काशीखण्डः - अध्याय १८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
अगस्तिरुवाच ॥
इति शृण्वन्कथां रम्यां शिवशर्माऽथ माथुरः ॥
मुक्तिपुर्यां सुसंस्नातो मायापुर्यां गतासुकः ॥१॥
नेत्रयोः प्राघुणी चक्रे ततः सप्तर्षिमंडलम् ॥
व्रजन्स वैष्णवं लोकमंते विष्णुपुरीक्षणात् ॥२॥
उवाच च प्रसन्नात्मा स्तुतश्चारणमागधैः ॥
प्रार्थितो देवकन्याभिस्तिष्ठ तिष्ठेति चक्षणम् ॥३॥
स्थिता सुतासु निःश्वसस्य मंदभाग्या वयं त्विति ॥
गतः पुण्यतमाँल्लोकानसौ यत्पुण्यवत्तमः ॥४॥
इति शृणवन्मुखात्तासां वचनानि विमानगः ॥
देवौ कस्यायमतुलो लोकस्तेजोमयः शुभः ॥५॥
इति द्विजवचः श्रुत्वा प्रोचतुर्गणसत्तमौ ॥
शिवशर्मञ्छिवमते सदा सप्तर्षयोमलाः ॥६॥
वसंतीह प्रजाः स्रष्टुं विनियुक्ताः प्रजासृजा ॥
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ॥७॥
वसिष्ठश्च महाभागो ब्रह्मणो मानसाः सुताः ॥
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥८॥
संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः ॥
स्मृतिरूर्जा क्रमादेषां पत्न्यो लोकस्य मातरः ॥९॥
एतेषां तपसा चैतद्धार्यते भुवनत्रयम् ॥
उत्पाद्य ब्रह्मणा पूर्वमेते प्रोक्ता महर्षयः ॥१०॥
प्रजाः सृजत रे पुत्रा नानारूपाः प्रयत्नतः॥
ततः प्रणम्य ब्रह्माणं तपसे कृतनिश्चयाः ॥११॥
अविमुक्तं समासाद्य क्षेत्रंक्षेत्रज्ञधिष्ठितम् ॥
मुक्तये सर्वजंतूनामविमुक्तं शिवेन यत् ॥१२॥
प्रतिष्ठाप्य च लिंगानि ते स्वनाम्नांकितानि च ॥
शिवेति परया भक्त्या तेपुरुग्रं तपो भृशम॥१३॥
तुष्टस्तत्तपसा शंभुः प्राजापत्यपदं ददौ ॥
लिंगान्यत्रीश्वरादीनि दृष्ट्वा काश्यां प्रयत्नतः ॥४॥
प्राजापत्येऽत्र ते लोके वसंत्युज्ज्वलतेजसः ॥
गोकर्णेशस्य सरसः प्रत्यक्तीरे प्रतिष्ठितम् ॥१५॥
लिंगमत्रीश्वरं दृष्ट्वा ब्रह्मतेजोभिवर्धते ॥
कर्कोट वाप्या ईशाने मरीचेः कुंडमुत्तमम् ॥१६॥
तत्र स्नात्वा नरो भक्त्त्या भ्राजते भास्करो यथा ॥
मरीचीश्वर संज्ञं तु तत्र लिंगं प्रतिष्ठितम् ॥१७॥
तल्लिंगदर्शनाद्विप्र मारीचं लोकमाप्नुयात् ॥
कांत्या मरीचिमालीव शोभते पुरुषर्षभः ॥१८॥
पुलहेश पुलस्त्येशौ स्वर्गद्वारस्य पश्चिमे ॥
तौ दृष्ट्वा मनुजो लोके प्राजापत्ये महीयते ॥१९॥
हरिकेशवने रम्ये दृष्ट्वैवांगिरसेश्वरम् ॥
इह लोके वसेद्विप्र तेजसापरिबृंहितः ॥२०॥
वरणायास्तटे रम्ये दृष्ट्वा वासिष्ठमीश्वम् ॥
क्रत्वीश्वरं च तत्रैव लभते वसतिं त्विह ॥२१॥
काश्यामेतानि लिंगानि सेवितानि शुभैषिभिः॥
मनोभिवांछितं दद्युरिह लोके परत्र च ॥२२॥
गणावूचतुः ॥
शिवशर्मन्महाभाग तिष्ठते सात्र सुंदरी ॥
अरुंधती महापुण्या पतिव्रतपरायणा ॥२३॥
यस्याः स्मरणमात्रेण गंगास्नान फलं लभेत् ॥
अंतःपुरचरैर्द्वित्रैः पवित्रैः सहितो विभुः ॥२४॥
सदा नारायणो देवो यस्याश्चक्रे कथां मुदा ॥
कमलायाः पुरोभागे पातिव्रत्य सुतोषितः ॥२५॥
पतिव्रतास्वरुंधत्याः कमले विमलाशयः ॥
यथास्ति न तथाऽन्यस्याः कस्याश्चित्कापि भामिनि ॥२६॥
न तद्रूपं न तच्छीलं न तत्कौलीन्यमेव च ॥
न तत्कलासुकौशल्यं पत्युः शुश्रूषणं न तत् ॥२७॥
न माधुर्यं न गांभीर्यं न चार्यपरितोषणम् ॥
अरुंधत्या यथा देवि तथाऽन्यासां क्वचित्प्रिये ॥२८॥
धन्यास्ता योषितो लोके सभाग्याः शुद्धबुद्धयः ॥
अरुंधत्याः प्रसंगे या नामापि परिगृह्णते ॥२९॥
यदा पतिव्रतानां तु कथास्मद्भवने भवेत् ॥
तदा प्राथमिकीं रेखामेषाऽलंकुरुते सती ॥३० !।
ब्रुवतोरिति संकथां तथा गणयोर्वैष्णवयोर्मुदावहाम् ॥
ध्रुवलोकउपागतस्ततो नयनातिथ्यमतथ्यवर्जितः ॥३१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सप्तर्षिलोकवर्णनंनामाष्टादशोऽध्यायः ॥१८॥
N/A
References : N/A
Last Updated : November 24, 2024
TOP