तिष्यसन्तानः - अध्यायः ११०
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि नागविक्रमभूभृतः ।
भृत्यादीनां प्रार्थनोर्ध्वं यदभूत् तद् वदाम्यहम् ॥१॥
अनादिः श्रीकृष्णनारायणाऽऽर्यः कृष्णमाधवः ।
प्रत्युवाच तु तद्भृत्यान् यथार्थं वै शुभं वचः ॥२॥
नाऽयं राजा प्रमत्तोऽस्ति नोन्मत्तो न विचित्तकः ।
नापि भूतपिशाचाभिभववान् नाभिचारवान् ॥३॥
मद्भक्तो मत्प्रतापेन समाधौ मां निजाऽक्षरे ।
धाम्नि राजाऽधिराजं स व्यलोकयत् प्रियायुतः ॥४॥
दिव्यं मां दिव्यधामाऽपि सर्वाश्च दिव्यसम्पदः ।
वीक्ष्य दिव्यविभूतीश्च दिव्यतां प्राप्तवान् हि सः ॥५॥
दिव्यदृष्टिर्दिव्यकर्मा दिव्यधर्माऽस्ति साम्प्रतम् ।
दिव्यभावमयश्चास्ते दिव्याऽन्तःकरणेन्द्रियः ॥६॥
न तस्य रोचते मायामयं चेदं सकल्मषम् ।
औदासीन्यं गतश्चास्ते पश्यत्येतत्तु नश्वरम् ॥७॥
निरयाख्यं समस्तं वै ब्रह्माण्डं स प्रपश्यति ।
राज्यं नैजं च भूम्यादि सर्वं पश्यति कर्दमम् ॥८॥
अशुद्धं चापि विकृतं क्लेदाढ्यं संप्रपश्यति ।
विदेह इव चास्तेऽसौ जीवन्मुक्तो जितेन्द्रियः ॥९॥
प्रत्याहृतान्तःकरणः सस्त्रीको मुक्तवत् स्थितः ।
ततोऽसौ योगिवद्भूमौ वर्तते हृतवासनः ॥१०॥
व्रह्मदशां समारूढो वर्तते मायिकात्परः ।
अमायिकोऽयं सञ्जातो मत्समाधेर्मदात्मकः ॥११॥
सनकादिसमश्चास्ते शिवतुल्यो विरागवान् ।
मा शोचन्तु महाभाग्यं दिव्यं नृपं ततोऽनुगाः ॥१२॥
अस्य दिव्यतया सन्ति नावरणानि कानिचित् ।
भूमौ जलेऽनले पारं गन्तुं शक्तोऽणुसिद्धिमान् ॥१३॥
स्वर्गे सत्ये च वैराजे वैकुण्ठे गन्तुमीश्वरः ।
नाऽस्य राज्यं न वै भृत्या बाधितुमीश्वरास्त्विह ॥१४॥
ततोऽयं वर्तते योगिस्थित्या योगीश्वरो यतिः ।
सती तद्धर्मभार्याऽपि तथैव वर्तते परा ॥१५॥
भवतां प्रत्ययार्थं तं प्रेरयामि समक्षगम् ।
सान्त्वयितुं भवतश्च कृतयत्नो यथा भवेत् ॥१६॥
इत्युक्त्वा बद्रिके कृष्णनारायणमहाप्रभुः ।
राजानं प्रेरयामास भृत्यादिशोकनुत्तये ॥१७॥
शृणु राजँस्तव भृत्यादयः शोचन्ति ते कृते ।
तान् विज्ञापय वृत्तान्तं नैजं यथार्थमुज्ज्वलम् ॥१८॥
इत्येवं बद्रिके प्रोक्तो राजा तु नागविक्रमः ।
स्बभृत्यादीन् समुवाच विरागिणीं निजां स्थितिम् ॥१९॥
शृण्वन्तु भृत्यवर्गाद्याः! कुर्वन्तु च मयोदितम् ।
हितं वदामि सर्वेषां प्राप्तं दिव्यं मया धनम् ॥२०॥
अयं वै भगवान् साक्षाच्छ्रीपतिः पुरुषोत्तमः ।
अक्षरेशोऽवताराणां धर्ता प्राप्तो मया त्विह ॥२१॥
मद्योगेन भवद्भिश्च प्राप्तः श्रीपतिवल्लभः ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥२२॥
तत्प्रतापेन साम्राज्यं प्राप्तं मया विशालकम् ।
तत्प्रतापेन दिव्या च दृष्टिं स्थितिं गतोऽस्मि च ॥२३॥
अक्षरं परमं धाम तत्प्रतापेन वै मया ।
वीक्षितं च समाधौ वै दिव्यर्द्धयो विलोकिताः ॥२४॥
यदग्रे चेश्वराणां वै स्मृद्धयो निरयोपमाः ।
ततः किमुत देवानां सुतरां मानवर्द्धयः ॥२५॥
मायामय्यः स्मृद्धयस्ता निरया एव सन्ति वै ।
न रोचन्ते मम त्वेताः स्मृद्धयो मलिना यतः ॥२-६॥
हरेर्दिव्यस्य योगेन प्राप्तोऽहं दिव्यतां पराम् ।
भवन्तोऽपि हरेर्योगाद् गृह्णन्तु दिव्यतां पराम् ॥२७॥
शाश्वतं परमानन्दं गृह्णन्त्वनादिमाधवात् ।
त्यजन्तु वासनासैन्यं निरयं भौतिकं गृहम् ॥२८॥
हरेः राज्यं समस्तं वै ब्रह्माण्डानां परं तथा ।
समस्तं श्रीहरेः राज्यं न मे राज्यं मनागपि ॥२९॥
मुक्तिराज्यं समिच्छामि भुक्तिराज्यं न रोचते ।
ततो भवन्तो भृत्याद्याः कृष्णं श्रयन्तु सत्पतिम् ॥३०॥
त्यक्तभोगसुखा नित्यानन्दा भवन्तु केशवे ।
अध्रुवं मा च वल्गन्तु वल्गन्तु परमेश्वरम् ॥३१॥
मृतस्य राजदेहस्य न राज्यं न धनं गृहम् ।
आत्मनस्तु प्रमुक्तस्य महाराज्यं पराऽक्षरम् ॥३२॥
विचार्येत्थं चार्पयामि समस्तं परमात्मने ।
दिलावरीमहाराज्यं चार्पयामि परात्मने ॥३३॥
वैराग्यं प्राप्तवानस्मि सपत्नीको न संशयः ।
भूत्वा दासो हरेः साधुः सेविष्येऽत्र गुरुं हरिम् ॥३४॥
राज्यं ददामि हरये येन दत्तं पुरा तु मे ।
स एव सर्वमवतु नाऽहं राज्यं प्ररोचये ॥३५॥
इत्युक्त्वा भृत्यवर्गेभ्यो राजा वै नागविक्रमः ।
हस्ते जलं समादाय राज्यं कृष्णाय चाऽऽर्पयत् ॥३६॥
सर्वेषां पश्यतां कृष्णपादयोर्निपपात सः ।
विहाय राजचिह्नानि कृष्णपादरजोऽगिलत् ॥३७॥
राज्ञी चापि तथा चक्रे कृष्णपादरजांसि वै ।
जिह्वया लेहयामास कृष्णपादतलं तथा ॥३८॥
आश्चर्यं परमं प्रापुः भृत्याद्यास्ते नृपाऽनुगाः ।
मत्वैव धन्यभाग्यानि ववन्दिरे हरिं तदा ॥३९॥
प्रशशंसुर्नृपं चापि मोक्षमार्गप्रयायिनम् ।
सर्वे भृत्यादयश्चापि त्यागमार्गं प्रपेदिरे ॥४०॥
निपत्य श्रीहरेरग्रे नृपवच्चक्रिरे च ते ।
निजार्पणं हरेरग्रे त्यागार्थं प्राकृतस्य वै ॥४१॥
अथ श्रीभगवान् राज्ञे ददौ दीक्षां तु साधवीम् ।
नाम कृष्णो ददौ तस्य त्रिविक्रमायनो मुनिः ॥४२॥
राज्ञ्या नाम चकाराऽपि कृष्णः श्रीमालिकायनी ।
त्रिविक्रमायनः साधुः साध्वी श्रीमालिकायनी ॥४३॥
पुपूजतुः परात्मानं स्वामिकृष्णनरायणम् ।
गुरुं चान्ये बद्रि सर्वे भृत्याः सहस्रसंख्यकाः ॥४४॥
साधुदीक्षां जगृहुश्च त्यागाश्रमे स्थितास्तदा ।
सर्वे त्यागं समाश्रित्य भेजुः श्रीकान्तवल्लभम् ॥४५॥
नार्यो दास्यश्च यास्ता वै साध्वीदीक्षां प्रपेदिरे ।
सहस्रसंख्यका नार्यः साध्व्यस्तत्राऽभवँस्तदा ॥४६॥
दिव्यभावा दिव्यदेहाः समस्तत्यक्तवासनाः ।
अश्वपट्टसरःक्षेत्रे न्यवसँस्ते तथाविधाः ॥४७॥
स्वतःप्रकाशो भगवान् स्वाश्रमे तान्न्यवासयत् ।
ते भेजुः परमात्मानं सिषेविरे पतिं प्रभुम् ॥४८॥
श्रुत्वा पृथ्व्यां जनाः सर्वे महाश्चर्यं प्रपेदिरे ।
राजानश्चापि चाश्चर्यं प्रापुर्वै त्यागगोचरम् ॥४९॥
इत्येवं बद्रिके तत्र राजा वै नागविक्रमः ।
त्यागाश्रमं त्वाविवेश सस्त्रीसैन्यानुगः क्षणात् ॥५०॥
तपस्तेपे हरेः क्षेत्रे भेजे श्रीमाधवीपतिम् ।
सिषेवे श्रीप्रभुं नाथं ब्रह्मस्थित्या हि वर्तयन् ॥५१॥
अथ श्रीभगवान् बद्रि प्राह त्रिविक्रमायनम् ।
दिलावरीमहाराज्यं कस्मै देयं वदाऽत्र मे ॥५२॥
मुनिः प्राह हरे राज्यं भवता मयि योजितम् ।
भवतस्तत्, न मे राज्यं यथेष्टाय निवेदय ॥५३॥
पुत्रोऽयं भवतः कृष्ण त्वत्समो राजते प्रभुः ।
मुकुन्दविक्रमो नाम्ना चक्रवर्तिगुणान्वितः ॥५४॥
दक्षहस्ततले तस्य चक्रचिह्नं विराजते ।
राज्ययोग्यो भवत्येषस्तस्मै चेच्छसि देहि वै ॥५५॥
एवं त्वभिहिते तत्र साधु साध्विति चाभितः ।
वाचोऽभवन् हर्षयुक्ता नारीनराऽभ्युदीरिताः ॥५६॥
मुकुन्दविक्रमस्याऽर्थे जयशब्दस्तदाऽभवन् ।
श्रीकृष्णस्य सुताः पुत्र्यः पत्न्यश्चापि तथाऽवदन् ॥५७॥
मुकुन्दविक्रमो राजा ज्येष्ठपत्न्यग्रजः सुतः ।
सर्वज्येष्ठतमस्तस्माद् राज्यमर्हति शोभनम् ॥५८॥
एवं वाचोऽभवन् बद्रि मंगलाः सर्वतोदिशः ।
ओमित्येवं हरिश्चापि मेने तथ्यां मुनेर्मतिम् ॥५९॥
सा वार्ता प्रासरत् तूर्णं कुंकुमपत्तनेऽभितः ।
आक्षरे परमे क्षेत्रे सौराष्ट्रेऽपि गृहे गृहे ॥६०॥
आजनाभे तथा खण्डे खण्डेष्वन्येष्वपि ध्रुवा ।
स्वर्गे सत्ये च पाताले सर्वलोकेषु सत्वरम् ॥६१॥
नागविक्रमनृपतिस्त्यागिनां जगृहे भुवि ।
मुकुन्दविक्रमो राजा चक्रवर्ती भविष्यति ॥६२॥
हरेः पुत्रो हरेरंशो दिलावरीश्वरोऽधुना ।
हास्तिनीनगरीस्वामी हैमखण्डे भविष्यति ॥६२॥
मुक्तिबालेश्वरी तस्य सहजा यमलोद्भवा ।
सम्राज्ञी तत्प्रिया राज्यमाता श्रेष्ठा भविष्यति ॥६४॥
इत्येवं भूतलादौ वै प्रावर्तत जने जने ।
महामंगलवार्तेयं कृष्णस्मरणकारिणी ॥६५॥
उत्सवाश्चाप्यजायन्त वाद्यकीर्तननर्तनैः ।
नारीणां वेषशृंगारैर्मानवानां गृहे गृहे ॥६६॥
अथ श्रीबद्रीकेऽनादिः कृष्णनारायणः प्रभुः ।
चन्द्रं तु सन्मुखं वीक्ष्य मुहूर्ते बलवत्तमे ॥६७॥
दिलावरीं प्रति गन्तुमाज्ञां ददौ निजात्मजान् ।
मुकुन्दविक्रमो ज्येष्ठपुत्रो राजा भविष्यति ॥६८॥
तदुत्सवे विमानैश्च युगलानि प्रयान्तु वै ।
मम पत्न्यः समस्ताश्च यावन्ति यमलान्यपि ॥६९॥
दासा दास्यो भृत्यवर्गा दिलावरीं प्रयान्तु वै ।
लोमशश्च तथा योगी सार्थः प्रकाशकायनः ॥७०॥
त्रिविक्रमायनश्चापि तथाऽन्ये साधवो जनाः ।
महर्षयश्च ऋषयो मुनयो वेदपारगाः ॥७१॥
कर्मठा वैष्णवा विप्रा दिलावरीं प्रयान्तु वै ।
एवमाज्ञाप्य भगवान् प्रेषयमास प्राक तु तान् ॥७२॥
पार्षदैश्चापि भूखण्डे प्रेषयामास पत्रिकाः ।
स्वर्गे सत्ये च पाताले चतुर्दशस्तरेष्वपि ॥७३॥
प्रेषयामास विज्ञप्तिपत्रिकां मंगलावहाम् ।
ईश्वरान् सिद्धसाध्याँश्च पितॄन् सुराँश्च मानवान् ॥७४॥
दिक्पालान् लोकपालांश्च यक्षराक्षसकिन्नरान् ।
किम्पुरुषाँश्चारणाँश्च विद्याध्रान् दैत्यदानवान् ॥७५॥
अप्सरसो ब्रह्मसरसश्च साध्वीः सतीस्तथा ।
योगिनीः शक्तिदेवीश्च देवताश्च तथेश्वरीः ॥७६॥
विज्ञप्तिपत्रिकाः कृष्णः प्रेषयामास सर्वशः ।
धामधामादिमुक्ताँश्च मुक्तानिकास्तथा प्रभून् ॥७७॥
आह्वयामास भगवान् कुंकुमपत्रिकादिभिः ।
भक्तान्नृपान् समस्ताँश्चाऽपरान् खण्डान्तरेश्वरान् ॥७८॥
द्वीपेश्वरान् भूभृतश्चाह्वयामास हरिस्तदा ।
श्वशुरान् निजपुत्राँश्च तत्तद्धामगृहस्थितान् ॥७९॥
आह्वयामास भगवान् दिलावरीपुरीं प्रति ।
अथ श्रीभगवान् मात्रापित्रा पुत्रादिभिः सह ॥८०॥
पत्न्यादिभिश्च सहितो विमानेन हि सत्वरम् ।
ययौ दिलावरीं राजधानीं हैमभुवां शुभाम् ॥८१॥
मण्डपं कारयामास दशयोजनमुत्तमम् ।
सौवर्णं चाऽनुयमुनं दिव्यरत्नादिराजितम् ॥८२॥
दिव्यादिव्यनृपवर्गसिंहासनादिसंयुतम् ।
मुनिमहर्षिमुक्ताद्यासनपंक्त्याद्यलंकृतम् ॥८३॥
सर्वसिद्धिमयं सर्वराजस्मृद्धिप्रपूरितम् ।
सर्वदृश्यमहादृश्यशस्त्रास्त्रपुत्तलाऽन्वितम् ॥८४॥
सर्वरंगावलिशोभं कल्पलताद्रुवेषितम् ।
विद्युत्प्रकाशभाव्याप्तं दिव्याऽऽदर्शादिशोभनम् ॥८५॥
दिव्यपरीदेवताभिः करमालाभिवर्धितम् ।
दिव्यास्तरणभूभागं दिव्यतोरणराजितम् ॥८६॥
बहुव्योमान्तरकक्षानारीवृन्दविलासितम् ।
गन्धसुगन्धसुरभिव्याप्तं सुस्पर्शवातिनम् ॥८७॥
सर्वपानादिसंक्लृप्तं सर्वसेवकवेत्रिणम् ।
सर्वमंगलपद्मादिस्वस्तिकादिसुशोभितम् ॥८८॥
रंगवल्लीवितानाद्यैर्मालाहारालिराजितम् ।
दिव्ययन्त्रध्वनिरम्यं गीतिगायनहर्षितम् ॥८९॥
वाद्यसुवाद्यगान्धर्वगणनृत्यादिहृद्धरम् ।
मनोहरं समस्ताभिर्विश्वकर्मकलादिभिः ॥९०॥
वह्निकुण्डादिभिर्देवासनोत्तमैर्विराजितम् ।
आभिषेकोपकरणैः पूजाद्रव्यैः समन्वितम् ॥९१॥
हव्यैर्विविधैर्दानाद्यैः सम्पूर्णं साधनादिभिः ।
राजविधिमहाद्रव्यैर्युक्तं वेषादिभिस्तथा ॥९२॥
राज्याभिषेकोपकरणाद्यैः समन्वितं शुभम् ।
स्वर्णरत्नविभूषाद्यैर्नृपयोग्यसुवस्तुभिः ॥९३॥
छत्रचामरवेत्राद्यैः पादपीठादिसंकुलम् ।
सौवर्णकलशैस्तीर्थजलभृतैर्विराजितम् ॥९४॥
मिष्टान्नफलपत्राद्यैः समित्कुशादिभिर्युतम् ।
दिव्यचन्दनवर्यैश्च गन्धसारैः सुगन्धितम् ॥९५॥
राजाधिराजशोभाढ्यं संकल्पसिद्धवस्तुदम् ।
चैत्यचेतनधिष्ण्यैश्च लक्ष्यसंख्यैर्विराजितम् ॥९६॥
महासिंहासनराजन्मध्यपश्चिमपीठकम् ।
एतादृशं सुवैकुण्ठप्रभं दिव्यं हि मण्डपम् ॥९७॥
कारयामास भगवान् धामयुक्तकलाकरैः ।
तथैव भोजनानां च पर्वतान् मिष्टसद्रसान् ॥९८॥
पयोऽमृतादिपानानां सरांसि चाप्यकारयत् ।
आवासान् क्लृप्तयामास सुखशय्यादिशोभनान् ॥९९॥
पानभोजनवेषाणां क्लृप्तीः सुखकरीस्तथा ।
दासदासीभृत्यसेवाकरान् ररक्ष तत्र च ॥१००॥
इत्येवं सर्वथा स्वामीकृष्णनारायणः प्रभुः ।
रचयामास योग्यानि विधेयानि तदाऽभितः ॥१०१॥
बद्रिके च तदा सर्वप्राणिनां सुप्रमोदनम् ।
उत्सवाश्चाऽभवन् हृत्सु महानन्दा निसर्गजाः ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीहरिः स्वपुत्रस्य मुकुन्दविक्रमस्य राज्याभिषेकं कर्तुं दिलावरीराजधानीं ययौ, मण्डपादीन् कारयामास, चेत्यादिनिरूपणनामा दशाऽधिकशततमोऽध्यायः ॥११०॥
N/A
References : N/A
Last Updated : May 08, 2021
TOP