ऋषियोंको दिव्य नृत्य करते हुए भगवान शंकरका आकशमें दर्शन, मुनियोंद्वारा महेश्वरकी भावपुर्ण स्तुति करना
व्यास उवाच
एतावदुक्त्वा भगवान योगिनां परमेश्वरः ।
ननर्त परमं भावामैश्वरं सम्प्रदर्शयन ॥१॥
तं ते दद्रुशौरीशानं तेजसां परमं निधिम ।
नृत्यमानं महादेवं विष्णुना गगनेऽमले ॥२॥
यं विदुर्योगतत्वज्ञा योगिनो यतमानसाः ।
तमीशं सर्वभुतानामाकोशे दद्वशुः किल ॥३॥
यस्य मायामयं सर्व येनेदं प्रर्यते जगत ।
नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥४॥
यत्पादपंकजं स्मृत्वा पुरुषोऽज्ञानजं भयम ।
जहाति नृत्यमानं तं भुतेशं ददृशुः किल ॥५॥
यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।
ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥६॥
योऽज्ञानान्मोचयेत क्षिप्र प्रसन्नो भक्तवत्सलः ।
तमेव मोचकं रुद्रमाकशे ददृशुः परम ॥७॥
सहस्त्रशिरसं देवं सहस्त्रचरणाकृतिम ।
सहस्त्रबाहुं जटिलं चन्द्रार्धकृतशेखरम ॥८॥
वसानं चर्म वैयाघ्रं शुलासक्तमहाकरम ।
दण्डपाणिं त्रयीनेत्रं सुर्यसोमाग्निलोचनम ॥९॥
ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम ।
दंष्ट्राकराल दुर्धेर्षं सुर्यकोटिसमप्रभम ॥१०॥
अण्डस्थं चान्डबाह्मस्थं बाह्ममभ्यन्त परम ।
सृजन्तमनलज्वालं दहन्तमखिलं जगत ।
नृत्यन्तं ददृशर्देवं विश्वकर्माणमीश्वरम ॥११॥
महादेवं महायोगं देवानमपि दैवतम ।
पशुनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम ॥१२॥
पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम ।
कालात्मानं कालकालं देवदेवं महेश्वरम ॥१३॥
उमापतिं विरुपाक्षं योगानन्दमर्य परम ।
ज्ञानवैराग्यनिलयं ज्ञनयोगं सनातनम ॥१४॥
शाश्वतैश्वर्यविभवं धर्माधरं दुरासदम ।
महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम ॥१५॥
आधारं सर्वशक्तिनां महायोगेवरेश्वरम ।
योगिनां परमं ब्रह्मा योगिनां योगवन्दितम ।
योगिनां हृदि तिष्ठन्तं योगमायासमावृतम ॥१६॥
क्षणेन जगतो योनिं नारायणमनामयम ।
ईश्वरेणैकतपन्नमश्यन ब्रह्मावादिनः ॥१७॥
दृष्टा तदैश्वरंक रुपं रुद्रनारायणात्मकम ।
कृतार्थं मेनिर सन्तः स्वात्मानं ब्रह्मावादिनः ॥१८॥
सबत्कुमारः सनको भृगुश्च सनातनश्चैव सनन्दश्च ।
रुद्रोऽगिंर वमदेवोऽथ शुक्रो महार्षिरत्रिः कपिलो मरीचिः ॥१९॥
दृष्टाथ रुद्रं जगदीशितारं तं पद्मनाभाश्रितवामभागम ।
ध्यत्वा हृदिस्थं प्रणिपत्य मुर्ध्रा बदध्वात्र्जालिं स्वेषु शिरः सु भुयः ॥२०॥
ओंकरमुच्चार्यं विलोक्य देव मन्तःशरीरे निहितं गुहायाम ।
समस्तुवन ब्रह्मामयैर्वचोभि रानन्दपुर्णायतमानसास्ते ॥२१॥
मुनय ऊचुः
त्वामेकमीशं पुरुषं पुराणं प्राणेश्वर रुद्रमनन्तयोगम ।
नमाम सर्वे हृदि संनिविष्टं प्रचेतसं ब्रह्मामयं पवित्रम ॥२२॥
त्वा पश्यन्ति मुनयो ब्रह्मयोनिण दान्ता शन्ता विमलं रुक्मवर्णम ।
ध्यात्वत्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं तत्पर च ॥२३॥
त्वत्तः प्रसुतां जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः ।
अणोरणीयान महतो महियां स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥२४॥
हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः ।
संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्जः ॥२५॥
त्वत्तो वेदाः सकलाः सम्प्रसूतास्त्वय्येवान्ते सस्थितिं ते लभन्ते ।
पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये संनिविष्टम ॥२६॥
त्वयैवेदं भ्राम्यते ब्रह्माचक्रें मायावी त्व जगतामेकनाथः ।
नमामस्त्वां शरण सम्प्रपन्ना योगात्मानं चिप्ततिं दिव्यनृत्यम ॥२७॥
पश्यामस्त्वां परमाकाशमध्ये नृत्यन्तं ते महिमानं स्मरामः ।
सर्वात्मान बहुधा संनिविष्टंब्रह्मानन्दमनुभुयानुभुय ॥२८॥
ॐ कारस्ते वाचको मुक्तिबीजं त्वमक्षरं प्रकृतौ गुढरुपम ।
तत्वां सत्यं प्रवदन्तीह सन्तः स्वयम्प्रभं भवतो यत्प्रकाशम ॥२९॥
स्तुवन्ति त्वां सततं सर्ववेदा नामन्ति त्वमृषयाः क्षीणदोषाः ।
शान्तात्मान सत्यसंधा वरिष्ठं विशान्ति त्वां यतयो ब्रह्मनिष्ठा ॥३०॥
एको वेदो बहुशाखो ह्यानन्तस्त्वामेवैकं बोधयत्येकरुपम ।
वेद्यं त्वा शरणं ये प्रपन्नास्तेषा शान्तिः शाश्वती नेतरेषाम ॥३१॥
बह्वानीशोऽनादिमांस्तेजोराशिर्ब्रह्मा विश्वं परमेष्ठि वरिष्ठः ।
स्वत्मानन्दमनुभ्याधिशेते स्वयं ज्योतिरचलो नित्यमुक्तः ॥३२॥
एको रुद्रस्त्वं करोषीहं विश्वं त्व पालयस्याखिलं विश्वरुपः ।
त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वांक शरणं सम्प्रपन्नाः ॥३३॥
त्वामेकमाहुः कविमेकरुद्रं प्राणं बृहन्तं हरिमाग्निमीशम ।
इन्द्रं मृत्युमनिलं चिकितानं धतारमादित्यमनेकरुपम ॥३४॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम ।
त्वमव्ययः शाश्वतधर्मगोप्ता स्नातनस्वं पुरुशोत्तमोऽसि ॥३५॥
त्वमेव विष्णुश्चतुराननस्त्वंत्वमेव रुद्रो भगवानधीशः ।
त्वं विश्वनाभिः प्रकृति प्रतिष्ठा सर्वेश्वरस्त्वं परमेश्वरोऽसि ॥३६॥
त्वामेकमाहुः पुरुषं पुराण मादित्यवर्ण तमसः परस्तात ।
चिन्मात्रमव्यक्तमचिन्त्यरुपं खं ब्रह्मा शुन्यं प्रकृतिं निर्गुणं च ॥३७॥
यदन्तरा सर्वमिदं विभति यदव्ययं निर्मलमेकरुपम ।
किमप्यचिन्त्यं तव रुपमेतत तदन्तरा यत्प्रतिभाति तत्वम ॥३८॥
योगे श्वरं रुद्रमन्तशक्तिम परायणं ब्रह्मातनुं पवित्रम ।
नमाम सर्व शरणार्थिनस्त्वां प्रसीद भूताधिपते महेश ॥३९॥
त्वत्पादपद्मस्मरणादशेष संसारबीजं विलयं प्रयाति ।
मनो नियम्य प्रणिधाय कायं प्रसादयमो वयमेकमीशम ॥४०॥
नमो भवायास्तु भवोद्भवाय कालाय सर्वाय हराय तुभ्यम ।
नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥४१॥
ततः स भगवान देवः कपर्दी वृषवाहनः ।
संह्रुत्य परमं रुपं प्रकृतिस्थोऽभवद भवः ॥४२॥
ते भवं भूतभव्येशं पूर्ववत समवस्थितम ।
द्वष्टा नारायण देवं विस्मिता वाक्यमब्रुवन ॥४३॥
भगवान भूतभव्येश गोवृषाकिंतशासन ।
दृष्टा ते परमं रुपं निर्वृताः स्म सनातन ॥४४॥
भवत्प्रसादादमले परस्मिनं परमेस्वरे ।
अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥४५॥
इदानीं श्रोतुमिच्छमो माहात्म्यं तव शंकर ।
भुयोऽपि तव यन्नित्यं याथात्म्यं परमेष्ठिनः ॥४६॥
स तेषा वाक्यमाकण्य योगिनां योगसिद्धिदः ।
प्राह गम्भीरया वाचा समलोक्य च माधवम ॥४७॥
इति श्रीकूर्मपुराण षटसाहस्रयां संहितायामुपरिविभागे ( इश्वरगीतासु ) पंचमोऽध्यायः ॥५॥