संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः १०५

तिष्यसन्तानः - अध्यायः १०५

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि मायापालस्य भूभृतः ।
सर्वपापरतस्यापि साध्वर्पणात् प्रमोक्षणम् ॥१॥
कामरूपे पूर्वदेशे मायापालोऽभवन्नृपः ।
मांसादो मद्यपश्चापि व्यवायकर्मतत्परः ॥२॥
द्रव्यापहारकश्चापि कन्यादूषणकारकः ।
प्रजासु यत्र कुत्रापि विलोकयति शोभनाम् ॥३॥
युवतीं कन्यकां वापि वधूं सुवासिनीं च वा ।
प्रसह्य राजदूतैः स समाहृत्य भुनक्ति ताम् ॥४॥
नित्यं वधं पशूनां च करोति मांसहेतवे ।
पक्षिणां सर्वजातीनां मांसं खादति भूपतिः ॥५॥
यादसां भक्षकश्चापि सुरामद्यपरायणः ।
परराष्ट्रे निजदूतैश्चौर्यं कारयतीत्यपि ॥६॥
विप्राणां वा विधवानां देवानां धर्मवर्तिनाम् ।
धनान्याहृत्य राजाऽपि स्वकोशे स्थापयत्यपि ॥७॥
मखानां धर्मकार्याणां विरोधी दाननिन्दकः ।
साधूनां च सतीनां च तिरस्कारपरायणः ॥८॥
भिक्षुकानां दुःखकर्ता होमरोधनतत्परः ।
मन्दिराणां नाशयिता पूजारोधकरस्तथा ॥९॥
देवतां मनुते नैव मूर्तौ श्रद्धाऽस्य नो गुरौ ।
ईश्वरं नैव मनुते परमेशं कुतोऽपि न ॥१०॥
अहमेवाऽस्मि भगवान् राजा हि परमेश्वरः ।
यजन्तु नृपतिं मां वै प्रजेश्वरं महेश्वरम् ॥११॥
पूजयन्तु प्रजा मां च प्रसादय मां हरिम् ।
राजा साक्षाद्धरिर्लोके नान्यो हरिरगोचरः ॥१२॥
पातिव्रत्यं राजरूपे हरौ कार्यं स्त्रिया सदा ।
राज्ञे करः प्रदातव्यो धर्मार्थ एव जायते ॥१३॥
राजा भोक्ता समस्तानां शास्ता नेता च रक्षकः ।
मूर्तिर्ब्रह्ममयी राजा यष्टव्यः स मखे द्विजैः ॥१४॥
कामनातर्पणं श्राद्धं नान्यच्छ्राद्धं विधेयवत् ।
पुमर्थः कामनातृप्तिरिन्द्रियाणां च तर्पणम् ॥१५॥
भोगः श्रेयस्करो लोके परः पुमर्थ एव सः ।
न स्वर्गो नापवर्गश्च प्रेतता नहि कस्यचित् ॥१६॥
याम्यलोको न चैवाऽस्ति कारागारो ममैव सः ।
यमोऽहं च कुबेरोऽहं नारायणो भवाम्यहम् ॥१७॥
मां भजन्तु ततः सर्वेऽन्यथा दण्ड्या ममेति वै ।
बद्रिके स नृपो मायापालश्चैवं समन्ततः ॥१८॥
घोषणां कारयामास प्रजासु राष्ट्रगासु वै ।
आजीविका हृतास्तेन पूर्वराजभिरर्पिताः ॥१९॥
देवालयाः सार्गलाश्च कृतास्तेनाऽधिनाऽभितः ।
पूजाप्रवाहा निहता विप्राश्च दण्डिता मुहुः ॥२०॥
सतीनार्यो दूषिताश्च मूर्तयः खण्डिता हरेः ।
तीर्थदानादिविधयो हतास्तेन दुरात्मना ॥२१॥
देवयजना विप्रास्तु कारागारे निपातिताः ।
साधवो बहवस्तेन निजदण्डेन ताडिताः ॥२२॥
साध्व्यो देव्यः पुरुषेभ्यः प्रसह्य तेन चार्पिताः ।
तीर्थं नाम हतं तेन नास्तिक्येन तु भूभृता ॥२३॥
निजपत्नी महाराज्ञी कामाक्षी नामतः कृता ।
सैव देवी सैव लक्ष्मीर्दुर्गा सैवेति घोषिता ॥२४॥
सा तीर्थं सा देवमाता सा मान्येति प्रघोषिता ।
समद्यमांसनैवेद्यार्पणं तस्यै करोति सः ॥२५॥
राज्ञे सर्वार्पणं कार्यं चेत्येवं स करोत्यपि ।
प्रातः सिंहासने नित्यं राजा राज्ञी प्रतिष्ठितः ॥२६॥
प्रजाः शासनरोधेन नित्यं प्रातर्यथाक्रमम् ।
आगत्य देववन्नत्वाऽर्चयन्ति तावुभावपि ॥२७॥
ब्राह्मणा नृपतेर्लोकानुच्चार्य पूजयन्ति तौ ।
भोजयन्ति च भूपालं राज्ञीं च सततं प्रजाः ॥२८॥
एवं वै बद्रिके चाऽऽन्ध्यं प्रावर्तत तदा खलु ।
मायापाले हिं नृपतौ कामरूपे प्रदेशके ॥२९॥
देवकोपस्ततो जातः प्रजाकोपोऽपि वै महान् ।
दुर्भिक्षं चाऽभवद् राष्ट्रे रोगाः प्रजासु चाऽभवन् ॥३०॥
दावाग्निर्वनभूभागे व्यजायत पुनः पुनः ।
राज्ञो दोषेण वै बद्रि प्रजापीडाः समागताः ॥३१॥
यतो राजानुयायिन्यो नास्तिक्यश्च प्रजा अपि ।
राजाशयानुसारिण्यस्तदाऽभवन गृहे गृहे ॥३२॥
दुर्भिक्षेण तदा बद्रि हाहाकारो महानभूत्॥
नाऽन्नं न सलिलं क्वापि लभते मानवः खलु ॥३३॥
ब्रह्मपुत्री जलहीना महानदी व्यजायत ।
हिमाद्रौ वर्षणं नास्ति देवतानां प्रकोपतः ॥३४॥
अरण्यानि समस्तानि पर्वतीयानि सर्वशः ।
दावानलैः प्रदग्धानि पर्वता भस्मशोभनाः ॥३५॥
अभवन् बद्रिके भूमिर्दग्धेव दृश्यते तदा ।
पशवः पक्षिणश्चापि मृता यादांसि सर्वथा ॥३६॥
नाऽऽहारो लभ्यते राष्ट्रे भवन्ति व्यसवो जनाः ।
मांसादा मानवास्तत्र मानुषादास्ततोऽभवन् ॥३७॥
राक्षसा इव चान्योन्यं भक्षयन्ति नरान् मिथः ।
नार्यश्च बालकाँश्चापि मृतमांसान्यदन्ति च ॥८॥
एवं वै दैवकोपेन रोगेणापि हताः प्रजाः ।
पापिनां चातिपापानां फलानि त्वत्र जन्मनि ॥३९॥
आयान्त्येव न सन्देहस्तीव्रवेगवतां द्रुतम् ।
संगदोषेण पुण्याढ्या अपि दह्यन्ति वेगगाः ॥४०॥
शुष्कमध्यस्थितं चार्द्रं दावाग्निना हि दह्यति ।
राज्ञः पुत्रशतं नष्टं रोगेण कन्यकाशतम् ॥४१॥
रोगग्रस्तौ नृपो राज्ञी व्यजायेतां क्षयान्वितौ ।
दासा दास्यो मृताः सर्वे रोगेण पशवोऽपि च ॥४२॥
वाहनानि विनष्टानि क्षुधया पीडितानि वै ।
कामाक्ष्याः परमः कोपो राज्येऽभितो व्यजायत ॥॥४३॥
भूताः प्रेताः पिशाचाश्च भ्रमन्ति नगरे तदा ।
यमदूतास्ताडयन्ति मारयन्ति नयन्ति च ॥४४॥
एवं याम्यालयो राष्ट्रं द्वितीय इव चाऽभवत् ।
पादौ हस्तौ विक्षिपन्तो दृश्यन्ते मानवा भुवि ॥४५॥
क्षुधया तृषया व्याप्ता मूर्छिताश्चत्वरादिषु ।
नग्ना विवस्त्रा निर्लज्जा महादुःखातिपीडिताः ॥४६।!
जलं जलं च क्रोशन्तश्चान्नं चान्नं मुहुः क्षितौ ।
विलुण्ठन्तोऽप्यशक्तास्ते समुत्थातुं विमूर्छिताः ॥४७॥
कण्ठरावान् भयदाँश्च कृत्वा त्यजन्ति तै ह्यसून् ।
न दाता विद्यते कश्चिन्न हर्ता शान्तिदोऽपरः ॥४८॥
समानावस्थगाः सर्वे कः कं संभालयेदहो ।
राष्ट्रं वै प्रलयावस्थं मायापालस्य दृश्यते ॥४९॥
पापफलं समस्तं वै समायातं समूहितम् ।
हाहाकारोऽभितो जातो राष्ट्रान्तरेषु कर्णगः ॥५०॥
मम लोके तथा स्वर्गे सा वार्ताऽवर्तताऽपि च ।
मायापालेन राज्ञा वै फलं पापस्य भुज्यते ॥५१॥
प्रजाभिर्भुज्यते चापि प्रत्यक्षं चेह जन्मनि ।
ब्रह्मपुत्री नदी चापि ब्रह्माऽग्रेऽकथयत् कथाम् ॥५२॥
सनत्कुमारो भगवान् श्रुत्वा दयापरोऽभवत् ।
नत्वा स्वपितरं तूर्णं ब्रह्मपुत्र्या समं तदा ॥५३॥
दयावशो भुवं गत्वा व्यलोकयद् दशां च ताम् ।
कामाक्षी देविका लज्जानम्रा सत्कारमाचरत् ॥५४॥
दिव्यः सनत्कुमारः स ब्रह्मपुत्री स्वसा नदी ।
कामाक्ष्या पूजितौ चोभौ निषेदतुः स्वमन्दिरे ॥५५॥
शुभासने राजमानौ पप्रच्छाऽऽगमकारणम् ।
सनत्कुमारो भगवानाह कामाक्षिकां सतीम् ॥५६॥
दुर्भिक्षेऽत्र प्रदेशे वै त्वयाऽनुष्ठितभूतले ।
आर्ता नश्यन्ति बहवः प्रजा नाशं प्रयान्ति च ॥५७॥
राजा पापफलं भुंक्ते पापात्मा प्रजया सह ।
देवा देवालया यज्ञा विप्रा हताश्च भूभृता ॥५८॥
जाताः प्रजाश्च तन्मय्यस्ततः पीडां प्रयान्ति ताः ।
वार्तैषा दिवि सत्ये च देवर्षयो वदन्ति हि ॥९९॥
ब्रह्मपुत्रीमुखाच्छ्रुत्वा जातदयोऽहमागतः ।
निरीक्षितुं समीकर्तुं सान्त्वयितुं तदापदः ॥६०॥
यदि मातुः कृपा चास्ति चिकीर्षामि प्ररक्षणम् ।
श्रुत्वैवं बद्रिके कामाक्षिणो प्राह सनत्मुनिम् ॥६१॥
राजा पापतमश्चास्ते ततः प्रजा च तादृशी ।
दण्डाऽर्हो विद्यते राजा साक्षाद् दण्ड्योऽस्ति सर्वथा ॥६२॥
शिक्षोत्तरं कृपा युक्ता देवद्रोही यता नृपः ।
इतिकामाक्षिणीवाक्यं श्रुत्वोवाच सनत्मुनिः ॥६३॥
अस्त्वेवं पापकृद् राजा दण्डं भुनक्तु गोचरम् ।
तावद् देव्या स्मृतस्तत्र यमदूतः समाययौ ॥६४॥
विकरालः करालास्यः कज्जलाभो गिरिप्रभः ।
समुद्गरो व्योममार्गेणाऽवाततार सन्निधौ ॥६५॥
मायापालं विनिगृह्य बध्वा सदेहमम्बरे ।
निनाय मारयन्मारं मुद्गरेण यमालयम् ॥६६॥
चित्रगुप्तोदितकर्मफलभोगार्थमेव सः ।
क्षिप्तो लोहमयीसूर्म्यालिंगनार्थं महानले ॥६७॥
ततोऽतितप्ततैलाढ्यकटाहे भर्जितः स तु ।
महारौरवनरके भक्षितो रौरवैस्ततः ॥६८॥
असिपत्रवने राजा चालितो भेदितो बहुः ।
वृषदंशो वृश्चिकाद्यैर्दृष्टः सर्पादिभिस्तथा ॥६९॥
विशस्तः प्राणिभिश्चापि नृपो विशसने मुहुः ।
सप्तलोहरसै राजा पायितश्च पुनः पुनः ॥७०॥
लकुटैः क्षारयष्ट्याद्यैस्ताडितश्च विघातितः ।
अधोमस्तकवान् राजा वह्निकुण्डे प्रदाहितः ॥७१॥
ताम्रभूमौ चालितश्च चूर्णितो यन्त्रकैस्ततः ।
पेषितश्चक्रकैश्चापि रन्धितो भक्षितो यमैः ॥७२॥
सन्दंशेन नृपजिह्वा निष्कासिता च कर्तिता ।
कर्णयोः सीसकं तप्तं सेचितं च मुखेऽपि च ॥७३॥
शूलं तप्तं नेत्रयोश्च निहितं च गलेऽपि च ।
शक्त्या राजा भेदितश्च वक्षस्येव पुनः पुनः ॥७४॥
उत्कृत्य चर्म भूपस्य मांसं वै खादितं यमैः ।
रुधिरं च यमैः पीतं मज्जाऽस्याऽऽस्वादिता यमैः ॥७५॥
श्वापदैः फाडितश्चापि कुंभिपाके निपातितः ।
लोहयन्त्रे पेषितश्च पर्वतात् पातितस्तथा ॥७६॥
वैतरण्यां वाहितश्च लिङ्गं तस्य विकर्तितम् ।
नपुंसकीकृतो राजा निर्वृषणोऽभवत्ततः ॥७७॥
स्त्रीभगाढ्यः शरीरे च सहस्रभगवान् कृतः ।
स्त्रीमूत्रं पायितस्तत्र प्राशितः पाशवं मलम् ॥७८॥
शंकुन्यासान्नासिकायां गुदायां च प्रपीडितः ।
गलरोधान्मारितश्च करस्पर्शेन जीवितः ॥७९॥
पुनश्च भक्षितो राजा पुनः स्वस्थीकृतो मुहुः ।
इत्येवं कर्मणां राजा फलानि तेन वर्ष्मणा ॥८०॥
दैवेच्छ्याऽऽप्तवान् कष्टान्यनन्तानि यमालये ।
सनत्कुमारो भगवान् ध्यानेन च समाधिना ॥८१॥
व्यलोकयद्धि तत्सर्वं पापफलं नृपे तदा ।
पुनर्दयां परां प्राप्योवाच कामाक्षिकां सतीम् ॥८२॥
दुष्टानां दमनं धर्मः स च जातोऽस्ति भूभृति ।
देवानां तु दया धर्मः कर्तव्योऽद्य नृपादिषु ॥८३॥
भुंक्ते कष्टानि भूपालश्चाक्रोशं प्रकरोत्यपि ।
हा हतोऽस्मि हा हतोऽस्मि त्राता मे त्राणमावह ॥८४॥
न नास्तिक्यं करिष्येऽहं न व्यवायं न हिंसनम् ।
न चौर्यं हरणं वापि निन्दनं शठतां न च ॥८५॥
न यज्ञानां निरोधं वा पूजावरोधनं न वा ।
न करिष्येऽवमानं च साधूनां योगिनां तथा ॥८६॥
हा चेद् रक्षाकरः कश्चिन्नारायणो नरोऽपि वा ।
मां प्ररक्ष्य निजं लोकं सदेहं प्रापयन्त्वितः ॥८७॥
प्रणमामि परात्मानं यमं धर्मं नमामि च ।
विष्णुं हरं वेधसं च प्रणमामि जनार्दनम् ॥८८॥
कामाक्षीं च सतीं दुर्गां लक्ष्मीं नमामि रक्षिकाम् ।
तीर्थानि प्रणमाम्यत्र साधून्नमामि रक्षकान् ॥८९॥
देवान् सर्वान् प्रणमामि रक्षन्तु मां यमालयात् ।
भजिष्ये परमात्मानं पूजयिष्ये द्विजान् सतः ॥९०॥
सत्संगतिं विधास्येऽहं तीर्थस्नानं गुरूत्सवम् ।
दानयज्ञं ब्रह्मयज्ञं करिष्ये ज्ञानयज्ञकम् ॥९१॥
जपयज्ञं होमयज्ञं करिष्ये साधुसेवनम् ।
एवं प्रलपन् विलपन् ननाम चाम्बरे मुहुः ॥९॥
तावद् देवाज्ञया साधुः सनत्कुमारको मुनिः ।
क्षणमात्रेण चाऽदर्शि यमालये नृपाग्रतः ॥९३॥
सूर्यवद्भासुरांगं तं तपोनिधिं हरेः प्रियम् ।
भक्तिपात्रं जगत्त्राणकरं सिद्धं दयान्वितम् ॥९४॥
आगतं शान्तमनसं पुण्यनिधिं सुयोगिनम् ।
ब्रह्मशीलपरं दृष्ट्वा यमदूता भयं ययुः ॥६५॥
त्यक्त्वा नृपं ययुस्तूर्णं धर्मराजसभां प्रति ।
जगदुस्तं च वृत्तान्तं यमेशो विस्मयं ययौ ॥९६॥
उत्थाय सहसा धर्मराजः स्वागतमाचरत् ।
सत्कारं पूजनं चापि स्तवं चकार वै मुनेः ॥९७॥
पप्रच्छ चान्ये हेतुं मुनेः पादजलं पपौ ।
राज्ञः पाशविमुक्त्यर्थमागतोऽस्म्याह तं मुनिः ॥९८॥
पापिनां पापनाशार्थं साधूनां कर्म शस्यते ।
तदहं चास्य पापानां नाशार्थं पाशमुक्तये ॥९९॥
समागतोऽस्मि धर्मन्द्र विमोचयैनमत्र ह ।
मा चिरं कुरु धर्मेन्द्र विमोचय नृपं द्रुतम् ॥१००॥
अस्य दुःखस्य चानन्त्यं न द्रष्टुं शक्यते मया ।
तस्मान्मोचय राजेन्द्रं नेष्ये सदेहमेव तम् ॥१०१॥
इत्युक्त्वा विरराम द्राङ् मुनिः सनत्कुमारकः ।
धर्मो विचार्य वाक्यानि मुनये समुवाच ह ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने मायापालनृपस्यनास्तिक्यं महापापानि च, तत्फलानि, सदेहस्य याम्यदण्डभोगः, तद्रक्षार्थं सनत्कुमारागमश्चेत्यादिनिरूपणनामा पञ्चाऽधिकशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP