ईश्वर ( शंकर ) द्वारा अपने विभुतियोंका वर्णन तथा प्रकृति, महत आदि चौबीस तत्त्वों तीन गुणों एवं पशु, पाश और पशुपति आदिका विवेचन
ईश्वर उवाच
श्रृणुध्वमृषय सर्वे प्रभावं परमेष्ठिनः ।
यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत पुनः ॥१॥
परात परतरं ब्रह्म शाश्वतं निष्काल ध्रुवम ।
नित्यानन्दं निर्विकल्पं तद्भाम परमं मम ॥२॥
अहं ब्रह्माविंदा ब्रह्म स्वयम्भुर्विश्वतोमुखः ।
मायाविनामहं देव पुराणो हरिरव्ययः ॥३॥
योगिनामस्मयहं शम्भुः स्त्रीणां देवी गिरिन्द्रजा ।
आदित्यानामहं विष्णुंर्वसुनामस्मि पावकः ॥४॥
रुद्राणां शंकरश्चाहं गरुड़ पततामहम ।
ऐरवतो गजेन्द्रानां राम शस्त्रभृतामहम ॥५॥
श्रुषीणां च वसिष्ठोऽहं देवानां च शतक्रुतः ।
शिल्पिनां विश्वकर्माहं प्रह्रादोऽस्म्यमरद्विषाम ॥६॥
मुनीनामप्यहं व्यासो गणानां च विनायकः ।
वीराणां वीरभद्रोऽहं सिद्धानां कपिलो मुनिः ॥७॥
पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः ।
वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम ॥८॥
अनन्तो भोगिनां देवः सेनानीनां च पावकिः ।
आश्रमाणां च गार्हस्थमीश्वराणां महेश्वरः ॥९॥
महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम ।
कुबेरः सर्वयक्षाणां गणेशानां च वीरकः ॥१०॥
प्रजापतीनां दक्षोऽहं निऋतिः सर्वरक्षसाम ।
वायुर्बबलतामस्मि द्वीपानां पुष्करोऽस्म्यहम ॥११॥
मृगेन्द्राणां च सिंहोऽहं यन्त्राणां धनुरेव च ।
वेदानां सामवेदाऽर्हं यजुषां शतरुद्रियम ॥१२॥
सावित्री सर्वजप्यानां गुह्मानां प्रणवोऽस्म्यहम ।
सुक्तानां पौरुषं सुक्तं ज्येष्ठसाम च सामसु ॥१३॥
सर्ववेदार्थविदुषां मनुः स्वायम्भुवोऽस्म्यहम ।
ब्रह्मावर्तस्तु देशानां क्षेत्राणामविमुक्तकम ॥१४॥
विद्यानामात्मविद्याहं ज्ञानानमैश्वरं परम
भुतानामस्म्यहं व्योम सत्वानां मृत्युरेव च ॥१५॥
पाशानामस्म्यहम माया कालः कालयतामहम ।
गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥१६॥
यच्च्नय्दपि लोकेऽस्मिन सत्वं तेजोबलाधिकम ।
तत्सर्व प्रतिजनीर्ध्वं मम तेजोविजृम्भितम ॥१७॥
आत्मानः पशवः प्रोक्ताः सर्वे संसरवर्तिनः ।
तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥१८॥
मायापाशेन बध्नामि पशुनेतान स्वलीलया ।
मामेव मोचकं प्राहुः पशुनां वेदवादिनः ॥१९॥
मायापाशेन बद्धानां मोचकोऽन्यो न विद्यते ।
मामृते परमात्मानं भूताधिपतिमव्ययम ॥२०॥
चतुर्विशतितत्वानि माया कर्म गुणा इति ।
एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धना ॥२१॥
मनोभ्द्धिरहंकार खानिलाग्निजलानि भुः ।
एताप्रकृतयस्त्वष्टौ विकराश्च तथापरे ॥२२॥
श्रोत्रं त्वक चक्षुषी जिह्वा घ्राणं चैव तु पंचमम ।
पायुपस्थं करौ पादौ वाकचैव तथामते ॥२३॥
शब्दः स्पर्शश्च रुपं च रसो गन्धस्तथैव च ।
त्रयोविंशोतिरेतानि च रसो गन्धस्तथैव च ।
त्रयोविंश्तिरेतानि तत्वानि प्राकृतानि तु ॥२४॥
चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम ।
अनादिमध्यनिधनं कारणं जगतः परम ॥२५॥
सत्वम रजस्तमश्चेति गुणत्रयमुदाहृतम ।
साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥२६॥
सत्वं ज्ञानं तमोऽज्ञानं रजो मिश्रमुदाह्रुतम ।
गुणानां बुद्धिवैषम्याद वैषम्य कवयो विदुः ॥२७॥
धर्माधर्माविति प्रोक्तौ पाशौ द्वौ बन्धसंज्ञितौ ।
मय्यर्पितानी कर्माणि निबन्धाय विमुक्तये ॥२८॥
अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम ।
क्लेशाख्यानचलान प्राहुः पाशानात्मनिबन्धनान ॥२९॥
एतेषामेव पाशानां माया कारणमुच्यते ।
मुलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥३०॥
स एव मुलप्रकृतिह प्रधानं पुरुषोऽपि च ।
विकारा महादादीनि देवदेवः सनातनः ॥३१॥
स एव बन्धः स च बन्धकर्ता स एव पाशः पशवः स एव ।
स वेद सर्व न च तस्य वेत्ता तमाहुरग्रयं पुरुषं पुराणम ॥३२॥
इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) सप्तमोऽध्यायः ॥७॥