संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः १२१

तिष्यसन्तानः - अध्यायः १२१

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
बद्रिके च ततोऽनादिःकृष्णोनारायणो हरिः ।
लक्ष्मीं प्रज्ञां पाशवतीं चान्तर्भाव्य निजात्मनि ॥१॥
कुंकुमवापिकाक्षेत्रे त्वेकरूपेण चाऽवसत् ।
द्वितीयेन स्वरूपेण श्रिया युक्तेन चान्तरे ॥२॥
साधुरूपेण तीर्थेषु ययौ श्रीयुक्तमूर्तिकः ।
अगोचरोमुक्तसेव्यदेवजुष्टः सएकलः ॥३॥
कुंकुमवापिकातीर्थजलं पीत्वाऽश्वसारसम् ।
जलं पीत्वाऽऽचमनं च कृत्वा स्नात्वा सरोवरे ॥४॥
श्रीगणेशं गुरुं चापि नत्वा सम्पूज्य भावतः ।
सर्वतीर्थानि नत्वाऽपि कृत्वा सरःप्रदक्षिणम् ॥५॥
प्रययौ चाऽऽम्रवणतो व्याघ्रारण्यं महत्तरम् ।
सिंहारण्यं ययौ पश्चात् तलश्यामस्थलं शुभम् ॥६॥
स्नात्वा ययौ सोमनाथं प्राचीपिप्पलमित्यपि ।
मूलद्वारावतीं नैजां ततश्चोष्णपुरं ययौ ॥७॥
गोपनाथं ययौ पश्चाद् गोकर्णं प्रजगाम सः ।
नृसिंहेशं शरभेशं कृत्वा व्योम्ना ययौ द्रुतम् ॥८॥
नारायणीं महादीर्घां सर्वोत्तमां नदीं पराम् ।
त्रिनासं च सरश्चापि रुदलाल्पसरो ययौ ॥९॥
विषतुरीयकसरस्त्रिगायनसरोवरम् ।
न्यायजं च सरश्चापि ययौ कङ्गूमहानदीम् ॥१०॥
न्यायजरां नदीं गत्वा भूमध्यसागरं ययौ ।
नीपरां प्रययौ द्यूनां वातगामुरलां नदीम् ॥११॥
बालकृष्णसरश्चापि ययाबोबीं महानदीम् ।
यानेशीं च ययौ कृष्णो द्विकलं च सरोवरम् ॥१२॥
आयुरां च नदीं रम्यां चाऽब्धिं ययौ ततः परम् ।
बहुलिङ्गसमुद्रं च गत्वा मत्कुञ्चिकानदीम् ॥१३॥
गर्तस्रावसरो गत्वा लीनपादसरो ययौ ।
सूपरीशसरो गत्वा ततोऽर्केशां नदीं ययौ ॥१४॥
समुद्रं च ततो गत्वाऽऽमाञ्जनीं सुनदीं ययौ ।
पारानसीं नदीं गत्वोल्लंघ्यसमुद्रमायतम् ॥१५॥
उष्ट्रालये मयूरां च नदीं ययौ जनार्दनः ।
कारुलिङ्गीं नदीं गत्वा ययावैतसरोवरम् ॥१६॥
ग्रासकायां नदीं गत्वा व्योम्ना ब्रह्मप्रदेशकम् ।
आययौ भगवान् बद्रि मेनकाङ्गीं महानदीम् ॥१७॥
शालवीनां तथा चैरावतीं नदीं ययौ प्रभुः ।
शिक्षांगीं चाङ्गशिक्षांगां त्रियाज्ञिकां नदीं ययौ ॥१८॥
ब्रह्मपुत्रां च गंगां च गोदावरीं च नर्मदाम् ।
शत्रुञ्जितां ययौ कृष्णस्ततोऽश्वपट्टसारसम् ॥१९॥
आययौ भगवान् व्योम्नाऽक्षरक्षेत्रं निजालयम् ।
एकोनत्रिंशां सुभगां नैजां जन्मजयन्तिकाम् ॥२०॥
व्यधात् कृष्णः साधुवेषः कुंकुमवापिकालये ।
एवं श्रीभगवान् बद्रि लक्ष्म्या मनोऽप्यपूरयत् ॥२१॥
पद्मावत्याश्च प्रज्ञायाः मनस्यपि ह्यपूरयत् ।
पृथिव्यां यानि तीर्थानि नदीनदाद्रिसागराः ॥२२॥
वनभूगह्वरारण्यग्रामद्वीपसुरालयाः ।
यत्र तत्र ययौ कृष्णनारायणायनो मुहुः ॥२३॥
श्रेयसे स्वस्तये कल्याणाय भद्राय देहिनाम् ।
मोक्षाय मुक्तये निर्वाणाय शाश्वतसिद्धये ॥२४॥
अनेकान् देहिनः कृष्ण उद्दधार भवार्णवान् ।
बद्रिके स्वेच्छया नैजकृपया लीलया धिया ॥२५॥
मुहुर्देशेषु सर्वेषु भक्तवशः प्रयात्यपि ।
कृत्वोद्धारं जनानां च समायाति निजालयम् ॥२६॥
कुंकुमवापिकाक्षेत्रं राजते साधुभूषणः ।
लक्षशः साधवः साध्व्यो यत्र वसन्त्यहर्निशम् ॥२७॥
त्रिशत्तमाद्याः कृष्णस्योत्सवा जन्मनिमित्तजाः ।
क्रियन्ते साधुसाध्व्याद्यसंख्यभक्तैः प्रमोददाः ॥२८॥
मुच्यन्तेऽसंख्यमनुजास्तद्योगात् प्रतिवत्सरम् ।
कृष्णनारायणपुत्रा युगला ये विदेशगाः ॥२९॥
तेऽपि त्वागत्य पितरं वीक्ष्य प्रसेव्य माधवम् ।
प्रयान्ति ते निजमातामहदेशान् सुखान्विताः ॥३०॥
असंख्याश्च नरा नार्यो वैष्णवा भक्तिभावनाः ।
बद्रिके नित्यमायान्ति सेवनार्थं हरिं प्रभुम् ॥३१॥
निकामं ते सम्प्रसेव्य समासाद्य मनोगतम् ।
प्रयान्ति निजदेशाँश्च प्राप्नुवन्ति परं सुखम् ॥३२॥
परं पदं परे धाम देहान्ते सम्प्रयान्ति वै ।
अनादिश्रीकृष्णनारायणे तिष्ठति भूतले ॥३३॥
सर्वथा कार्तयुगको व्यवर्तत प्रजासु वै ।
अन्ये युगाः प्रभावं न कर्तुं शक्ता भवन्ति तु ॥३४॥
सत्ये यथा तथा त्रेतायुगे द्वापरके तथा ।
कलौ तथा हरेर्योगात् प्रजानां कृतवत् स्थितिः ॥३५॥
धर्मकामार्थमोक्षाणां बलं कृष्णकृपावशात् ।
यथार्थं सुखदं चास्ते सर्वेषां देहिनां तदा ॥३६॥
बद्रिके श्रीकृष्णनारायणोऽनादिः परः प्रभुः ।
ब्रह्मविष्णुमहेशाद्यैरर्थितश्च मुहुर्मुहुः ॥३७॥
पृथ्व्यां तस्थौ लक्षवर्षाण्यूर्ध्वं च पञ्चविंशतिः ।
सहस्राणि तथा पञ्चशतानि सर्वगोचरः ॥३८॥
सपादलक्षवर्षान्ते परं धाम निजं पदम् ।
तेनैव वर्ष्मणा दिव्यशाश्वतेन ययौ हरिः ॥३९॥
ततः कुंकुमवाप्यादौ मूर्तिरूपो विराजते ।
सर्वेषां देहिनां चर्मचक्षुषां दृष्टिगोचरः ॥४०॥
दिव्यदृशां तु दिव्यात्मा प्रत्यक्षः पूर्ववत् सदा ।
लोमशादेस्तु भगवान् नित्यप्रत्यक्ष एव ह ॥४१॥
साध्वीनां च सतां साधुस्वरूपो नित्यगोचरः ।
योगिनां ध्यानगम्यश्च मुक्तानां धामगोचरः ॥४२॥
भक्तानां स्नेहवशगो वर्तते हृदये स्थितः ।
सर्वत्र वर्तते साक्षी स एव परमेश्वरः ॥४३॥
बद्रिके बहवस्तस्याऽवताराः संभवन्ति हि ।
नरनारायणश्चाहं तस्याऽवतार एव ह ॥४४॥
त्वं चाऽपि तस्य कृष्णस्याऽर्धांऽगनाऽस्यवतारिणी ।
भज तं परमात्मानं कान्तं भजाम्यहं यथा ॥४५॥
विष्णुब्रह्ममहेशाद्या यथा भजन्त्यहर्निशम् ।
देवर्षिपितृसाध्याश्च यथा भजन्त्यहर्निशम् ॥४६॥
ईशा ईशानिका मुक्ता यथा भजन्त्यहर्निशम् ।
स्मर कृष्णं सदा कान्तं शाश्वतानन्ददायकम् ॥४७॥
स्मारयाऽन्यान् हरिं तं च कृष्णं नारायणं प्रभुम् ।
तस्यैव भजनं बद्रि भक्तिं कारय देहिनाम् ॥४८॥
तस्यैव भजनेनैव ते यास्यन्ति परं पदम् ।
यथैव भजनं तस्य मोक्षदं च तथाविधम् ॥४९॥
संहितायाः श्रवणं च मोक्षदं नित्यमोददम् ।
मया बद्रि श्रावितानि चरित्राणि हरेस्तव ॥५०॥
भक्ताभक्तमोक्षदानि चमत्कारमयानि वै ।
तल्लीलाललितं नाथं हृदि निधेहि बद्रिके ॥५१॥
श्रीश्वेतायनव्यास उवाच-
शृण्वन्तु मुनयो लक्ष्मीनारायणीयसंहिताम् ।
ये श्रोष्यन्ति भागतोऽपि ते यास्यन्ति परां गतिम् ॥५२॥
खण्डोऽत्र प्रथमश्चास्ते कृतसन्तानकाभिधः ।
द्वितीयश्च समास्ते वै त्रेतासन्तानकाभिधः ॥५३॥
तृतीयो द्वापरसन्तानाख्यः खण्डोऽस्य वर्तते ।
चतुर्थस्तिष्यसन्तानाभिधोऽस्त्यत्र चमत्करः ॥५४॥
प्रथमे कृतसन्तानेऽध्यायाः पञ्चशतानि च ।
नवतिश्च तथाऽध्याया वर्तन्ते द्विजमूर्तयः ॥५५॥
श्लोकास्तु पञ्चपञ्चाशत्सहस्राणि तथा पुनः ।
पञ्चशतान्यधिकानि सप्तविंशतियूञ्जि च ॥५६॥
द्वितीये त्रीतसन्ताने त्वध्यायास्त्रिशतानि च ।
वै द्वात्रिंशत्सहस्राणि द्वे शते च तथा पुनः ॥५७॥
पञ्चाशच्चापि चत्वारः श्लोकाः सन्ति हि तीत्रके ।
तृतीये द्वापरसन्तानकेऽध्यायाः शतद्वयम् ॥५८॥
सप्तत्रिंशत् तथा सन्ति मोक्षदा दिव्यविग्रहाः ।
श्लोकाः सन्ति सहस्राणि पञ्चविंशतिरप्यथ ॥५९॥
शतं षष्टिश्च वै द्वे च मुक्तिदा भक्तिदाः खलु ।
चतुर्थे तिष्यसन्तानेऽघ्यायास्तु शतमित्यपि ॥६०॥
त्रयोविंशतिश्चाप्येव वर्तन्ते ब्रह्मधामदाः ।
श्लोकाः सन्ति त्रयोदशसहस्राणि तथोपरि ॥६१॥
अष्टात्रिंशतिसर्वे साक्षान्मोक्षप्रदाः पराः ।
चतुःसन्तानरूपायाः संहितायास्तु सर्वशः ॥६२॥
अध्यायाश्चैकसाहस्रं तदूर्ध्वं हि शतान्यपि ।
पञ्चाशत् सन्ति च तथा सर्वथा मोक्षकारिणः ॥६२॥
अस्याः पूर्णसंहितायाः श्लोकास्तु चैकलक्षकम् ।
तदूर्ध्वं तु पञ्चविंशतिसहस्राणि वै तथा ॥६४॥
नवशतानि चैकाशीतिरतदूर्ध्वं भवन्ति हि ।
ततोऽतिरिक्ताः सप्ताऽपि विद्यन्ते श्लोकका अपि ॥६५॥
अनादिश्रीकृष्णनारायणः श्रीवल्लभप्रभुः ।
मुनयो! न्यवसत् पृथ्व्यां लक्षवर्षाणि तत्परम् ॥६६॥
पञ्चविंशतिसहस्राण्यपि पञ्चशतानि च ।
तत्र कृताश्चमत्काराः संख्यातुं चाऽऽप्य गोचराः ॥६७॥
साधुरूपेण कृष्णेन कृता ये ये तु तेऽखिलाः ।
लिखिता वै साधुसंहितायां साधुभिरादरात् ॥६८॥
सनत्कुमारप्रभृतिभिस्तु मोक्षपरायणैः ।
श्लोके श्लोकेऽत्र सर्वत्र हरेर्योगेन देहिनाम् ॥६९॥
मोक्षेच्छया कृष्णकृपा सिञ्चिता दुर्लभा तु या ।
कृपामूर्तिस्वरूपेयं संहिता मोक्षदा ततः ॥७०॥
लक्ष्मीरूपा संहितेयं संहिता श्रीस्वरूपिणी ।
यथा लक्ष्मीस्तथा चेयं यथा चेयं तथा रमा ॥७१॥
दयिताऽनादिकृष्णस्याऽर्धांगना मोक्षदायिनी ।
पावनी सर्वलोकानां जननी मुक्तिगामिनाम् ॥७२॥
पोषणी चैहिकानां तु सम्पत्प्रदां तु कामिनाम् ।
कृष्णकण्ठाद् दिव्यरूपा चाविर्भूतेयमीश्वरी ॥७३॥
श्रुतिरूपा ततश्चेयं वेदवद् वेदिनी त्वियम् ।
वेदानां फलदा चेयं पूजिता वाचिता श्रुता ॥७४॥
सदा शान्तिकरी चेयं मुक्तिवन्मोदकारिणी ।
राधावद् ऋद्धिसिद्धिध्रा सर्वर्द्धिसिद्धिदायिनी ॥७५॥
नारायणी मूर्तिमती नारायणस्य बोधिनी ।
नारायणप्राप्तिकरी पूजिता वाचिता श्रुता ॥७३॥
वैष्णवीयं मूर्तिमती वैष्णवानां प्रमोदिनी ।
योगिनी युगवार्तानां बोधिनी ब्रह्मयोगिनी ॥७७॥
ब्रह्मरूपकरी श्रोतुर्वक्तुः पूजयितुस्तथा ।
स्वाहेयं सर्वयज्ञानां फलदा दक्षिणात्मिका ॥७८॥
प्रज्ञेयं श्रीकृष्णनारायणवल्लभमूर्तिजा ।
ब्रह्मपारप्रदा चेयं यज्ञाऽवभृथरूपिणी ॥७९॥
सरस्वती ब्रह्मपत्नी नित्या वाणी हरेरियम् ।
सतामाशीर्वादरूपा लोमशेन विकासिता ॥८०॥
श्वैतिप्रभतिशिष्यैश्च सनकाद्यैः सुपोषिता ।
द्यौर्दिव्या देवकोटीनां सजीवनप्रकारिणी ॥८१॥
महासाध्वी सती देवी दिव्येयं चाऽच्युती मता ।
गंगेयं पापविध्वंसकारिणी विष्णुधारिणी ॥८२॥
शिवेयं शिवदा स्वस्तिप्रदाऽऽनन्दप्रदा सदा ।
संज्ञेयं मानदा सौरी गायत्री त्राणदा परा ॥८३॥
स्वधेयं सर्वपितॄणां प्रेतानां श्रेयसाम्प्रदा ।
कौमुदीयं सुधास्वादप्रदा चान्द्री सरोजनी ॥८४॥
पद्मेयं पद्मिका पद्मधरीवाऽव्ययकारिणी ।
अन्नपूर्णा कृष्णतृप्त्याभोगसुखप्रदायिनी ॥८५॥
गाणेशीयं सर्वविघ्ननाशिनी क्षेमलाभदा ।
हानुमती महाशक्तिः शीलिनी ब्रह्मवर्चुला ॥८६॥
काच्छपी फणिनी शक्तिः पृथिव्युद्धारकारिणी ।
महालक्ष्मीरियं विद्या नारायणस्य खेलनी ॥८७॥
बदरीयं हैमगिरौ तापसी तापनाशिनी ।
यमुनेयं यमलोकगतिनिरोधिनी स्वसा ॥८८॥
गोमतीयं परब्रह्मकिरणानां प्रभात्मिका ।
कामधेनुरियं द्रोग्ध्री कृष्णसौरभदायिनी ॥८९॥
सर्वकामप्रपूरेयं सेविता क्षीरपायसी ।
अमृतेयं सेवकानां महामृतप्रदायिनी ॥९०॥
कल्पवल्ली शाश्वतीयं मनोवाञ्च्छाप्रपूरणी ।
अक्षय्यपात्रिका चेयं कृष्णकथाऽक्षयान्विता ॥९१॥
कल्पद्रुमस्वरूपेयं सर्वार्थरसवर्षिणी ।
चिन्तामणिः संहितेयं सर्वेषां कृष्णचिन्तनी ॥९२॥
पज्रमणिः सदा चेयं वासनाद्रिप्रभेदिनी ।
सर्वव्रतमहाशाला संहितेयं फलप्रदा ॥९३॥
सर्वतीर्थमयी चेयं सर्वतीर्थप्रबोधिनी ।
सर्वेश्वरी महादेवीश्वराणां स्मृतिकारिणी ॥९४॥
धार्मिकीयं धर्मरक्षाकर्त्री धर्मस्य धारिणी ।
विभूतिः शाश्वतीयं च श्रीकृष्णस्याऽवतारिणी ॥९५॥
संक्रान्तिः सहितेयं च कृष्णसंक्रान्तियोगिनी ।
महोत्सवी सदा चेयं श्रोतुर्वक्तुः समुत्सवा ॥९६॥
अमूर्ता शब्दमूर्तेयं कृष्णजिह्वा रसाऽऽभरा ।
कृष्णयोनिः कृष्णनारायणाऽऽनन्दप्रदायिनी ॥९७॥
मोक्षविमानिका श्रेष्ठा धामसृतिः सुकोमला ।
कृष्णशय्यात्मिका दिव्या कृष्णपार्श्वप्रदायिनी ॥९८॥
श्रीकृष्णाऽऽस्यस्वरूपेयं कृष्णताम्बूलपायिनी ।
अनादिश्रीकृष्णनारायणात्मरूपिणी त्वियम् ॥९९॥
बहुना किं साधवीयं चतुःपुमर्थदायिनी ।
तुलसीमालिकेयं च साध्वीदीक्षेयमित्यपि ॥१००॥
महासंन्यासिनी चेयं कण्ठीयं संहिता सदा ।
ऋतम्भरेयं सततं सत्त्वप्रकर्षिणी त्वियम् ॥१०१॥
आतिवाहिकदेवीयं पराविद्येयमव्यया ।
विधिशक्तिरियं शास्त्री भक्तिमूर्तिरियं तथा ॥१०२॥
दुःखहाश्रीरियं नित्यं कृष्णनारायणप्रिया ।
लक्षाऽश्वमेधयज्ञानां फलदा वाचिता श्रुता ॥१०३॥
लक्षविष्णुमखानां च पुण्यदा मोक्षदा शुभा ।
सर्वविधानां तपसां फलदा शान्तिदा तथा ॥१०४॥
सर्वव्रतानां तीर्थानां सर्वेषां पुण्यदायिनी ।
कोटिधेनुगजाश्वानां दानानां फलदोत्तमा ॥१०५॥
ब्रह्माण्डदानफलदा जीवाऽभयप्रदायिनी ।
कोटिकन्यादानफला कोटिश्रीदानसदृशी ॥१०६॥
उपनिषत् मूर्तिमती कृष्णसन्निधिकारिणी ।
आत्मविद्या ह्यकामानां सकामानां तु चेष्टदा ॥१०७॥
धनदा पुत्रदा पुत्रीप्रदाऽऽरोग्ययशःप्रदा ।
राज्यदा पुष्टिदा नारीप्रदा चेष्टपतिप्रदा ॥१०८॥
स्वर्गदा धामदा मोक्षप्रदा कृष्णांऽकवासदा ।
सर्वदा सर्वदा चेयं संहिता हितदाऽन्वहम् ॥१०९॥
गृहस्था तु गृहस्थानां गृहस्थितिप्रपोषिणी ।
हृदिस्था तु सतां सच्चिदानन्दहरियोगिनी ॥११०॥
सर्वसौभाग्यदा चेयं सर्वोत्कर्षप्रदायिनी ।
अनन्तानन्दधामाख्यसाम्राज्यसुखवर्षिणी ॥१११॥
वर्तते संहिता चेयं महामुक्तानिका क्षितौ ।
प्रत्येकमस्याः सन्तानाः पुत्रा नारायणस्य वै ॥११२॥
नारायणसमा मोक्षे बले कीर्तौ च सम्पदि ।
यथा कृतः सर्वधर्मे त्रेता यथाऽखिले मखे ॥११३॥
द्वीतो यथाऽखिले दाने तिष्योऽखिले जपेऽतुलः ।
कृतः सामर्थ्यसञ्जुष्टस्त्रेता दिव्यचरित्रवान् ॥११४॥
द्वीतश्च दिव्यलीलाढ्यस्तिष्यः शरणितारकः ।
सत्यः स्वात्मबलोद्धर्ता त्रेता सुरादिसंश्रयात् ॥११५॥
द्वीतः कृष्णचमत्कारात् तिष्यः साधुसमागमात् ।
तिष्योऽयं कृष्णसन्तानः केवलः पठितः श्रितः ॥११६॥
श्रुतश्च श्रावितश्चापि पूजितश्च गृहेऽवितः ।
स्मृतो गुणैर्गृहीतश्च तारयत्याश्रितान् द्रुतम् ॥११७॥
अनादिश्रीकृष्णनारायणस्य कानकीं शुभाम् ।
हरेः सुप्रतिमां कृत्वा तिष्यसन्तानकं त्विमम् ॥११८॥
दद्याद् दाने तु यो भक्त्या विदुषे ब्रह्मवादिने ।
वैष्णवाय विशेषेणाऽऽचार्याय गुरवेऽपि च ॥११९॥
विप्रायाऽध्यापकायाऽपि कथावाचनशीलिने ।
धेनुं वत्सायुतां सर्वोपस्करणादिसंयुताम् ॥१२०॥
शय्यां प्रपूर्णां मृद्वीं च पात्राणि चार्पयेत्तथा ।
सरत्नधान्यवस्त्रादि दद्याद् यः स तु मोक्षभाक् ॥१२१॥
सकामः स्वर्गमासाद्य ब्रह्मकल्पायुरेव च ।
भुक्त्वा भोगान् प्रयात्येव संहितादानतोऽक्षरम् ॥१२२॥
तिष्यसन्तानकश्चाऽयं सद्भावाऽऽधायकः सताम् ।
सत्सु स्नेहकरः सेवाधर्मबोधप्रदस्तथा ॥१२३॥
पापानामपि सर्वेषां क्षालकः पापिमोक्षदः ।
शरणागतजीवानां ब्रह्मधामप्रदः सुखः ॥१२४॥
अपि साधोर्हरेर्वापि पापी प्रसादधुग् भवेत् ।
तिर्यग् वा स्वेदजोऽण्डोत्थो जराजो वा समुच्यते ॥१२५॥
तिष्याध्यायं गृहे त्वेकं वाचयेद् यः समाहितः ।
तिष्यसन्तानपाठस्य लभते स फलं द्रुतम् ॥१२६॥
मुनयः! तिष्यपाठानां तिष्यवेगो न बाधते ।
तिष्यदोषा न जायन्ते यमोऽस्य याति दूरतः ॥१२७॥
तिष्यकथाश्रवणार्थी मत्कृपापात्रमेव सः ।
सर्वमोक्षप्रदान् साधून् श्रित्वा यत्लभतेऽक्षरम् ॥१२८॥
यस्य दानं तपो धर्मस्तपो जपो न शीलता ।
तस्य तिष्याश्रयाद् साध्वीसाध्वाश्रयात् प्रमोक्षणम् ॥१२९॥
स्वर्णविमानकं कृत्वा संस्थाप्य तिष्यखण्डकम् ।
प्रपूज्य चाऽर्पयेत् पात्रे दाता विमानगोऽक्षरे ॥१३०॥
सर्वकुटुम्बसहितो मोदते हरिमन्दिरे ।
भुक्तिं मुक्तिं च लभते शाश्वतीं नात्र संशयः ॥१३१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽनादिश्रीकृष्णनारायणस्य मुनिरूपेणाऽपरेण दिव्येनस्वरूपेण श्रीमनोरथपूरणार्थं पृथिव्यां सर्वतीर्थाऽभिगमनं, पुनः कुंकुमवापिकागमनम्, तिष्यसन्तानस्य समस्तसंहितायाश्चाऽध्यायश्लोकसंख्यानिर्देशः, समस्तसंहितायास्तिष्यसन्तानस्य च दानादिमहिमेत्यादिनिरूपणनामैकविंशत्यधिकशततमोऽध्यायः ॥१२१॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP