संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ८३

तिष्यसन्तानः - अध्यायः ८३

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
ततो बद्रीप्रिये तत्र श्रीकृष्णसेवनेच्छया ।
रुद्रः कालस्तथा मृत्युरागत्य च प्रणम्य च ॥१॥
सहसा श्रीकृष्णनारायणं भीताश्च कम्पिनः ।
ऊचुः प्रसन्नतालब्ध्यै सेवाज्ञां प्राप्नुमिच्छवः ॥२॥
हरेकृष्ण कृपासिन्धो दासाः स्मो वयमत्र ह ।
नियोजयाऽस्मान्नाज्ञायां कुर्मो द्रागेव सिद्धये ॥३॥
श्रुत्वा प्राह हरिस्तान् वै कार्यं दास्यं तु मेऽधुना ।
युद्धे चात्र महाकालो विशतु नागविक्रमे ॥४॥
नन्दकुबरे रुद्रश्च विशत्वेव महेश्वरः ।
मृत्युर्विशतु बाणेषु शस्त्रेषु मृत्युपार्षदाः ॥५॥
सैन्येषु शक्तयः सर्वाः शीघ्रं विशन्तु चाऽव्ययाः ।
नागविक्रमपक्षाणां रक्षणं सर्वथा भवेत् ॥६॥
नन्दिभिल्लस्य दर्पस्य फलं तत्पक्षगामिषु ।
युद्धहोमात्मकं चास्तु कृतं भुंक्ते यतो जनः ॥७॥
मात्सर्यदोषदग्धोऽयं नन्दिभिल्लो हि युध्यति ।
अपराद्धं ततस्तेन नागविक्रमभूभृतः ॥८॥
इत्युक्त्या भगवान् शंखं दध्मौ युद्धप्रवर्तकम् ।
इन्द्रवज्रोऽपि शंखं स्वं दध्मौ युद्धप्रवर्तकम् ॥९॥
नन्दकुबरः शंखं स्वं दध्मौ युद्धप्रवर्तकम् ।
सैन्यानां च तदा भेरीशब्दा गगनभेदिनः ॥१०॥
युद्धप्रवर्तका बद्रि भयंकरास्तदाऽभवन् ।
शौर्यदा बलदाश्चासन् निनादा मेघवत्तदा ॥११॥
सहैव तु निनादैश्च शराणां वर्षणं मिथः ।
मिथोऽभवच्च सैन्यानां नन्दकुब्रेन्द्रवज्रयोः ॥१२॥
बद्रिके क्षणमात्रेण बाणवृष्ट्याऽम्बरं तदा ।
आच्छादितं समस्तं वै सैन्यान्याच्छादितान्यपि ॥१३॥
बाणा योद्धुशरीरेषु दृश्यन्ते 'लग्नभोगिनः ।
सहस्ररश्मयो यद्वल्लग्ना आदित्यमूर्तिषु ॥१४॥
किंशुका इव दृश्यन्ते देहा योद्धुशरैर्हताः ।
अर्धचन्द्रैः फलभागैस्तीक्ष्णाग्रैः खण्डितांगिनः ॥१५॥
भिन्ना द्वेधा विलोक्यन्ते प्रेतास्तु विकृता इव ।
तड्फडायन्त उच्छ्रित्योच्छ्रित्योत्पतन्ति भूतले ॥१६॥
छिन्नकण्ठा विमूर्धानः शवाः क्षिपन्ति सायकान् ।
विलोक्यन्ते च ते तत्र राहवश्चाहवेऽभितः ॥१७॥
बद्रिके तत्र वै नन्दिभिल्लो बाणशतैर्द्रुतम् ।
अताडयत्तदा नागविक्रमं तीक्ष्णधारकैः ॥१८॥
नागोऽपि नन्दिनं बाणैः पञ्चशतैः शिलीमुखैः ।
तताड परितः शीघ्रमाश्चर्यं तदभून्महत् ॥१९॥
नन्दी विच्छिद्य बाणाँस्तान्निजबाणसहस्रकम् ।
मुमोच क्षणमात्रेण नागदेहेऽतिवेगतः ॥२०॥
नागोऽपि तानर्धचन्द्रशरैश्छित्वाऽतिलाघवात् ।
मुमोचाऽर्धचन्द्रसमान् बाणान् नन्दिनि चाहवे ॥२१॥
छेदयामास मुकुटं ज्यां धनुश्चापि नन्दिनः ।
नन्दी जग्राह सहसा धनुश्चान्यन्महत्तरम् ॥२२॥
शरान्मुमोच बहुधा नागप्राणहराँस्तदा ।
नागः सर्वान्प्रविच्छिद्य ताडयामास भल्लकैः ॥२३॥
कुन्तलैर्विविधैश्चापि शरैर्भिन्नाग्रधारकैः ।
धनुर्नष्टं पुनर्नष्टं तृतीयं च चतुर्थकम् ॥२४॥
तदा नन्दी महाशक्तिं जग्राह शतघण्टिकाम् ।
दिव्यां लम्बां बहुवेगां सूक्ष्माग्रां विषसंभृताम् ॥२५॥
मुमोच बहुवेगेन महीं पद्भ्यां निपीड्य ह ।
पपात सा नागवक्षोमध्ये यावत्तु तावता ॥२६॥
हस्तेनैव समग्राह्य नागस्तां सममोडयत् ।
द्वेधा प्रमोड्य पृथ्व्यां तां निचिक्षेप जगर्ज ह ॥२७॥
वीक्ष्य नन्दी महाक्रुद्धो जग्राहाऽन्यां महोज्ज्वलाम् ।
शक्तिं चिक्षेप सहसा नागकण्ठविघातिनीम् ॥२८॥
तां शक्तिं त्वापतन्तीं तु नागो लाघवनोदितः ।
स्वशक्त्या तूर्णमहनद् द्वेधा भूत्वा पपात सा ॥२९॥
तृतीयां जगृहे यावन्नन्दी तावत्तु नागराट् ।
मुमोच शक्तिं सहसा नन्दिवक्षसि वै बली ॥३०॥
जगाम मूर्छा नन्दी च जगर्ज नागविक्रमः ।
सूतस्तं सहसादूरं निन्ये सरथनन्दिनम् ॥३१॥
अथ कृष्णरथं चान्ये नन्दिसेनेश्वरास्तदा ।
ताडयामासुरत्यर्थं बाणैर्भल्लैश्च कुन्तलैः ॥३२॥
अर्धचन्द्रैर्गोलकैश्च क्षेपणैः शरकोटिभिः ।
दुर्भिक्षाणी महाशक्तिर्या रथं परितः स्थिता ॥३३॥
लग्नाऽऽसीत् सा सर्वबाणान् शास्त्राणि विविधान्यपि ।
धृत्वा धृत्वा मुखे निगिलत्येव नाशयत्यपि ॥३४॥
हरिस्तु नागसैन्यानां घातकान् कोटिशः शरान् ।
निजप्राणैश्चातिशीघ्रं भेदयत्येव सर्वथा ॥३५॥
भक्तरक्षां करोत्येव नागसैन्यं न हन्यते ।
हन्यन्ते नन्दिसैन्यानि महाश्चर्यमभूद्धि तत् ॥३६॥
तावद् राजा गतमूर्छश्चाजगाम रणाजिरे ।
सरथः शस्त्रसम्पन्नो नारायणरथोपरि ॥३७॥
प्रैरयत्तीक्ष्णशस्त्राणि मुमोच बाणसञ्चयान् ।
शक्तीश्चिक्षेप बहुधा नाराचान् स मुमोच ह ॥३८॥
हरिः सर्वान् प्रविच्छिद्य मुमोचैकं शरं द्रुतम् ।
अभेद्यमजरं चाप्यनिवर्तनं दृढं तदा ॥३९॥
लग्नः शरः स उरसि नन्दी पपात भूतले ।
सूतः शीघ्रं तमुत्थाप्य कृत्वा रथे ययौ बहिः ॥४०॥
हाहाकारः क्षणं जातः सैन्ये नन्दिप्रयोजिते ।
अथेन्द्रवज्रः सैन्येशो हरिं नागं च कूबरम् ॥४१॥
सर्वान शरैस्तीक्ष्णधारैरताडयच्छतैः शतैः ।
हरिः सर्वांश्च तद्बाणान् चिच्छेद करलाघवात् ॥४२॥
निजबाणैः सर्वसैन्यरक्षां करोति चाभितः ।
कुबेरो दशबाणैश्च त्विन्द्रवन्त्रं तताड ह ॥४३॥
इन्द्रस्तु शतबाणैस्तं कुबरं प्रतताड ह ।
कुबरः शतबाणैश्च प्रतितताड वज्रकम् ॥४४॥
इन्द्रवज्रो द्रुतं शक्तिं चिक्षेप प्राणहारिणीम् ।
आपपात नन्दकुब्रं जघानोरसि वेगिनी ॥४५॥
स्पृष्टमात्रा धृता शीघ्रं भुग्नीकृता करेण सा ।
कुबरेण द्रुतं यावत्तावदन्या समागता ॥४६॥
धृत्वा तामपि वेगेनाऽमोडयत् कुबरो बली ।
तावत्तृतीयशक्तिः प्रागता ह्यति भयङ्करी ॥४७॥
रुद्रः कुबरगः शक्तिं जग्रासाऽपाचयत्तथा ।
महाश्चर्यमिदं दृष्ट्वा चेन्द्रवज्रो भयं ह्यगात् ॥४८॥
मुमोच स गदां दिव्यां महास्तम्भनिभां पराम् ।
मस्तकाद्रिस्थिरभावां काञ्चनपट्टशोभिताम् ॥४९॥
आकाशे तूर्णमागत्य रथे पपात शृंगवत् ।
रथः प्रचूर्णितो नन्दकुबरस्याऽऽप भूतलम् ॥५०॥
कुबरो रथमध्यस्थो रुद्ररक्षाप्ररक्षितः ।
अभग्नांगो निर्ययौ वै पतत्प्रासादतो यथा ॥५१॥
तावद् राजा नन्दिभिल्लः स्वस्थो रणेऽभवत् पुरः ।
नागं नाशयितुं तूर्णं मुमोच नागपाशकान् ॥५२॥
हरिस्तत्र गारुडान् वै प्रेरयामास भक्षकान् ।
नागाः प्रभक्षिताः सर्वे गरुडैस्तत्र वै क्षणात् ॥५३॥
नन्दी विद्युच्छरं तत्र मुमोच नागविक्रमम् ।
नागो मुमोच ताम्रास्त्रं विद्युत्तत्र लयं गता ॥५४॥
नन्दी मुमोच वन्ह्यस्त्रं सर्वसैन्यभयंकरम् ।
नागो मेघास्त्रबाणैस्तान् वह्निशराननाशयत् ॥५५॥
नन्दी मुमोच क्रुधितो ब्रह्मास्त्रं त्वनिवर्तनम् ।
हरिर्जग्राह सहसा ब्रह्मास्त्रेण तदस्त्रकम् ॥५६॥
नन्दी मुमोच च तदा पाशुपतास्त्रमुल्बणम् ।
नागस्थश्च महाकालो भक्षयामास पाशवम् ॥५७॥
संहारास्त्रं तदा नन्दी मुमोच तैजसं महत् ।
कुबरस्थो महारुद्रः संहारास्त्रमुपाहरत् ॥५८॥
कुबरस्तु तदा शक्तिं शतभारां नगात्मिकाम् ।
उत्थाप्यापीड्य पृथिवीं मुमोच वज्रकं प्रति ॥५९॥
चकम्पे पृथिवी निम्नीभूता क्षणं तु बद्रिके ।
इन्द्रवज्रं गता तूर्णं प्रविष्टा हृदये तदा ॥६०॥
इन्द्रवज्रः पतन् पृथ्व्यां वज्रं मुमोच कूबरम् ।
वज्रं छिन्नं महावज्रैस्तदा नागेन तत्क्षणम् ॥६१॥
इन्द्रवज्रः पपातैव भिन्नवक्षा ममार ह ।
हाहाकारो महाञ्जातो भिल्लसैन्ये तु बद्रिके ॥६२॥
कुवरस्य जयनादा अश्रूयन्त समन्ततः ।
अथ तूर्णं घातवज्रनामा भिल्लचमूपतिः ॥६३॥
रथस्थश्चाययौ तूर्णं रणांगणेऽतिगर्वितः ।
भिल्लसैन्ये महाघोषास्ततोऽभवन् समन्ततः ॥६४॥
घातवज्रोऽपि युयुधे नन्दकुबरकेन वै ।
दशबाणान् सहयोगान् मुमोचैकेन तन्तुना ॥५५॥
चिच्छिदे नन्दकुबरो दश तानागतान् द्रुतम् ।
प्रतिमुमोच कुबरो बाणान् विंशतिसंख्यकान् ॥६६॥
घातवज्रो द्रुतं छित्वा तान् सर्वान् लीलया ततः ।
मुमोच त्रिंशदपरान् चिच्छेद कुबरोऽपि तान् ॥६७॥
कुबरो भल्लकान् दीर्घान् मुमोच घातवज्रकम् ।
घातवज्रो गदामारैः सर्वान् भल्लान् व्यपोथयत् ॥६८॥
गदां सर्वस्वसामर्थ्यैश्चिक्षेप कुबरोपरि ।
कुबरस्ता गदां तूर्णं गदयाऽधो व्यपोथयत् ॥६९॥
चिक्षेप तु शरान् शीघ्रं चिच्छेद ज्यां च कार्मुकम् ।
हस्तं प्रकोष्ठे चिच्छेद वामं चन्द्रमुखैः शरैः ॥७०॥
एकहस्तो घातवज्रः खङ्गमादाय चोत्पतन् ।
रथादुत्तीर्य कुबरं प्रत्यधावद् रुषान्वितः ॥७१॥
तावत्तु कुबरो दृष्ट्वा समापतन्तमुल्बणम् ।
सखङ्गं वारयामास बाणैर्वेगाभियायिभिः ॥७२॥
तथापि तप्तरक्तोऽसौ न्यवर्तत न धावनात् ।
तदा श्रीकुबरः खङ्गमादाय रथतो द्रुतम् ॥७३॥
अवतीर्य ददौ युद्धं खङ्गेन भ्रमशोभिना ।
द्वयोः सैनपयोर्युद्धं द्रष्टुं देवास्तदाम्बरे ॥७४॥
क्षणं स्थिरा अभवँश्च प्राणयोधनसद्रसाः ।
कुबरो नैजखङ्गेन द्वेधा खड्गं तदीयकम् ॥७५॥
कृत्वा तूर्णं ददौ खड्गं द्वितीयं योधनाय ह ।
सोऽपि धृत्वा विविधैर्वै योधनस्य प्रकारकैः ॥७६॥
बहुधा युयुधे तत्र मण्डलानि प्रकाशयन् ।
अथ क्षणेन खड्गेन कुबरस्य तु मस्तके ॥७७॥
घातं चक्रे घातवज्रस्तावत्तु कुबरो निजम् ।
खड्गमुत्प्लुत्य कण्ठेऽस्य स्कन्धे वक्षसि चोदरे ॥७८॥
कट्यां सक्थ्नीत्यारपारमेकघातेन चानयत् ।
द्वेधा भूत्वा घातवज्रः पपात सैन्यसन्निधौ ॥७९॥
हाहाकारोऽभवन्नन्दिभिल्लसैन्ये समन्ततः ।
नागविक्रमसैन्येन शक्तिगणाधिवासिना ॥८०॥
दशसाहस्रयोद्धारो हतास्तावत्तु बद्रिके ।
नन्दिभिल्लस्य सैन्यानामेवं घातो बभूव ह ॥८१॥
अथाययौ तृतीयो वै हरिद्वज्राख्यसैन्यपः ।
स्वर्णवर्मधरो वीरः पुष्टो युवाऽद्रिशृङ्गभः ॥८२॥
रथस्थो भल्लकान् शीघ्रं मुमोच कुबरं प्रति ।
कुबरस्थो हरो रुद्रोऽगिलत् सर्वास्तु भल्लकान् ॥८३॥
हरिद्वज्रस्ततस्तूर्णं शक्तिं मुमोच घातिनीम् ।
कुबरस्थो हरस्तां चाऽगिलत् सर्वामपाचयत् ॥८४॥
हरिद्वज्रस्ततस्तूर्णं सिंहास्त्रं मन्त्रितं तदा ।
मुमोच सहसा सिंहाः सहस्रशोऽभवन् मृधे ॥८५॥
गगने भूतले सैन्ये रथेषु वाहनेष्वपि ।
क्षणमात्रेण सिंहानां सैन्यानि सर्वतोऽभवन् ॥८६॥
कुवरस्थो महारुद्रस्तावद् देवीं निजां सतीम् ।
सर्वसैन्यस्वरूपां संभवितुं तु समादिशत् ॥८७॥
शिवांगनाऽभवत् तूर्णं सैन्यात्मिका सुशोभना ।
सर्वशस्त्रधरा सर्वात्मकस्त्रीरूपदर्शिनी ॥८८॥
तां मातरं सतीं दृष्ट्वा सिंहास्तद्वाहनानि वै ।
निपेतुः पादयोस्तूर्णं तदाश्चर्यमभून्महत् ॥८९॥
देव्या योगमहास्त्रेण शार्दूला विलयीकृताः ।
वीक्ष्यैतत्तु हरिद्वज्रोऽमोचयन्मोहनास्त्रकम् ॥९०॥
बालकृष्णो मोहनास्त्रं जग्रास रणमध्यगः ।
अथ भीतो हरिद्वर्णो विषास्त्रं प्रमुमोच ह ॥९१॥
एकबाणेन परितो व्योमभागे विषं विषम् ।
विषवायुमयं सर्वं प्रासरन्नेत्रनाशकम् ॥९२॥
प्राणरोधकमेवापि मृत्युकरं विनाशकम् ।
कुबरस्थस्तदा रुद्रो विषं जहार योगतः ॥९३॥
निर्विषं वै कुबरस्य सैन्यं सर्वं व्यजायत ।
अथ श्रीकुबरो धृत्वा शक्तिं मुमोच नाशिकाम् ॥९४॥
हरिद्वज्रो विभिद्यैनां मुमोच शक्तिमुत्तमाम् ।
कुबरोऽपि विभिद्यैतां गुर्वी गदामवासृजत् ॥९५॥
हरिद्वज्रो गदां धृत्वा कुबरं प्रत्ययोजयत् ।
कुबरस्तां पुनर्भूत्वा चिक्षेप बहुवेगिताम् ॥९६॥
चिक्षेप पश्चात्तस्यास्तु शक्तिं शक्तिं द्वितीयकाम् ।
तृतीयकां प्रचिक्षेप सा लग्ना गलमध्यतः ॥९७॥
प्राणान्नीत्वा ययौ भूमौ रथं भित्त्वाऽतिदारुणा ।
हरिद्वज्रस्तु सरथो भग्नो ममार तत्र ह ॥१८॥
हाहाशब्दा नन्दिभिल्लसैन्येऽभवन् समन्ततः ।
दुद्रुवुः पृष्ठपादाश्च भीता युद्धविशारदाः ॥९९॥
जयशब्दाः कुबरस्य सैन्ये वाद्ययुतास्तदा ।
अभवन् बद्रिके कृष्णनारायणप्रतापतः ॥१००॥
नन्दिभिल्लो रणभेरीं नादयामास वै पुनः ।
द्रवतां निजसैन्यानां धैर्यार्थं योधनाय च ॥१०१॥
दशसाहस्रयोद्धारो हरिद्वज्रस्य वै मृधे ।
नागविक्रमसैन्येन हताः शक्तिनिवासिना ॥१०२॥
अपरे सप्ततिसहस्राणि निश्चित्य वै मिथः ।
परितश्चाभिसंव्याप्य व्यूहं वृश्चिकशृङ्गवत् ॥१०३॥
कृत्वा मारयितुं सर्वान् कुबरस्य तु योधकान् ।
अभ्यधावन् दिशः सर्वा भिल्लसैन्यान्विताश्च ताः ॥, ०४॥
अभवन् परितो बद्रि दिशः सर्वा भयप्रदाः ।
अथ रुद्रः कुबरस्थो नैजान् रोगान् गणानपि ॥१०५॥
समूर्तान् निजसैन्यस्याऽभितः स्थितानकारयत् ।
अप्रतिहतदेहास्ते शस्त्राघातविवर्जिताः ॥१०६॥
दुर्गवन्मानवसैन्यव्यापकाश्चक्रिरे मृधम् ।
तद्बाणैर्निहतास्तत्र बद्रिकेऽयुतसंख्यकाः ॥१०७॥
नन्दिभिल्लस्य योद्धारो दुद्रुवुः शेषशस्त्रिणः ।
शैलवज्रश्चतुर्थो वै सेनापतिस्तदा बली ॥१०८॥
स्वसैन्यानि समाहूय योधनं पुनराव्यधात् ।
गर्जना विविधाश्चासन् बद्रिके चोभयोरपि ॥१०९॥
सैन्ययोर्जयलब्ध्यर्थं शंखनादाश्च खेऽभवन् ।
सज्जा आवेशवन्तश्च योद्धारश्चुक्रुशुर्मृधे ॥११०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने रणसंग्रामे नन्दिभिल्लस्येन्द्रवज्रघातवज्रहरिद्वज्रेतिसेनापतित्रयसहितत्र्ययुतसेनात्मकयोद्धॄणां निधनमित्यादिनिरूपणनामा त्र्यशीति-
तमोऽध्यायः ॥८३॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP