संन्यासधर्मका प्रतिपादन, संन्यासियोंके भेद तथा सन्यासीके कर्तव्योंका वर्णन
व्यास उवाच
एवं वनाश्रमे स्थित्वा तृतीयां भागमायुषः ।
चतुर्थमायुषो भागं संन्यासेन नयेत क्रमात ॥१॥
अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत ।
योगाभ्यासरतः शान्तो ब्रह्माविद्यापरायणः ॥२॥
यदा मनसि संजातं वैतृष्णयं सर्ववस्तुषु ।
तदा संन्यासमिच्छेच्च पतितः स्याद विपर्यये ॥३॥
प्राजापत्यां निरुप्येष्टिमाग्नेयीमथवा पुनः ।
दान्तः पक्ककषायोऽसौ ब्रह्माश्रममुपाश्रयेत ॥४॥
ज्ञानसंन्यानिः केचिद वेदसंन्यासिनः परे ।
कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥५॥
यः सर्वसंगनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः ।
प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः ॥६॥
वेदमेवाभ्यसेन्नित्यं निराशी निष्परिग्रहः ।
प्रोच्यते वेद्संन्यसी मुमुक्षुर्विजितेन्द्रियः ॥७॥
यस्त्वग्रीनात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः ।
ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ॥८॥
त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।
न तस्य विद्यते कार्यं न लिंग व विपश्चितः ॥९॥
निर्ममो निर्भयः शान्तो निर्द्वद्वः पर्णभोजनः ।
जीर्णकौपीनवासाः स्यात्रग्नो वा ध्यानतत्परः ॥१०॥
ब्रह्माचारी मिताहारो ग्रामादन्नं समाहरेत ।
अध्यात्ममतिरासीत निरपेक्षो निरामिषः ॥११॥
आत्मनैव सहायेन सुखार्थं विचरेदिह ।
नाभिनन्देत मरणं नाभिनन्देत जीवितम ॥१२॥
कालमेव प्रतीक्षेत निर्देशं भृतको यथा ।
नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन ।
एवं ज्ञात्वा परो योगी ब्रह्माभुयाय कल्पते ॥१३॥
एकवासाथवा विद्वान कौपोनाच्छादनस्तथा ।
मुण्डी शिखी वाथ भवेत त्रिदण्दी निष्पारिग्रहः ।
काषायवासाः सततं ध्यानयोगपरायणः ॥१४॥
ग्रामान्ते वृक्षमुले वा वसेद देवालयेऽपि वा ।
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेद क्वचित ॥१५॥
यस्तु मोहेन वालस्यादेकान्नादी भवेद यतिः ।
न तस्य निष्कृतिः काचिद धर्मशास्त्रेषु कथ्यते ॥१६॥
रागद्वेषविमुक्तात्मा समलोष्टाश्मकाचंनः ।
प्राणिहिंसानिवृत्तश्चमौनी स्यात सर्वनिस्पृहः ॥१७॥
दुष्टिपुतं न्यसेन पादं वस्त्रपुतं जलं पिबेत ।
सत्यपुतां वदेद वाणीं मनःपुतं समाचरेत ॥१८॥
नैकत्र निवसेद देशे वर्षाभ्योऽन्यत्र भिक्षुकः ।
स्नानशौचरतो नित्यं कमण्डलुकर शुचिः ॥१९॥
ब्रहाचर्यरतो नित्यं वनवसरतो भवेत ।
मोक्षशास्त्रेषु निरतो ब्रह्मासुती जितेन्द्रियः ॥२०॥
दम्भाहंकारनिर्मुक्तो निन्दापैशुन्यवर्जितः ।
आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात ॥२१॥
अभ्यसेत सततं वेदं प्रणवाख्यं सनातनम ।
स्नात्वचम्य विधानेन शुचिर्देवालयादिषु ॥२२॥
यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः ।
धौतकाषयवसनो भस्मच्छन्नतनुरुहः ॥२३॥
अधियज्ञं ब्रह्मा जपेदधिदैविकमेव च ।
आध्यात्मं च सततं वेदान्ताभिहितं च यत ॥२४॥
पुत्रेषु वाथ निवसन ब्रह्माचारी यतिर्मुनिः ।
वेदमेवाभ्यसेन्नित्यं स यति परमां गतिम ॥२५॥
अहिंसा सत्यमस्तेयं ब्रह्माचर्य तपः परम ।
क्षमा दया च संतोषो व्रतान्यस्य विशेषतः ॥२६॥
वेदान्तज्ञाननिष्ठो वा पंच यज्ञान समाहितः ।
कुर्यादहरहः स्नात्वा भिक्षान्नेनैव तेन हि ॥२७॥
होममन्त्रत्र्जपेन्नित्व काले काले समाहितः ।
स्वाध्यायं चान्वहं कुर्यात सावित्री संध्ययोजपेत ॥२८॥
ध्यायीत सततं देवमेकान्ते परमेश्वरम ।
एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम ॥२९॥
एकवासा द्विवासा वा शिखी यज्ञोपवीतवान ।
कमण्डलुकरो विद्वान त्रिदण्डी याति तत्परम ॥३०॥
इति श्रीकुर्मपुराण षटसाहस्त्रयां संहितायामुपरिविंभागेऽष्टविंशोऽध्यायः ॥२८॥