ईश्वर (शंकर ) ऋषिगणोंको अपना सर्वव्यापी स्वरुप बतलाना तथा अपनी भगवत्ताका और इस ज्ञानसे मुक्तिकी प्राप्तिका निरुपण करना
ईश्वर उवाच
श्रृणुध्वमृषयाः सर्वे यथावत परमेष्ठिनः ।
वक्ष्योमीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥१॥
सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता ।
सर्वलोकैकसंहर्ता सर्वत्माहं सनातनः ॥२॥
सर्वेषामेव वस्तुनामन्तर्यामी पिता ह्याहम ।
मध्ये चन्तः स्थितं सर्व नाहं सर्वत्र संस्थितः ॥३॥
भवद्भिरदभुतं दृष्टं यत्स्वरुपं तु मामकम ।
ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥४॥
सर्वेषामेव भावानामन्तरा समवस्थितः ।
प्रेरयामि जगत कृत्स्नं क्रियाशक्तिरियं मम ॥५॥
ययेदं चेष्टते विश्वं तत्स्वभावानुवर्ति च ।
सोऽहं कालो जगत कृत्स्नं प्रेरयामि कलात्मकम ॥६॥
एकांशेन जगत कृत्स्नं करोमि मुनिपुंगवाः ।
संहाराम्येकरुपेण द्विधावस्था ममैव तु ॥७॥
आदिमध्यान्तनिर्मुक्तो मायातत्वप्रवर्तकः ।
क्षोभयामि च सर्गादी प्रधानपुरुषावुभौ ॥८॥
ताभ्यां संजायते विश्वं संयुक्तभ्यां परस्परम ।
महदादिक्रमेणैव मम तेजो विजृम्भते ॥९॥
यो हि सर्वजगत्साक्षी कालचक्रप्रवर्तकः ।
हिरण्यगर्भो मार्तण्डः सोऽपि मद्देहसम्भवः ॥१०॥
तस्मै दिव्य स्वमैश्वर्यं ज्ञानयोगं सनातनम ।
दत्तवानात्मजान वेदान कल्पादौ चतुरो द्विजाः ॥११॥
स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः ।
दिव्यं तन्मामकैश्वर्य सर्वदा वहति स्वयम ॥१२॥
स सर्वलोकनिर्माता मत्रियोगेन सर्ववित ।
भूत्वा चतुर्मुखः सर्ग सृजतेवात्मसम्भवः ॥१३॥
योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ।
ममैव परमा मूर्तिः करोति परिपालनम ॥१४॥
योऽन्तकः सर्वभुतानां रुद्रः कालत्मकः प्रभुः ।
मदाज्ञयासौ सततं संहरिष्यति मे तनुः ॥१५॥
हव्यं वहति देवानां कव्यं काव्यशिनामपि ।
पाकं च कुरुते वह्निः सोऽपि मच्छक्तिचोदितः ॥१६॥
भ्क्तामाहारजातं च पचते तदहर्निशम ।
वैश्वानरेग्निर्बह्गवानीश्वरस्य नियोगतः ॥१७॥
योऽपि सर्वाम्भसां योनिर्वरुणो देवपुंगवः ।
सोऽपि संजीवयेत कृत्स्नमीशस्यैव नियोगतः ॥१८॥
योऽन्तास्तिष्ठति भुतानां बहिर्देवः प्रभत्र्जनः ।
मदज्ञयासौ भुतानां शरीरणि बिभर्ति हि ॥१९॥
योऽपि संजीवनो नृणां देवानाममृताकरः ।
सोमः स मन्नियोगेनं चोदितः किल वर्तते ॥२०॥
यः स्वभासा जगत कृत्स्नं प्र्काशयति सर्वदा ।
सुर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयम्भुवः ॥२१॥
योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ।
यज्वनां फलदो देवो वर्ततेऽसौ मदाज्ञया ॥२२॥
यः प्रशास्ता ह्रासाधुनां वर्तते सम्प्रदायकः ।
यमो वैवस्वतो देवो देवदेवनियोगतः ॥२३॥
योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः ।
सोऽपीश्वरनियोगेन कुबेरो वर्तते सदा ॥२४॥
यः सर्वरक्षसां नाथस्तामसानां फलप्रदः ।
मन्नियोगादसौ देवो वर्तते निऋतिः सदा ॥२५॥
वेतालगणभुतानां स्वामी भोगफलप्रदः ।
इशानः किल भक्तानां सोऽपि तिष्ठन्ममाज्ञाया ॥२६॥
यो वामदेवोऽगिरसःशिष्यों रुद्रगणाग्रणीः ।
रक्षको योगिनां नित्यं वर्ततेऽसौ मदाज्ञया ॥२७॥
यश्च सर्वजगत्पुज्यो वर्तते विघ्नकारकः ।
विनायको धर्मनेता सोऽपि मद्वचनात किल ॥२८॥
योऽपि ब्रह्माविदां श्रेष्ठो देवसेनापतिः प्रभुः ।
स्कन्दोऽसौ वर्तते नित्यं स्वयम्भूर्विधिचोदितः ॥२९॥
ये च प्रजानां पतयो मरेच्यद्या महर्षयः ।
सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥३०॥
याचश्रीः सर्वभुतानां ददाति विपुलां श्रियम ।
पत्नी नारायणस्यासी वर्तते मदनुग्रहात ॥३१॥
वाचं ददाति विपुलां या च देवी सरस्वती ।
सापीश्वरनियोगेन चोदित सम्प्रवर्तते ॥३२॥
याशेषपुरुषान घ्रान्नरकात तारयिष्यति ।
सावित्री संस्मृता देवी देवाज्ञानिविधायिनी ॥३३॥
पार्वती परमा देवी ब्रह्माविद्यापरदायिनी ।
यापि ध्याता विशेषन सापि मद्वचनानुगा ॥३४॥
योऽनन्तमहिमानन्तः शेषोऽशेषामरप्रभुः ।
दधाति शिरसा लोकं सोऽपि देवानियोगतः ॥३५॥
योऽग्रि सवर्तको नित्यं वडवारुपसंस्थितः ।
पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥३६॥
ये चतुर्दश लोकेऽस्मिन मनवः प्रथितौजसः ॥
पालयन्ति प्रजाः प्सर्वास्तेऽपि तस्य नियोगतः ॥३७॥
आदित्या वसवो रुद्रा मरुतश्च तथाश्विनौ ।
अन्याश्च देवताः सर्वा मच्छास्त्रेणैव धिष्ठिताः ॥३८॥
गन्धर्वा गरुड़ा ऋक्षाः सिद्धाः साध्याश्च चारणाः ।
यक्षरक्षः पिशाचाश्च स्थिता शास्त्रे स्वय्तम्भुव ॥३९॥
कलाकाष्ठानिमेषाश्च मुहुर्ता दिवसाः क्षपाः ।
ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापते ॥४०॥
युगामन्वन्तराण्येव मम तिष्ठन्ति शासने ।
पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥४१॥
चतुर्विधानि भुतानि स्थावराणि चराणि च ।
नियोगादेव वर्तान्ते देवस्य परमात्मनः ॥४२॥
पातालानि च सर्वाणि भुवननि च शासनात ।
ब्रह्माण्डानि च वर्तन्ते सर्वाण्येव स्वयम्भुवः ॥४३॥
अतीतान्यप्यसंख्यांनि ब्रह्माण्डनि ममाज्ञयाः ।
प्रवृत्तनि पदार्थोघैः सहितानि समन्ततः ॥४४॥
ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः ।
वहिष्यन्ति सदिवौज्ञं परस्य परमाम्तानः ॥४५॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
भूतादिरादिपकृतिर्नियोगे मम वर्तते ॥४६॥
याशेषजगातां योनिर्मोहिनी सर्वदेहिनाम ।
माया विवर्तते नित्यं सामीश्वरनियोगतः ॥४७॥
यो वै देहभृतां देवः पुरुषः पठ्यते परः ।
आत्मासौ वर्तते नित्यामेश्वरस्य नियोगतः ॥४८॥
विधुय मोहकलिलं यया पश्यति तत पदम ।
सापि विद्या महेशस्य नियोगवशवर्तिनी ॥४९॥
बहुनात्र किमुक्तेन मम शक्त्यात्मकं जगत ।
मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत ॥५०॥
अहं हि भगवानीशः स्वयं ज्योतिःसनातनः ।
परमात्मा परं ब्रह्मा मत्तो ह्यान्यत्र विद्यते ॥५१॥
इत्येतत परमं ज्ञानं युष्माकं कथितं मया ।
ज्ञात्वां विमुच्यते जन्तुर्जन्मसंसरबन्धनात ॥५२॥
इति श्रीकूर्मपुराण षटसाहस्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) षष्ठोऽध्यायः ॥६॥