श्राद्ध प्रकरणमें निमन्त्रणके योग्य पंक्तिपावन ब्राह्मणों तथा त्याज्य पंक्ति दुषकोंके लक्षण
व्यास उवाच
स्नात्वा यथोक्तं संतर्प्य पितृश्चन्द्रक्षये द्विजः ।
पिण्डान्वाहर्यकं श्राद्धं कुर्यात सौम्यमनाः शुचिः ॥१॥
पुर्वमेव परिक्षेत ब्राह्मणं वेदपारगम ।
तेर्थं तद हव्यकव्यानां प्रदाने चतिथिः स्मृतः ॥२॥
ये सोमपा विरजसो धर्मज्ञाः शान्तचेतसः ।
व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥३॥
पंचाग्रिरप्यधीयाओ यजुर्वेदविदेन च ।
बहवृचश्च त्रिसौपर्णस्त्रिमधुर्वाथ यो भवेत ॥४॥
त्रिणाचिकेतच्छन्दोगो ज्येष्ठसामग एव च ।
अथर्वशिरसोऽध्येता रुद्राध्यायी विशेषतः ॥५॥
अग्निहोत्रपरो विद्वान न्यायाविच्च षडगवित ।
मन्त्रब्राह्माणविच्चैव यश्च स्याद धर्मपाठकः ॥६॥
ऋषिव्रती ऋषीकश्च तथा द्वादशवार्षिकः ।
ब्रह्मादेयानुसंतानो गर्भशुद्धः सहस्त्रदः ॥७॥
चन्द्रायणव्रतचरः सत्यवादी पुरणवित ।
गुरुदेवाग्निपुजसु प्रसत्को ज्ञानतप्तरः ॥८॥
विमुक्तः सर्वतो धीरो ब्रह्माभुतो द्व्जोत्तमः ।
महादेवार्चनरतो वैष्णवः पंक्तिपावनः ॥९॥
अहिम्सानिरतो नित्यमप्रतिग्रहणस्तथा ।
सत्रिणो दाननिरता विज्ञेयाः पंक्तिपावनाः ॥१०॥
युवान श्रोत्रियाः स्वस्थामहायज्ञपरायणाः ।
सावित्रिजापनिता ब्राह्मणा पंक्तिपावनाः ॥११॥
कुलीनाः श्रुतवन्तश्च शीलवन्तस्तपस्विनः ।
अग्नीचित्स्नातका विप्रा विज्ञेया पंक्तिपावना ॥१२॥
मातापित्रोर्हिते युक्त प्रातः स्नायी तथा द्विजः ।
आध्यात्मविन्मुनिदीन्तो विज्ञेयः पंक्तिपावनः ॥१३॥
ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः ।
श्राद्धालुः श्राद्धनिरतो ब्राह्मणः पंक्तिपावनः ॥१४॥
वेदविद्यारतः स्नातो ब्रह्माचर्यपर सदा ।
अथर्वणो मुमुक्षुश्च ब्राह्मणः पंक्तिपावनः ॥१५॥
असमानप्रवरको ह्यासगोत्रस्तथैव च ।
असम्बन्धी च विज्ञेयो ब्राह्मणः पंक्तिपावनः ॥१६॥
भोजयेद योगिनं पुर्वं तत्वज्ञानरतं यतिम ।
अलाभे नैष्ठिकं दान्तमपुकुर्वाणकं तथा ॥१७॥
तदलाभे गृहस्थं तु मुमुक्षं संगवर्जिताम ।
सर्वालाभे साधकं वा गृहस्थमपि भोजयेत ॥१८॥
प्रकृतेर्गुणतत्वज्ञो यस्याश्नाति यतिहर्त्विः ।
फलं वेदविदां तस्य सहस्त्रादतिरिच्यते ॥१९॥
तस्माद यत्नेन योगीन्द्रमीश्वरज्ञानतप्तरम ।
भोजयेद हव्यकव्येषु अलाभादितरान द्विजान ॥२०॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा साद्भिरनुष्ठितः ॥२१॥
मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम ।
दौहित्रं विटपतिं बन्धुमृत्विग्याज्यौ च भोजयेत ॥२२॥
न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः ।
पैशाची दक्षिणा सा हि नैवामुत्र फलप्रदा ॥२३॥
कामं श्राद्धेऽर्चयेन्मित्रं नाभिरुपमापि त्वरिम ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम ॥२४॥
ब्राह्मणो ह्मानधीयानस्तुऋणग्निरिव शाम्यति ।
तस्मे हव्यं न दातव्यं न हि भस्मनि हुयते ॥२५॥
यथोरिणे बीजमुप्त्वा न वत्पा लभते फलम ।
तथानृचे हविर्देत्वा न दाता लभते फलम ॥२६॥
यावतो ग्रसते पिण्डान हव्यकव्येष्वमन्त्रवित ।
तावतो ग्रसते प्रेत्य दीप्तान स्थुलांस्त्वयोगुडान ॥२७॥
अपि विद्याकुलैर्युक्ता हीनवृत्ता नाराधमाः ।
यत्रैते भुत्र्जते हव्यं तद भवेदासुरं द्विजाः ॥२८॥
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपुरुषम ।
स वै दुर्बाह्माणो नार्हः श्राद्धदिषु कदाचन ॥२९॥
शुद्रप्रेष्यो भुतो राज्ञो वृषलो ग्रामयाजकं ।
वधबन्धोपजीवी च षडेते ब्रह्माबन्धवः ॥३०॥
दत्तानुयोगान वृत्यर्थ पतिपातना मनुरब्रवीत ।
वेदविक्रयिणो ह्रोते श्राद्धदिषु विगर्हिताः ॥३१॥
श्रुतिविक्रय़िणो ये तु परपुर्वासमौद्भवाः ।
आसमानान याजयन्ति पतितास्ते प्रकीर्तिताः ॥३२॥
असंस्कृताध्याका ये भृत्या वाध्यापयन्ति ये ।
अधीयते तथा वेदान पतितास्ते प्रकीर्तिताः ॥३३॥
वृद्धश्रावकनिर्ग्रन्थाः पंचरात्रविदो जनाः ।
कापलिका पाशुपताः पाषण्डा ये च तद्विधाः ॥।३४॥
यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।
न तस्य तद भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम ॥३५॥
अनाश्रमी यो द्विजः स्यादाश्रमी वा निरर्थक ।
मिथ्याश्रमी च ते विप्रा विज्ञेयाः पंक्तिदुषकाः ॥३६॥
दुश्चर्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ।
विद्धप्रजननश्चैव स्तेनः क्लीबोऽथ नास्तिकः ॥३७॥
मद्यपो वृषलीसक्तो वीरहा दिधिषुपतिः ।
आगारदाही कुण्डशी सोमविक्रयिणो द्विजाः ॥३८॥
परिवेत्ता तथा हिंस्रः परिवित्तिर्निराकृतिः ।
पौनर्भवः कुसीदी च तथा नक्षत्रदर्शकः ॥३९॥
गीतवादित्रनिरतो व्याधितः काण एव च ।
हीनांगश्चातिरिक्तागों ह्रावकीर्णिस्तथैव च ॥४०॥
कन्यादुषी कुण्डगोलौ अभिहस्तौऽथ देवलः ।
मित्रधुक पिशुनश्चैव नित्यं भार्यानुवर्तक ॥४१॥
मातापित्रोर्गुरोस्त्यागी दारात्यागी तथैव च ।
गोत्रभिदं भ्रष्टाशौचश्च कान्डस्पृष्टस्तथैव च ॥४२॥
अनपत्यः कुटसाक्षी याचको रंगजीवकः ।
समुद्रयायीः कृतहा तथा समयभेदकः ॥४३॥
देवानिद्न्दापरश्चैव वेदनिन्दारतस्तथा ।
द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धदिकर्मसु ॥४४॥
कृतघ्नः पिशुनः क्रुरो नास्तिको वेदनिन्दकाः ।
मित्रधुक कुहकश्चैव विशेषात पंक्तिदुषकाः ॥४५॥
सर्वे पुनरभोज्यान्नास्त्वदानार्हाश्च कर्मसु ।
ब्रह्माभावनिरस्ताश्च वर्जनीयाः प्रयत्नतः ॥४६॥
शुद्रान्नरसपुष्टागः संध्योपासनवर्जितः ।
महायज्ञविहिनश्च ब्राह्मणः पंक्तिदुषकः ॥४७॥
अधीतनाशनश्चैव स्नानहोमविवर्जितः ।
तामसो राजसश्चैव ब्राह्मण पक्तिंदुषकः ॥४८॥
बहुनात्र किमुक्तेन विहितान ये न कुर्वते ।
निन्दितानाचरन्त्येते वर्जनीयाः प्रयत्नतः ॥४९॥
इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे एकविंशोऽध्यायः ॥२१॥