महादेवके विश्वरुपत्वक वर्णन तथा इश्वर सम्बन्धी ज्ञानका प्रतिपदन
ऋषय ऊचुः
निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।
तन्नो वद महादेव विश्वरुपः कथं भवान ॥१॥
ईश्वर उवाच
नाहं विश्नो न विश्व च मामृते विद्यते द्विजाः ।
मायनिमित्तमत्रस्ति सा चाम्तानपमपाश्रिता ॥२॥
अनादिनिधना शक्तिर्मायाव्यक्तसमाश्रया ।
तन्निमित्तः प्रपत्र्चोऽयमव्यक्तदाभवत खलु ॥३॥
अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम ।
अहमेवं परं ब्रह्मा मत्तो ह्यान्यत्र विद्यते ॥४॥
तस्मान्मे विश्वरुपत्वं निश्चितं ब्रह्मावादिभिः ।
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम ॥५॥
अहं तत परमं ब्रह्मा परमात्मा सनातनः ।
अकारणं द्विजाः प्रोक्तो न दोषो ह्मात्मनस्तथा ॥६॥
अनन्ता शक्तयोऽव्यक्ते मायाद्याः संस्थिता ध्रुवाः ।
तस्मिन दिवि स्थितं नित्यमव्यक्त भाति केवलम ॥७॥
याभिस्तल्लक्ष्यते भिन्नमभिन्नं तु स्वभावतः ।
एकया मम सायुज्यमनादीनिधनं ध्रुवम ॥८॥
पुंसोऽभूदन्यया भूतिरन्यया तत्तिरोहितम ।
अनादिमध्यं तिष्थन्तं युज्यतेऽविद्यया किल ॥९॥
तदेतत परमं व्यक्तं प्रभामण्दलमण्डितम ।
तदक्षरं परं ज्योतिस्तद विष्णोः परमं पदम ॥१०॥
तत्र सर्वमिद प्रोतमोतं चैवखिलं जगत ।
तदेव च जगत कृत्स्नं तद विज्ञाय विमुच्यते ॥११॥
यतो वाचो निवर्तन्ते अप्राप्य मनस सह ।
आनन्दं ब्रह्माणो विद्वान बिभेति न कृतश्चन ॥१२॥
वेदाहमेतं पुरुषं महान्त मादित्यवर्ण तमसः परस्तात ।
तद विज्ञाय परिमुच्यते विद्वान नित्यानन्दी भवति ब्रह्माभुतः ॥१३॥
यज्ज्योतिषां ज्योतिरेकं दिविस्थम ।
तदेवात्मानं मन्यमानोऽथ विद्वा नात्मानन्दी भवाति ब्रह्माभुतः ॥१४॥
तदव्ययं कलिलं गुढदेहं ब्रह्मानन्दममृतं विश्वर्धाम ।
वदन्येव ब्रह्माणा ब्रह्मानिष्ठा यत्र गत्वा न निवर्तेत भुयः ॥१५॥
हिरण्मये परमाकाशतत्त्वे यदर्चिषि प्रविभातीव तेजः ।
तद्विज्ञाने परिपश्यन्ति धीरा विभ्राजमानं विमलं व्योम धाम ॥१६॥
ततः परं परिपश्यन्ति धीरा आत्मान्यात्मानमनुभुयानुभुय ।
स्वयम्प्रभः परमेष्ठी महीयान ब्रह्मानन्दी भगवानीश एषः ॥१७॥
एको देवः सर्वेभुतेषु गुढः सर्वव्यापी सर्वभुतान्तरात्मा ।
तमेवैकं येऽनुपश्यन्ति धीरा स्तेषां शान्ति शाश्वती नेतरेषाम ॥१८॥
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवान न तस्मादन्यादिष्यते ॥१९॥
इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुंगवाः ।
गोपनीयं विशेषेण योगिनामपि दुर्लभम ॥२०॥
इति श्रीकूर्मपुराण षटसाहस्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) नवमोऽध्यायः ॥९॥