तीर्थमाहात्म्य प्रकरणमें विविध तीर्थोका महिमा, देवदारु वन तीर्थका माहात्म्य
सुत उवाच
इदमन्यत परं स्थानं गुह्माद गुह्मातमं महत ।
महादेवस्य देवस्य महालयमिति श्रुतम ॥१॥
तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा ।
शिलातले पदं न्यस्तंक नास्तिकानां निदर्शनम ॥२॥
तत्र पाशुपताः शान्ता भस्मोद्धुलितविग्रहाः ।
उपासते महादेवं वेदाध्ययनतत्पराः ॥३॥
स्त्रात्वा तत्र तदं शार्वं दृष्टा भक्तिपुरः सरम ।
नमस्कृत्वाथ शिरसा रुद्रसामीप्यमाप्नुयात ॥४॥
अन्यच्च देवदेवस्य स्थानं शम्भोर्महात्मनः ।
केदारमिति विख्यातं सिद्धानामालयं शुभम ॥५॥
तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम ।
पीत्वा चैवोदकं शुद्धंअ गाणपत्यमवाप्नुयात ॥६॥
श्राद्धदानादिकं कृत्वा ह्राक्षयं लभते फलम ।
द्विजातिप्रवरैर्जुष्टं योगिभिर्यतमानसैः ॥७॥
तीर्थ प्लक्षावतरणं सर्वपापविनाशनम ।
तत्राभ्यर्च्य श्रीनिवासं विष्णुलोकं महीयते ॥८॥
अन्यं मगधराजस्य तीर्थं स्वर्गगतिप्रदम ।
अक्षयं विन्दाति स्वर्गं तत्र गत्वा द्विजोत्तमः ॥९॥
तीर्थं कनखलं पुण्यं महापातकनाशनम ।
यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥१०॥
तत्र गंगामुपस्पृश्य शुचिर्भावसमन्वितः ।
मुच्यते सर्वपापैस्तु ब्रह्मालोकं लभेन्मृतः ॥११॥
महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम ।
तत्राभ्यर्च्यं हृषीकेशं श्वेतद्वीपं निगच्छति ॥१२॥
अन्यच्च तीर्थप्रवरं नाम्रा श्रीपर्वतं शुभम ।
तत्र प्राणान परित्यज्य रुद्रस्य दयितो भवेत ॥१३॥
तत्र संनिहितो रुद्रो देव्या सह महेश्वरः ।
स्नानापिण्डादिकं तत्र कृतमक्षय्यमुत्तमम ॥१४॥
गोदावरी नदी पुण्या सर्वपापविनाशिनी ।
तत्र स्नात्वा पितृन देवास्तर्पयित्वा यथाविधि ।
सर्वपापविशुद्धात्मा गोसहस्त्रफलं लभेत ॥१५॥
पवित्रसलिला पुण्या कावेरी विपुला नदी ।
तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः ।
त्रिरात्रोपोषितेनाथं एकरात्रोषितेन वा ॥१६॥
द्विजातीनां तु कथितं तीर्थानामिह सेवनम ।
यस्य वांगमनसी शुद्धे हस्तपादौ च संस्थितौ ।
अलोलुपो ब्रह्माचारी तीर्थानां फलमाप्नुयात ॥१७॥
स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम ।
तत्र संनिहितो नित्यं स्कन्दोऽमरनमस्कृतः ॥१८॥
स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम ।
आराध्या षण्मुखं देवं स्कन्देन सह मोदते ॥१९॥
नदी त्रैलोक्यविख्याता ताम्रपर्णाति नामतः ।
तत्र स्नात्वा पितृन भक्त्या तर्पयित्वा यथाविधि ।
पापकर्तृनापि पितृंस्तारयेन्नात्र संशयः ॥२०॥
चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवेऽक्षयम ।
तीर्थ तत्र भवेद वस्तुं मृतानां स्वर्गतिर्ध्रुवा ॥२१॥
विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम ।
भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥२२॥
देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम ।
तत्र स्नात्वोदकं दत्वा योगसिद्धिंक च विन्दति ॥२३॥
दशाश्वमेधिकं तीर्थं सर्वपापविनाशनम ।
दशानामश्वमेधानां तत्राप्नोति फलं नरः ॥२४॥
पुण्डरिकं महातीर्थं ब्राह्मणैरुपसेवितम ।
तत्राभिगम्य युक्तात्मा पौण्डरीकफलं लभेत ॥२५॥
तीर्थेभ्यः परमं तीर्थं ब्रह्मातीर्थमिति श्रुतम ।
ब्रह्माणमर्चयित्वा तु ब्रह्मालोके महीयते ॥२६॥
सरस्वत्या विनशनं प्लक्षप्रस्त्रवणं शुभम ।
व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम ।
यमुनाप्रभवं चैव सर्वपापविशोधनम ॥२७॥
पितृणां दुहिता देवी गन्धकालीति विश्रुता ।
तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत ॥२८॥
कुबेरतुंग पापघ्रं सिद्धचारणसेवितम ।
प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत ॥२९॥
उमातुंगमिति ख्यातं यत्र सा रुद्रवल्लभा ।
तत्राभ्यर्च्य महादेवीं गोसहस्त्रफलं लभेत ॥३०॥
भृगुतुंगेः तपस्तप्तं श्राद्धं दानं तथा कृतम ।
कुलान्युभयतः सप्त पुनातीति श्रुतिर्मम ॥३१॥
काश्यपस्य महातीर्थ कालसर्पिरिति श्रुतम ।
तत्र श्राद्धनि देयानि नित्यं पापक्षयेच्छया ॥३२॥
दशार्णायां तथा दानं श्राद्धं होमस्तथा जपः ।
अक्षयं चाव्ययंक चैव कृतं भवति सर्वदा ॥३३॥
तीर्थं द्विजातिर्भिर्जुष्टं नाम्रा वै कुरुजांगलम ।
दत्वा तु दानं विधिवद ब्रह्मालोके महीयते ॥३४॥
वैतरण्यां महातीर्थ स्वर्णवेद्यां तथैव च ।
धर्मपृष्ठे च सरसि ब्रह्माणः परमे शुभे ॥३५॥
भरतस्यश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे ।
महाह्रदे च कौशिक्यां दत्तं भवति चाक्षायम ॥३६॥
मुत्र्जपृष्ठे पदं न्यस्तं महादेवेन धीमता ।
हिताय सर्वभुतानां नास्तिकानां निदर्शनम ॥३७॥
अल्पेनापि तु कालेन नरो धर्मपरायणः ।
पाप्मानमुत्सृजत्याशु जीर्णा त्वचमिवोरगः ॥३८॥
नाम्रा कनकनन्देति तीर्थ त्रैलोक्यविश्रुतम ।
उदीच्यां मुत्र्जपृष्ठस्य ब्रह्मार्षिगणसेवितम ॥३९॥
तत्र स्नात्वा दिव्यं यान्ति सशरीरा द्विजातयः ।
दत्तं चापि सदा श्राद्धमक्षयं समुदाह्रुतम ।
ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥४०॥
मानसे सरसि स्नात्वा शक्रस्यार्धासन लभेत ।
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोऽत्यनुत्तमाम ॥४१॥
तस्मान्निर्वर्तयेच्छ्राद्धं यथाशक्ति यथाबलम ।
कामान स लभते दिव्यान मोक्षोपायं च विन्दति ॥४२॥
पर्वतो हिमवान्नाम नानाधातुविभुषितः ।
योजनानां सहस्त्राणि सोऽशीतिस्त्वायतो गिरिः ।
सिद्धचारणसंकीर्णो देवर्शिगणसेवितः ॥४३॥
तत्र पुष्करिणी रम्या सुषुम्रा नाम नामतः ।
तत्र गत्वा द्विजो विद्वान ब्रह्माहत्यां विमुत्र्चति ॥४४॥
श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम ।
तारयेच्च पितृन सम्यग दश पुर्वान दशापरान ॥४५॥
सर्वत्र हिमवान पुण्यो गंगा पुण्या समन्ततः ।
नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः ॥४६॥
बदर्याश्रममासाद्य मुच्यते कलिकल्म षात ।
तत्र नारायणो देवो नरेणास्ते सनातनः ॥४७॥
अक्षयं तत्र दानं स्यात जप्यं वापि तथाविधम ।
महादेवप्रियं तीर्थं पावनं तद विशेषतः ।
तारयेच्च पितृन सर्वान दत्त्वा श्राद्धं समाहितः ॥४८॥
देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम ।
महादेवेन देवेन तत्र दत्तं महद वरम ॥४९॥
मोहयित्वा मुनीना सर्वान पुनस्तैः सम्प्रपुजितः ।
प्रसन्नो भगवानीशो मुनीन्द्रान प्राह भावितान ॥५०॥
इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा ।
मद्भावनासमायुक्तास्ततः सिद्धिमवप्स्यथ ॥५१॥
येऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः ।
तेषां ददामि परमं गाणपत्यं हि शाश्वतम ॥५२॥
अत्र नित्यं वसिष्यामि सह नारायणेन च ।
प्राणानिह नरस्त्यक्त्वा न भुयो जन्म विन्दति ॥५३॥
संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः ।
तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥५४॥
श्राद्धं दानं तपो होमः पिण्दनिर्वपणं तथा ।
ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम ॥५५॥
तस्मात सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः ।
देवदारुवनं पुण्यं महादेवनिषेवितम ॥५६॥
यत्रेश्वरो महादेवो विष्णुर्वा पुरुषोत्तमः ।
तत्र संनिहिता गंगा तीर्थान्यायतनानि च ॥५७॥
इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे षटत्रिंशोऽध्यायः ॥३६॥