तिष्यसन्तानः - अध्यायः २९
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
श्रूयतां च त्वया बद्रि माणिक्ये माधवि प्रिये ।
कथां त्वत्र कृतघ्नाया योषितो मुक्तिकारिणीम् ॥१॥
आसीदेका विभावर्यां पुर्यां सौराष्ट्रमण्डले ।
कुथली नामतो योषा दीना सगरजातिजा ॥२॥
एकाकिनी दीनबाला ह्यनाथाऽभवदार्त्तिनी ।
आबाल्यान्मृतजननीपितृबान्धवपालका ॥३॥
पञ्चवर्षाऽभवद् यावत् तावत् सा मृतरक्षका ।
गुरुणा सगराणां सा पोषिता वर्धिता गृहे ॥४॥
प्राप्तद्वादशवर्षा सा विवेद स्वां तु सागरीम् ।
न विप्रां तेन विप्राण्यां स्नेहो विच्छिन्नतां गतः ॥५॥
या माता गर्भधर्त्री स्यात् सैव स्नेहस्य भाजनम् ।
अन्या तु कृत्रिमस्नेहा कन्यास्नेहो न तत्र वै ॥६॥
वध्वाः स्नेहो जनन्यां यादृशः श्वश्र्वां न तादृशः ।
जनयित्र्यां यथा स्नेहः स्तन्यदायां न तादृशः ॥७॥
गर्भधर्त्र्यां यथा स्नेहस्तत्सपत्न्यां न तादृशः ।
गुरौ स्नेहो यथा लोके पितृस्नेहस्ततोऽधिकः ॥८॥
रक्तस्नेहाद्धर्मजन्यस्नेहो गौणो हि सर्वदा ।
आपत्काले रक्तजः सः धर्मजाद्वै विशिष्यते ॥९॥
कुथली सागरी कन्या विप्राण्यां भेददृष्टितः ।
वर्तनं त्वकरोत्तत्राऽऽज्ञायां प्रसेवनादिषु ॥१०॥
सर्वक्रियासु यद्वत् सा भ्रान्तचित्ता हि वर्तते ।
न करोति गृहकार्यं जलस्याऽऽहरणादिकम् ॥११॥
मार्जनं मज्जनं शय्यास्तरणं पेषणीभ्रमिम् ।
प्रातरुत्थाय विप्राण्या दत्तं भुक्त्वा तु सोत्सुका ॥१२॥
सगराणां गृहाण्येव प्रयाति खेलने रता ।
विमनस्का विप्रगृहे समनस्का तु सागरे ॥१३।
सागरीभिः प्रमदाभिर्बोधिता सागरीति सा ।
सागरी भवितुं तत्र चेच्छद् द्रुतं विवाहिता ॥१४॥
गुरुणा तु कृतं तस्या उपकारं न वेत्ति सा ।
आबाल्यात् पालिता सर्वदानैः सा वेत्ति नैव तत् ॥१५॥
गणयत्येव नैवाऽपि मातापितृसमौ द्विजौ ।
कृतं प्रपोषणं वर्षसप्तकं मनुते न तत् ॥१६॥
अबुद्धित्वात् स्वभावाद्वा बालात्वाद्वा प्रदूषणम् ।
कृतघ्नीत्वं समापन्नं सागरीसंगतोऽपि वा ॥१७॥
बद्रिके कृतलाभानां हननं नरकाय तत् ।
कृतानां हननं पुण्यहननं स्वर्गहं तथा ॥१८॥
गुरोगृहे तु कन्याया वासोऽयुतजनुःफलम् ।
अन्ययोनिप्रसूताया विप्राणीत्वं हि दुर्लभम् ॥१९॥
तदस्याः सुलभं जातं तथापि कर्मनोदिता ।
विप्रात्वं सा परित्यज्य सागरीत्वे मनोऽकरोत् ॥२०॥
अथ भार्या गुरोः कन्यामुपादिदेश शान्तये ।
पुत्रिके कर्मसंसारो शसनामूलपोषितः ॥२१॥
विषयाद्यशनो मोदप्रमोदवारिषेचितः ।
धर्माऽधर्मादिशाखश्च तृष्णादिपत्रपल्लवः ॥२२॥
भोगेहांऽकुरशोभाढ्यः सुखदुःखफलप्रदः ।
रागद्वेषकुसुमाद्यैराकृष्यन्तेऽत्र देहिनः ॥२३॥
आत्मा दोषविहीनश्च वृक्षतामेति संगतः ।
संसारी वासनाबद्धस्तत उच्यत आर्त्तिमान् ॥२४॥
बाल्ये त्वात्मा दोषहीनो निर्मलश्चेन्द्रियेश्वरः ।
यौवने दोषसर्वस्वो मलिनश्चेन्द्रियानुगः ॥२५॥
कन्या वापि कुमारा वा जिह्वारसातिबन्धनाः ।
युवत्यो वा युवानोऽपि यो निशि श्नाति वेगिनः ॥२६॥
स वेगो निर्जितो येन यया तौ मोक्षभागिनौ ।
नित्यसुखं परमेशधाम्नि तन्मोक्षणं महत् ॥२७॥
नारायणप्रसंगेन सतां योगेन कन्यके ।
मोक्षो भवति संसारान्निरयस्त्वन्यसंगतः ॥२८॥
गर्भे प्रपाचितो देहो बाल्ये मुहुश्च संस्कृतः ।
यौवने मलिनो मलवन्निम्नेन्द्रियमलाधिकः ॥२९॥
यदि वेगेन कामेन वासनयाऽतिवेगया ।
परदेहे नरदेहे मुग्धा स्यात् सा विनश्यति ॥३०॥
मातापितृस्नेहपात्रं कन्या कुमारवन्मता ।
तौ त्यक्त्या येतरं याति सा कृतघ्ना भवेदिह ॥३१॥
अदीयमाना कन्या वै नेच्छया गन्तुमर्हति ।
वधूर्भूत्वा प्रेषिता वै धर्मेण याति कान्तगा ॥३२॥
त्वं विप्रौ पोषकौ त्यक्त्वा नित्यं यासि गृहान्तरम् ।
नाद्य ते समयस्तादृग् विनाऽऽज्ञां याहि मा तथा ॥३३॥
कन्यकानां परगृहे चिरयोगो भयावहः ।
हावभावैश्च पुंयोगैर्मर्यादानाश आपतेत् ॥३४॥
विवाहवर्जिता कन्या भ्रंशं लभेन्न संशयः ।
सागरी त्वं जन्मतोऽपि विप्रा त्वं ब्राह्मणीगृहे ॥३५॥
उत्पन्नफलवत् कन्ये पवित्रा त्वं हि भूसुरी ।
देहस्ते निर्मलो जातो विप्रपोषणकारितः ॥३६॥
विप्राणीयोगमुत्सृज्य सागरीगा तु मा भव ।
विप्राणीं मां विहायैव यदि पुत्रि गमिष्यसि ॥३७॥
कृतध्नीत्वं तदा प्राप्य भ्रश्यसे नात्र संशयः ।
इत्युक्ता विप्रपत्न्या सा कन्या पप्रच्छ मातरम् ॥३८॥
कीदृश्यस्ताः कृतघ्न्यश्च वद मे मातरञ्जसा ।
अथ माता विप्रपत्नी नाम्ना सा त्वात्मशेमुषी ॥३९॥
पुत्रीं प्राह कृतानां या हन्त्री कृतघ्निका तु सा ।
शृणु पुत्रि तथा नार्यो भवन्तीह नरा अपि ॥४०॥
तेन पापेन निरयान् भुञ्जते मरणोत्तरम् ।
मातृपुष्टा बालिका या मातरं नैव सेवते ॥४१॥
सा कृतघ्नी प्रथमैव द्वितीया मातृदुःखदा ।
पोषिताऽपि च कन्या या विपरीता विरोधिनी ॥४२॥
सा कृतप्ना कुटुम्बस्य दोषवक्त्री कृतघ्निका ।
गृहच्छिद्रं बहिर्वक्ति क्लेशं करोति तेन या ॥४३॥
सा कृतघ्ना सदा प्रोक्ता हन्त्री कीर्तेः कुटुम्बिनाम् ।
या प्राप्तयौवना याति विनाऽऽज्ञां परमन्दिरम् ॥४४॥
स्वतन्त्रस्वविहारा सा कृतघ्ना कुलनाशिनी
या विधिं तु समुत्सृज्य वृणुते तु स्वयंवरम् ॥४५॥
सा पित्रोर्दुःखदा चेत् स्यात् कृतघ्नात्वेन दूषिता ।
गृहकार्याणि या त्यक्त्वा परकार्यपरायणा ॥४६॥
गृहकार्यं महतीनामर्थे रक्षति साऽपि सा ।
वधूर्भूत्वा कान्तसेवां या करोति न मानिनी ॥४७॥
सा कृतघ्ना तथा श्वश्रूक्लेशिनी तद्विधा तथा ।
सपत्नीदुःखदा या च गृहनारी विरोधिनी ॥४८॥
कान्तसम्बन्धिकलिदा गृहक्लेशाभिरोपिणी ।
कृतघ्ना सा सदा बोध्योदासीना गृहकर्मसु ॥४९॥
या वधूं सेविकां नैव श्वश्रूः स्नेहयति क्वचित् ।
सा वृद्धा दुःखदा वध्वाः कृतघ्ना गृहशासिनी ॥५०॥
या बालेषु पक्षपातं भोजनादौ विशेषतः ।
अयोग्यं प्रकरोत्येषा कृतघ्ना ज्ञानवर्जिता ॥५१॥
कृतोपकारं साहाय्यं चाऽवमत्याऽतिवर्तिनी ।
दोषान् वक्ति विरोधेन कृतघ्ना सा सदा मता ॥५२॥
पुष्टा तुष्टा पालिता च पालकं सा विहाय चेत् ।
प्रयात्यन्यत्र पशुवत् सा कृतघ्ना सदा मता ॥५३॥
अभ्युदयः कृतो येन शिक्षान्नधनमन्दिरैः ।
तं चेदापत्सु सहसा क्षिपेद् या सा कृतघ्निका ॥५४॥
गुरुं देवं पालकं च पितरं मातरं पतिम् ।
या त्वापत्सु प्रक्षिपति कृतघ्ना सा प्रकीर्तिता ॥५५॥
कृतापकारं वदति नोपकारं कदाचन ।
सा कृतघ्ना कृतहन्त्री निरयान् याति भामिनी ॥५६॥
आपद्विनाशकस्याऽपि तदापत्तौ न पक्षदा ।
प्रत्युताऽनिष्टसंयोक्त्री सा कृतघ्ना मता सदा ॥५७॥
परेशेनाऽर्पितो देहो मानवो मोक्षलब्धये ।
तं परेशं प्रविस्मृत्य वर्तते सा कृतघ्निका ॥५८॥
विवाहः कारितो येन विवाहिता च येन वा ।
तयोर्गुणं न गृह्णाति दोषदा सा कृतध्निका ॥५९॥
अध्यापिता शिक्षिता या तथाऽऽपत्तारिता तु या ।
तद्गुणं नैव जानाति विरोधिनी कृतघ्निका ॥६०॥
धर्मार्थं मानुषो देहो धर्मं जानाति नैव या ।
अधर्मार्थकृतध्याना सा तु धर्मकृतघ्निका ॥६१॥
धर्मार्थकाममोक्षेषु साहाय्यदास्तु ये मताः ।
तेषामपकृतौ लग्ना या सा कृतघ्निका सदा ॥६२॥
कृतघ्नानां निरया वै भवन्ति दुःखदाः सदा ।
याम्यलोके परत्रापि सर्वं तासां विहन्यते ॥६३॥
सुखं न लभते क्वापि कृतघ्ना पापपर्वता ।
कृतज्ञा लभते पुण्यं स्वर्गं सुखं महोत्सवम् ॥६४॥
कृतं जानाति या कन्या नारी वृद्धा नरोऽपि वा ।
उपकारं प्रकुर्याच्च सा स्यात् स्वर्गनिवासिनी ॥६५॥
अत्र पुत्रप्रपौत्राद्यैः शोभते वंशविस्तरैः ।
धनधान्याम्बरसम्पत्स्वर्णाद्यैरभिवर्धते ॥६६॥
कृतघ्नाया विनाशं वै याति सर्वं समूलकम् ।
पुत्रि त्वं मा कृतघ्ना स्या निरयान् मा प्रयाहि च ॥६७॥
मम सन्तोषदा भूत्वा प्रवर्धयाऽतिसम्पदा ।
यशसा वंशवृद्ध्याऽपि स्वर्गेऽपि च ततोऽधिका ॥६८॥
इत्युक्ता कुथली कन्या सागरी बीजदोषतः ।
न मेने सा मातृवाक्यं पापं या मनुते नहि ॥६९॥
न दोषं मनुते तत्र त्यजने चाश्रयान्तरे ।
निषेकदोषभावेन चाऽवमत्य वचो हि तत् ॥७०॥
प्राह प्रतिवचस्तत्र मातरं मतिविभ्रमा ।
मातः कृतघ्नताः सर्वा आकर्णिता मुखात्तव ॥७१॥
स्वार्थस्ते मयि कोऽस्त्यत्र सागर्यां भिन्नयोषिति ।
भिन्नवर्णोद्भवायां च भिन्नाचारादियोषिति ॥७२॥
न मे भिक्षुगृहे वृत्तिर्भिक्षुकी न भवाम्यहम् ।
अहं सगरजातीया सागरं कंचिदाप्नुयाम् ॥७३॥
तत्र श्रेयो मम चास्ति न विप्रे स्वामिनि क्वचित् ।
बालिकाश्चाप्यनाथाश्च सर्वैः पोष्यास्तु धर्मतः ॥७४॥
कृतोऽयं सर्वथा न्यायो वृद्धैश्चाऽप्रतिदानवत् ।
बालानामुपकारो यः कर्तव्यं तत् समुच्यते ॥७९॥
तत्र नास्ति कृतघ्नत्वं कन्या धनं परार्थकम् ।
मातः क्षमां विधेह्यत्र मज्जातौ तु प्रयाम्यहम् ॥७६॥
न भिक्षावारिबहुले विप्रे प्रयामि कर्हिचित् ।
इत्युक्त्वा मातरं नत्वा ह्यवमत्य च तद्वचः ॥७७॥
प्रत्युत दूषणं दत्वा विप्राण्या पालनं कृतम् ।
अविप्रायास्तु विप्राण्या पालनं तद्धि दूषणम् ॥७८॥
यद्वा परोपकर्तव्यं ममत्ववर्जितं वृषः ।
कृतो भवत्या तत्राऽयं त्वाग्रहः पुत्रिकात्मकः ॥७९॥
कथं वै क्रियते साध्वि पूज्ये विमूलको मयि ।
मृद् भूमौ वारि सलिले वह्निस्तेजसि वाऽनिले ॥८०॥
स्वस्वतत्त्वेषु विश्रामं लभन्ते नेतरे क्वचित् ।
तथाऽहं सागरी कन्या सागरे शान्तिमेमि ह ॥८१॥
प्रयामि सागरं वंशं देहि वा न प्रदेहि माम् ।
इत्युक्त्वा बद्रिके सा तु नत्वा तदात्मशेमुषीम् ॥८२॥
कुथली सम्परित्यज्य विप्रगृहं तु सात्त्विकम् ।
राजसं सागरं वेशं स्वयं गत्वा समाश्रिता ॥८३॥
कृतघ्निकेति ब्राह्मण्या तदोक्ता सा तथाविधा ।
पोषिकां मातरं त्यक्त्वा यतोऽन्यत्र स्वयंगता ॥८४॥
कृतघ्नात्वमहादोषं प्राप्ता सा कन्यका ततः ।
किन्तु विप्रगृहे नित्यं देवप्रसादभोजिनी ॥८५॥
देवार्चनादिसेवाभिर्बहुपुण्यवती ह्यभूत् ।
तस्याः पुण्यप्रतापेन कुथली प्राप्तयौवना ॥८६॥
विभावरीनगर्यास्तु राज्ञा नाम्ना विरामिणा ।
अनाथा सा सगराय स्वभृत्याय समर्पिता ॥८७॥
नाम्ना धर्मकरेणाऽपि सगरेण विवाहिता ।
राज्ञीसेवापरा जाता मान्या सम्पत्सुभोगिनी ॥८८॥
मोदते भोगसम्पत्त्या धर्मकरगृहे स्थिता ।
चिरवर्षाणि सा भोगान् बुभुजे पुण्यनिर्मितान ॥८९॥
विंशतिः पुत्रकाश्चास्याः कन्यकाः सप्त चाऽभवन् ।
पुण्यस्तरोऽभवत्तस्याः सान्तः पापस्तरस्ततः ॥९०॥
सम्प्राप्तस्तु कृतघ्नात्वभोगो विप्राणिकोदितः ।
रुग्णा सा त्वेकदा जाता शीतपीडान्विता ज्वरैः ॥९१॥
पीडिता सा रुरोदाऽपि मासोत्तरं विशक्तिका ।
उपचाराः कृताः पुत्रैः स्वामिना तत्कुटुम्बिभिः ॥९२॥
तथापि न ज्वरशान्तिरभवत् सुखमाप न ।
राजयक्ष्माऽभवत्तस्याः सर्वनाशकरोऽथ सा ॥९३॥
सस्मार ब्राह्मणीं तत्र मातरं पोषिकां सतीम् ।
तदुक्तं तत् कृतघ्नात्वं तत्फलं चागतं मम ॥९४॥
कालेन भावि भाव्यं च भवितव्यं न लीयते ।
पुत्रैः पुत्र्यादिभिः सा तु सेविता दूरतो भयात् ॥९५॥
राजयक्ष्मभयान्नाऽन्ये पार्श्वे त्वायान्ति कर्हिचित् ।
एवं सा वर्षदशकं पीडिता राजयक्ष्मणा ॥९६॥
कृतघ्नताफलं तस्याः प्राप्तं नाऽऽप्नोति चान्तताम् ।
पतिता शयने त्वास्ते पञ्जराभाऽभवद्धि सा ॥९७॥
अथ पुत्रं ज्येष्ठमेव प्राह सा विगताशया ।
यथा मोक्षो भवेन्मे च यथा मे मरणं भवेत् ॥९८॥
तथा कुरु मदर्थं वै कृतघ्नत्वनिवारणम् ।
पुत्रस्तस्या द्रुतं त्वायाल्लोमशस्याश्रमं प्रति ॥९९॥
प्रार्थयामास तं श्रेष्ठमहर्षिं मोक्षणं प्रति ।
यद्वा रोगस्य देहस्य चात्मशक्तिस्तु संभवेत् ॥१००॥
लोमशस्तं ज्येष्ठसुतं तिरश्चायनसंज्ञकम् ।
जगाद हितकृद्वाक्यं दयया पापनाशकम् ॥१०१॥
मन्त्रं गृहाण कृष्णस्य मात्रे देहि द्रुतं तथा ।
अश्वपट्टजले स्नात्वा तीर्थवारि प्रदेहि च ॥१०२॥
अनादिश्रीकृष्णनारायणपादजलं शुभम् ।
रोगाणां भवरोगाणां नाशकं संप्रदेहि च ॥१०३॥
इत्युक्त्वा प्रददौ मन्त्रं कृपया पापनाशकम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥१०४॥
मन्त्रं प्राप्य सरो गत्वा स्नात्वा तीर्थजलं शुभम् ।
लब्ध्वाऽनादिकृष्णनारायणपादजलं दधे ॥१०५॥
'ओं श्रीकृष्णनारायणेतिजपार्थं तु मालिकाम् ।
लब्ध्वा श्रीबालकृष्णात् स ययौ स्वमातरं प्रति ॥१०६॥
मात्रेऽर्पितं जलं दिव्यं मन्त्रश्च मालिका रजः ।
विभावर्यां कुथली सा समाप्ताऽघाऽभवद् द्रुतम् ॥१०७॥
पीडा नष्टाऽभवत्तस्या राजयक्ष्मा तु मूर्तिमान् ।
बहिर्निर्गत्य देहात्तां कृतघ्नतास्त्रिया सह ॥१०८॥
हसन्नत्वा ययौ शीघ्रं बर्बुरारण्यकं प्रति ।
कुथली रोगरहिता समाधौ संव्यलीयत ॥१०९॥
ददर्श तत्र देवेशं कृष्णनारायणं प्रभुम् ।
बालकृष्णं निकटस्थं दिव्यं राधारमापतिम् ॥११०॥
प्राणमत् साऽतिभावेन पपात कृष्णपादयोः ।
चुचुम्ब बहुधा कृष्णपादौ समाघिसंस्थिता ॥१११॥
कृतघ्नतायाः पापं ते विगतं कृपया मम ।
स्वस्थाऽसि भज गोविन्दं देहान्ते याहि चाऽक्षरम् ॥११२॥
इत्युक्त्वा प्रययौ कृष्णः स्वस्था सा बहिराययौ ।
उत्थाय सर्ववृत्तान्तं पुत्रादिभ्यो न्यवेदयत् ॥११३॥
ततः सर्वेऽनादिकृष्णभक्ता जाताः समन्ततः ।
लक्षवर्षाणि कुथली जीविता मोक्षणं गता ॥११४॥
एवं बद्रिप्रिये देवि कृतघ्न्याः पापनाशनम् ।
मोक्षणं च कृतं कृष्णनारायणेन योषितः ॥११५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने विभावरीपुरीस्थायाः कुथलीसागर्या मृतपितृबान्धवाया विप्रगृहे वर्धनं, स्वातन्त्र्येण कृतघ्नितादोषेण सागरपत्नीत्वं, कृतघ्नतायाः फलं राजयक्ष्मा, श्रीकृष्णनारायणाश्रयेण राजयक्ष्मरोगनाशः, मोक्षणं चेत्यादिनिरूपणनामा नवाधिकविंशतितमोऽध्यायः ॥२९॥
N/A
References : N/A
Last Updated : May 06, 2021
TOP