तिष्यसन्तानः - अध्यायः ६८
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां चान्यां हितावहाम् ।
भरवाटोऽभवद्ग्रामे गुन्द्रके परमीरकः ॥१॥
परमीराऽभिधः सोऽयमजासहस्रपालकः ।
अजामात्रपयोवृत्त्या तथोर्णविक्रयादिभिः ॥२॥
अजाविक्रयवृत्त्या च जीवत्येव कुटुम्बवान् ।
अजामांसाशनश्चापि तथाऽजाबालभक्षकः ॥३॥
एवंविधोऽभवत् पापी सदाऽजापशुजीवनः ।
चारयत्येव सर्वाऽजाः सीमक्षेत्रादिषु नृणाम् ॥४॥
सस्वामिकेषु क्षेत्रेषु सस्यघासतृणानि च ।
यानि तान्यपि चौर्येण चारयत्यपि वै निशि ॥५॥
एवं दोषकरश्चाऽयं भरवाटोऽघसंभृतः ।
धर्मकर्मादिहीनः स कालपाशवशंगतः ॥६॥
ययौ यमालयं याम्यैर्नीतश्च तत्र रौरवे ।
असिपत्रवने कालपाशे सन्दशके तथा ॥७॥
अग्निज्वाले नरकेषु क्षिप्तो लालाशनेऽपि च ।
याम्यदुःखान्यनुभूय भूतले श्येनतां गतः ॥८॥
अरण्ये श्येनपक्षी स जातः पापावशेषतः ।
स तूड्डीय वनाद् वनान्तरं सिन्धुतटेऽगमत् ॥९॥
प्राप्तोऽयं शर्कराभूमिं यत्र कथा प्रवर्तते ।
तरुषण्डेषु विश्रान्तिं लेभे मध्याह्नके तदा ॥१०॥
तत्र तत्र च चटका मार्गयन् तूत्करे स्थिताः ।
भक्षयन्तीश्चटकाः स व्यलोकयत् सुदूरतः ॥११॥
साधूच्छिष्टौदनकणान् कृष्णप्रसादरूपिणः ।
भक्षयन्तीर्भक्ष्यचित्ताश्चटका वीक्ष्य वै द्रुतम् ॥१२॥
उत्पपात द्रुमात्तूर्णं पपात चटकोपरि ।
सहस्रशश्चटकास्ता उड्डीय भयतो द्रुतम् ॥१३॥
उत्पेतुरम्बरं त्वेकां धृतवान् भक्ष्यमुत्तमम् ।
चञ्च्वा तां मारयामास तावच्चटकावर्ष्मणः ॥१४॥
विनिर्ययौ दिव्यनारी सर्वाभरणभूषिता ।
स्वर्गस्य देवता यद्वत् कन्या तेजस्विनी शुभा ॥१५॥
पुष्पमालां करे धृत्वा साऽप्सरःसुन्दरी द्रुतम् ।
कथामण्डपमागत्य व्योममार्गेण पूजनम् ॥१६॥
प्रचक्रे श्रीप्रभे बद्रि संहितायाः समुत्सुका ।
विलोकिता समस्तैश्च मण्डपस्थैर्जनैस्तदा ॥१७॥
पृष्टा का त्वं नता चापि प्रत्युवाच जनान् प्रति ।
चटकाऽहं प्रसादान्नभक्षणात् पापवर्जिता ॥१८॥
पवित्रा पुण्यसंयुक्ता भवाम्यद्य जनास्त्विह ।
सतामुच्छिष्टमासाद्याऽभवं स्वर्गाय देवता ॥१९॥
अप्सरोवरतां प्राप्ता स्वर्गं प्रयामि चाधुना ।
चतुर्युगं दिवि स्थित्वा श्रीसंहिताऽर्हणोद्भवम् ॥२०॥
पुण्यमासाद्य यास्यामि वैकुष्ठं मुक्तविग्रहा ।
श्येनोऽयं तु पुरा चासीद्भरवाटो ह्यजापतिः ॥२१॥
अहमासमजा तस्य मृताऽत्र चटकाऽभवम् ।
तेन धृता मृता चास्मि प्रयामि स्वर्गमुत्तमम् ॥२२॥
अन्याश्चटका उड्डीय प्रयाताश्चाऽम्बरं द्रुतम् ।
ता अपि भरवाटस्याऽभवन्नजादिमण्डलम् ॥२३॥
ताः सर्वा अपि कालेन प्रसादभक्षिका यतः ।
निष्पापाः पुण्यवत्यश्च प्रयास्यन्ति परं पदम् ॥२४॥
श्येनोऽपि मम देहस्य प्रसादपावितस्य वै ।
भक्षणेन पुण्यबलो भविष्यति न संशयः ॥२५॥
शनैः शनैः कणभक्षी भविष्यत्युत्करे स्थितः ।
प्रसादकणभुग् भूत्वा वैकुण्ठं स प्रयास्यति ॥२६॥
इत्युक्त्वा चटका बद्रि नत्वा संपूज्य चामृतम् ।
वारि पीत्वा ययौ स्वर्गं सर्वेषां पश्यतां परी ॥२७॥
महाश्चर्यमभूत्तेषां पश्यतां देहिनां तदा ।
बद्रिके चाथ चटकां श्येनः स बुभुजे तदा ॥२८॥
ओदनं सुसुगन्धं च प्रसादोच्छिष्टमित्यपि ।
बुभुजेऽन्यान्नकणकान् शृतान् स्वादून् सुमोदवान् ॥२९॥
मिष्टान्नखण्डकाँश्चापि घृतपक्वान् सुरन्धितान् ।
कच्चरस्थान् नित्यमेवमागत्य श्येन आद तान् ॥३०॥
पूतात्मा चाऽभवच्छ्येनस्तत्याज मांसभक्षणम् ।
जातिस्मरोऽभवत्तेन मोक्षमैच्छन्निजात्मनः ॥३१॥
चटकानां तथा मोक्षमैक्षत् पुराऽजजन्मनाम् ।
नित्यं श्येनस्तरुषण्डे प्रतीक्षन् चटकागमम् ॥३२॥
प्रच्छन्नस्तिष्ठति क्रोडे दिवसे चोत्करोन्मुखः ।
चटकाश्च समायान्ति प्रसादोच्छिष्टवाञ्च्छया ॥३३॥
भक्षयन्त्येकचित्ताश्च तावत्पतति पक्षिराट ।
चटकं वा चटकां वा समादत्तेऽदनाय सः ॥३४॥
चटकाऽपि मृता तूर्णं देवो वा देवता तदा ।
भूत्वा यात्यम्बरं स्वर्गं प्रयात्येव मुदाऽव्ययम् ॥३५॥
एवं नित्यं प्रकुर्वाणश्चैकदाऽऽह तरौ स्थितः ।
चटका यूयमेवादावजा आस्त शुभा मम ॥३६॥
कर्मयोगेन जन्माऽत्र भवतीनां हि वर्तते ।
मया पूर्वं भवतीनां दुग्धान्यतिथये तथा ॥३७॥
साधुभ्यो धर्मकार्यार्थं नारायणाय चैकदा ।
अर्पितानि शिवरात्र्यां शिवस्नानार्थमित्यतः ॥३८॥
तेन पुण्यप्रतापेन भवत्यश्चटकास्त्विह ।
सञ्जाता अपि कृष्णस्य प्रसादोच्छिष्टभक्षिकाः ॥३९॥
पवित्राः पुण्यशालिन्यो भवथैव दिवार्थिकाः ।
स्मरन्तु पूर्वजन्माऽद्य स्पृष्ट्वा मां भरवाटकम् ॥४०॥
श्येनात्मानं ततो यान्तु दिवं वैकुण्ठमित्यपि ।
श्रीसंहिताकथां श्रुत्वा प्रपूज्य वाचकं तथा ॥४१॥
साधून् सम्पूज्य दिव्यान् वै मोक्षदान् यान्तु मोक्षणम् ।
इत्येवं बद्रिके जातिस्मरः श्येनो जगाद तान् ॥४२॥
तेऽपि सर्वे चटकाश्च नरा नार्यस्तदा शुभाम् ।
श्येनगिरं समाकर्ण्य महाश्चर्यपुरःसराः ॥४३॥
सस्मरुः पूर्वजन्मानि भरवाटस्य ता अजाः ।
तदा विश्वासमापन्ना नेमुः श्येनं पुरा पतिम् ॥४४॥
श्येनोऽपि सत्कृतस्तैश्च समाययौ तमुत्करम् ।
मिलितश्चटकेभ्यश्च चटकाभ्यश्च सादरम् ॥४५॥
जातिस्मराः समस्तास्ते वृत्तान्तान् जगदुर्मिथः ।
उत्सवं मेनिरे तत्र बुभुजिरे प्रसादकम् ॥४६॥
अहिंसाव्रतमास्थाय न्यूषुस्तरुगणे मिथः ।
उच्छिष्टं भक्षयन्तस्ते शृण्वन्तश्च कथामृतम् ॥४७॥
मासं मिथोऽवसन् तावन्मृत्युस्तेषामुपाययौ ।
सर्वे क्षपितकर्माणो निष्पापाश्चटकादयः ॥४८॥
वैशाखकृष्णद्वादश्यां मध्याह्नोत्तरमेव ह ।
प्रसादोच्छिष्टभक्षास्ते श्येनेन सहसा सह ॥४९॥
त्यक्तदेहा अभवँश्च बभूवुर्देवजातयः ।
सहस्रशः सुरा देव्यः सर्वाभरणभूषिताः ॥५०॥
तन्नेता भरवाटोऽपि देवेश्वरो व्यजायत ।
गृहीतकरमालास्ते गृहीतकुसुमास्तथा ॥५१॥
संहितां ते प्रपूज्यापि व्यासं प्रपूज्य वै द्रुतम् ।
धृत्वा धूलिं कथाभूमेर्जनित्वाऽऽश्चर्यमुत्तमम् ॥५२॥
जयशब्दानुच्चरन्तो ययुः स्वर्गं सहस्रशः ।
बद्रिके ते दिवोऽन्ते च वैकुण्ठं धाम शोभनम् ॥५३॥
प्रयास्यन्ति महाभागा मुक्ता मुक्तानिकास्तदा ।
तत्र नारायणं लक्ष्मीं प्रसेव्य कृपया हरेः ॥५४॥
गोलोकं संप्रयास्यन्ति राधाकृष्णकृपालयाः ।
तत्र प्रसाद्य राधां च कृष्णं प्रसाद्य वै ततः ॥५५॥
प्रयास्यन्त्यक्षरं धाम परमं शाश्वतं सुखम् ।
इत्येतत् कथितं तुभ्यं माहात्म्यं तु कथोद्भवम् ॥५६॥
प्रसादस्यापि माहात्म्यं यस्य पाठाच्छ्रुतेरपि ।
भुक्तिर्मुक्तिर्दिवं स्वेष्टं लभेत् कृष्णकृपालवात् ॥५७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽजापालभरवाटस्य श्येनजन्मनि, अजानां चटकाजन्मसु च, हरेः साधूनां च प्रसादोच्छिष्टभक्षणलाभेन कथालाभेन च मोक्षण-
मित्यादिनिरूपणनामाऽष्टषष्टितमोऽध्यायः ॥६८॥
N/A
References : N/A
Last Updated : May 07, 2021
TOP