भोजन विधि, ग्रहणकालमें भोजनका निषेध , शयन विधि, गृहस्थके नित्यकर्मोके अनुष्ठानका महत्व
व्यास उवाच
प्राडमुखोऽन्नानि भुत्र्जीत सुर्याभिमुख एव वा ।
आसोनिस्त्वावाने शुद्धे भुम्यां पादौ निधाय तु ॥१॥
आयुष्यं प्राडमुखो भुक्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यमुखों भुक्तें ऋतं भुक्तें उदंमुखः ॥२॥
पंचाद्रों भोजनं कुर्याद भुमौ पात्रं निधाय तु ।
उपवासेन तत्तुल्यं मनुराहं प्रजापतिः ॥३॥
उपलिसे शुचौ देशे पादौ प्रक्षाल्य वै करौ ।
आचम्याद्राननोऽक्रोधः प्रंचाद्रौ भोजनं चरेत ॥४॥
महाव्याहृतिभिस्त्वन्नं परिधायोदकेन तु ।
अमृतोपस्तरणमसीत्यापोशानक्रियाः चरेत ॥५॥
स्वाहाप्रणवसंयुक्तं प्रणायाद्याहुतिं ततः ।
अपानाय ततो हुत्वा व्यानाय तदनन्तरम ॥६॥
उदानाय ततः कुर्यात समानायेति पंचमीमा ।
विज्ञाय तत्त्वमेतेषां जुहुयादात्मानि द्विजः ॥७॥
शेषमन्नं यथाकामं भुत्र्जीतव्यं जनैर्युतम ।
ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम ॥८॥
अमृतापिधानसमसीत्यौपरिष्टादपः पिबेत ।
आचान्तः पुनराचार्मेदायं गौरिति मन्त्रतः ॥९॥
द्रुपदां वा त्रिरावत्य सर्वपापप्रणाशिनीम ।
प्राणानं ग्रन्थिरसीत्यालभेद हृदयं ततः ॥१०॥
आचम्यांगष्ठमात्रेति पदांगुष्ठेऽथ दक्षिणे ।
निःस्त्रावयेद हस्तजलमुर्ध्वहस्तेः समाहितः ॥११॥
हुतानुमन्त्रणं कुर्यात श्रद्धायामिति मन्त्रताः ।
अथाक्षरेण स्वतमनं योजयेद ब्रह्माणेति हि ॥१२॥
सर्वेषामेव यागानामात्मयागः परः स्मृतः ।
योऽनेन विधिना कुर्यात स याति ब्रह्माणः क्षयम ॥१३॥
यज्ञोपवीती भुत्र्जीत स्त्रगगन्धालंकृतः शुचिः ।
सायंप्रतर्नान्तरा वै संध्यायां तु विशेषतः ॥१४॥
नाद्यात सुर्यग्रहात पुर्वमह्रि सायं शशिग्रहात ।
ग्रहकाले च नाश्नीयात स्नात्वाश्नीयत तु मुक्तयोः ॥१५॥
मुक्ते शशिनि भुत्र्जीत यदि न स्यान्महानिशा ।
अमुक्तयोरस्तंगतयोरद्याद दृष्टा परेऽहनि ॥१६॥
नाश्नीयात प्रेक्षमाणानामप्रदायैव दुर्मति ।
न यज्ञशिष्टादन्यद वा न क्रुद्धो नान्यमानसः ॥१७॥
आत्मार्थं भोजनं यस्य रत्यर्थ यस्य मैथुनम ।
वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम ॥१८॥
यदभुक्तें विष्टितशिरा यच्च भुक्ते उदंमुखः ।
सोपानत्कस्च यद भुक्ते सर्वं विद्यात तदासुरम ॥१९॥
नार्धरात्रे न मध्याह्ने नाजीर्णेः नार्द्रवस्त्रधृकः ।
न च भिन्नासनगतो न शयानः स्थितोऽपि वा ॥२०॥
न भिन्नभाजने चैव न भूम्यां न च पाणिषुः ।
नोच्छिष्टो घृतमादद्यान्न मुर्धानं स्पृशेदपि ॥२१॥
न ब्रह्मा कीर्तयन वापि न निःशेष न भार्यया ।
नान्धकारे न चाकशे न च देवालयादिषु ॥२२॥
नैकवस्त्रसु भुत्र्जीत न यानशयनस्थितः ।
न पादुकानिर्गतोऽथ न हस्ना विलपन्नपि ॥२३॥
भुक्त्वैवं सुखमस्थाय तदन्नं परिणमयेत ।
इतिहासपुराणाभ्यां वेदार्थानुपबृहंयेत ॥२४॥
ततः संध्यामुपासीत पुर्वोक्तविधिना द्विजः ।
आसीनस्तु जपेद देवीं गायत्रीं पश्चिमां प्रति ॥२५॥
न तिष्ठति तु यः पुर्वां नास्ते संध्यां तु पश्चिमाम ।
स शुद्रेण समो लोके सवधार्मविवर्जितः ॥२६॥
हुत्वाग्निं विधवन्मन्त्रैर्भुक्त्वा यज्ञावशिष्टकम ।
सभॄत्यबान्धवजनः स्वर्पच्छुषकपदो निशि ॥२७॥
नोत्तराभिमुखः स्वप्यात पश्चिमाभिमुखो न च ।
न चाकाशे न नग्नो व नशुचिर्नासने क्वचित ॥२८॥
न शीर्णायां तु खटवायां शुन्यागारें न चैव हि ।
नानुवंश न पालाशे शयनं वा कदाचन ॥२९॥
इत्येतदखिलेनोकतमहन्यनि वै मया ।
ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम ॥३०॥
नास्तिक्यदथवालस्यात ब्राह्मणो न करोति यः ।
स याति नरकान घोरान काकयोनी च जायते ॥३१॥
नान्यो विमुक्तये पन्था मुक्त्वाश्रमविंधिं स्वकम ।
तस्मात कर्माणि कुर्वीत तुष्टये परमेष्ठिनः ॥३२॥
इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे एकोनविंशोऽध्यायः ॥१९॥