आत्मतत्त्वके स्वरुपका निरुपण सांख्य, एवं योगके ज्ञानका अभेद आत्मसाक्षात्कारके साधनोंका वर्णन
ईश्वर उवाच
अवाच्यमेतद विज्ञानमात्मगुह्मां सनातनम ।
यन्न देवा विजानन्ति यतन्तोऽपि द्विजतयः ॥१॥
इदं ज्ञानं समाश्रित्य ब्रह्माभुता द्विजोत्तमाः ।
न संसारं प्रपद्यन्ते पूर्वेऽति ब्रह्मावादिनः ॥२॥
गुह्माद गुह्मातमं साक्षद गोपनीय प्रयत्नत ।
वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम ॥३॥
आत्मा यः केवल स्वस्थ शान्त सुक्ष्मः सनातनः ।
अस्ति सर्वान्तरह साक्शच्चित्रस्तमसः परः ॥४॥
सोऽन्तर्यामी स पुरुषः स प्रणः स महेश्वरः ।
स कालोऽग्निस्तद्वयक्तं स एवेदमिति श्रुतिः ॥५॥
अस्माद विजायते विश्वमत्रैव प्रविलीययते ।
स मायी मायाय बद्ध करोति विविधास्तनुः ॥६॥
न चाप्ययं संसरति न च संसारयेत प्रभुः ।
नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥७॥
न प्राणो न मनोऽव्यक्तं न शब्दः स्पर्श एव च
न रुपर्सन्धाश्च नाहं कर्ता न वागापि ॥८॥
न पाणीपादौ नो पयुर्न चोपस्थं द्विजोत्तमाः ।
न कर्ता न च भोक्ता वा न च प्रकृतिपुरुषौ ।
न माया नैव च प्राणश्चैवन्य परमार्थतः ॥९॥
यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।
तद्वदैक्यं न सम्बन्धः प्रपच्चपमात्मनो ॥१०॥
छयापतौ यथा लोके परस्पविलक्षणौ ।
तद्वत प्रपचंपुरुषौ विभिन्नौ परमार्थतः ॥११॥
यद्यात्मा मलिनोऽस्वस्थो विकारी स्यात स्वभावतः ।
नही तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥१२॥
पश्यन्ति मुनयो युक्ता स्वात्मानं परमार्थतः ।
विकराहिनं निर्दुःखमानन्दाम्त्मानमव्ययम ॥१३॥
अहं कर्ता सुखी दुःखी कृशः स्थुलेति या मतिः ।
सा चाहंकारकर्तृतादात्मन्यारोप्यते जनैः ॥१४॥
वदन्ति वेदविद्वंसा साक्षिणं प्रकृते परम ।
भोक्ता रमक्षरं शुद्धं सर्वत्र समावस्थित ॥१५॥
तस्मादज्ञानमुलो हि संसारः सर्वदेहिनाम ।
अज्ञानादन्यथा ज्ञानं तच्च प्रकृतिसंगतम ॥१६॥
नित्योदितः स्वयं ज्योति सर्वगः पुरुषः परः ।
अहंकाराविवेकेन कर्ताहमिति मन्यते ॥१७॥
पश्यन्ति ऋषयोंऽव्यक्तं नित्यं सदसदत्मकम ।
प्रधानं प्रकृति बुद्धवां कारणं ब्रह्मावादिनः ॥१८॥
तेनायं संगतो ह्यत्मा कुटस्थोऽपि निरत्र्जनः ।
स्वात्मानमक्षरं ब्रह्मा नावबुद्धयेत तत्वतः ॥१९॥
अनात्मन्यात्मविज्ञानं तस्माद दुखःअं तथेतरम ।
रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ॥२०॥
कर्मण्यस्य भवेद दोषः पुण्यापुण्यमिति स्थितिः ।
तद्वशादेव सर्वेषां सर्वेदेहसमुद्धवः ॥२१॥
नित्यः सर्वत्रयो ह्मात्मा कुटस्थो दोषवर्जितः ।
एकः स भिद्यते शक्या मायया न स्वभावतः ॥२२॥
तस्मादवैतमैवाहुर्मुनयः परमार्थतः ।
भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ॥२३॥
यथा ही धुमसम्पर्कान्नाकाशो मलिनो भवेत ।
अन्तः करणजैर्भावैरात्मा तवन्न लिप्यते ॥२४॥
यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ॥२५॥
ज्ञानस्वरुपमेवाहुर्जगदेतद विचक्षणाः ।
अर्थस्वरुपमेवाज्ञाः पश्यन्त्यन्ये कुदुष्तयः ॥२६॥
कुटस्थो निर्गुणा व्यापी चैतन्यात्मा स्वभावतः ।
दृश्यते ह्रार्थररुपेण पुरुषैर्भ्रान्तदृष्टिभिः ॥२७॥
यथा संलक्ष्यते रक्तः केवलः स्फटिको जनैः ।
रक्तिकाद्युपधानेन तद्वत परमपुरुषच ॥२८॥
तस्मादात्माक्षरं शुद्धो नित्यः सर्वगतोऽव्ययः ।
उपासितव्यों मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥२९॥
यदा मनासि चैतन्य भाति सर्वत्रगं सदा ।
योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम ॥३०॥
यदा सर्वाणि भुतानि स्वात्मन्येवाभिपस्याति ।
सर्वभुतेषु चात्मानं ब्रह्मां सम्पद्यते तदा ॥३१॥
यदा सर्वाणि भुताणि स्स्माधिस्थो न पश्यन्ति ।
एकीभुतः परेणासौ तदा भवाति केवलः ॥३२॥
यदा सर्व प्रमुच्यते कामा येऽस्य ह्रदि स्थिताः ।
तद्सासाममृतीभूतः क्षेमं गच्छति पण्डितः ॥३३॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्मा सम्पद्यते तदा ।३४॥
यदा पश्यति चात्मानं केवलं परमार्थतः ।
मायामात्रं जगत कृत्स्नं तदा भवति निर्वृतः ॥३५॥
यदा जन्मजरादुःक्ल्हव्याधीनामेक भेषजम ।
केवलं ब्रह्माविज्ञनं जायतेऽसौ तदा शिवः ॥३६॥
यथा नदीनदा लोके सागरेणैकतां ययुः ।
तद्वदात्माक्शरेणासौ निष्कलेनैकतां व्रजेत ॥३७॥
तस्माद विज्ञानमेवास्ति न प्रपचों न संसृतिः ।
अज्ञानेनावृतं लोको विज्ञानं तेन मुह्माति ॥३८॥
तत्ज्ञानं निर्मलं सुक्ष्मं निर्विकाल्पं यदव्ययम ।
अज्ञानमितरत सर्वं विज्ञानमिति मे मतम ॥३९॥
एतद वः परमं साख्यं भाषितं ज्ञनमुत्तमम ।
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥४०॥
योगात सत्र्जायते ज्ञानं ज्ञानात योगः प्रवर्तते ।
योगज्ञनाभिउक्तस्य नावाप्यं विद्यते क्वचितः ॥४१॥
यदेव योगिनो यान्ति सांख्येंस्तदधिगम्यते ।
एकं सांख्य च योग च यः पश्यति स तत्ववित ॥४२॥
अन्ये च योगिनो विप्रा ऐस्वर्यसक्तचेतसः ।
मज्जन्ति तत्र तत्रैव न त्वात्मैषामिति श्रुतिः ॥४३॥
यत्तत सर्वगतं दिव्यमैश्वर्यमचलं महत ।
ज्ञानयोगाभियुक्त देहान्ते तदवाप्नुयात ॥४४॥
एष आत्माहमव्यक्तो मायावी परमेश्वरः ।
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥४५॥
सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।
सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥४६॥
अपाणीपादो जवनो ग्रहीत ह्रुदि संस्थितः ।
अचक्षुरपि पश्यामि तथाकर्नः श्रृणोम्यहम ॥४७॥
वेदाहं सर्वमेवंद न मां जानाति कश्चन ।
प्राहुर्महान्तं पुरुषं मामेकं तत्वदर्शिनः ॥४८॥
पश्यन्ति ऋषयो हेतुमात्मनः सुक्ष्मदशिनः ।
निर्गुणामलरुपस्य यत्तदैश्वर्यमुत्तमम ॥४९॥
यन्न देवो विजनन्ति मोहिता मम मायया ।
वक्ष्ये समाहिता युयं श्रुणुध्वं ब्रह्मवादिनः ॥५०॥
नाहं प्रशास्तां सर्वस्य मायतीतः स्वभावतः ।
प्रेरयामि तथापीदं कारण सुरयो विदुः ॥५१॥
यन्मे गुह्मतमं देहं सर्वगं तत्वदर्शिनः ।
प्रविष्टा मम सायुज्यं लभत्ये योगिनोऽव्ययम ॥५२॥
तेषां हि वशमापन्ना माया मे विश्वरुपिणी ।
लभन्ते परमां शुद्धिं निर्वाणं ते मया सह ॥५३॥
न तेषां पुनरवृत्तिः कल्पकोटिशतैरपि ।
प्रसादान्मम योगीन्द्रा एतद वेदानुशासनम ॥५४॥
नापुत्र्शिष्ययोगिभ्यो दातव्यं ब्रह्मावादिभिः ।
मदुक्तमेतद विज्ञानं सांख्ययोगसमाश्रयम ॥५५॥
इति श्रीकूर्मपुराण षतसाहस्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) द्वितीयोऽध्यायः ॥२॥