महेश्वरका अद्वितीय परमेश्वरके रुपमें निरुपण सांख्य सिद्धान्तसे तत्वोंका सृष्टिक्रम, महेश्वरके छः अंगः महेश्वरके स्वरुपके ज्ञानसे परमपदकी प्राप्ती
इश्वर उवाच
अन्यद गुह्मातमं ज्ञानं वक्ष्ये ब्राह्मणपुंगवाः ।
येनासौ तरते जन्तुर्घोरं संसारसागरम ॥१॥
अहं ब्रह्मामयः शान्तः शाश्वतो निर्मलोऽव्ययः ।
एकाकी भगवानुक्तः केवलः परमेश्वरः ॥२॥
मम योनिर्महद ब्रह्मा तत्र गर्भ दधाम्यहम ।
मुलं मायाभिधानं तु ततो जातिमिदं जगत ॥३॥
प्रधानं पुरुषो ह्रात्मा महान भूतादिरेव च ।
तन्मात्राणि महाभुतानीन्द्रियाणि च जज्ञिरे ॥४॥
ततोऽण्डमभवद्धैमं सुर्यकोटिसमप्रभम ।
तस्मिन जज्ञे महाब्रह्मा मच्छक्त्या चोपवृहिंतः ॥५॥
ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।
न मां पश्यन्ति पितरं मायया मम मोहिताः ॥६॥
याश्च योनिषु सर्वासु सम्भवन्ति हि मूर्तयः ।
तासां माया परा योनिर्मामेव पितरं विदुः ॥७॥
यो मामेवं विजानति बीजिनं पितरं प्रभुम ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥८॥
ईशानः सर्वाविद्यानां भुतानां परमेश्वरः ।
ओकांरमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥९॥
समं सर्वेषु भूतेषु तिष्ठंन्तं परमेश्वरम ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥१०॥
समं पश्यन हि सर्वत्र समाविस्थितमीश्वरम ।
न हिरस्त्यात्मनात्मानं ततो याति परां गतिम ॥११॥
विदित्वा सप्त सुक्ष्माणि षडांग च महेश्वरम ।
प्रधानविनियोगज्ञाः परं बह्माधिगच्छति ॥१२॥
सर्वज्ञत तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरगानि महेश्वरस्य ॥१३॥
तन्मात्राणि मन आत्मा च तानि सुक्ष्मण्याहुः सप्त तत्वात्मकानि ।
या सा हेतुः प्रकृतिः सा प्रधानं बन्धः प्रोक्त विनियोगऽपि तेन ॥१४॥
या सा शक्तिः प्रकृतौ लीनरुपा वेदषुक्ता कारणं ब्रह्मायोनिः ।
तस्या एकः परमेष्ठि परस्ता न्महेश्वरः पुरुषः सत्यरुपः ॥१५॥
ब्रह्मा योगी परमात्मा महीयान व्योमव्यापी वेदवेद्यः पुराणः ।
एको रुद्रो मृत्युरव्यक्तमेकं बीजं विश्व देव एकः स एव ॥१६॥
तमेवैकं प्राहुरन्त्येप्यनेकं त्वेकात्मानं केचिदन्यत्तथाहुः ।
अनोरणीयान महतोऽसौ महीयान महादेव प्रोच्यते वेदविद्भिः ॥१७॥
एवं हि यो वेद गुहाशयं परं प्रभु पुराणं पुरुषं विश्वरुपम ।
हिरण्यमं बुद्धिंमतां परां गतिं स बुद्धिमान बुद्धिमतीत्य तिष्ठति ॥१८॥
इति श्रीकूर्मपुराण षटसाहस्त्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) अष्टमोऽध्यायः ॥८॥