तिष्यसन्तानः - अध्यायः ६३
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीश्वरि देवि सर्वादस्य कथां तथा ।
महीरायपुरे त्वासीद् दुरितघोषनामकः ॥१॥
प्रधानपदभाग् विप्रः सर्वभक्षी यथा जनः ।
सर्वादनः सर्वभोजी सर्वहारीति विश्रुतः ॥२॥
सर्वाऽऽदानपरः पापी पापाचारोऽतिदूषितः ।
प्रसह्य वा प्रसादेन सर्वं गृह्णाति सर्वतः ॥३॥
नाऽग्राह्यं नाऽभक्ष्यमस्य किमप्यासीच्च कस्यचित् ।
म्लेच्छधर्माऽभवत् पापात् पापिसंगात् पशुर्यथा ॥४॥
पूर्वं सुधर्मकर्माऽपि पश्चात् प्रधानतां गतः ।
सर्वधर्मविहीनोऽभून्नास्तिको निन्दकः खलः ॥५॥
राज्यद्रव्यं तथा पापं मतिभेदकरं हि तत् ।
पापमिश्रं प्रजानां तद् धनमन्नं करादिकम् ॥६॥
दण्डद्रव्यं निकृष्टं च चौरधनं ततोऽप्यधः ।
घातकान्नं गणिकान्नं यथाऽधोनाणकं तथा ॥७॥
तत्प्रयोगेण जठरा मलिना मलिनं मनः ।
बुद्धेर्मालिन्यमेवापि धर्मे नास्तिक्यमेव तत् ॥८॥
सत्कर्मणां परित्यागो दुष्टकर्मानुवर्तनम् ।
देवपूजापरित्यागो मोक्षमार्गादिवर्जनम् ॥९॥
अभक्ष्ये च ततस्तस्य प्रवर्तना प्रजायते ।
सर्वाशनो भवेत् पश्चाद् विप्रोऽपि राक्षसो यथा ॥१०॥
एवं दुरितघोषोऽपि बद्रिके मानवोऽपि सन् ।
विप्रोऽपि धिष्ण्यसंस्थोऽपि धिक्कृतिं समुपागतः ॥११॥
मिलित्वाऽथ समस्ताभिः प्रजाभिः स निराकृतः ।
विमानितो निजग्रामान्निष्कासितः कुटुम्बयुक् ॥१२॥
ततः शोकं जगामाऽपि धर्मत्यागे हि धिक्कृतिः ।
अवमानं प्रजाभ्यश्च देवेभ्योऽपि सदा तथा ॥१३॥
धिक्कृतो मानवैर्नैव परलोकाय कल्प्यते ।
न गतिः सुभगा तस्य दग्धभाग्यश्च काचन ॥१४॥
रुदन्ति पितरश्चाऽस्य कुलदेवा रुषन्ति च ।
धर्मो रुठति लक्ष्मीश्च पादौ कृत्वा निवर्तते ॥१५॥
सम्मानः स्वागतश्चेति श्रीपुत्रौ विप्रकर्षगौ ।
सम्पदो विविधा रम्या विलीयन्ते ह्यधर्मिणः ॥१६॥
विघ्नाः कार्येषु जायन्ते स्खलनं च पदे पदे ।
पराजयः समग्रेषु नैष्फल्यं चेष्टकर्मसु ॥१७॥
आरब्धेषु क्षतिश्चापि प्रारब्धेषु शिलाहतिः ।
दुर्भिक्षत्वं फलदेषु निष्फलेषु प्रवर्तना ॥१८॥
गृहे कुटुम्बवर्गेऽपि कलिस्तस्य पदे धृते ।
नारीपुत्राद्यमानं च श्ववृत्तिवत्तु जीवनम् ॥१९॥
ग्रामे सूकरवद्वृत्तिः प्रकाशेऽप्यन्धताऽस्य च ।
हृदयेऽपि पापपुञ्जाद् वह्निज्वलनमन्वहम् ॥२०॥
आपत्तयः परितश्चागत्यैनं त्वर्दयन्त्यपि ।
हरेर्भक्तिं सतां सेवां गुरोः प्राप्तिं हरन्ति च ॥२१॥
दानं व्रतं तीर्थयात्रां विरुन्धन्ति क्षणे क्षणे ।
अभ्युदयं परं श्रेयः कल्याणं नाशयन्त्यपि ॥२२॥
किं बहुना बद्रिकेऽस्य पुरुषार्था वियन्ति च ।
निरर्थका हि सर्वे ते ततो यात्यधमां गतिम् ॥२३॥
एवं विचार्य बहुधा कल्याणमार्गणं व्यधात् ।
शुश्राव जनमुखतः पारायणमहोत्सवम् ॥२४॥
चमत्कारान् हरेश्चापि पापिनां पापनाशकान् ।
मोक्षदान् दिव्यताऽऽधानान् शुश्राव सकुटुम्बकः ॥२५॥
तत्र गन्तुं तदा बुद्धिमकरोत् स निराश्रयः ।
सज्जोऽभवद् द्रुतं चाश्वशकट्योष्ट्राऽनसा तथा ॥२६॥
योग्यवस्तून्युपकरणानि चादाय सत्वरम् ।
प्रतस्थे सकुटुम्बः स स्मरन्नारायणं हरिम् ॥२७॥
शर्करानगरं प्राप्य गत्या सभासुमण्डपम् ।
महोद्याने कृतावासः कृतस्नानविधिस्ततः ॥२८॥
धृतोपदः सकुटुम्बो ययौ व्यासासनं मुदा ।
सायं पूजां प्रचकार संहिताव्यासयोर्मुदा ॥२९॥
लोमशादेस्ततः पूजां कृत्वा नत्वा सतो जनान् ।
सभायां श्रवणार्थं स उपाविवेश मानितः ॥३०॥
कथान्ते स प्रचक्रे नीराजनं भावपूर्वकम् ।
कृष्णपादामृतं चापि पपौ प्रसादमाश च ॥३ । ॥
पूतात्मा सहसा जातो मन्त्रं जग्राह लोमशात् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥३२॥
'प्रभोनारायणश्रीमन्माधवीन्रायण प्रभो ।
जयाकृष्णललिताश्रीकृष्णराधापते विभो' ॥३३॥
एवं श्रीकृष्णधुन्यं च जग्राह लोमशादपि ।
नित्यं चक्रे नामधुन्यं सतां सेवनमन्वहम् ॥३४॥
कथायाः श्रवणं चापि पापक्षयोऽभवत्ततः ।
लोमशस्योपदेशेन ब्रह्मकूर्चव्रतं व्यधात् ॥३५॥
मासान्तं तस्य मनसि व्यजायत शुभेषणा ।
त्यागिदीक्षाग्रहणेच्छा प्रबला संव्यजायत ॥३६॥
प्रार्थयत् स व्यासदेवं सोऽपि दीक्षां ददौ ततः ।
प्रायश्चित्तोत्तरं श्राद्धं कारयित्वा विधानतः ॥३७॥
हवनादि ततः कृत्वा कृष्णनारायणार्हणम् ।
पञ्चगव्यं ततः प्राशयित्वा यज्ञोपवीतकम् ॥३८॥
ददौ मन्त्रान् शरणं तु प्रथमं रक्षणं ततः ।
ब्रह्ममन्त्रं तत आत्मनिवेदनं ततः परम् ॥३९॥
सर्वसमर्पणं चापि ददौ काषायवस्त्रकम् ।
समस्तवेषं प्रददौ विप्राय तत्स्त्रियै तथा ॥४०॥
पुत्रेभ्यश्च चतुर्भ्योऽपि सप्तपुत्रीभ्य इत्यपि ।
दीक्षां कण्ठीं तौलसीं च मूर्तिं पूजार्थमित्यपि ॥४१॥
कृष्णनारायणमूर्तिं श्रीयुतां प्रददौ तदा ।
नामजपं महादीक्षामादाय ते प्रचक्रिरे ॥४२॥
जयकारोऽभवत्तेषां सर्वमन्यच्छुभं तथा ।
अभवद्वै महादानादिकं तत्र तु दीक्षणे ॥४३॥
एवं त्यागाश्रमे तस्थुर्नाम्ना सद्धोषणायनः ।
पत्नी नाम्ना महासत्यायनी भागवतोत्तमा ॥४४॥
पुत्रा नाम्ना तु वैराग्यायनः शंभ्वायनस्तथा ।
योगायनस्तथा ज्ञानायनश्चेत्यभवँस्तथा ॥४५॥
पुत्र्यः साध्व्यः सप्त नाम्ना प्रज्ञायनी कृतायनी ।
सेवायनी तथा सत्त्वायनी रामायणी तथा ॥४६॥
बोधायनी च प्रतिभायनीति वैष्णवीतमाः ।
सर्वे ते चाभजन् कृष्णनारायणं प्रभेश्वरम् ॥४७॥
कालेन ते ययुर्धामाऽक्षरं श्रीपरमात्मनः ।
एवंप्रतापा बदरि संहितायाः कथा परा ॥४८॥
पापिनां पापलयदा महापुण्यप्रदा तथा ।
अन्ते मोक्षप्रदा दिव्या शाश्वतानन्ददायिनी ॥४९॥
अनादिश्रीकृष्णनारायणप्राप्तिप्रदा शुभा ।
स्वर्गमुक्तिप्रदा सम्पत्प्रदा सर्वर्द्धिसम्प्रदा ॥५०॥
शृणु बद्रीप्रिये देवि कथां चान्यां सुपावनीम् ।
दर्दुराख्ये पुरे त्वासीद् विप्रोऽमात्योऽतिबुद्धिमान् ॥५१॥
नाम्ना धर्मभटो राष्ट्रयोगक्षेमकरः सदा ।
स शुश्राव मनुष्येभ्यो माहात्म्यं बहुलं यतः ॥५२॥
कथायाः श्रवणे तेन वाञ्च्छा तस्य व्यजायत ।
सपत्नीको ययौ त्वेकहस्तिना वाहनेन सः ॥५३॥
परिमेयाऽनुगो नीत्वा धनं तु स्वर्णरूप्यकम् ।
स्नात्वा तीर्थजले गत्वा कथामण्डपमुत्तमम् ॥५४॥
पूजां चक्रे संहिताया व्यासस्य लोमशस्य च ।
सतां सतीनां साधूनां पूजां चक्रे स योगिनाम् ॥५५॥
उपदाश्च न्यधात्तत्र स्वप्रकाशस्य सन्निधौ ।
स्वर्णं रूप्यं रत्नमणीन् मौक्तिकानुत्तमानपि ॥५६॥
पत्नी पुपूज वै तत्र संहितां वाचकं गुरुम् ।
साध्वीश्च पूजयामास ददौ ताभ्योऽम्बराणि च ॥५७॥
धनानि फलपुष्पाणि भोजनानि ददावपि ।
नीराजनं प्रचक्राते ह्युभौ स्वर्णस्य दक्षिणाम् ॥५८॥
न्यधातां स्थालिकायां च चक्रतुर्दण्डवन्मुदा ।
निषेदतुः सभायां तौ मानितौ च महर्षिभिः ॥५९॥
शुश्रुवतुः कथां दिव्या मनोनिःसंगकारिणीम् ।
वैराग्योत्पादिकां साधुसेवामाहात्म्यबोधिनीम् ॥६०॥
भक्तिशिक्षाप्रदां कृष्णे स्नेहदां दास्यदायिनीम् ।
कथान्ते तु महोद्याने सौधे तौ ययतुर्मुदा ॥६१॥
एवं प्रशान्तहृदयाबूषतुर्दिनपञ्चकम् ।
तावत् सतां सतीनां च चक्राते सेवनं मुधा ॥६२॥
पावनौ तौ सेवया च पावितौ पुनरेव ह ।
प्रपावितौ च कथया भक्त्या नीतौ च दिव्यताम् ॥६३॥
अपश्यतां निशायां तौ निद्रायां माधवीश्वरम् ।
अनादिश्रीकृष्णनारायणं श्रीकृष्णचन्द्रकम् ॥६४॥
क्षणेनाऽदृश्यतां प्राप्तं दिव्यं श्रिया युतं हरिम् ।
अथ तौ सुज्ञातकृष्णमहिमानौ प्रगे द्रुतम् ॥६५॥
उत्थाय दर्शनं स्वाप्नं परस्परं मुदाऽऽहतुः ।
प्रसन्नौ तौ मिथः श्रुत्वा कृष्णदर्शनमुत्तमम् ॥६६॥
मेने धर्मभटो भाग्यं धन्यं नैजं तदा खलु ।
पत्नी नाम्ना शीलयानी मेने भाग्यं परं निजम् ॥६७॥
स्नात्वा सम्पूज्य देवेशं ययतुस्तौ कथास्थलम् ।
तत्र कथाऽन्तिकेऽमात्यसन्निधौ शीलयानिका ॥६८॥
गत्वा प्रपूज्य तं व्यासं दृष्ट्वा श्रीकृष्णसन्निभम् ।
नारायणसमं व्यासं स्वप्रकाशं समुत्तमम् ॥६९॥
देववच्चोज्ज्वलं योग्यमुपावेष्टुं गजासने ।
संकल्पं विदधे तत्र तावद् राजाऽपि तद्विधम् ॥७०॥
संकल्पं विदधे व्यासं गजस्थं लोकितुं मुदा ।
प्रकाशं प्राहतुस्तौ च स्वप्रकाशं समुत्सुकौ ॥७१॥
व्यासस्तथास्त्विति प्राह कथान्ते तौ मुदा तदा ।
गजं शृंगारितं स्वर्णाम्बालिकासहितं शुभम् ॥७२॥
आनयामासतुर्दिव्यं पिशंगं लम्बदन्तिनम् ।
ततस्तौ श्रीव्यासदेवं निषाद्य वारणोपरि ॥७३॥
ऋषिं च लोमशं चापि निषाद्य तत्र वारणे ।
धर्मभटो दधे स्वर्णचामरं लोमशोपरि ॥७४॥
शीलयानी दधे स्वर्णचामरं वाचकोपरि ।
वाद्यनादैर्जयनादैः साध्वीसाधुसुकीर्तनैः । ७२॥
वन्दितौ पूजितौ मार्गे भक्ताभिवर्धितौ सुमैः ।
सिन्धुतटं ययतुस्तौ गजेनाऽमात्यवाञ्च्छया ॥७६॥
जलपानादिकं कृत्वा स्नात्वाऽमात्यालयं ततः ।
ययतुस्तत्र तौ पत्नीपती पुपूजतुर्गुरू ॥७७॥
आरार्त्रिकं व्यधातां च स्वर्णपात्रे धनानि च ।
कम्बलानि विचित्राणि कौशेयान्यम्बराणि च ॥७८॥
मणिरत्नादिहाराँश्च हीरकाढ्यविभूषणम् ।
बहुधा सुविभूषाश्च फलपुष्पादि सम्पदः ॥७९॥
ददतुस्तौ ततः पादार्चनं श्रीचन्दनादिभिः ।
चक्रतुर्भावतश्चारार्त्रिकं स्तुतिं च दण्डवत् ॥८०॥
प्रणामान् चक्रतुश्चाथ ततो मन्त्रं तु वाचकात् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥८१॥
ज्जगृहतुस्तथा नाम श्रीकृष्णचन्द्रकेति च ।
प्रभोनारायण श्रीमाधवीनारायणप्रभो ॥८२॥
जयाकृष्णललितान्रायण राधापते विभो ।
नामधुन्यं जगृहतुस्ततो पादजलं शुभम् ॥८३॥
प्रसादं जगृहतुश्च निषाद्य वारणोपरि ।
महोत्सवयुतौ व्यासगुरू चामरराजितौ ॥८४॥
प्रापयामासतुः स्थानं संहितामण्डपं पुनः ।
एवं श्रीकृष्णचन्द्रस्य स्वरूपं व्यासमन्वहम् ॥८९॥
भावभक्त्या सिषेवाते तौ द्वौ तल्लग्नमानसौ ।
शृणु बद्रीप्रिये देवि चमत्कारं हरेस्ततः ॥८६॥
विद्यमाने वारणेऽपि त्वादाय दिव्यवारणम् ।
तमेव वारणं कृष्णश्चारुह्य श्रीसमन्वितः ॥८७॥
तयैव दिव्यकानक्याऽम्बालिकया विराजितम् ।
तौ द्वौ धर्मभटं शीलयानीं नेतुं हरिः स्वयम् ॥८८॥
समाययौ व्योमसृत्या घण्टानादेन नादयन् ।
अम्बरं तेजसा सर्वं धवलयन् कृपानिधिः ॥८९॥
चैत्रकृष्णद्वादश्यां वै पश्यतां दिव्यचक्षुषाम् ।
कथोत्तरं तु मध्यान्ते त्वाययौ भगवान् प्रभुः ॥९०॥
उवाच प्रहसन् धर्मभट! एहि परं पदम् ।
शीलयानि समायाहि मुक्तिपदं परं पदम् ॥९१॥
श्रुत्वा श्रीभगवद्वाक्यं त्यक्तसंसारबन्धनौ ।
उभौ सज्जावभवतां तूर्णं धृत्वा करे जलम् ॥९२॥
हस्तिदानादि सर्वं श्रीव्यासदेवाय च तदा ।
धर्मभटः शीलयानी ददतुश्च धनादिकम् ॥९३॥
अनादिश्रीकृष्णनारायणेच्छया तु बद्रिके ।
दिव्यदेहौ मुक्तरूपावजायतां मनोहरौ ॥९४॥
वारणं चारुरुहतुः पुष्पवृष्टिस्तदाऽभवत् ।
पश्यतां सर्वलोकानां गजेन व्योमगामिना ॥९५॥
हरिर्निनाय तौ तूर्णं निजं धामाऽक्षरं शुभम् ।
जयकारस्तदा सर्वलोकेषु प्राभवन्मुहुः ॥९६॥
चमत्कारं समाकर्ण्य जना विस्मयमाप्नुवन् ।
भक्तोऽमात्यो ययौ धामाऽक्षरं धन्यजनुर्भुवि ॥९७॥
धन्या सा शीलयानी च पत्या सार्धं ययौ दिवम् ।
इत्येवं प्रशशंसुर्वै मानवाः सर्वतः स्थिताः ॥९८॥
बद्रिके संहितायास्तु श्रवणेन प्रमोक्षणम् ।
नूनं प्रजायते सर्वपापानां चात्मनां तथा ॥९९॥
पठनाच्छ्रवणादस्य चिन्तनादपि मोक्षणम् ।
इष्टसिद्धिः समस्ता च भुक्तिर्मुक्तिस्तथा भवेत् ॥१००॥
यत्र क्षणे यदा कृष्णो यद्देशे चाभियाति वै ।
गन्तव्यं तेन साकं वै मायां त्यक्त्वाऽतिबन्धिनीम् ॥१०१॥
कर्तव्यं तु तदेवाऽस्ति यन्मायामोक्षणं व्रतैः ।
भक्त्या धामाऽक्षरप्राप्तिस्तत्र श्रीहरिसेवनम् ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने दुरितघोषनामकस्य प्रधानस्य सकुटुम्बस्य कथाश्रवणेन त्यागिदीक्षाग्रहणं, धर्मभटनामकाऽमात्यस्य शीलयानीपत्नीसहितस्य कथाश्रवणेन मोक्षणं चेत्यादिनिरूपणनामा त्रिषष्टितमोऽध्यायः ॥६३॥
N/A
References : N/A
Last Updated : May 07, 2021
TOP