तिष्यसन्तानः - अध्यायः ३९
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां धूर्ताविमोक्षिणीम् ।
धुतारपुरवास्तव्या चामठाजातिजा ह्यपि ॥१॥
नारायणपरा नारी नाम्नाऽभूत् कनकांगदा ।
पतिपुत्रवती पुत्रीमती भ्रातृकुटुम्बिनी ॥२॥
नगराभ्याशवासा च शकटच्छायवर्तिनी ।
वृषभाणां च वत्सानां क्रयविक्रयकारिणी ॥३॥
जीर्णोपकरणानां च संस्कारोद्धारतत्परा ।
क्रयविक्रयकार्याढ्या तथा निर्वाहयोगिनी ॥४॥
हरेर्भक्ताऽपि वै जातिस्वभावा धूर्तताऽन्विता ।
अनृतकपटाऽसत्यशाठ्याद्युक्ता हि वर्तते ॥५॥
वाण्यां क्रियायां मनसि प्रतारणपरायणा ।
यथाकथञ्चिद् व्यामोह्य प्रदर्श्याऽपि फलं बहु ॥६॥
विश्वासं बहुधोत्पाद्य करोति वञ्चनां ततः ।
लब्धं वञ्चनया यत्तद्धनं रौप्यं च काञ्चनम् ॥७॥
शीघ्रं नीत्वा प्रयात्येव ग्रामान्तरमनोयुता ।
अनसा सौमभागेषु क्षेत्रेषु वाटिकास्वपि ॥८॥
अन्नानां हरणं चौर्यं करोति कर्मसन्धिनी ।
एवंविधाऽपि मार्गेषु चतुःसंगेषु वै निशि ॥९॥
शकटच्छायया कालं निर्यापयति सीमनि ।
तत्र कश्चित् समायाच्चेद् भिक्षुको भिक्षुकी तु वा ॥१०॥
तस्मै दत्वा यथायोग्यं भक्ष्यं भुंक्ते ततस्तु सा ।
एवमभ्यागतपरा भिक्षुके कृष्णमानिनी ॥११॥
नारायणं भिक्षुकं तु मत्वाऽर्हणां करोत्यपि ।
पादसंवाहनं रात्रौ दिवा देहप्रसेवनम् ॥१२॥
जलपुष्पाद्यर्पणं च कृत्वा भुंक्ते ततः परम् ।
एवं सेवापरा चास्ते नियमे भिक्षुकार्चने ॥१३॥
वर्तमाना भिक्षुकाय निर्दंभा धूर्ततां निजाम् ।
निवेदयति विज्ञा सा निष्पापत्वाय सर्वथा ॥१४॥
सा तु जानाति गुरुतो नाम्ना चार्वंकराधनात् ।
साधवे निजकृत्यं वै निवेदनीयमादरात् ॥१५॥
सत्यं वाच्यं यच्च तच्च गुह्यं वापि प्रकाशजम् ।
अन्याय्यं वा न्याययुक्तं पापं पुण्यं प्रतारणाम् ॥१६॥
धूर्तता शुभता चाप्यनिष्टता क्लेशता तथा ।
चौर्यं चापहरणं च वाच्यं श्रीगुरवे सदा ॥१७॥
गर्हितं वा प्रशस्तं वा वाच्यं चाऽवाच्यमित्यपि ।
सर्वं श्रीगुरवे निवेदनीयं शुद्धिहेतवे ॥१८॥
इत्येवं जायते कर्तुर्निष्पापत्वं पवित्रता ।
बन्धनं जायते नैव पापफलं न जायते ॥१९॥
उपार्जितात् तथा न्यायाऽन्यायाभ्यामपि सर्वदा ।
दातव्यं गुरवे चाभ्यागताय भिक्षुकाय च ॥२०॥
निर्दोषत्वं जायते च तेन पापं व्यपोहति ।
अनिवेदितभोक्तैव पापेन परिलिप्यते ॥२१॥
निवेदितान्नभोक्ता तु पापेन नोपलिप्यते ।
उदरार्थं कुटुम्बार्थं दस्यूनां दस्युकर्मसु ॥२२॥
दूषणं जायते नैव जातं चेद् गुरवेऽर्पणात् ।
निर्दोषं जायते तस्माद् गुरुः सेव्यः प्रमोक्षदः ॥२३॥
गुरुरेव परब्रह्म गुरुरेव जनार्दनः ।
गुरुरेव विधाता च गुरुरेव परागतिः ॥२४॥
गुरुरेवाऽनलः सूर्यो गुरुरेव प्रकाशदः ।
गुरुरेव परं पुण्यं गुरुर्धर्मः सुखं धनम् ॥२५॥
गुरुः स्वर्गं गुरुर्विष्णुर्गुरुः शंभुर्गुरुर्व्रतम् ।
गुर्वर्पणं परं पुण्यं तस्माच्छ्रीगुरवेऽर्पयेत् ॥२६॥
अन्यत्र वै कृतं पापं गुर्वेग्रे संविनश्यति ।
गुरौ पापं न कर्तव्यं गुरुर्वै परमा गतिः ॥२७॥
न वै नारायणो भूमौ शङ्खधारी मिलत्यपि ।
गुरुर्नारायणः सत्यधारी मिलति भूतले ॥२८॥
सतां समागमात् तेन निष्पापता प्रजायते ।
सन्तः श्रीगुरवस्तस्मात् सेवनीया विशुद्धये ॥२९॥
अशुद्धः खलुः संसारः शुद्धस्तत्र गुरुर्हरिः ।
अशुद्धिर्लीयते सर्वा गुरोर्योगेन दैहिकी ॥३०॥
मानसी लीयते चाप्यशुद्धिर्भक्त्या गुरोः सदा ।
गुरोर्नामस्मरणेन चात्मा पावनतां व्रजेत् ॥३१॥
गुरवे त्वर्पणात् सर्ववस्तूनां स्यात् पवित्रता ।
नरा नार्यः प्रशुद्ध्यन्ति गुरुयोगेन भूतले ॥३२॥
गुरोर्मूर्तिर्हरेर्मूतिः पावनी पापिनामिह ।
तस्मात् सत्संगतिः कार्या पापिभिः पापहानये ॥३३॥
एवंविधं परं ज्ञानं गुरुतः सा ह्यवाप तु ।
तेन साधुजनसेवां करोति दंभवर्जिता ॥३४॥
समस्तं तत्कुटुम्बं वै सतां करोति सेवनम् ।
चार्वंकराधनः साधुर्ददौ तस्यै मनुं हरेः ॥३५॥
'ॐनमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
ददौ मूर्तिं ददौ ज्ञानं गुरुसेवात्मकं तथा ॥३६॥
एवं गुर्वाज्ञया नित्यं वर्तते कनकांगदा ।
गुरुसेवापरा श्रीमद्बालकृष्णपराऽन्वहम् ॥३७॥
धूर्ततापापनाशार्थं सेवते श्रीहरिं गुरुम् ।
भावेन नित्यमेवैषा क्षुधां तृषा च सेवते ॥३८॥
अकृत्वा सा गुरोः पूजां चाऽनिवेद्याऽन्नमित्यपि ।
वारि पुष्पं फलं शाकं न भुंक्ते सा क्वचित् खलु ॥३९॥
एवं नियममासाद्य वर्तते गुरुतत्परा ।
अथैकदा तु सप्ताहं गुरुर्वनान्तरं ययौ ॥४०॥
अभ्यागतश्च वा साधुः कश्चिद् गृहं च नागतः ।
हरिं प्रपूज्य सा साध्वी वाटं पश्यति चोत्सुका ॥४१॥
क्षुधिना तृषिता रात्रिन्दिवं पश्यति वाटिनम् ।
सप्ताहं नागतः साधुरभ्यागतोऽपि नागतः ॥४२॥
अदत्त्वा साधवे साध्वी न भुंक्तेऽन्नं प्रसादजम् ।
अन्यान्यस्य तु का वार्ता बद्रिके दृढभक्तिगा ॥४३॥
नापि पपौ च सा वारि त्वनिवेद्य हि साधवे ।
तदाऽनादिकृष्णनारायणः श्री कृष्णगोपजः ॥४४॥
अन्तर्यामी सर्वविज्ञः साधुर्भूत्वा समाययौ ।
धृतकाषायवसनो धृतकन्थाकमण्डलुः ॥४५॥
धृतपावटिकाकुक्षिर्धृतभस्मादिजोलिकः ।
नारायणहरे विष्णो कृष्णश्रीभगवानिति ॥४६॥
रटन्नुच्चैर्वदद् श्रीमद्बालकृष्णो जयत्यपि ।
हरे कृष्ण प्रभोकृष्ण पद्मावतीपते प्रभो ॥४७॥
धर्मिनियमिरक्षक त्वं भक्षरक्षकरप्रभो ।
एवं नारायणकृष्णं जपन् शकटीमाययौ ॥४८॥
आसनं पावटीं जोलीं न्यस्य भूमौ हरे हरे ।
कथयित्वा निषसाद जयो भवतु चक्रिणः ॥४९॥
सुखिनी स्याः कानकांगि चार्वंकराधनोऽपि च ।
सुखिनस्ते कुटुम्बं च पुत्राः पुत्र्यो भवन्त्वपि ॥५०॥
इत्येवं समचित्तश्च ह्याशीर्वादपरायणः ।
साधुरयं दैवयोगादागतो मद्गृहं त्विति ॥५१॥
मत्वोत्थाय द्रुत साध्वी कनकांगी शुभासनम् ।
ददौ नत्वा जलं शुद्धं ददौ फलानि वै तदा ॥५२॥
अन्नं नवं ददौ तस्मै पवनं व्यजनेन च ।
पुष्पाणि तुलसीपत्राण्यपि ददौ तु भावतः ॥५३॥
भोजनं कुरु साधो त्वं मधुपर्कं गृहाण च ।
स्नानमाचमनं भक्ष्यं भोज्यं वारि गृहाण च ॥५४॥
आशीर्वादं देहि साधो पापं मे नाशमाप्नुयात् ।
मम भाग्यवशात् प्राप्तो नारायणस्वरूपवान् ॥५५॥
वासं गृहे मम साधो कुरु सेवां गृहाण च ।
'ओं नमोऽनादिश्रीकृष्णनारायणाय साधवे ॥५६॥
योगिने सर्वविज्ञाय भक्तरक्षाकराय च ।
अधमोद्धारणकर्त्रे दीनानाथदयालये ॥५७॥
नमः साधुस्वरूपाय बालकृष्णाय ते नमः ।
कंभरानन्दबालाय गोपालबालकाय ते ॥५८॥
नमो राधाविहाराय कमलापतये नमः ।
नमोऽन्तर्यामिणे भक्तभावुकाय सते नमः ॥९९॥
अन्तरात्मा परमात्मा प्रसन्नो भव सर्वदा ।
साधुसेवा तव सेवा नारायण गृहाण ताम् ॥६०॥
इत्येवं भावभिन्ना सा ददौ तत् कनकांगदा ।
पुत्राः पुत्र्यः समस्तास्ता ददुर्यथेष्टवस्तुकम् ॥६१॥
चार्वंकराधनश्चापि साधुसेवां तदाऽकरोत् ।
मिष्टवाण्या चरणयोः संवाहनं व्यधान्मुदा ॥६२॥
एवं सर्वं कुटुम्बं वै चामठाजातिजं तदा ।
सेवापरायणं जातं सप्ताहाऽनशनान्वितम् ॥६३॥
साधुं संभोजयित्वैव पाययित्वा जलं तथा ।
सेवयित्वा यथायोग्यमाज्ञया च ततः परम् ॥६४॥
प्रसादान्नं जलं सर्वे जगृहुर्भावतः खलु ।
शयने चापि सर्वे ते चक्रुः साधोः प्रसेवनम् ॥६५॥
आप्रातः सेवनं चक्रुः पादसंवाहनादिकम् ।
प्रातः साधुस्ततः प्राह वर वृणुत चामठाः! ॥६६॥
प्रसन्नोऽस्मि नियमेन भक्त्या सतां प्रसेवया ।
भाबेनाऽहं प्रसन्नोऽस्मि गणयामि न दूषणम् ॥६७॥
महापापातिपापानि शाठ्यानि विविधान्यपि ।
प्रतारणानि सर्वाणि नाशयामि कृपावशः ॥६८॥
धूर्ततां सर्वथा चापि विश्वासघातनं ह्यपि ।
चौर्यपापं तथा द्रव्यापहरणोद्भवं त्वघम् ॥६९॥
सर्वं प्रसन्नभावोऽहं नाशयामि कृपावशः ।
उक्त्वेत्थं साधुरूपोऽपि मूर्तिरूपोऽभवत् क्षणम् ॥७०॥
नारायणस्वरूपश्च चतुर्भुजोऽभवत् क्षणम् ।
अनादिश्रीकृष्णनारायणश्रीकान्तवल्लभः ॥७१॥
श्रीप्रियामाधवीराधामाणिकीललितापतिः ।
अभवत्तूर्णमेवाऽसौ सर्वदिव्यविभूषणः ॥७२॥
दिव्यतेजोऽभिसंव्याप्तो दिव्यसौन्दर्यभाजनः ।
अथ तूर्णं सम्प्रदर्श्य रूपं दिव्यमनोहरम् ॥७३॥
तिरोऽभवत्ततो मूर्तौ ततः साधुस्वरूपवान् ।
व्यदृश्यत स्वयं कृष्णनारायणः कृपावशः ॥७४॥
अथ सर्वे क्षणं मुग्धा निष्पापा दिव्यदृष्टयः ।
जाता भक्तिवशाः कृष्णवशा गद्गदसुस्वराः ॥७५॥
भवपारं समस्तास्ते ह्ययाचन् दुःखनाशनम् ।
श्रीहरेः शरणं मुक्तिमयाचन् त्वक्षरे पदे ॥७६॥
धूतपापानि सर्वाणि क्षमापयेति चार्थयन् ।
पापजातेः समुद्धारं कुरु कृष्णेति चार्थयन् ॥७७॥
अथ बद्रीप्रिये स्वामी स्वयं श्रीहरिवल्लभः ।
पादजलं पाययित्वा दिव्यदेहान् व्यधाद्धि तान् ॥७८॥
विमानं त्वागतं तत्र दिव्यं वैकुण्ठवासिनाम् ।
पार्षदानां तत्र सर्वेऽध्यरोहन् प्रमुदान्विताः ॥७९॥
ययुर्धामाऽक्षरं ते वै प्राप्य वैकुण्ठमुत्तमम् ।
श्रीहरेः पादवासं ते प्रापुर्भक्त्याऽतिभावया ॥८०॥
साधुरूपो हरिस्तत्र तूर्णं तिरोभवत् क्षणात् ।
एवं श्रीबद्रिके भक्ता कनकांगी तु चामठी ॥८१॥
सकुटुम्बा ययौ मोक्षं धूर्ताऽपि भक्तिपावना ।
श्रवणात्पठनादस्य भुक्तिर्मुक्तिर्भवेत्तथा ॥८२॥
पापनाशो भवेच्चापि स्वर्गर्द्धिः संभवेदपि ।
साधुसेवाफलं साक्षात् कृष्णप्राप्तिर्भवेदपि ॥८३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने चामठीजातीयायाः कनकांगदायाः सकुटुम्बायाः साधुसमागमेन परमभक्त्या साधुरूपेण भगवत्प्राप्तिमोक्षणं चेत्यादिनिरूपणनामा नवाऽधिकत्रिंशोऽध्यायः ॥३९॥
N/A
References : N/A
Last Updated : May 06, 2021
TOP