
मयि न्यस्य क्रियाः सर्वा भाव्यं ब्रह्मात्मना त्विह ।
संहिताश्रवणं कृत्वा भाव्यं मदात्मना ततः ॥६६॥
मम भावयुतो यः स्यात्तमुद्धरामि सर्वथा ।
स्वस्त्यस्तु भवतां श्रेष्ठं साक्षान्मम प्रसादतः ॥६७॥
इत्युक्त्वा श्रीकृष्णनारायणस्तत्र तु बद्रिके ।
विरराम ततः श्रीमान् लोमशास्तान् मनुं परम् ॥६८॥
श्रावयामास च सर्वान् वैष्णवान् परमान व्यधात् ।
सभाविरामः सञ्जातो हरिः प्रपूजितो जनैः ॥६९॥
विश्रामार्थं ययौ नैजं स्थानं तत्र नृपादिभिः ।
आरार्त्रिकं च नैवेद्यं श्रीहरेर्विहितं शुभम् ॥७० ॥
अन्येषां भोजनपानासनसत्कारपूजनम् ।
यथायोग्यं नृपाद्यैश्च कृतं निशामुखे तदा ॥७१॥
रात्रौ नार्यो नरा राज्ञ्यो राजानो लोमशं मुनिम् ।
स्वप्रकाशायनकं ते वक्तारं समसेवयन् ॥७२॥
साधून् सिषेविरे चापि पादसंवाहनादिभिः ।
अतोषयन् श्रेयसे तान् दिव्यभावनया युताः ॥७३॥
रात्रौ तत्र तु देवानां गन्धर्वाणां च गीतयः ।
अप्सरसां नर्तनानि गायनानि च योषिताम् ॥७४॥
कवीनां प्राचीनकथालहर्यश्चाभवँस्ततः ।
नाटकानां दर्शनानि चरित्राणां हरेस्तथा ॥७५॥
इन्द्रजालान्यनेकानि कलाविदां तदाऽभवन् ।
भजनानि सतीनां च साधूनां कीर्तनानि च ॥७६॥
समाधयो योगविदां तदाऽभवँस्तु बद्रिके ।
सेवा श्रेष्ठा मुमुक्षूणां तादात्म्यं तु निजात्मनाम् ॥७७॥
सर्वार्पणं प्रभक्तानां तदाऽभवँस्तु बद्रिके ।
द्रवीभावश्चात्मविदां स्नेहिनां परमात्मनि ॥७८॥
ज्ञानिनां त्वेकतानत्वं प्रत्ययानां तदाऽभवत् ।
प्रमोदामोदपरमानन्दा अभवन् देहिनाम् ॥७९॥
क्षेत्राणां पुलको जातः स्वेदस्तु सरितां तदा ।
प्रवाहाणां पावनत्वं जातं श्रीकृष्णयोगतः ॥८०॥
सतां प्रकाशनं तत्र महर्षीणां विनोदनम् ।
प्रजानां धान्यसंस्कारास्तदाऽभवन् हि बद्रिके ॥८१॥
पशूनां तु पवित्रत्वं पक्षिणां यादसामपि ।
जम्बूनां जीवनोत्कर्षो भावी जातो हि बद्रिके ॥८२॥
वल्लीनां पादपानां च वृक्षाणां तृणशाखिनाम् ।
कन्दानां भूतले तत्र यज्ञाऽर्हत्वं तदाऽभवत् ॥८३॥
सार्थक्यं तत्र वायूनां वह्नीनां खस्य चाऽभवन् ।
वारीणां तद्विकाराणां सार्थक्यं कृष्णयोगतः ॥८४॥
शय्यानां मन्दिराणां च वस्तूनां कृष्णसञ्जुषाम् ।
पावनत्वं सदा जातं मोक्षदायित्वमुत्तमम् ॥८५॥
बद्रिके का कथा तेषां येषां कर्णे तु संहिता ।
येषां भूमौ बालकृष्णो येषां दृष्टौ तु साधवः ॥८६॥
सुरेश्वराः समागत्य रात्रौ श्रीशं श्रीवल्लभम्प्रभुम् ।
दिव्यद्रवैः पूजयित्वा प्रसादं प्राप्य संययुः ॥८७॥
तीर्थानि भूव्योमगानि समागत्य रहस्ततः ।
हरेः पादस्पृष्टजलं पीत्वा ययुर्निजस्थलीम् ॥८८॥
सिद्धजना अद्रिवासा आगत्य योगवर्ष्मभिः ।
सेवयित्वा बालकृष्णं ययुर्नैजं तु गह्वरम् ॥८९॥
द्यौः स्वयं युवती भूत्वा सिषेवे द्युपतिं हरिम् ।
कृतकृत्या ययौ नैजं निवासं त्वम्बरे ततः ॥९०॥
श्वेतद्वीपादिवासाश्च मुक्ता मुक्तानिकास्तथा ।
क्षीरवासा बद्रिकास्थाः सिषेविरे नरायणम् ॥९१॥
राधारमाद्याः सकलाः शक्तयः प्राणरक्षकम् ।
कान्तं सिषेविरे कान्ता दिव्यमूर्तय एव ताः ॥९२॥
नैकरूपधरः कृष्णोवल्लभाऽऽर्यो निशान्तरे ।
जगृहे त्वर्पितां सेवां नराणां योषितामपि ॥९३॥
निशान्ते स क्षणं निद्रां योगनिद्रां निजप्रियाम् ।
जग्राह घटिकामात्रं समुत्तस्थौ ततः प्रभुः ॥९४॥
अनादि श्रीकृष्णनारायणात्मकं परात्परम् ।
दध्यौ नैजं मूलरूपं समुत्थाय क्षणं प्रभुः ॥९५॥
तदावताराः सर्वेऽपि सर्वावतारशक्तयः ।
ईश्वरा ईश्वराण्यश्च दिव्याऽदृश्यस्वरूपकैः ॥९६॥
जयन्तीपूजनलाभं रहस्तत्र प्रलेभिरे ।
मुक्ताः समाधिनिष्ठाश्च धामधामनिवासिनः ॥९७॥
पार्षदा अपि कृष्णस्य पूजालाभं प्रपेदिरे ।
पार्षदान्यो गोपिकाश्च पूजासेवां प्रचक्रिरे ॥९८॥
गजो गरुडः शेषश्च वाजी वाहोत्तमास्तदा ।
आगत्याऽदृश्यरूपैस्ते रहःपूजां व्यधुर्हरेः ॥९९॥
बद्रिके त्वं मया साकं नरेण तनुना सह ।
महर्षिभिः रहःपूजालाभं प्राप्तवती तदा ॥१००॥
एवं श्रीमत्कृष्णनारायणोर्जाष्टमिकाप्रगे ।
जयन्तीमिषमालम्ब्य दिव्या देवमपूजयन् ॥१०१॥
लेभिरे प्रथमं लाभं चाऽप्रकाशं परात्मनः ।
ततो ब्राह्ममुहूर्ताऽर्धविगमोऽभवदेव ह ॥१०२॥
जजागार हरिर्लोकव्यवहारेण वै ततः ।
जजागरुर्देहिनश्च मिष्टवाद्यस्वरश्रवैः ॥१०३॥
ऊर्जकृष्णाष्टमीप्रातर्जयन्तीदेवता मुधा ।
भूत्वा कुमारिका दिव्या सर्वभूषाविभूषिता ॥१०४॥
आययौ दिव्यदेहेनाऽपूजयच्छ्रीपतिं पतिम् ।
अदृश्या न्यवसत् कृष्णे ततोऽखिलदिनं सती ॥१०५॥
एवं बद्रीप्रिये जातो महोत्सवस्तु देहिनाम् ।
पूजनार्थं जनाः सज्जा भवन्ति सर्वतस्तदा ॥१०६॥
दिव्यचिन्तामणिकल्प्याः सामग्रीः सर्वजातिकाः ।
सह नित्वाऽऽययुः पूजाकरणार्थं तदन्तिकम् ॥१०७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने शर्करापत्तनमण्डपे सायं सभायां श्रीहरिकृतोपदेशो हरेः पूजनं निश्युत्सवाः प्रातर्देवादिकृतरहःपूजनं चेत्यादिनिरूपणनामा द्वाचत्वारिंशोऽध्यायः ॥४२॥
N/A
References : N/A
Last Updated : May 07, 2021
TOP