तिष्यसन्तानः - अध्यायः ४१
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये तत्र शर्कराख्ये सुपत्तने ।
रायहरेर्मन्दिरे तु महोद्यानसुमण्डिते ॥१॥
कथाशालास्थले पारायणं वत्सरवर्तनम् ।
कोटिरायो नृपो रायहरेः श्रेयोऽभिलब्धये ॥२॥
योजयामास वै स मासे त्वाषाढैकादशीदिने ।
आदितश्चाह्वयामास दूतैः साधूँश्च भूसुरान् ॥३॥
व्यासान् प्रपाठकाँश्चापि जापकाँश्च सहस्रशः ।
आययुः सर्वतः सन्तो विप्राः साध्व्यश्च वैष्णवाः ॥४॥
स्वप्रकाशो हि भगवान् मुख्यवक्ताऽभवत्तदा ।
लोमशश्च मुनिस्तत्र गुरुः पूजाकरोऽभवत् ॥५॥
अन्ये सौराष्ट्रदेशीया आजनाभाश्च पूर्वजाः ।
प्राचीनब्रह्मभूमिस्था राशियानोद्भवास्तथा ॥६॥
परीप्रदेशजाश्चापि तथाऽमरीप्रदेशजाः ।
अब्रिक्तादिप्रदेशोत्थाः सन्तो विप्राः समाययुः ॥७॥
उष्ट्रप्रदेशजाताश्चाप्यारार्त्रिकोत्थाश्च साधवः ।
द्वीपोपद्वीपजाश्चाद्रिवनारण्यसमुद्रजाः ॥८॥
संहितारसवेत्तारः सन्तस्तत्र समाययुः ।
साध्व्यश्च सांख्ययोगिन्यो मुक्तानिकाः समाययुः ॥९॥
ऋषयो मुनयो विप्रा विद्वांसस्तत्र चाययुः ।
आमन्त्रिताः सर्वभुवां वैष्णवा लक्षकोटयः ॥१०॥
चातुर्मास्ये व्रते पारायणे तथा विशेषतः ।
वार्षिके वृषनिष्पाद्ये चाययुर्ब्रह्मवित्तमाः ॥११॥
तेषां कृते समस्तानां राज्यप्रासादभूतयः ।
अर्पिताः स्वागतसौख्यभोगवासार्थमुत्तमाः ॥१२॥
यथा राजर्द्धयो राजभोग्यास्तथा तु भूसुरैः ।
अविशेषेण भोग्या वै ह्यासन् बद्रीप्रिये तदा ॥१३॥
घृतकुल्या दधिकुल्या रसकुल्या सशर्कराः ।
मधुकुल्याः पयःकुल्याः पानकुल्याः सहस्रशः ॥१४॥
सिन्धुसरित्तटे तत्र निर्मिता दीर्घवाहिकाः ।
विशाला भोज्यशालाश्च दिवानिशं प्रवर्तिताः ॥१५९॥
पानभोजनदायिन्यो दास्यो दासाश्च लक्षशः ।
यावद्द्रव्याणि तु पणे न्यस्तानि विजितान्यपि ॥१६॥
उभाभ्यां तु नृपाभ्यां वै तानि यज्ञार्थमेव ह ।
अर्पितानि व्ययार्थं वै कोटिरायेण सर्वथा ॥१७॥
महासौधे पूरितोऽस्ति रायहरिर्नृपस्तदा ।
उन्मत्तो राक्षसो यद्वद् भाणवाणी तथाविधा ॥१८॥
सर्वे पश्यन्ति राजानं शापदग्धं विचित्तकम् ।
भाणवाणीं सर्वनाशकरीं दुरोदरोदराम् ॥१९॥
शापदग्धां तथोन्मत्तां व्यपश्यन्ति जनास्तदा ।
एतयोः श्रेयसे पारायणं प्रजायते त्विति ॥२०॥
वदन्ति दर्शकास्तत्र शंसन्ति चन्द्रिकेश्वरीम् ।
पतिव्रतां महासाध्वीं पश्यन्ति च नमन्ति ताम् ॥२१॥
महाश्चर्यपरा लोकाः कोटिशो वैष्णवास्तदा ।
खानपाननिवासस्वागताद्यैः परितोषिताः ॥२२॥
आषाढैकादशीप्रातःकाले सभास्थले ययुः ।
मण्डपं तु विशालं योजितं स्वर्णसुरूपिणम् ॥२३॥
व्यपश्यन् चाऽपरं स्वर्गं सुधर्मां वा सभामिव ।
विमानमिव तत्राऽऽसीद् व्यासासनं महत्तमम् ॥२४॥
स्वर्णहीरकसन्नद्धं स्वर्णतोरणमण्डितम् ।
वितानचन्द्रभास्वच्च बहुमौक्तिकसंभृतम् ॥२५॥
पुष्पहारादिभिः शृंगारितं हंसादिराजितम् ।
पताकिकाध्वजव्याप्तं हारतोरणकोज्ज्वलम् ॥२६॥
मृदुगेन्दुकपार्श्वध्रपृष्ठध्रादिसमन्वितम् ।
दर्पणाद्यैश्चित्तहरं स्वर्णवस्त्रादिभूषितम् ॥२७॥
स्वर्णकदलीसंस्तम्भं संहितापट्टकान्वितम् ॥२८॥
पूजासामग्रिकापात्रसर्वोपचारसंहितम् ।
कृत्रचामरवेत्राद्यैरलंकृतजनैर्युतम् ॥२९॥
विप्रैः सद्भिश्चाक्षताद्यैः पुष्पहारैः प्रवर्धितम् ।
व्यासासने तत्र विप्रः स्वप्रकाशपरायणः ॥३०॥
संहिताया मुख्यवक्ता निषसाद शुभे क्षणे ।
तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ॥३१॥
संहिता पट्टके न्यस्ता पूजिता पारमेश्वरी ।
लोमशेन महामुक्तवर्येण बद्रिके तदा ॥३२।
लक्ष्मीदेवी स्वयं साक्षात् संहितायां व्यदृश्यत ।
दिव्या प्रसन्नवदना सर्वतेजोभिवर्धिता ॥३३॥
सर्वालंकारशृंगारशोभाढ्या सुमनोहरा ।
नारायणं हृद्ये स्वे दधाना ज्ञानसागरा ॥३४॥
अथ नारायणकृष्णस्तदा तस्मिँस्तु वक्तरि ।
व्यदृश्यत चतुर्बाहुः स्वप्रकाशपरायने ॥३५॥
सर्वशोभाकरः कृष्णनारायणः प्रमेश्वरः ।
माणिकीललिताराधारमाश्रीमाधवीप्रियाः ॥३६॥
सर्वास्तदाऽभवन् पार्श्वे पूजापात्रादिधारिकाः ।
मुक्ता मुक्तानिकाश्चासँस्तदा तत्सन्निधौ शुभाः ॥३७॥
विप्राश्च मुनयः सन्तः साधवश्च महर्षयः ।
सुरा देव्यश्च तीर्थानि तत्र त्वासन्नुपस्थिताः ॥३८॥
पौरुषेण तु सूक्तेन श्रीसूक्तेन तथा तदा ।
नारायणेन सूक्तेन देवीसूक्तेन वैदिकैः ॥३९॥
मन्त्रैः पूजां संहितायास्तथा व्यासस्य लोमशः ।
अकरोद् विधिना तत्राऽऽरार्त्रिकं कोटिराजकः ॥४०॥
अकरोच्चन्दनपुष्पाक्षताम्बरसुवर्णकैः ।
धनैस्तथोपचारैश्च गन्धिसारादिभिः फलैः ॥४१॥
मङ्गलं वाचयामास महाशीर्वादपूर्वकम् ।
संकल्पं कारयामास लोमशः श्रेयसे तयोः ॥४२॥
कथाश्रवणमग्नाश्चोपतस्थिरे क्षणेऽत्र च ।
सभा पूर्णाऽभवल्लक्षलक्षलक्षाधिमानवैः ॥४३॥
स्वप्रकाशोऽपि भगवान् शिष्यः श्रीपरमात्मनः ।
अनादिश्रीकृष्णनारायणस्य मङ्गलं व्यधात् ॥४४॥
श्रीमद्ब्रह्मपुराधिपोऽक्षरपतिः सर्वावतारेश्वरो,
मुक्तब्रह्मनिषेवितांऽघ्रियुगलो राधारमेशेश्वरः ।
यश्चाऽसंख्यनरायणाधिवसतिः श्रीकृष्णकृष्णेश्वरः,
सोऽयं कृष्णनरायणोऽस्तु सुखदः सौराष्ट्रधामेश्वरः ॥४५॥
यः पृथ्व्यां विचरन् पुरा क्षितिभृतामोक्षप्रमोदावहो,
दैत्यानां विलयंकरोऽर्बुदसतीसाध्वीभुजाधारकः ।
जीवानां नरयोषितामघहरः श्रेयोविधाताऽऽत्मनां,
सोऽयं कुंकुमवापिकाऽक्षररविः श्रीसंहितादैवतम् ॥४६॥
नत्वा तं परमात्मानं लक्ष्मीनारायणात्मकम् ।
तद्विज्ञानमयं शास्त्रं श्रावयिष्यामि मोक्षदम् ॥४७॥
अनादिश्रीकृष्णनारायणोऽस्तु हृदये सदा ।
कथासु जायमानासु मोक्षदो भक्तवल्लभः ॥४८॥
परब्रह्म नमस्कृत्य कृष्णनारायणं हरिम् ।
कंभराश्रीं च गोपालं नत्वा जयं समुच्चरेत् ॥४९॥
स्मरामि परमात्मानं नमामि वल्लभम्प्रभुम् ।
निर्दिशामि हरेर्भक्तिं शंसामि सेवनं सताम् ॥५०॥
इत्येवं बद्रिके कृत्वा मंगलं बीजसंभृतम् ।
लक्ष्मीनारायणसंहितायाः कथामवाचयत् ॥५१॥
तदा देवा मानवाश्च परेऽपि देहिनः खलु ।
अनादिश्रीकृष्णनारायणध्यानार्थिनोऽभवन् ॥५२॥
कृष्णमूर्तौ कथामूतौ दत्तध्यानास्तदाऽभवन् ।
कथासारं पपुस्तत्र संक्षेपाद् विस्तरादपि ॥५३॥
प्रत्यहं तु कथान्ते ते कुर्वन्ति परमात्मनः ।
'हरेकृष्ण बालकृष्ण हरिनारायण प्रभो ॥५४॥
अनादिश्रीकृष्णनारायण मोक्षप्रदप्रभो ।
नामसंकीर्तनं त्वेवं समस्ता वाद्यसंगताः ॥५५॥
तालिकाभिर्नृत्यगीतैर्भजनं चक्रिरे मुदा ।
कथान्ते जायते त्वारार्त्रिकं नैवेद्यमुत्तमम् ॥५६॥
पूजा व्यासस्य तत्रैव जायते प्रत्यहं शुभा ।
जापका भूसुराद्याश्च जयन्ति परमेश्वरम् ॥५७॥
सायं होमः सदा तत्र प्रज्वायतेऽनलप्रभौ ।
प्राघूणिकाननेष्वत्र मिष्टहोमा भवन्ति च ॥५८॥
दुग्धापानानि देवानां हवनानि भवन्ति च ।
भूसुराणां सतां भोज्यं दुग्धसारादि चामृतम् ॥५९॥
सर्वेषां देहिनां तत्र भेदभावो न विद्यते ।
यद्देवानां नृपाणां चर्षीणां तत् सर्वदेहिनाम् ॥६०॥
प्रत्यहं भक्ष्यभोज्यादि खानपानादि सदृशम् ।
कथा प्रजायते प्रातस्तथा सायं तु सर्वदा ॥६१॥
आरार्त्रिकं समाप्तौ च प्रत्यहं पूजनादिकम् ।
अनादिश्रीकृष्णनामधुन्यं प्रजायतेऽनिशम् ॥६२॥
वितरणं प्रसादानां भोजनानां प्रदानकम् ।
सुवर्णादिप्रदानानां चार्पणं प्रत्यहं तदा ॥६३॥
एवं समुत्सवो जातो बद्रिके संहितात्मकः ।
लक्षशो मानवा ज्ञानामृतं पीत्वा तु पावनाः ॥६४॥
भूत्वा भूत्वा महाभागवता भवन्ति तत्र वै ।
ओंनमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥६५॥
इतिमन्त्रप्रदानं च करोति लोमशो मुनिः ।
आश्चर्याणि कथायां तु विचित्राणि भवन्त्यपि ॥६६॥
विमानानि सुराणां वै श्रवणार्थं तदाऽम्बरे ।
समागत्याऽवतिष्ठन्ति पुष्पचन्दनवर्षणम् ॥६७॥
कृत्वा प्रयान्ति सततं स्वर्गं स्वर्गागतानि वै ।
अदृश्या दिव्यदेहाश्च तीर्थर्षियोगिनस्तदा ॥६८॥
आगत्याऽऽकर्ण्य खे स्थित्वा नीत्वा यान्ति प्रसादकम् ।
वाद्यानि देवलोकानां गन्धर्वाणां च गीतयः ॥६९॥
अप्सरसां गीतिकाश्च नर्तनं वारयोषितम् ।
साध्वीनां भजनं घोषा विप्रवेदोद्भवास्तदा ॥७०॥
उत्सवान्ते प्रजायन्ते प्रत्यहं व्याससेवनम् ।
गुरूणां सेवनं साधुवर्गाणां पूजनादिकम् ॥७१॥
स्वागतं त्वागतानां विगतानां मानपूजनम् ।
मधुपर्को नूतनानां प्राचीनानां तु दक्षिणाः ॥७२॥
दीयन्ते प्रत्यहं तत्राऽनाथादीनां यथेष्टकम् ।
प्रेता आगत्य शृण्वन्ति कथां परमपावनीम् ॥७३॥
प्रसादं संप्रगृह्णन्ति यान्ति मोक्षपदं ततः ।
विमानैस्ते प्रयान्त्येव कथयित्वा ह्युदन्तकम् ॥७४॥
अहं भोग्यं सिन्धुजानां तदा श्रीबद्रिके परम् ।
महाभागवताः सन्तो राजन्ते यत्र वैष्णवाः ॥७५॥
लक्ष्मीनारायणसंहितायाः कथा भवन्ति च ।
प्रवर्तन्ते हरेर्लीलाज्ञानधर्मयुताः कथाः ॥७६॥
संहितातीर्थमत्रेदं ख्यातं तर्ह्यभवत्ततः ।
भाणवाणी रायहरिः शृणुतः प्रत्यहं कथाः ॥७७॥
भुंजाते च प्रसादौ तौ पिबतश्च जलामृतम् ।
पापप्रक्षालनं प्रजायते शनैः कथामृतैः ॥७८॥
कथाश्रवणयोगेन जायते त्वात्मशोधनम् ।
सतामाशीर्वादलाभैर्जायते शापमोक्षणम् ॥७९॥
एवं शुद्धिः शनैर्जाता चातुर्मास्ये विशेषतः ।
व्रतदानफलानां चार्पणं कृतं कुटुम्बिभिः ॥८०॥
तत्पुण्येन तयोः स्वास्थ्यं शनैः शनैरुदैच्छुभम् ।
कथायां वर्तमानायामूर्जमासः समाययौ ॥८१॥
कृष्णाष्टम्यां बालकृष्णजन्मजयन्तिकोत्सवम् ।
चक्रुर्नृपाः प्रजाश्चापि महीमाना नराः स्त्रियः ॥८२॥
महर्षयस्तथा देवा मानवाः साधवस्तथा ।
साध्यो विप्रा वैदिकाश्च प्रचक्रुस्ते महोत्सवम् ॥८३॥
षष्ठ्यां नृपः कोटिरायः परिमेयपुरःसरः ।
प्राप्य पत्रं लोमशर्षेः श्रीकृष्णाऽऽनयनाय सः ॥८४॥
अनादिश्रीकृष्णनारायणं श्रीपरमेश्वरम् ।
कुंकुमवापिकातीर्थं सौराष्ट्रे व्योमवर्त्मना ॥८५॥
विमानेनाऽऽययौ कृष्णनारायणालयान्तिकम् ।
अवातरन्मन्दिराग्रे बालकृष्णं विलोकितुम् ॥८६॥
पूजयितुं तथाऽऽमन्त्रयितुं कृष्णाऽग्रतोऽभवत् ।
कृताञ्जलिः कृतपूजः स्वागतं प्राप्य दर्शनम् ॥८७॥
मोदं प्राप्य श्रीहरये हृदयं प्रसमर्प्य च ।
सर्वं निवेदयामास प्रार्थयामास कारणम् ॥८८॥
जन्मजयन्ती भगवन्नेकविंशतिका शुभा ।
आगत्य सिन्धुजान् देशान्. शर्करानगरान्तिके ॥८९॥
संहितामण्डपे कार्या स्वयं भगवता प्रभो ।
कृपया नेतुमायातः श्वो गतिस्तत्र रोचते ॥९०॥
सप्तम्यां शर्कराभूमौ मध्यन्दिने समागमः ।
कर्तव्यो भवता तत्र महास्वागतमुत्तमम् ॥९१॥
भविता भगवँस्तस्मादागन्तव्यं कृपालुना ।
हरिः प्राह शुभं भूयादागन्ता ओमिति द्रुतम् ॥९२॥
राजा रात्रौ तु विश्रामं जग्राह तीर्थमाचरन् ।
प्रातः सज्जो बभूवाऽपि कृष्णनारायणाज्ञया ॥९३॥
माता पिता ऋषयश्च सन्तः सज्जास्ततोऽभवन् ।
विधाय स्वं द्विधा रूपं विमानं चारुरोह वै ॥९४॥
विमानस्थाः समस्तास्ते द्वेधा कृताः परात्मना ।
विमानं प्रययौ तूर्णं चाम्बरेण तु बद्रिके ॥९५॥
सिन्धुदेशं समप्रापच्छ्रीमत्कृष्णनरायणः ।
द्वितीयेन स्वरूपेण कुंकुमवापिकास्थितः ॥९६॥
जन्माऽहोत्सवलाभार्थं स्वगृहे श्रीहरिं स्वयम् ।
आगतानां मनस्तुष्ट्यै कुंकुमवापिकास्थितः ॥९७॥
सिन्धुजानां मनस्तुष्ट्यै सिन्धुदेशं गतोऽपि च ।
एवं श्रीमद्बालकृष्णः सिन्धुतीरमवातरत् ॥९८॥
सूर्यभास्वद्विमानं तत् पूजितं प्रथमं जनैः ।
हरिर्नियेत् विमानाच्च जयशब्दैः प्रपूजितः ॥९९॥
नेत्रार्पणैर्हर्षनादैरक्षतैः कुसुमैः शुभैः ।
पूजितश्चन्दनाद्यैश्च पुष्पहारैः प्रपूजितः ॥१००॥
लाजाभिर्वर्धितश्चापि कराञ्जलिभिरर्चितः ।
हार्दैर्भावैरिङ्गितैश्च निजनाथौकृतो जनैः ॥१०१॥
प्रतिकृतिसहस्रात्मा छायामूर्तिः कृतो हरिः ।
नारीभिश्च नरैः कृष्णः प्रतिबिम्बित आत्मसु ॥१०२॥
अथ कृष्णो ययौ कोटिरायदर्शितमन्दिरम् ।
लोमशाद्याः प्रणेमुस्तं पुपूजुः स्वागतादिभिः ॥१०३॥
जलपानं ददुश्चापि चन्द्रेश्वरी महासती ।
चन्द्रकं कौंकुमं चाप्यक्षतैर्युक्तं चकार सा ॥१०४॥
पुष्पमालां ददौ कण्ठे कृष्णस्य चन्द्रिकेश्वरी ।
दिनेश्वरी हरेस्तत्र पादप्रक्षालनादिभिः ॥१०५॥
सम्मानमाचरत् पूजां व्यधाद् भावभरा तदा ।
अन्येऽपि श्रीहरेर्लोका देवाः प्रजाजना अपि ॥१०६॥
महर्षयश्च ऋषयो व्यधुः पूजां हरेस्तदा ।
ययुः सर्वे कुशलं वै पृष्टाः स्वस्वनिकेतनम् ॥१०७॥
कृष्णनारायणस्तत्र विश्रान्तिमाप वै क्षणम् ।
बद्रिके सर्वतस्तत्र परानन्दो व्यवर्तत ॥१०८॥
इति श्रीलक्ष्मीनारायणौयसंहितायां चतुर्थे तिष्यसन्ताने शर्करानगरे संहिताकथारम्भे सर्वलोकवासिनां तथा जन्मजयन्त्यां श्रीकृष्णनारायणस्य चागमः स्वागतादिकं चेत्यादिनिरूपण-
नामैकचत्वारिंशोऽध्यायः ॥४१॥
N/A
References : N/A
Last Updated : May 07, 2021
TOP