संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः १३

तिष्यसन्तानः - अध्यायः १३

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि ततः सा बालयोगिनी ।
स्वमात्रे यत्पुनश्चाह बालयोगवृषान् शुभान् ॥१॥
मातर्बालत्वमाद्यं वै सर्वेषां देहिनामिह ।
तत्र कामो न न क्रोधो न स्वार्थो नापि रागिता ॥२॥
न दोषाश्चात्मनि ध्रोव्या नाऽन्तःकरणे नेन्द्रिये ।
न देहे नापि तत्त्वेषु वैशद्यं बालकेऽन्वहम् ॥३॥
स्वच्छदर्पणवद् बाल्यं सदा पाल्यं मुमुक्षुणा ।
यौवनं न स्पृशेद् यस्याः सा सदा बालयोगिनी ॥४॥
कामना यौवने वृत्तिर्लज्जाचौर्यादिकारिणी ।
बह्वनर्थावहा सा तु वासनाद्रिप्रवर्धिनी ॥५॥
विकाराश्च स्वभावाश्च क्रियाः सर्वाः कृतिस्तथा ।
विजातीयाः प्रवर्तन्ते चेष्टास्तु यौवने खलु ॥६॥
त एव दोषाः सर्वे वै नोद्भवन्ति कदाचन ।
श्रीकृष्णकान्तमाश्रित्य यस्यां सा बालयोगिनी ॥७॥
तपो धर्मो विरागश्च नियमः संयमस्तथा ।
इन्द्रियाणां जये हेतुर्मनोजयेऽपि वर्तते ॥८॥
बाल्यं सर्वजयकारं सहजं बालयोगवत् ।
बालकृष्णस्य योगो वै सर्वेन्द्रियजयप्रदः ॥९॥
अनादिश्रीकृष्णनारायणसख्यं सुखावहम् ।
मायाकालादिजयकृत् कर्मणां गणना तु का ॥१०॥
आत्यन्तिकी महाशक्तिर्मातः कृष्णे भवेत् सदा ।
कृष्णे स्नेहाच्च कार्ष्णेषु स्नेहाच्छान्तिः परा भवेत् ॥११॥
अवरायां च भक्ताया स्नेहाच्छान्तिर्हि दास्यवत् ।
कृष्णनारायणभक्तिमत्यां शान्तिर्हि शाश्वती ॥१२॥
गुर्व्यां पूज्यतया शान्तिः समानायां सखीतया ।
एवं गुणान् गृहीत्वैव भजेत् कृष्णपदाम्बुजम् ॥१३॥
इतस्ततो भ्रममाणो जीवः कर्मानुबन्धनः ।
क्यचिन्नारी क्वचित् क्लीबः क्वचिन्नरो भवत्यपि ॥१४॥
स्वतन्त्रः परतन्त्रो वा दुःखी सुखी क्वचित्तथा ।
वनेऽरण्ये पत्तने वा गृहे बाह्ये क्वचिद् रणे ॥१५॥
कारागारे याम्यलोके स्वर्गे क्वचित्तु मानवे ।
एवं कर्मानुचारस्य कृष्णप्राप्तिर्हि दुर्लभा ॥१६॥
सा चेजाता ततश्चाऽन्यन्नेष्टव्यं देहिना त्विह ।
चक्रवर्तिनृपद्धिस्तु मलवत् कर्दमादिवत् ॥१७॥
संबोध्या सिद्धयश्चापि तृणवन्मृत्तिकेव च ।
आत्मा कृष्णे योजनीयो गिरिवद् ध्रुववत्तथा ॥१८॥
मातर्बद्धाऽस्मि कमलाकान्ते सत्सु च सर्वदा ।
स्नेहपाशेन हरिणा स्वायत्तीकारिताऽस्मि हि ॥१९॥
अतो नारायणसंगं सतां संगं प्रसेवनम् ।
नोत्सहे सर्वदा त्यक्तुं शिरोदानं कृतं मया ॥२०॥
ईदृश्यस्मि हरौ तस्य भक्तेषु प्रीतिसञ्जिता ।
तद्विनाऽन्यत्र लग्ना न मनोवृत्तिर्ममाऽस्ति हि ॥२१॥
कृष्णस्य कीर्तने मातर्मत्तता मे प्रजायते ।
विह्वलाया मम कृष्णे जायते देहविस्मृतिः ॥२२॥
तथापि प्राज्ञवद् देहे तिष्ठामि शक्तियोगिनी ।
दासीत्वेन हरौ चास्मि स्वामित्वेन हरिर्मयि ॥२३॥
अतः स्वेच्छानुसारेण प्रभुनक्तु हरिर्हि माम् ।
विमाने वा गजे हंसे वैकुण्डे वा क्षितावपि ॥२४॥
स्वर्गे बद्रीवने श्वेतद्वीपे वा क्षीरसागरे ।
गोलोके श्रीपुरे वापि ब्रह्मलोकेऽक्षरे परे ॥२५॥
अव्याकृतेऽमृते वापि हरिर्नयतु मां सखीम् ।
रुचिः स्याद् यादृशी तस्य तथैव विदधातु माम् ॥२६॥
न मे कृष्णप्रियाद् भिन्नं नैजं प्रियं हि विद्यते ।
कृष्णस्यैव प्रियं यत्तत् प्रियं मे मानरुत्तमम् ॥२७॥
न वा कृष्णेच्छया वृत्तौ विपरीतं क्वचिन्मम ।
न च नारायणेच्छातः प्रारब्धं त्वपरं मम ॥२८॥
सर्वेश्वरे प्रभौ कृष्णे सदा प्राप्ताऽस्मि लग्नताम् ।
ततः सर्वास्ववस्थासु ब्राह्मी स्थितिर्ममाऽस्ति हि ॥२९॥
यामाश्रित्य परा नारी कृष्णैकान्तिकता व्रजेत् ।
तत्प्रसादाद्भयं तस्या विघ्नजन्यं न चास्ति हि ॥३०॥
सारं कृष्णेतरन्नास्ति सारं भयं न विद्यते ।
अशीलायां न सारोऽस्ति कृष्णस्तत्र न तिष्ठति ॥३१॥
शीलस्थायां हरिश्चास्ते जायते बालयोगिनी ।
कार्ष्णं सुखं मायिकाद्वै दिव्यं श्रेष्ठं च दुर्लभम् ॥३२॥
प्राप्तं मया तया प्राप्तं सर्वं साम्राज्यमुत्तमम् ।
कृपयैव प्रजेशस्य तत्प्राप्तं साम्प्रतं मया ॥३३॥
ब्राह्मी ब्रह्मप्रिया जाता नारायणी परेश्वरी ।
भूयसीं परमां प्रीतिं प्राप्ताऽस्मि बदरीश्वरी ॥३४॥
यादृशी तादृशी वापि कृष्णकान्ताऽस्मि संगता ।
इक्षुरसं परं प्रेम प्राप्ताऽस्मि चाऽमृतं हरौ ॥३५॥
अन्तरायकरं कृष्णे मातस्त्यजामि दूरतः ।
आसञ्जनविधातृ यद् गृह्णामि तद्धि साधनम् ॥३६॥
विश्वासिनी हरौ नित्यं भवामि भवनाशिनी ।
अनासक्ता परत्रापि भवामि कृष्णकामिनी ॥३७॥
खानपानशिरःपाणिपादसंवाहनादिभिः ।
साधूनां सेवने रक्ता वर्तेऽहं कृष्णसेवने ॥३८॥
अतिप्रियं समस्तं मेऽर्पयामि माधवाय वै ।
अर्पयित्वा सतीभ्यश्च साधुभ्यश्चापि सर्वथा ॥३९॥
उपयोगं ततस्तस्य वस्तुनः प्रकरोम्यहम् ।
दयया सम्प्रदायैव शेषं भुनज्मि चाज्ञया ॥४०॥
करोमि श्रीहरेः साक्षाद् दिव्यमूर्तेः समर्हणम् ।
मानसं पूजनं चापि करोमि ऋतुवत्तथा ॥४१॥
पातिव्रत्यं पुरस्कृत्य करोमि सेवनं हरेः ।
पतिव्रतायाः कान्ताऽन्ये स्वप्नेऽपि नास्ति चादरः ॥४२॥
पत्यावेव तथा कृष्णे प्रीतिं करोमि नित्यदा ।
कृष्णभक्तेषु चैवाऽपि कृष्णसम्बन्धतस्तथा ॥४३॥
ऐकपत्यं हरौ कृष्णनारायणेऽस्मि मे सदा ।
सर्वाश्चेष्टा प्रभेशार्थं निष्कामा बन्धनोज्झिता ॥४४॥
भर्जितानि च बीजानि चोप्तानि क्षेत्रके यथा ।
नांऽकुराय प्रभवन्ति तथा कर्माणि माधवे ॥४५॥
न जन्मादिप्रदान्येव जायन्ते निर्गुणानि हि ।
श्रीकृष्णस्य प्रसंगेन जीर्णानीव भवन्ति हि ॥४६॥
वासनाः प्रशमं यान्ति संकल्पा न भवन्ति च ।
नष्टा भवति सर्वा चैषणा विषयगोचरा ॥४७॥
क्रियाः सर्वा हरेराज्ञामय्यो नान्या हि मे क्वचित् ।
यया त्यक्तं जगत् सर्वं कृष्णे प्रीतिः कृता यया ॥४८॥
तस्या नान्यद् गृहं कृष्णं विना मातर्हि विद्यते ।
कृष्णार्थं योगिनी जाता कार्ष्णी साऽहं तथाऽस्मि च ॥४९॥
जगद्धर्ता मतो धर्मः स मे कृष्णोऽस्ति नेतरः ।
आत्मपरिचयो ज्ञानं स मे परिचयो हरौ ॥५०॥
स्नेहश्चाकृष्टभावो मे कृष्णे नान्यत्र कुत्रचित् ।
भक्तिः सेवा सर्वरीत्या कृष्णस्यैव न चेतरा ॥५१॥
सा मे सेवा कृष्णनारायणे निवृत्तिरुत्तमा ।
हरेः सम्बन्धशून्यस्तु धर्मो जन्मान्तरप्रदः ॥५२॥
प्रवृत्तिर्वा निवृत्तिर्वा नारायणसुयोगिनी ।
महाभागवती बोध्या धर्मिणी सत्क्रिया हि सा ॥५३॥
कृष्णार्थं कृष्णसाध्वर्थं सेवाऽर्हं दिव्यमेव तत् ।
प्रीतियोग्यं तदेवाऽस्ति हेयं चान्यत्तु सर्वथा ॥५४॥
असंख्यानां मनुष्याणां सम्मर्देऽपि हरेः कृते ।
वासं कर्तुं समिच्छामि नान्यथा तु वनेऽपि वै ॥५५॥
कृष्णार्थं कृष्णसाध्वर्थं वनं मे नगरायते ।
यत्र कृष्णस्तत्र हंसा दृश्यन्ते तु मया सदा ॥५६॥
यत्र कृष्णो न मिलति व्याघ्रायन्ते द्विजा अपि ।
अपि बद्रीवनं शीतं नारायणेन पत्तनम् ॥५७॥
स्मृद्धं मे विद्यते मातः साम्राज्यं नेतरन्मम ।
यत्र कृष्णः पूज्यते न तत्स्थलं मे सकण्टकम् ॥५८॥
बाणशय्या विना कृष्णं पुष्पशय्या तदन्विता ।
कृष्णं विना ह्यभक्ताया जलान्नं रोचते न मे ॥५९॥
अकृष्णाया न मे प्रीतिर्दीपो मे मानसो हरिः ।
हारो मे हृदये कृष्णो मणिर्मे केशवेशने ॥६०॥
कल्पानन्दो मानसे मे कृष्णः कान्तो रहःपतिः ।
यासु भक्तिर्हरेश्चास्ते यास्त्वस्ति कृष्णवल्लभा ॥६१॥
ता मेऽपि वल्लभाः सन्ति मातर्नान्याः क्वचित् खलु ।
श्रीकृष्णवल्लभाचारा श्रीकृष्णवल्लभक्रिया ॥६२॥
श्रीकृष्णवल्लभौदार्या श्रीकृष्णवल्लभान्तरा ।
श्रीकृष्णो वल्लभो यस्या सा सती बदरीश्वरी ॥६३॥
माणिक्या चाऽक्षरे धाम्नि त्वद्गृहे बालयोगिनी ।
नारायणी चमत्कारे राधा कृष्णस्य मानसे ॥६४॥
लक्ष्मीः कृष्णस्य पार्श्वे सा हिमाद्रौ बदरीश्वरी ।
सुरेश्वर्या गृहे कन्या वर्तेऽहं परमेश्वरी ॥६५॥
या पार्वती हरपत्नी साहं प्रभोश्च बद्रिका ।
नरनारायणवासा बदरी बालयोगिनी ॥६६॥
कार्ष्ण्यो या वैष्णवीदेव्यो बान्धव्यो मम ताः सदा ।
सदा ताभिः सह वासो रोचते मेऽत्र वा परे ॥६७॥
स्निग्धाः सत्यो दुर्लभा वै भवन्ति मानवे भवे ।
प्रेमभक्तिप्रपूराश्च सदा कृष्णार्थकामनाः ॥६८॥
दासीभावेन वा साध्वीभावेन कृष्णमाश्रिताः ।
चिद्रूपाऽऽसज्जनप्राप्त्या चिद्रूपास्ताः स्त्रियो नराः ॥६९॥
परं भागवतं स्थानं लब्ध्वा चाऽक्षरधामनि ।
प्रेम्णा कान्तं प्रभुं नारायणं प्रसादयन्ति वै ॥७०॥
स्निग्धया भक्तया भाव्यं कृष्णे रसिकया मुदा ।
निश्छद्मसेवया कृष्णः प्रसादं प्रकरोति हि ॥७१॥
अनुवृत्त्या साधवश्च प्रसन्नाः संभवन्ति वै ।
मान्याः प्रसाद्याः सन्तस्ते नमनाद्यैर्मुहुर्मुहुः ॥७२॥
यथा यथा प्रसन्नाः स्युर्विधातव्यं तथा तथा ।
तेषां प्रसादलभ्या वै महती पदवी मता ॥७३॥
कृष्णनारायणस्वामिसन्तः पूज्याः सदा मुदा ।
मानसी चाऽर्हणा कार्या यथर्तुसूपचारकैः ॥७४॥
मातश्चाहं सदा प्रातः करोमि पूजनं हरेः ।
उष्णकाले शीतवारि सुगन्धि चार्पयामि वै ॥७५॥
स्नपयामि शीतजलैः प्रेम्णा सम्मर्दयामि च ।
शीतसुगन्धितैलैश्च सुगन्धिसारसद्रसैः ॥७६॥
मार्जयामि हरेः समस्तांगानि सूक्ष्मवाससा ।
सूक्ष्माणि शोभनान्येव नवानि चाम्बराण्यपि ॥७७॥
सुगन्धिपुष्पहाराँश्च शृंगारं भूषणानि च ।
राजाधिराजविभवान् तं परिधापयामि च ॥७८॥
चन्दनेन हरेर्भाले तिलकं चन्द्रकं तथा ।
कौंकुमं संविधायैव करपादतलार्चनम् ॥७९॥
करोमि चन्दनैर्मातर्वक्षउदरपूजनम् ।
सक्थिजानुफणाग्राणां करोमि पूजनं ततः ॥८०॥
धूपं दीपं सुनैवेद्यं श्रीखण्डादि यथारुचि ।
शीतं वारि पोलिकादि समर्पयामि चक्रिणे ॥८१॥
उत्तरापोशनं दत्वा दत्वा ताम्बूलकं तथा ।
आरार्त्रिकं ततः कृत्वा चाश्लिष्यामि मुहुर्हरिम् ॥८२॥
शीर्ष्णि भाले स्तनयोश्च धारयामि पदे हरेः ।
तल्लग्नकुंकुमाक्तानि ममांगानि भवन्ति वै ॥८३॥
परिष्वंगे तदंगस्थचन्दनाद्यैः सुचिह्नितम् ।
समस्तं मच्छरीरं च दिव्यं पश्यामि तद्धृतम् ॥८४॥
पुष्पोद्याने रमयामि निकुञ्जे स्वामिनं हरिम् ।
विहरन्तं रममाणं सेवे प्रसन्नमानसम् ॥८५॥
कोमले शयने पुष्पदलालंकृतशोभने ।
स्वापयामि प्रभुं कान्तं कामयामि यथायथम् ॥८६॥
संवाहयामि चांगानि प्रातरुद्बोधयामि च ।
वर्षायां पूजनं नैजवल्लभस्य यथोचितम् ॥८७॥
करोमि तु यथा वर्षाशैत्यं तस्य न बाधते ।
ईषदुष्णजलैः कान्तं स्नपयामि तथाऽम्बरम् ॥८८॥
इषद्धनं तथाऽन्यानि धारयामि शुभानि च ।
कैसराक्तं चन्दनं च ददामि पूजने तदा ॥८९॥
तत्कालीनसुपुष्पाद्यैः पूजयामि ममेश्वरम् ।
भोजनानि समशीतोष्णानि चाऽवातुलान्यपि ॥९०॥
ददामि स्वामिनो मातः सेबे शय्यागतं हरिम् ।
शीतकाले परमोष्णवारिं ददामि सर्वथा ॥९१॥
उष्णाम्बराणि सर्वाणि तथोष्णभोजनान्यपि ।
उष्णमिष्टान्नपक्वान्नान्यर्पयामि तु शार्ङ्गिणे ॥९२॥
शय्यायां बालकृष्णस्य पार्श्वलीना भवामि च ।
प्रातर्यथा न वै शैत्यं बाधतेऽस्य करोमि तत् ॥९३॥
एवं स्वस्या महद्भाग्यं जानामि कृष्णसेवने ।
ब्रह्मानन्दं महानन्दं सदा प्राप्नोमि वै हरेः ॥९४॥
अक्षरेऽपि परे धाम्नि सेवाप्राप्तेस्तु हेतवः ।
अक्षरस्याऽधिगमनेच्छावत्त्वं सततं निजम् ॥९५॥
आत्मनिष्ठतया ज्ञानं भगवन्निष्ठभावना ।
भक्तिर्भगवतश्चापि कृष्णनारायणस्य वै ॥९६॥
मायाया वर्जनं नित्यं दिव्यस्वात्मविचिन्तनम् ।
मृषाज्ञानादिविलयः प्रमाज्ञानोदयस्तथा ॥९७॥
स्निग्धता माँसतीनाथे पातिव्रत्यं हरौ तथा ।
सत्संगः साधुसेवा च श्रीकृष्णाराधना सदा ॥९८॥
एवमादिभिर्हेतुभिश्चाक्षरं धाम लभ्यते ।
तत्र कृष्णस्नेहपात्रीभूता प्राप्नोति सेवनम् ॥९९॥
कृष्णाप्तौ स्वार्थदार्ढ्यं वै यस्यास्तु वर्तते सदा ।
सा श्रीकृष्णं प्रभुं कान्तं प्राप्नोत्येव न मुञ्चति ॥१००॥
हरेर्माहात्म्यज्ञानेन जयत्येव हरे प्रिया ।
हरौ प्रीतिमती पत्नी विवर्धतेऽतिसद्गुणैः ॥१०१॥
श्रुत्वा कृष्णगुणान् कृष्णं चिन्तयेत् कृष्णकामिनी ।
विनिश्चिनुयात् हृदये पार्वतीशं नरायणम् ॥१०२॥
तं तु भुञ्जीत सततं दिव्यं प्रत्यक्षतां गतम् ।
स एव श्रीहरेर्बोध्यः प्रसादो भोगनामकः ॥१०३॥
रंके वा राजसदृशे समा प्रसन्नता हरेः ।
पत्रपुष्पार्पणाद्यैश्च द्रुतं कृष्णः प्रसीदति ॥१०४॥
श्रद्धास्नेहप्रेमभक्त्यादिभिः शीघ्रं प्रसीदति ।
इत्येवं बद्रिके बालयोगिनी मातरं प्रति ॥१०५॥
बहुधोक्त्वा स्थितिं स्वीयां विरराम हरौ क्षणम् ।
पुनश्च बहिरागत्य प्रभोकृष्णेति सञ्जगौ ॥१०६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां बालयोगिन्या कथितानां बालयोगधर्माणां निरूपणमित्यादिनामा त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP