विविध शैव तीर्थोंके माहात्म्यका निरूपण, तीर्थोंके अधिकारी तथा तीर्थ माहात्म्यका उपसंहार
सुत उवाच
अन्यच्च तीर्थप्रवरं जप्येश्वरसमीपतः ।
नाम्रा पंचनंद पुण्यं सर्वपापप्रणाशनम ॥१॥
त्रिरात्रोपोषितस्तत्र पुजयित्वा महेश्वरम ।
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥२॥
अन्यच्च तीर्थप्रवरं शंकरस्यामितौजसः ।
महाभैरवमित्युक्तं महापातकनाशनम ॥३॥
तीर्थांना च परं तीर्थं वितस्ता परमा नदी ।
सर्वपापहरा पुण्या स्वयमेव गिरिन्द्रजा ॥४॥
तीर्थं पंचतपं नाम शम्भोरमिततेजसः ।
यत्र देवादिदेवेन चक्रार्थ पूजितो भवः ॥५॥
पिण्डदानादिकं तत्र प्रेत्यानन्तफलप्रदम ।
मृतस्तत्रापि नियमाद ब्रह्मालोके महीयते ॥६॥
कायावरोहणं नाम महादेवालयं शुभम ।
यत्र माहेश्वरा धर्मा मुनिभिः सम्प्रवर्तिताः ॥७॥
श्राद्धं दानं तपो होम उपवासस्तथाक्षयः ।
परित्यजति यः प्राणानः रुद्रलोकं स गच्छति ॥८॥
अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम ।
तत्र गत्वा त्यजेत प्राणाँल्लोकान प्राप्नोति शाश्वतान ॥९॥
जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः ।
तत्र स्नात्वा तीर्थवरे गोसहस्त्रफलं लभेत ॥१०॥
महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम ।
गत्वा प्राणान परित्यज्य गाणपत्यमवाप्नुयात ॥११॥
गुह्माद गुह्मातमं तीर्थं नकुलीश्वरमुत्तमम ।
तत्र संनिहितः श्रीमान भगवान नकुलीश्वरः ॥१२॥
हिमवच्छिखरे रम्ये गंगाद्वारे सुशोभने ।
देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ॥१३॥
तत्र स्नात्वा महादेव पूजयित्वा वृषध्वजम ।
सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात ॥१४॥
अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम ।
भीमेश्वरमिति ख्यातं गत्वा मुत्र्चति पातकम ॥१५॥
तथान्यच्चण्डवेगायाः सम्भेदः पापनाशनः ।
तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ॥१६॥
सर्वेषामपि चैतेषां तीर्थानां परमा पुरी ।
नाम्रा वाराणसी दिव्या कोटिकोट्ययुताधिका ॥१७॥
तस्याः पुरस्तान्माहात्म्यं भाषितं वो मया त्विह ।
नान्यत्र लभ्यते मुक्तिर्योगिनाप्येकजन्मना ॥१८॥
एते प्राधान्यतः प्रोक्ता देशाः पापचरो गृही ।
गत्वा संक्षालयेत पापं जन्मान्तरशतैः कृतम ॥१९॥
यः स्वधर्मान परित्यज्य तीर्थसेवां करोति हि ।
न तस्य फलते तीर्थमिह लोके परत्र च ॥२०॥
प्रायश्चिती च विधुरस्तथा पापचरो गृही ।
प्रकृर्यात तीर्थसंसेवां ये चान्ये तादृशा जनाः ॥२१॥
सहग्निर्वा सपत्नीको गच्छेत तीर्थोनि यत्नतः ।
सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात ॥२२॥
ऋणानि त्रीण्यपाकृत्य कुर्याद वा तीर्थसेवनम ।
विधाय वृत्तिं पुत्राणां भार्यां तेषु निधाय च ॥२३॥
प्रायश्चित्तप्रसंगेन तीर्थमाहात्म्यमीरितम ।
यः पठेच्छृणुयाद वापि मुच्यते सर्वपातकैः ॥२४॥
इति श्रीकुर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे द्विचत्वारिंशोऽध्यायः ॥४२॥