गृहस्थधर्म तथा गृहस्थके सदाचरका वर्णन, धर्माचरण एवं सत्यधर्मकी महिमा
व्यास उवाच
वेद वेदौ तथा वेदान वेदान वा चतुरो द्विजाः ।
अधीत्य चाधिगम्यार्थं ततः स्नायाद द्विजोत्तमः ॥१॥
गुरवे तु वरं दत्वा स्नायीत तदनुज्ञया ।
चीर्णव्रतोऽथ युक्तात्माक सशक्तः स्नातुमर्हति ॥२॥
वैणवीं धारयेद यष्टिमन्तर्वासस्तथोत्तरम ।
यजॉपवीताद्वितयं सोदकं च कमन्डलुम ॥३॥
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुण्डले वेदं कुत्तकेशनख शुचिः ॥४॥
स्वाध्याये नित्ययुक्तः स्याद बहिर्माल्यं च धारयेत ।
अन्यत्र कात्र्चानाद विप्रो न रक्तां बिभृयात स्त्रजम ॥५॥
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।
न जीर्णमलवदवासा भवेद वै विभते सति ॥६॥
न रक्तमुल्बणं चान्यधृतं अवासो न कुण्डिकाम ।
नोपानहु स्त्र्जं च्थ पादुके च प्रयोजयेत ॥७॥
उपवीतमलंकारं दर्भान कृष्णाजिनानि च ।
नापसव्यं परिदध्याद वासो न विकृतं वसेत ॥८॥
आहरेद विधिवद दारान सद्रुशानात्मनः शुभान ।
रुपलक्षणसंयुक्तान योनिदोषविवर्जितान ॥९॥
अमातृगोत्रप्रभावामसमानर्षिगोत्रजाम ।
आहरेद ब्राह्मणो भ्रार्यां शीलशौचसमन्विताम ॥१०॥
ऋतुकालभिगामी स्याद यावत पुत्रोऽभिजायते ।
वर्जयेत प्रतिषिद्धानि प्रयन्तेन दिनानि तु ॥११॥
षष्ठष्टमीं पंचदशीं द्वादशीं च चतुर्दशीम ।
ब्रह्माचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥१२॥
आदधीतवसथ्याग्निं जुहुयाज्जातवेदसम ।
व्रतानि स्नातको नित्यं पावनानि च पालयेत ॥१३॥
वेदोदितं स्वकं कर्मं नित्यं कुर्यादतन्दितः ।
अकूर्वाणः पतत्याशु नरकानतिभीषणान ॥१४॥
अभ्यसेत प्रयतो वेदं महायज्ञान न हापयेत ।
कुर्याद गृहाणि कर्माणि संध्योपासनमेव च ॥१५॥
संख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ।
दैवतान्यपि गच्छेत कुर्याद भायाभिषोपाषणाम ॥१६॥
न धर्मं ख्यापयेद विद्वान न पापं गूहयेदपिः ।
कुर्वातात्महितं नित्यं सर्वभुतानुकम्पमः ॥१७॥
वयसःकुर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारुप्यमाचरन विचरेत सदा ॥१८॥
श्रुतिस्मृत्युदित सम्यक सधुभिर्यश्च सेवितः ।
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित ॥१९॥
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात सतां मार्गं तेन गच्छन न रिष्यति ॥२०॥
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान ।
सत्यवादी जितक्रोधी ब्रह्माभूयाय कल्पते ॥२१॥
संध्यास्नानपरो नित्यं ब्रह्मायज्ञपरायणः ।
अनसुयो मृदुर्दान्तो गृहस्थः प्रेत्य वर्धते ॥२२॥
वीतरागभक्रोधो लोभमोहर्विवर्जितः ।
सावित्रीजाप्यनिरतः श्राद्धकृन्मुच्यते गृही ॥२३॥
मातापित्रोर्हिते युक्तो गोब्राह्माणहिते रतः ।
दान्तो यज्वा देवभक्तो ब्रह्मालोके महीयते ॥२४॥
त्रिवर्गसेवी सततं देवतानां च पुजनम ।
कुर्यादहरहर्नित्यं नमस्येत प्रयतः सुरान ॥२५॥
विभगशीलः सततं क्षमायुक्तोदयालुकः ।
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत ॥२६॥
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।
अध्यात्मनिरतं ज्ञानमेतद ब्राह्मणलक्षणम ॥२७॥
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।
यथाशक्ति चरण कर्म निन्दितानि विवर्जयेत ॥२८॥
विधुय मोहकलिलं लध्वा योगमनुत्तमम ।
गृहस्थो मुच्यते बन्धात नात्र कार्या विचारणा ॥२९॥
विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम ।
अन्यमन्युसमुत्थानां दोषाणां मर्षण क्षमा ॥३०॥
स्वदुःखेष्विव कारुण्यं परदुःखेषु सौहृदात ।
दयेति मुनयः प्राहुः साक्षाद धर्मस्य साधनम ॥३१॥
चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानामिति तद विद्याद येन धर्मो विवर्धते ॥३२॥
अधीत्य विधिवद विद्यामर्थ चैवोपलभ्यं तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद विज्ञानमिष्यति ॥३३॥
सत्येन लोकात्र्जयति सत्यं तत्परमं पदम ।
यथाभूतप्रवादं तु सत्यमाहुर्मनीषिणः ॥३४॥
दमः शरीरोपरमः शमः प्रज्ञाप्रसादजः ।
अध्यात्ममक्षरं विद्याद यत्र गत्वा न शोचति ॥३५॥
यया स देवो भगवान विद्यया वेद्यते परः ।
साक्षाद देवो महादेवस्तज्ज्ञकनमिति कीर्तितम ॥३६॥
तन्निष्ठस्तप्तरो विद्वान्नित्यमक्रोधन शुचि ।
महायज्ञपरो विप्रो लभते तदनुत्तमम ॥३७॥
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत ।
न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥३८॥
नित्यं धर्मार्थकामेषुअ युज्येत नियतो द्विजः ।
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत ॥३९॥
सीदन्नपि हि धर्मेण न त्वधर्मे समाचरेत ।
धर्मो हि भगवान देवो गतिः सर्वेषु जन्तुषु ॥४०॥
भूतानां प्रियकारी स्यात न परद्रोहकर्माधीः ।
न वेददेवतानिन्दाम कुर्यात तैश्च न संवसेत ॥४१॥
यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्युति ।
अध्यापतेत श्रावयेद वा ब्रह्मालोक महीयते ॥४२॥
इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे पंचदशोऽध्यायः ॥१५॥