संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ५४

काशीखण्डः - अध्याय ५४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


स्कंद उवाच ॥
कुंभसंभव वक्ष्यामि शृणोत्ववहितो भवान् ॥
कपर्दीशस्य लिंगस्य महामाहात्म्यमुत्तमम् ॥१॥
कपर्दी नाम गणपः शंभोरत्यंतवल्लभः ॥
पित्रीशादुत्तरे भागे लिंगं संस्थाप्य शांभवम् ॥२॥
कुंडं चखान तस्याग्रे विमलोदक संज्ञकम् ॥
यस्य तोयस्य संस्पर्शाद्विमलो जायते नरः ॥३॥
इतिहासं प्रवक्ष्यामि तत्र त्रेतायुगे पुरा ॥
यथावृत्तं कुंभयोने श्रवणात्पातकापहम् ॥४॥
एकः पाशुपत श्रेष्ठो वाल्मीकिरिति संज्ञितः ॥
तपश्चचार स मुनिः कपर्दीशं समर्चयन् ॥५॥
एकदा स हि हेमंते मार्गे मासि तपोधनः ॥
स्नात्वा तत्र महातीर्थे मध्याह्ने विमलोदके ॥६॥
चकार भस्मना स्नानमापादतलमस्तकम् ॥
लिंगस्य दक्षिणेभागे कृतमाध्याह्निकक्रियः ॥७॥
न्यस्तमस्तकपांसुश्च संध्यामाध्यात्मिकीं स्मरन् ॥
जपन्पंचाक्षरीं विद्यां ध्यायन्देवं कपर्दिनम् ॥८॥
कृत्वा संहारमार्गेण सप्रमाणं प्रदक्षिणाम् ॥
हुडुंकृत्य हुडुंकृत्य हुडुंकृत्य त्रिरुच्चकैः ॥९॥
प्रणवं पुरतः कृत्वा षड्जादिस्वरभेदतः ॥
गीतं विधाय सानंदं सनृत्यं हस्तकान्वितम् ॥१०॥
अंगहारैर्मनोहारि चारी मंडलसंयुतम् ॥
क्षणं तत्र सरस्तीरे उपविष्टो महातपाः ॥११॥
अद्राक्षीद्राक्षसं घोरमतीव विकृताकृतिम् ॥
शुष्कशंखकपोलास्यं निमग्ना पिंगलोचनम् ॥१२॥
रूक्षस्फुटितकेशाग्रं महालंब शिरोधरम् ॥
अतीव चिपिट घ्राणं शुष्कौष्ठमतिदंतुरम् ॥१३॥
महाविशालमौलिं च प्रोर्ध्वीभूतशिरोरुहम् ॥
प्रलंबकर्णपालीकं पिंगलश्मश्रुभीषणम् ॥१४॥
प्रलंबित ललज्जिह्वमत्युत्कट कृकाटिकम् ॥
स्थूलास्थि जत्रु संस्थानं दीर्घस्कंधद्वयोत्कटम् ॥१५॥
निमग्नकक्षाकुहरं शुष्कह्रस्व भुजद्वयम् ॥
विरलांगुलिहस्ताग्रं नतपीन नखावलिम् ॥१६॥
विशुष्क पांसुलोत्क्रोडं पृष्ठलग्नोदरत्वचम् ॥
कटीतटेन विकटं निर्मांसत्रिकबंधनम् ॥१७॥
प्रलंब स्फिग्युगयुतं शुष्कमुष्काल्पमेहनम् ॥
दीर्घनिर्मांसलोरूकं स्थूलजान्वस्थिपंजरम् ॥१८॥
अस्थिचर्मावशेषं च शिराजालितविग्रहम् ॥
शिरालं दीर्घजंघं च स्थूलगुल्फास्थिभीषणम् ॥१९॥
अतिविस्तृत पादं च दीर्घवक्रकृशांगुलिम् ॥
अस्थिचर्मावशेषेण शिराताडितविग्रहम् ॥२०॥
विकटं भीषणाकारं क्षुत्क्षाममतिलोमशम् ॥
दावदग्धद्रुमाकारमति चंचललोचनम् ॥२१॥
मूर्तं भयानकमिव सर्वप्राणिभयप्रदम् ॥
हृदयाकंपनं दृष्ट्वा तं प्रेतं वृद्धतापसः ॥
अतिदीनाननं कस्त्वमिति धैर्येण पृष्टवान् ॥२२॥
कुतस्त्वमिह संप्राप्तः कस्मात्ते गतिरीदृशी ॥
अनुक्रोशधियारक्षः पृच्छामि वद निर्भयम् ॥२३॥
अस्माकं तापसानां च न भयं त्वद्विधान्मनाक् ॥
शिवनामसहस्राणां विभूतिकृतवर्मणाम् ॥२४॥
तापसोदीरितमिति तद्रक्षः प्रीतिपूवर्कम् ॥
निशम्य प्रांजलिः प्राह तं कृपालुं तपोधनम् ॥२५॥
॥ राक्षस उवाच ॥
अनुक्रोशोस्ति यदि ते भगवंस्तापसोत्तम ॥
स्ववृत्तांतं तदा वच्मि शृणुष्वावहितः क्षणम् ॥२६॥
प्रतिष्ठानाभिधानोस्ति देशो गोदावरी तटे ॥
तीर्थप्रतिग्रहरुचिस्तत्रासं ब्राह्मणस्त्वहम् ॥२७॥
तेन कर्मविपाकेन प्राप्तोस्मि गतिमीदृशीम् ॥
मरुस्थले महाघोरे तरुतोयविवर्जिते ॥२८॥
गतो बहुतरः कालस्तत्र मे वसतो मुने ॥
क्षुधितस्य तृषार्तस्य शीततापसहस्य च ॥२९॥
वर्षत्यपि महामेघे धारासारैर्दिवानिशम् ॥
प्रावृट्कालेऽनिले वाति किंचित्प्रावरणं न मे ॥३०॥
पर्वण्यदत्तदाना ये कृततीर्थप्रतिग्रहाः ॥
त इमां योनिमृच्छंति महादुःख निबंधनीम् ॥३१॥
गते बहुतिथे काले मरुभूमौ मुने मया ॥
दृष्टो ब्राह्मणदायाद एकदा कश्चिदागतः ॥३२॥
सूर्योदयमनुप्राप्य संध्याविधिविवर्जितः ॥
कृत्वा मूत्रपुरीषे तु शौचाचमनवर्जितः ॥३३॥
मुक्तकच्छमशौचं च संध्याकर्मविवर्जितम् ॥
तं दृष्ट्वा तच्छरीरेहं संक्रांतो भोगलिप्सया ॥३४॥
स द्विजो मंदभाग्यान्मे केनचिद्वणिजा सह ॥
अर्थलोभेन संप्राप्तः पुरीं पुण्यामिमां मुने ॥३५॥
अंतःपुरि प्रविष्टोभूत्स द्विजो मुनिसत्तम ॥
तच्छरीराद्बहिर्भूतस्त्वहं पापैः समं क्षणात् ॥३६॥
प्रवेशो नास्ति चास्माकं प्रेतानां तपसां निधे ॥
महतां पातकानां च वाराणस्यां शिवाज्ञया ॥३७॥
अद्यापि तानि पापानि तद्बहिर्निर्गमेच्छया ॥
बहिरेव हि तिष्ठंति सीम्नि प्रमथसाध्वसात् ॥३८॥
अद्य श्वो वा परश्वो वा स बहिर्निर्गमिष्यति ॥
इत्याशया स्थिताः स्मो वै यावदद्य तपोधन ॥३९॥
नाद्यापि स बहिर्गच्छेन्नाद्याप्याशा प्रयाति नः ॥
इत्यास्महे निराधारा आशापाश नियंत्रिताः ॥४०॥
चित्रमद्यतनं वच्मि तपस्विंस्तन्निशामय ॥
अतीव भावि कल्याणमिति मन्येऽधुनैव हि ॥४१॥
आप्रयागं प्रतिदिनं प्रयामः क्षुधिता वयम्॥
आहारकाम्यया क्वापि परं नो किंचिदाप्नुमः ॥४२॥
संति सर्वत्र फलिनः पादपाः प्रतिकाननम् ॥
जलाशयाश्च स्वच्छापाः संति भूम्यां पदेपदे ॥४३॥
अन्यान्यपि च भक्ष्याणि सर्वेषां सुलभान्यहो ॥
पानान्यपि विचित्राणि संति भूयांसि सर्वतः ॥४४॥
परं नो दृग्गतान्येव दूरे दूरे व्रजंत्यहो ॥
दैवादद्यैकमायांतं दृष्ट्वा कार्पटिकं मुने ॥४५॥
तस्यांतिकमहं प्राप्तः क्षुधया परिपीडितः ॥
प्रसह्य भक्षयाम्येनमिति मत्वा त्वरान्वितः ॥४६॥
यावत्तं तु जिघृक्षामि तावत्तद्वदनांबुजात् ॥
शिवनामपवित्रा वाङ्निरगाद्विघ्नहारिणी ॥४७॥
शिवनामस्मरणतो मदीयमपि पातकम् ॥
मंदीभूतं ततस्तेन प्रवेशं लब्धवानहम् ॥४८॥
सीमस्थैः प्रमथैर्नाहं सद्यो दृग्गोचरीकृतः ॥
शिवनामश्रुतौ येषां तान्न पश्येद्यमोपि यत् ॥४९॥
अंतर्गेहस्य सीमानं प्राप्तस्तेन सहाधुना ॥
स तु कार्पटिको मध्यं प्रविष्टोहमिहस्थितः ॥५०॥
आत्मानं बहुमन्येहं त्वां विलोक्याधुना मुने ॥
मामुद्धर कृपालो त्वं योनेरस्मात्सदारुणात् ॥५१॥
इति प्रेतवचः श्रुत्वा स कृपालुस्तपोधनः ॥
 मनसा चिंतयामास धिङ्निजार्थोद्यमान्नरान् ॥५२॥
स्वोदरं भर यः सर्वे पशुपक्षिमृगादयः ॥
स एव धन्यः संसारे यः परार्थोद्यतः सदा ॥५३॥
तपसाद्य निजेनाहं प्रेतमेतमघातुरम्॥
मामेव शरणं प्राप्तमुद्धरिष्याम्यसंशयम् ॥५४॥
विमृश्येति स वै चित्ते पिशाचं प्राह सत्तमः ॥
विमलोदे सरस्यस्मिन्स्नाहि रे पापनुत्तये ॥५५॥
पिशाच ते पिशाचत्वं तीर्थस्यास्य प्रभावतः ॥
कपर्दीशेक्षणादद्य क्षणात्क्षीणं विनंक्ष्यति ॥५६॥
श्रुत्वेति स मुनेर्वाक्यं प्रेतः प्राह प्रणम्य तम्॥
प्रीतात्मा प्रीतमनसं प्रबद्धकरसंपुटः ॥५७॥
पानीयं पातुमपि नो लभेयं मुनिसत्तम ।
स्नानस्य का कथा नाथ रक्षेयुर्जलदेवताः ॥५८॥
पानस्याप्यत्र का वार्ता जलस्पर्शोपि दुर्लभः ॥
इति प्रेतोक्तमाकर्ण्य स भृशं प्रीतिमानभूत् ॥५९॥
उवाच च तपस्वी तं जगदुद्धरणक्षमः ॥
गृहाणेमां विभूतिं त्वं ललाटफलके कुरु ॥६०॥
अस्माद्विभूतिमाहात्म्यात्प्रेत कोपि न कुत्रचित् ॥
बाधा करोति कस्यापि महापातकिनोप्यहो ॥६१॥
भालं विभूतिधवलं विलोक्य यमकिंकराः ॥
पापिनोपि पलायंते भीताः पाशुपतास्त्रतः ॥६२॥
अस्थिध्वजांकितं दृष्ट्वा यथा पांथा जलाशयम् ॥
दूरं यंति तथा भस्म भालांकं यमकिंकराः ॥६३॥
कृतभूति तनुत्राणं शिवमंत्रैर्नरोत्तमम् ॥
नोपसर्पंति नियतमपि हिंस्राः समंततः ॥६४॥
भक्त्या बिभर्ति यो भस्म शिवमंत्रपवित्रितम् ॥
भाले वक्षसि दोर्मूले न तं हिंसंति हिंसकाः ५५॥
सर्वेभ्यो दुष्टसत्त्वेभ्यो यतो रक्षेदहर्निशम् ॥
रक्षत्येषा ततः प्रोक्ता विभूतिर्भूतिकृद्यतः ॥६६॥
भासनाद्भर्त्सनाद्भस्म पांसुः पांसुत्वदायतः ॥
पापानां क्षारणात्क्षारो बुधेरेवं निरुच्यते ॥६७॥
गृहीत्वा धारमध्यात्स भस्म प्रेतकरेऽर्पयत् ॥
सोप्यादरात्समादाय भालदेशे न्यवेशयत् ॥६८॥
विभूतिधारिणं वीक्ष्य पिशाचं जलदेवताः ॥
जलावगाहनपरं वारयांचक्रिरे न तम् ॥६९॥
स्नात्वा पीत्वा स निर्गच्छेद्यावत्तस्माज्जलाशयात् ॥.
तावत्पैशाच्यमगमद्दिव्यदेहमवाप च ॥७ ०॥
दिव्यमालांबरधरो दिव्यगंधानुलेपनः ॥
दिव्ययानं समारुह्य वर्त्म प्राप्तोथ पावनम् ॥७१ ॥
गच्छता तेन गगने स तपस्वी नमस्कृतः ॥
प्रोच्चैः प्रोवाच भगवन्मोचितोस्मि त्वयानघ ॥७२॥
तस्मात्कदर्ययोनित्वादतीव परिनिंदितात् ॥
अस्य तीर्थस्य माहात्म्याद्दिव्यदेहमवाप्तवान् ॥७३॥
पिशाचमोचनं तीर्थमद्यारभ्य समाख्यया ॥
अन्येषामपि पैशाच्यमिदं स्नानाद्धरिष्यति ॥७४॥
अस्मिंस्तीर्थे महापुण्ये ये स्नास्यंतीह मानवाः ॥
पिंडांश्च निर्वपिष्यंति संध्यातर्पणपूर्वकम् ॥७५॥
दैवात्पैशाच्यमापन्नास्तेषां पितृपितामहाः ॥
तेपि पैशाच्यमुत्सृज्य यास्यंति परमां गतिम् ॥७६॥
अद्यशुक्लचतुर्दश्यां मार्गेमासि तपोनिधे ॥
अत्र स्नानादिकं कार्यं पैशाच्यपरिमोचनम ॥७७॥
इमां सांवत्सरीं यात्रां ये करिष्यंति मानवाः ॥
तीर्थप्रतिग्रहात्पापान्निःसरिष्यंति ते नराः ॥७८॥
पिशाचमोचने स्नात्वा कपर्दीशं समर्च्य च ॥
कृत्वा तत्रान्नदानं च नरोन्यत्रापि निर्भयाः ॥७९॥
मार्गशुक्लचतुर्दश्यां कपर्दीश्वर संनिधौ ॥
स्नात्वान्यत्रापि मरणान्न पैशाच्यमवाप्नुयुः ॥८०॥
इत्युक्त्वा दिव्यपुरुषो भूयोभूयो नमस्य तम् ॥
तपोधनं महाभागो दिव्यां गतिमवाप्तवान् ॥८१॥
तपोधनोपि तं दृष्ट्वा महाश्चर्यं घटोद्भव ॥
कपर्दीश्वरमाराध्य कालान्निर्वाणमाप्तवान् ॥८२॥
पिशाचमोचनं तीर्थं तदारभ्य महामुने ॥
वाराणस्यां परां ख्यातिमगमत्सर्वपापहृत् ॥८३॥
पैशाचमोचने तीर्थे संभोज्य शिवयोगिनम् ॥
कोटिभोज्यफलं सम्यगेकैक परिसंख्यया ॥८ ४॥
श्रुत्वाध्यायमिमं पुण्यं नरो नियतमानसः ॥
भूतैः प्रेतैः पिशाचैश्च कदाचिन्नाभिभूयते ॥८५॥
बालग्रहाभिभूतानां बालानां शांतिकारकम् ॥
पठनीयं प्रयत्नेन महाख्यानमिदं परम् ॥८६॥
इदमाख्यानमाकर्ण्य गच्छन्देशांतरं नरः ॥
चोरव्याघ्रपिशाचाद्यैर्नाभिभूयेत कुत्रचित् ॥८७॥
इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे पिशाचमोचनमहिमाकथनं नाम चतुष्पंचाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : November 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP