संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ३८

तिष्यसन्तानः - अध्यायः ३८

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि यन्त्रकर्त्र्याः कथां तथा ।
कृष्णानाम्नीनदीतीरे द्विजवाटीतिपत्तने ॥१॥
यन्त्रकर्त्री सती नारी कुटुम्बिनी पुराऽभवत् ।
पतिपुत्रवती पुत्रीसुहृद्बन्धुमती तथा ॥२॥
धनधान्यवती सम्पत्प्रपूरितसुमन्दिरा ।
हरौ भक्तिमती धर्मे निष्ठावती सुयोगिनी ॥३॥
सर्वसौभाग्यसम्पन्ना सतां सेवापरायणा ।
हिंसादिवर्जिता शीलधर्माढ्या सत्यमाश्रिता ॥४॥
देवाऽर्हणपराऽतिथिसत्कारादिप्रमोदिनी ।
आत्मसाधनसंरक्ता मायामायिकनिस्पृहा ॥५॥
भजते भगवन्तं सा श्रीकृष्णपुरुषोत्तमम् ।
कृष्णायां प्रत्यहं प्रातः स्नात्वा देवार्हणं शुभम् ॥६॥
कृत्वा वृद्धान्नमस्कृत्य पतिं सम्पूज्य भावतः ।
पत्युः पादजलं धृत्वा मुखे शिरसि वर्ष्मणि ॥७॥
देवप्रसादतुलसीपत्रं न्यस्य मुखे ततः ।
पुत्राद्यर्थं पयःपानं सम्पादयति भामिनी ॥८॥
नाम्ना तु गोमतीदेवी गवां सेवापरायणा ।
पतिस्तस्या नयराजाभिधः परमवैष्णवः ॥९॥
पुत्राः पुत्र्यो बान्धवाद्याः सर्वेऽपि वैष्णवोत्तमाः ।
भजन्ते परमात्मानं सेवन्ते साधुमण्डलम् ॥१०॥
विहाय बन्धनीं मायां कुर्वन्ति त्वात्मना हितम् ।
वर्तन्ते धर्मकार्येषु नारायणपरायणाः ॥११॥
किन्तु ते जीविकार्थं वै लोहयन्त्राणि यान्यपि ।
इक्षुरसोपयुक्तानि तैलनिष्कासनानि च ॥१२॥
एवंविधानि त्वन्यानि रचयन्ति स्म वृत्तितः ।
तेषां क्रयेण लब्धं यद्धनं तेन तु जीविकाम् ॥१३॥
निर्वहन्त्येव ते सर्वे महाभागवता जनाः ।
लोहरसद्रवार्थं ते भ्राष्ट्रीं कुर्वन्ति वै यदा ॥१४॥
जीवास्तत्रापि दह्यन्ति पातकं तत् प्रजायते ।
यन्त्रैरिक्षुसमूहाश्च पीड्यन्ते रसलब्धयै ॥१५॥
तत्रेक्षुदण्डकीटाद्याः पीड्यन्ते रसमिश्रिताः ।
तिलानां पीडने भूमिफलीनां पीडनादिषु ॥१६॥
जन्तवोऽपि प्रपीड्यन्ते कार्पासयन्त्रकेऽपि च ।
म्रियन्तेऽसंख्यकीटाद्यास्तत्पापं हिंसनात्मकम् ॥१७॥
पीडकानां यन्त्रवाहकानां कणप्रदायिनाम् ।
यन्त्ररचनाकर्तॄणां यन्त्राणां स्वामिनां तथा ॥१८॥
भृत्यानां जायते हिंसा तथैव कर्मचारिणाम् ।
एवं यन्त्रकृतां बद्रि पापभागः प्रजायते ॥१९॥
तेन पापेन लिप्यन्ते निरयान् यान्ति दारुणान् ।
महाभागवताश्चैते जातिकर्मपरायणाः ॥२०॥
अपि पुण्यमयाः सर्वे तथापि पापभागिनः ।
असंख्यानां तु कीटानां हिंसनं नित्यदा भवेत् ॥२१॥
यन्त्रेषु यन्त्रकर्तॄणां पापं त्वसंख्यकं सदा ।
आयात्येव ततस्तेषां मुक्तिस्तु सार्गला भवेत् ॥२२॥
आततायिमहापापं सर्वनाशकरं मतम् ।
यन्त्रकारा यन्त्रपापैर्लिप्यन्ते त्वाततायिवत् ॥२३॥
पापैर्वंशविनाशश्च स्मृद्धिनाशोऽपि जायते ।
प्रेता भवन्ति मृत्वा ते बान्धवान् पीडयन्त्यपि ॥२४॥
एवं बद्रीप्रिये यन्त्रकाराणां कालपर्यये ।
नयराजप्रभृतीनां कुटुम्बे राजयक्ष्मकः ॥२५॥
वासं चकार रोगोऽयं क्षीणतामनयज्जनान् ।
गोमती तु विचार्येत्थं भक्तानां रुग्णता कथम् ॥२६॥
कथं वा भगवद्भक्तौ क्षयवासः प्रवर्तते ।
आबालवृद्धयोषाद्याः कथं रोगाभिसंप्लुताः ॥२७॥
प्रष्टव्यं वेदविदुषे भाग्यज्ञाय तु सर्वथा ।
विचार्येत्थं ययौ विप्रं नाम्ना प्रभातबोधिनम् ॥२८॥
पप्रच्छ तं तदा देवी गोमती रोगकारणम् ।
प्रश्नकालं वीक्ष्य विप्रो जगाद यन्त्रजं फलम् ॥२९॥
यन्त्रजा जीवहिंसा या साऽपि कर्तरि भागतः ।
संक्रमते तथा निर्मातरि योजयितर्यपि ॥३०॥
वाहयितरि पत्यौ च स्वामिनी क्रिययाऽन्विते ।
निरीक्षके संक्रमते तथा सञ्चालकेऽपि च ॥३१॥
गोमति त्वत्कुटुम्बं वै यन्त्रनिर्माणकर्तृ यत् ।
ततः पापं तु कीटादिहिंसायाः क्रमते सदा ॥३२॥
निस्तारोऽस्य प्रकर्तव्योऽन्यथा वंशविनाशनम् ।
भविष्यति न सन्देहो यथेष्टं कुरु भामिनी ॥३३॥
श्रुत्वा सा बद्रिके प्राह विप्रं प्रभातबोधिनम् ।
प्रायश्चित्तं देहि नोऽत्र निस्तारो येन जायते ॥३४॥
प्रभातबोधस्तां प्राह प्रथमं त्वघरोधनम् ।
प्रायश्चित्तं ततो दत्तं फलं करोति नान्यथा ॥३५॥
यन्त्राणां रचनां त्यक्त्वा लोष्ठादीनां तु विक्रयम् ।
क्रयं वा प्राणयात्रार्थं खनिखातं करोत्वपि ॥३६॥
अतो यन्त्रनिर्मितेस्तु पापभागो हि रुद्ध्यते ।
नवं पापं जायते न जातस्य निष्कृतिं कुरु ॥३७॥
कुटुम्बेन सहिता त्व तीर्थयात्रां विधेहि वै ।
गोदावरीं नर्मदां च तापीं साभ्रमतीं तथा ॥३८॥
शत्रुञ्जयां च हरिणीं भद्रां च गोमतीं ततः ।
स्वर्णलेखां च कुंकुमवापीमश्वसरोवरम् ॥३९॥
पुष्करं सारसं तीर्थं यमीं गंगां च पावनीम् ।
सरयूं गण्डकीं ब्रह्मपुत्रां तथेन्द्रद्युम्नकम् ॥४०॥
ताम्रपर्णीं च कावेरीं पम्पासरश्च सागरम् ।
कृत्वा क्रमेण तीर्थानि निष्पापा भव भामिनी ॥४१॥
पापक्षयो रोगनाशो भविष्यति न संशयः ।
श्रुत्वा तु गोमतीदेवी विचारमकरोत्तदा ॥४२॥
रोंगिणां शक्यमेवैतन्नास्ति तीर्थप्रवासनम् ।
दुर्लभं भ्रमणं दीर्घं चिरकालाभिनिर्वहम् ॥४३॥
तस्मादन्यत् पापनाशकरं दर्शय बुद्धिमत् ।
यस्मिन्ननुष्ठिते सर्वतीर्थफलं भवेदपि ॥४४॥
प्रायश्चित्तं प्रजायेत राजयक्ष्मविनाशनम् ।
सुखं भवेत् कुटुम्बस्य श्रीनाशो न भवेदपि ॥४५॥
श्रुत्वा विप्रोऽतिसरलां भूयःफलां तु निष्कृतिम् ।
जगाद तत्र वै योग्यां सतां सेवां महौषधिम् ॥४६॥
गोमति त्वं यथाशक्ता यथा विकृतितत्परा ।
यथाऽसि वैष्णवी तद्वद् दर्शयामि तु निष्कृतिम् ॥४७॥
अद्यारभ्य तु सततं करोतु साधुसेवनम् ।
सकुटुम्बा भावयुक्ता सस्नेहा संशयोज्झिता ॥४८॥
दिव्यबुद्ध्या दिव्यदृष्ट्या दिव्यसेवा तु यावतीम् ।
प्रकरोतु यथा सन्तः प्रसन्नाः स्युस्तवोपरि ॥४९॥
देहेन मनसा वाचा कर्मणा चेन्द्रियैरपि ।
सम्पदा धनरत्नाद्यैरन्नवस्त्रार्पणैरपि ॥५०॥
शय्यार्पणोपकरणैर्दासीवद् दासवत्तथा ।
प्रकाशे वा रहश्चापि पादसंवाहनादिभिः ॥५१॥
पुत्रीभिश्च सुतैश्चापि बालैर्वृद्धैः कुटुम्बिभिः ।
वधूभिर्गृहदानैश्च गोभिः स्वात्मार्पणैरपि ॥५२॥
सेवां सतां प्रकुर्वन्तु साध्वीनामपि सर्वथा ।
आत्मनिवेदनाद्यैश्च साधुसेवा हि भेषजम् ॥५३॥
सेवया चानुवृत्त्या च निरावरणयाऽन्वहम् ।
कृतया निःसंशयया प्रसीदन्ति हि साधवः ॥५४॥
प्रसादप्रेरिता आशीर्वादान् ददति साधवः ।
धनवान् पुत्रवानारोग्यवान् सम्पत्समेधितः ॥५५॥
सुखवान् मोदवान् सर्वोत्सववान् भव सर्वदा ।
विघ्ना यान्तु तव दूरं शत्रवो यन्तु संक्षयम् ॥५६॥
पापानां प्रलयस्तेऽस्तु पुण्याद्रिस्ते भवत्वपि ।
श्रीर्वर्चस्वॆ महापुण्यमाधिव्याधिविनाशनम् ॥५७॥
इष्टानां सङ्गमश्चाप्यनिष्टानां संक्षयोऽस्तु ते ।
सतां सेवाफलं दिव्यं सुखं चाऽत्र परत्र च ॥॥५८॥
अनादिश्रीकृष्णनारायणे भक्तिश्च शाश्वती ।
सर्वनाथे प्रभौकृष्णे चात्मनिवेदिताऽस्तु ते ॥५९॥
गृहे ते साधवः सन्तु वाटिकायां च साधवः ।
सन्तस्ते हृदये सन्तु जीवात्मन्यपि साधवः ॥६०॥
देहेन्द्रियेषु सन्तस्ते पृष्ठोऽग्रे सन्तु साधवः ।
अधो वोर्ध्वे पार्श्वभागे सदा ते सन्तु साधवः ॥६१॥
जाग्रद्भावे प्रस्वपने सुषुप्तौ सन्तु साधवः ।
याने प्रवासने वासे चासने शयने स्थितौ ॥६२॥
जृंभणे क्षुवने प्रमोदने च मोदनेऽपि च ।
क्रियायां क्रीडने शोके सहगाः सन्तु साधवः ॥६३॥
सहाया रक्षकाः सन्तो बान्धवाः सन्तु चान्विताः ।
याम्यदुःखहराः सन्तो दैवदुःखहरास्तथा ॥६४॥
कर्मनाशकराः सन्तः सन्तु ते सुखकारिणः ।
आधिभौतिकपीडानां नाशकाः सन्तु साधवः ॥६५॥
प्राणानां रक्षकाः सन्तु सन्तस्ते भगवत्पराः ।
इह यात्राकराः सन्तः परयात्राकरा अपि ॥६६॥
महायात्राकराः सन्तः सन्तु ते सर्वतोऽन्विताः ।
एवं द्वादशसंश्लोकं स्तोत्रं दास्यन्ति साधवः ॥६७॥
यत्पाठेन तथा सेवाभिश्च रक्षा भविष्यति ।
शीघ्रमद्यसमारम्य साधुशालां सुशोभनाम् ॥६८॥
मन्दिरं श्रीबालकृष्णमूर्तेः प्रकारयत्वपि ।
मा चिरं तेन विघ्नास्ते विनंक्ष्यन्ति न संशयः ॥६९॥
यद्यपि त्वं महाभक्ता कुटुम्बं ते च भक्तिमत् ।
तथापि साघुसेवाभिः सर्वोत्कृष्टं भविष्यति ॥७०॥
यन्नेन्द्रो नैव रुद्रोऽपि न यमो न च विश्वसृट् ।
न विष्णुर्नैव कालोऽपि न धर्मो न व्रतं तपः ॥७१॥
नैव नारायणश्चापि कर्तुं शक्नोति दुर्वहम् ।
तत्कर्तुं शक्नुवन्त्येव कृष्णाधिका हि साधवः ॥७२॥
साधुसंकल्पितं सर्वं कर्तव्यं परमात्मनः ।
कृष्णसंकल्पितं यन्न तत् स्यात् साधुप्रकल्पितम् ॥७३॥
साधूनां सेवनं पुण्यं साधुसङ्गो हि पुण्यदः ।
साधूनां दर्शनं पुण्यं पुण्याद्रयो हि साधवः ॥७४॥
आनखादाशिखं सन्तः पावना दिव्यविग्रहाः ।
रजो रजोऽणुमात्रं वै पावनं साधुविग्रहे ॥७५॥
अथ पत्यौ यथा पत्न्यां यथा पुत्रे धनेऽपि च ।
यथा वध्वां यथा पित्रोर्यथा गुरौ हरौ यथा ॥७६॥
तथा स्नेहः सदा कार्यः सत्सु साध्वीषु भावतः ।
श्रद्धया सेवनं कार्यं सर्वार्थसाधकं तु तत्। ॥७७॥
भोजनीयाः पूजनीयास्तर्पणीया हि साधवः ।
मोदनीयाः सेवनीयाः प्रसादनीयाः साधवः ॥७८॥
माननीया रक्षणीयास्तोषणीया हि साधवः ।
दर्शनीयाः स्पर्शनीया नमनीया हि साधवः ॥७९॥
चयनीया धारणीया ध्यातव्याः साधवः सदा ।
साधूनां त्विह सत्संगात् स्वर्गं मोक्षश्च शाश्वतः ॥८०॥
साधवः सुप्रसन्नाश्च चिन्तामणय एव ते ।
कल्पद्रुमा अक्षयभाजनानि साधवः सदा ॥८१॥
कामगावः साधवो वै कृष्णरूपा हि साधवः ।
तेषां समागमो मोक्षः सत्संगो भवपारकृत् ॥८२॥
तं समाचर यत्संगं रोगनाशं प्रयाहि च ।
स्वस्ति तेऽस्तु नीरुग्णत्वं दीर्घायुष्ट्वं च तेऽस्त्वपि ॥८३॥
इत्युक्ता बद्रिके देवीगोमती विप्रमुत्तमम् ।
प्रपूज्य स्वगृहं गत्वा श्रावयामास सर्वशः ॥८४॥
पतिं पुमान् कुटुम्बं च ततः सर्वे समाहिताः ।
गृहमेकं साधुशालात्मकं पृथक् प्रचक्रिरे ॥८५॥
तत्र सन्तः समायान्ति तान् सेवन्तेऽतिभावतः ।
गोमत्याद्या अन्नवस्त्रधनार्पणोपवस्तुभिः ॥८६॥
नारायणस्वरूपान् वै साधून् मत्वा प्रपावनान् ।
सेवन्ते स्म कुटुम्बाद्या यथोक्तभावकर्मभिः ॥८७॥
अथाऽऽशीर्वादमालब्ध्वा सतां ते पावनास्तथा ।
प्रभवन्ति शनै रोगविनाशारम्भरोहिताः ॥८८॥
सतां हृदये भगवाननादिनिधनः प्रभुः ।
ज्ञात्वा सेवां परं भावं कृष्णनारायणः स्वयम् ॥८९॥
कृष्णायनाभिधानः स साधुर्भूत्वा तथा श्रियम् ।
साध्वीं कृत्वा ययौ तस्या नगरं च गृहं ततः ॥९०॥
साधुशालास्थले गत्वा गोमत्यादिभिरादृतः ।
कृष्णायनः कृतपूजास्वागतः समुवास ह ॥९१॥
तयोः सेवा बहुधा वै कुटुम्बेन कृता तदा ।
धनैश्चित्रैर्वर्ष्मभिश्च भोजनाद्यैः समर्चनैः ॥९२॥
यथा यथा हरिश्चैच्छत् तथा तथा ददुस्तु ते ।
प्रसन्नो भगवान् जातः सेवया नरयोषिताम् ॥९३॥
शयने भोजने याने सर्वथा सेवितः प्रभुः ।
वरदानाय तां नारीं प्रैरयत् सापि तत्क्षणम् ॥९४॥
निरोगार्थं सम्पदर्थं मोक्षार्थं समयाचत ।
सतां सेवार्थमेवापि हरेर्योगार्थमित्यपि ॥९५॥
हरिः प्राह तथास्त्वेवं सर्वं ते सम्प्रजायताम् ।
हरेः पादाऽङ्गुष्ठवारि पीत्वा सर्वे हि पावनाः ॥९६॥
तदा जाता अथ रोगो राजयक्ष्मा तु मूर्तिमान् ।
निर्गतः सहसा श्रीमद्बालकृष्णाज्ञया द्रुतम् ॥९७॥
नत्वा ययौ स कैलासं कुटुम्बं रोगवर्जितम् ।
जातं प्रफुल्लहृदयं मोदाननं शुभाश्रयम् ॥९८॥
अथ कृष्णायनः कृष्णस्तेभ्यो मन्त्रं ददौ निजम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥९९॥
मूर्तिं निजां ददौ कार्ष्णायनीकृष्णायनात्मिकाम्।
दर्शनं प्रददौ दिव्यं चतुर्भुजं नरायणम् ॥१००॥
वीक्ष्य श्रीकान्तदेवेशं परमात्मानमच्युतम् ।
प्रसन्नास्ते कृतकृत्या जाता गोमतिकाजनाः ॥१०१॥
निष्पापाः पुण्यपुञ्जास्ते दिव्या मोक्षाभियोगिनः ।
सर्वे नेमुः पुपूजुश्च हरेः पादजलं पपुः ॥१०२॥
प्रसादं भक्षयामासुरर्चयामासुरच्युतम् ।
श्रियाः साध्व्यः कन्यकाद्याः सर्वाः स्त्रियोऽर्हणां व्यधुः ॥१०३॥
एवं बद्रीप्रिये तेषां नीरोगित्वं विधाय सः ।
अनादिश्रीकृष्णनारायणो द्रुतं तिरोऽभवत् ॥१०४॥
अथ तेऽपि च संभूय तीर्थार्थं निर्गतास्ततः ।
विंशेऽनादिकृष्णनारायणजयन्तिकोत्सवे ॥१०५॥
आययुस्तीर्थयात्रायामश्वपट्टसरोवरम् ।
कुंकुमवापिकाक्षेत्रं लोमशस्याश्रयं शुभम् ॥१०६॥
स्नात्वा तीर्थविधिं कृत्वा श्रीकृष्णवल्लभम् प्रियम् ।
कृष्णायनं बालकृष्णं वीक्ष्य प्रपूज्य माधवम् ॥१०७॥
अनादिश्रीकृष्णनारायणं प्रसेव्य भावतः ।
न्यूषुस्तत्रैवाक्षराख्ये क्षेत्रे त्वाजीवनं ततः ॥१०८॥
हरेः पदाश्रये सर्वे यन्त्रकारा हरिप्रियाः ।
दिव्यदेहा अभवंश्च जीवन्मुक्ताः प्रभुप्रियाः ॥१०९॥
हरिकृष्णस्य वचने स्थिताः सर्वे सदा ततः ।
हर्याज्ञया ययुर्धामाऽक्षरं विमानसंस्थिताः ॥११०॥
सर्वे सतां विमानैर्वै प्रापुः कृष्णपरास्पदम् ।
इत्येवं बद्रिके देवि भगवाँस्तानतारयत् ॥१११॥
पठनाच्छ्रवणादस्य चिन्तनात् पापनाशनम् ।
स्वर्गं मोक्षो भवेदेव प्रभुकृष्णबलाद् द्रुतम् ॥११२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने यन्त्रकर्त्र्या गोमतीनाम्न्या शूद्रायाः सकुटुम्बायाः क्षयरोगः सतां सेवया साधुरूपेण भगवत्प्राप्त्या रोगनाशो मोक्षणं चेत्यादिनिरूपणनामा-
ऽष्टत्रिंशोऽध्यायः ॥३८॥


References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP