गृहस्थ ब्राह्मणाकी मुख्य वृत्ति तथा आपत्कालकी वृत्ति गृहस्थके साधक तथा असाधक दो भेद, न्यायोपार्जित धनका विभाग एवं उसका उपयोग
व्यास उवाच
एषः वोऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः ।
द्विजातेः परमो धर्मो वर्तनानि निबोधत ॥१॥
द्विविधस्तु गृही ज्ञेयः साधक श्चाप्यसाधकः ।
अध्यापनं याजनं च पुर्वस्याहुः प्रतिग्रहम ।
कुसीदकृषिवाणिज्यं प्रकृर्वीतास्वयंकृतम ॥२॥
कृषेरभावाद वाणिज्यं तदभावात कुसीदकम
आपत्कल्पो ह्यायं ज्ञेयं पुर्वोक्तो मुख्य इष्यते ॥३॥
स्वयं वा कर्षणं क्रुयाद वाणिज्यं वा कुसीदकम ।
कष्टा पापीयसी वृत्तीः कुसीदं तदं विवर्जयेत ॥४॥
क्षात्रवृत्तिं परां प्राहुर्नं स्वयं कर्षणं द्विजैः ।
तस्मात क्षात्रेण वर्तेत वर्तनेनापदि द्विजः ॥५॥
तेन नावाप्यजीवस्तुं वैश्यवृत्तिं कृषिं व्रजेत ॥
न कथंचन कुर्वीत ब्राह्माणः कर्म कर्षणम ॥६॥
लब्धलाभः पितृन देवान ब्राह्मणाश्चापि पुजयेत ।
ते तृप्तास्तस्य तंदोषं शमयन्ति च संशयः ॥७॥
देवेभ्यश्च पितृभ्यश्च दद्याद भागं तु विंशकम ।
त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन न दुष्यति ॥८॥
वणिक प्रदद्याद द्विगुणं कुसीदी त्रिगुणं पुनः ।
कृषीवलो न दोषेण युज्यते नात्र संशयः ॥९॥
शिलोत्र्छं वप्याददीत गृहस्थः साधकः पुनः ।
विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ॥१०॥
आसाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः ।
शिलोत्र्छे तस्य कथिते द्वे वृत्ती परमार्षिभिः ॥११॥
अमृतेनाथवा जीवेन्मृतेनाप्यथा यदि ।
अयाचितं स्यादमृतं मृतं भैक्षं तु याचितम ॥१२॥
कुशुलधान्यको वा स्यात कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेदश्वस्तनिक एव च ॥१३॥
चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम ।
श्रेयान परः परो ज्ञेयो धर्मतो लोकजित्तमाः ॥१४॥
षटकर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते ।
द्वाभ्यामेकस्चतुर्थस्तु ब्रह्मासत्रेण जीवति ॥१५॥
वर्तयंस्तु शिलोत्र्छाभयमग्निहोत्रपरायणः ।
इष्टिः पार्वायणान्तीयाः केवला निर्वपेत सदा ॥१६॥
न लोकवृत्तिं वर्तेत वृत्तिहेतोः कथंचन ।
अजिह्मामशंठां शुद्धां जीवेद ब्राह्माणजीविकाम ॥१७॥
याचित्वा वापि सद्बयोऽन्नं पितृन देवास्तुं तोषयेत ।
याचयेद वा शुचिं दान्तं न तृप्येत स्वयं ततः ॥१८॥
यस्तु द्र्व्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु ।
देवान पितृश्च विधिना शुनां योनिं व्रजत्यसौ ॥१९॥
धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम ।
धमाविरुद्धः कामः स्याद ब्राह्मणानां तु नेतरः ॥२०॥
योऽर्थो धर्माय नात्मार्थः सोऽर्थोऽनर्थस्तथेतरः ।
तस्मदर्थं समसाद्य दद्याद वै जुहुयाद यजेत ॥२१॥
इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे पंचाविंषोऽध्यायः ॥२५॥