काशीखण्डः - अध्याय ३३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ अगस्त्य उवाच ॥
स्कंदज्ञानोदतीर्थस्य माहात्म्यं वद सांप्रतम् ॥
ज्ञानवापीं प्रशंसंति यतः स्वर्गौकसोप्यलम् ॥१॥
॥ स्कंद उवाच ॥
घटोद्भव महाप्राज्ञ शृणु पापप्रणोदिनीम् ॥
ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाधुना ॥२॥
अनादिसिद्धे संसारे पुरा देवयुगे मुने ॥
प्राप्तः कुतश्चिदीशानश्चरन्स्वैरमितस्ततः ॥३॥
न वर्षंति यदाभ्राणि न प्रावर्तंत निम्रगाः ॥
जलाभिलाषो न यदा स्नानपानादि कर्मणि ॥४॥
क्षारस्वादूदयोरेव यदासीज्जलदर्शनम् ॥
प्रथिव्यां नरसंचारे वतर्माने क्वचित्क्वचित् ॥५॥
निर्वाणकमलाक्षेत्रं श्रीमदानंदकाननम् ॥
महाश्मशानं सर्वेषां बीजानां परमूषरम् ॥६॥
महाशयनसुप्तानां जंतूनां प्रतिबोधकम् ॥
संसारसागरावर्त पतज्जंतुतरंडकम् ॥७॥
यातायातातिसंखिन्न जंतुविश्राममंडपम ॥
अनेकजन्मगुणित कर्मसूत्रच्छिदाक्षुरम् ॥८॥
सच्चिदानंदनिलयं परब्रह्मरसायनम् ॥
सुखसंतानजनकं मोक्षसाधनसिद्धिदम् ॥९॥
प्रविश्य क्षेत्रमेतत्स ईशानो जटिलस्तदा ॥
लसत्त्रिशूलविमलरश्मिजालसमाकुलः ॥१०॥
आलुलोके महालिंगं वैकुंठपरमेष्ठिनोः ॥
महाहमहमिकायां प्रादुरास यदादितः ॥११॥
ज्योतिर्मयीभिर्मालाभिः परितः परिवेष्टितम् ॥
वृंदैर्वृंदारकर्षीणां गणानां च निरंतरम् ॥१२॥
सिद्धानां योगिनां स्तोमैरर्च्यमानं निरंतरम् ॥
गीयमानं च गंधर्वैः स्तूयमानं च चारणैः ॥१३॥
अंगहारैरप्सरोभिः सेव्यमानमनेकधा ॥
नीराज्यमानं सततं नागीभिर्मणिदीपकैः ॥१४॥
विद्याधरीकिन्नरीभिस्त्रिकालं कृतमंडनम् ॥
अमरीचमरीराजि वीज्यमानमितस्ततः ॥१५॥
अस्येशानस्य तल्लिंगं दृष्ट्वेच्छेत्यभवत्तदा ॥
स्नपयामि महल्लिंगं कलशैः शीतलैर्जलैः ॥१६॥
चखान च त्रिशूलेन दक्षिणाशोपकंठतः ॥
कुंडं प्रचंडवेगेन रुद्रोरुद्रवपुर्धरः ॥१७॥
पृथिव्यावरणांभांसि निष्क्रांतानि तदा मुने ॥
भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता ॥१८॥
तैर्जलैः स्नापयांचक्रे त्वत्स्पृष्टैरन्यदेहिभिः
तुषारैर्जाड्यविधुरैर्जंजपूकौघहारिभिः ॥१९॥
सन्मनोभिरिवात्यच्छैरनच्छैर्व्योमवर्त्मवत् ॥
ज्योत्स्नावदुज्ज्वलच्छायैः पावनैः शंभुनामवत् ॥२०॥
पीयूषवत्स्वादुतरैः सुखस्पर्शैर्गवांगवत् ॥
निष्पापधीवद्गंभीरैस्तरलैः पापिशर्मवत् ॥२१॥
विजिताब्जमहागंधैः पाटलामोदमोदिभिः ॥
अदृष्टपूर्वलोकानां मनोनयनहारिभिः ॥२२॥
अज्ञानतापसंतप्त प्राणिप्राणैकरक्षिभिः ॥
पंचामृतानां कलशैः स्नपनातिफलप्रदैः ॥२३॥
श्रद्धोपस्पर्शि दृदयलिंग त्रितयहेतुभिः ॥
अज्ञानतिमिरार्काभैर्ज्ञानदान निदायकैः ॥२४॥
विश्वभर्तुरुमास्पर्शसुखातिसुखकारिभिः ॥
महावभृथसुस्नान महाशुद्धिविधायिभिः ॥२५॥
सहस्रधारैः कलशैः स ईशानो घटोद्भव ॥
सहस्रकृत्वः स्नपयामास संहृष्टमानसः ॥२६॥
ततः प्रसन्नो भगवान्विश्वात्मा विश्वलोचनः ॥
तमुवाच तदेशानं रुद्रं रुद्रवपुर्धरम् ॥२७॥
तव प्रसन्नोस्मीशान कर्मणानेन सुव्रत ॥
गुरुणानन्यपूर्वेण ममातिप्रीतिकारिणा ॥२८॥
ततस्त्वं जटिलेशान वरं ब्रूहि तपोधन ॥
अदेयं न तवास्त्यद्य महोद्यमपरायण ॥२९॥
॥ ईशान उवाच ॥
यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ॥
तदेतदतुलं तीर्थं तव नाम्नास्तु शंकर ॥३०॥
॥विश्वेश्वर उवाच ॥
त्रिलोक्यां यानि तीर्थानि भूर्भुवःस्वः स्थितान्यपि ॥
तेभ्योखिलेभ्यस्तीर्थेभ्यः शिवतीर्थमिदं परम् ॥३१॥
शिवज्ञानमिति ब्रूयुः शिवशब्दार्थचिंतकाः ॥
तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात् ॥३२॥
अतो ज्ञानोद नामैतत्तीर्थं त्रैलोक्यविश्रुतम् ॥
अस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते। ॥३३॥
ज्ञानोदतीर्थसंस्पर्शादश्वमेधफलं लभेत् ॥
स्पर्शनाचमनाभ्यां च राजसूयाश्वमेधयोः ॥३४॥
फल्गुतीर्थे नरः स्नात्वा संतर्प्य च पितामहान् ॥
यत्फलं समवाप्नोति तदत्र श्राद्धकर्मणा ॥३५॥
गुरुपुष्यासिताष्टम्यां व्यतीपातो यदा भवेत् ॥
तदात्र श्राद्धकरणाद्गयाकोटिगुणं भवेत् ॥३६॥
यत्फलं समवाप्नोति पितॄन्संतर्प्य पुष्करे ॥
तत्फलं कोटिगुणितं ज्ञानतीर्थे तिलोदकैः ॥३७॥
सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति ॥
यत्फलं पिंडदानेन तज्ज्ञानोदे दिने दिने॥३८॥
पिंडनिर्वपणं येषां ज्ञानतीर्थे सुतैः कृतम्॥
मोदंते शिवलोके ते यावदाभूतसंप्लवम् ॥३९॥
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥
प्रातः स्नात्वाथ पीतांभस्त्वंतर्लिंगमयो भवेत् ॥४०॥
एकादश्यामुपोष्यात्र प्राश्नाति चुलुकत्रयम् ॥
हृदये तस्य जायंते त्रीणि लिंगान्यसंशयम् ॥४१॥
ईशानतीर्थे यः स्नात्वा विशेषात्सोमवासरे ॥।
संतर्प्य देवर्षि पितॄन्दत्त्वा दानम स्वशक्तितः ॥४२॥
ततः समर्च्य श्रीलिंगं महासंभारविस्तरैः ॥
अत्रापि दत्त्वा नानार्थान्कृतकृत्योभवेन्नरः ॥४३॥
उपास्य संध्यां ज्ञानोदे यत्पापं काललोपजम् ।
क्षणेन तदपाकृत्य ज्ञानवाञ्जायते द्विजः ॥४४॥
शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदं शुभम् ॥
तारकाख्यमिदं तीर्थं मोक्षतीर्थमिदं धुवम् ॥४५॥
स्मरणादपि पापौघो ज्ञानोदस्य क्षयेद्ध्रुवम् ॥
दर्शनात्स्पर्शनात्स्नानात्पानाद्धर्मादिसंभवः ॥४६॥
डाकिनीशाकिनी भूतप्रेतवेतालराक्षसाः ॥
ग्रहाः कूष्मांडझोटिंगाः कालकर्णी शिशुग्रहाः ॥४७॥
ज्वरापस्मारविस्फोटद्वितीयकचतुर्थकाः ॥
सर्वे प्रशममायांति शिवर्तार्थजलेक्षणात्॥ ४८॥
ज्ञानोदतीर्थपानीयैर्लिंगं यः स्नापयेत्सुधीः ॥
सर्वतीर्थोदकैस्तेन ध्रुवं संस्नापितं भवेत् ॥४९॥
ज्ञानरूपोह मेवात्र द्रवमूर्तिं विधाय च ॥
जाड्यविध्वंसनं कुर्यां कुर्यां ज्ञानोपदेशनम् ॥५०॥
इति दत्त्वा वराञ्छंभुस्तत्रैवांतरधीयत ॥
कृतकृत्यमिवात्मानं सोप्यमंस्तत्रिशूलभृत् ॥५१॥
ईशानो जटिलो रुद्रस्तत्प्राश्य परमोदकम्॥
अवाप्तवान्परं ज्ञानं येन निर्वृतिमाप्तवान्॥ ५२॥
॥ स्कंद उवाच ॥
कलशोद्भव चित्रार्थमितिहासं पुरातनम् ॥
ज्ञानवाप्यां हि यद्वृत्तं तदाख्यामि निशामय ॥५३॥
हरिस्वामीति विख्यातः काश्यामासीद्विजः पुरा ॥
तस्यैका तनया जाता रूपेणाऽप्रतिमा भुवि ॥५४॥
न समा शीलसंपत्त्या तस्या काचन भूतले ॥
कलाकलापकुशला स्वरेणजितकोकिला ॥५५॥
न नारी तादृगस्तीह ना भरी किन्नरी न च [॥
विद्याधरी न नो नागी गंधर्वी नासुरी न च ॥५६॥
सर्वसौंदर्यनिलया सर्वलक्षणसत्खनिः ॥
अधिशेते ध्रुवं ध्वांतं तन्मौलिं ब्रध्न साध्वसात् ॥९७॥
तदास्य शरणं यातो मन्ये दर्शभयाच्छशी ॥
दिवापि न त्यजेत्तां तु त्रस्तश्चंडमरीचितः ॥५८॥
तद्भ्रूर्भ्रमरराजीव गंडपत्रलतांतरे ॥
उदंचन्न्यंचदुड्डीन गतेरभ्यासभाजिनी ॥५९॥
तच्चारुलोचनक्षेत्रे विचरंतौ च खंजनौ ॥
सदैव शारदीं प्रीतिं निर्विशेते निजेच्छया ॥६०॥
सुदत्या रदनश्रेणी छेदेषु विषमेषुणा ॥
विहिता कांचनी रेखा क्वेंदावेतावती कला ॥६१॥
प्रायो मदन भूपाल हर्म्य रत्नांतरे शुभे ॥
जितप्रवालसुच्छाये तस्या रदनवाससी ॥६२॥
स्वर्गे मर्त्ये च पाताले नैषा रेखा क्वचित्स्त्रियाम्॥
तत्कंठरेखात्रितय व्याजेन शपते स्मरः ॥६३॥
शंके चित्त भुवो राज्ञो लसत्पटकुटीद्वयम् ॥
अनर्घ्यरत्नकोशाढ्यं तम्या वक्षोरुहद्वयम् ॥६४॥
अनंगभू नियमतोऽदृश्ये मध्ये नतभ्रुवः ॥
रोमालीलक्षिकामूर्ध्वामिव यष्टिं विधिर्व्यधात् ॥६५॥
तस्या नाभीदरीं प्राप्य कंदर्पोऽनंगता गतः ॥
पुनः प्राप्तुमिवांगानि तप्यते परमं तपः ॥६६॥
गुरुणैतन्नितंबेन महामन्मथ दीक्षया ॥
भुवि के के युवानो न स्वाधीना प्रापितादृशाम् ॥६७॥
ऊरुस्तंभेन चैतस्याः स्तंभवत्कस्यनो मनः ॥
तस्तंभेन मुने वापि सुवृत्तेन सुवर्तनम् ॥६८॥
पादांगुष्ठनखज्योतिः प्रभया कस्य न प्रभा ॥
विवेकजनिताऽध्वंसि मुने तस्या मृगीदृशः ॥६९॥
सा प्रत्यहं ज्ञानवाप्यां स्नायं स्नायं शिवालये ॥
संमार्जनादि कर्माणि कुरुतेऽनन्यमानसा ॥७०॥
तत्पादप्रतिबिंबेषु रेखा शष्पांकुरं चरन् ॥
नान्यद्वनांतरं याति काश्यां यूनां मनोमृगः ॥७१॥
तदास्य पंकजं हित्वा यूनां नेत्रालिमालया ॥
न लतांतरमासेवि अप्यामोदप्रसूनयुक् ॥७२॥
सुलोचनापि सा कन्या प्रेक्षेतास्यं न कस्यचित् ॥
सुश्रवा अपि सा बाला नादत्ते कस्यचिद्वचः ॥७३॥
सुशीला शीलसंपन्ना रहस्तद्विरहातुरैः ॥
प्रार्थितापि सुरूपाढ्यैर्नाभिलाषं बबंध सा ॥७४॥
धनैस्तस्याजनेतापि युवभिः प्रार्थितो बहु ॥
नाशकत्तां सुलीलां सदातुं शीलोर्जितश्रियम् ॥७५॥
ज्ञानोदतीर्थभजनात्सा सुशीला कुमाग्किा ॥
बहिरंतस्तदाऽद्राक्षीत्सर्वलिंगमयं जगत ॥७६॥
कदाचिदेकदा तां तु प्रसुप्तां सदनांगणे ॥
मोहितो रूपसंपत्त्या कश्चिद्विद्याधरोऽहरत् ॥७७॥
व्योमवर्त्मनितां रात्रौ यावन्मलयपर्वतम् ॥
स निनीषति तावच्च विद्युन्माली समागतः ॥७८॥
राक्षसो भीषणवपुः कपालकृतकुंडलः ॥
वसारुधिरलिप्तांगः श्मश्रुलः पिंगलोचनः ॥७९॥
राक्षस उवाच ॥
ममदृग्गोचरं यातो विद्याधरकुमारक ॥
अद्य त्वामेतया सार्धं प्रेषयामि यमालयम् ॥८०॥
इति श्रुत्वाथ सा वाक्यं व्याघ्राघ्राता मृगी यथा ॥
चकंपेऽतीव संभीता कदलीदलवन्मुहुः ॥८१॥
निजघान त्रिशूलेन रक्षो विद्याधरं च तम् ॥
विद्याधरकुमारोपि नितरां मधुराकृतिः ॥८२॥
तद्भीषणत्रिशूलेन भिन्नोस्को महाबलः ॥
जघान मुष्टिघातेन वज्रपातोपमेन तम् ॥८३॥
नरमांसवसामत्तं विद्युन्मालिनमाहवे ॥
चूर्णितो मुष्टिपातेन सोऽपतद्वसुधातले ॥८४॥
राक्षसो मृत्युवशगो वज्रेणेव महीधरः ॥
विद्याधरोपि तच्छूलघातेन विकलीकृतः ॥८५॥
उवाच गद्गदं वाक्यं विघूर्णित विलोचनः ॥
प्रिये मुधा समानीता सुशित्यर्धोक्तिमुच्चरन् ॥८६॥
जहौ प्राणान्रणे वीरस्तां प्रियां परितः स्मरन् ॥८७॥
अनन्यपूर्वसंस्पर्श सुखं समनुभूय सा ॥
तमेव च पतिं मत्वा चक्रे शोकाग्निसात्तनुम् ॥८८॥
लिंगत्रयशरीरिण्यास्तस्याः सान्निध्यतः स हि ॥
दिव्यं वपुः समासाद्य राक्षसस्त्रिदिवं ययौ ॥८९॥
रणे पणीकृतप्राणो विद्याधरसुतोपि सः ॥
अंते प्रियां स्मरन्प्राप जनुर्मलयकेतुतः ॥९०॥
ध्यायंती सापि तं बाला विद्याधरकुमारकम्॥
विरहाग्नौ विसृष्टासुः कर्णाटे जन्मभागभूत् ॥९१॥
सुतो मलयकेतोस्तां कालेन परिणीतवान् ॥
माल्यकेतुरनंगश्रीः पित्रा दत्तां कलावतीम् ॥९२॥
सापि प्राग्वासनायोगाल्लिंगार्चनरता सती ॥
हित्वा मलयजक्षोदं विभूतिं बह्वमंस्त वै ॥९३॥
मुक्ता वैदूर्य माणिक्य पुष्परागेभ्य एव सा ॥
मेने रुद्राक्षनेपध्यमनर्घ्यं गर्भसुंदरी ॥९४॥
कलावती माल्यकेतुं पतिं प्राप्य पतिव्रता ॥
अपत्यत्रितयं लेभे दिव्यभोगसमृद्धिभाक् ॥९५॥
एकदा कश्चिदौदीच्यो माल्यकेतुं नरेश्वरम् ॥
चित्रकृच्चित्रपटिकां चित्रां दर्शितवानथ ॥९६॥
तां तु चित्रपटीं राजा कलावत्यै समर्पयत् ॥
साथ चित्रपटीं रम्यां संप्रहृष्टतनूरुहा ॥९७॥
मुहुर्मुहुः प्रपश्यंती रहसि प्राणदेवताम् ॥
विसस्मार स्वमपि च समाधिस्थेव योगिनी ॥९८॥
क्षणमुन्मील्य नयने कृत्वा नेत्रातिथिं पटीम् ॥
तर्जन्यग्रमथोत्क्षिप्य स्वात्मानं समबोधयत् ॥९९॥
संभेदोयमसे रम्य उपलोलार्कमग्रतः ॥
उपश्रीकेशवपदं वरणैषा सरिद्वरा ॥१००॥
स्वगें प्रार्थितसंस्पर्शा सैषा स्वर्गतरंगिणी ॥
उदग्वहाभिलष्यंति यां दिवोद्युसदः सदा ॥१॥
अलक्ष्यामोक्षलक्ष्मी र्या वेदांते परिपठ्यते ॥
विमुक्तये सतां सैषा श्रीमती मणिकर्णिका ॥२॥
मरणं मंगलं यत्र सफलं यत्र जीवितम् ॥
स्वर्गस्तृणायते यत्र सैषा श्रीमणिकर्णिका ॥३॥
यत्र संपत्तिसंभारान्विश्राण्य निधनेच्छया ॥
यतिव्रतं समालंब्य तिष्ठते मूलकंदभुक् ॥४॥
यत्र त्रिमार्गं गांगं गां मार्गमाणोमृतान्हरः ॥
स्वमौलिबालचंद्रेण मुक्तिमार्गं प्रदर्शयन् ॥५॥
संसारं यत्र दुर्वारं प्रतारयति शंकरः ॥
मृता अप्यमृतायंते कर्णधाराद्यतो नराः ॥६॥
संसारासारपदवी यत्र स्याददवीयसी ॥
कर्णे जपान्महेशानात्करुणा वरुणालयात् ॥७॥
अनेक भवसंभूत प्रभूत सुकृतैर्नराः ॥
कर्णे जपं भवं यत्र लभंते ते भवापहम् ॥८॥
स्वीकृत्य क्षेत्रसंन्यासं यद्बलेन महाधियः ॥
तृणं कृतातं मन्यंते सेयं श्रीमणिकर्णिका ॥९॥
तृणीकृत्य निजं देहं यत्र राजर्षिसत्तमः ॥
हरिश्चंद्रः सपत्नीको व्यक्रीणाद्भूरयं हि सा ॥११०॥
अभिलष्यंति यत्रत्यमपि वैकुण्ठवासिनः ॥
सैकतं मृदुलं तल्पं सैषा श्रीमणिकर्णिका ॥११॥
अनेक जन्म जनित कर्मसूत्रनियंत्रणम् ॥
उन्मुच्य यत्र मुक्ताः स्युः सैषा श्रीमणिकर्णिका ॥१२॥
सत्यलोकेऽपि ये लोकास्तेऽर्थयंति निरंतरम् ॥
यामहो दीर्घनिद्रायै सेयं श्रीमणिकर्णिका ॥१३॥
अयं हि स कुलस्तंभो यत्र श्रीकालभैरवः ॥
क्षेत्रपापकृतः शास्ति दर्शयंस्तीव्रयातनाम् ॥१४॥
अन्यत्र विहितं पापं नश्येत्काशीनिरीक्षणात् ॥
काश्यां कृतानां पापानां दारुणेयं तु यातना ॥१५॥
कपालमोचनं तीर्थमेतत्तदपि पावनम् ॥
कपालं पतितं यत्र विधेर्भैरवपाणितः ॥१६॥
ऋणत्रयाद्विमुच्यंते यत्र स्नाता नरोतमाः ॥
तीर्थं विशुद्धिजनकं तदेतदृणमोचनम् ॥१७॥
प्रणवाख्यं परंब्रह्म यत्र नित्यं प्रकाशते ॥
सपंचायतनोपेत ॐकारेशोयमद्भुतः ॥१८॥
अश्च उश्च मकारश्च नादोबिंदुश्च पंचमः ॥
पंचात्मकं परंब्रह्म यत्र नित्यं प्रकाशते ॥१९॥
एषा मत्स्योदरी रम्या यत्स्नातो मानवोत्तमः ॥
मातुर्जातूदरदरीं न विशेदेष निश्चयः ॥१२०॥
त्रिलोचनोयं भगवान्कुर्यादेव त्रिलोचनम्॥
निजभक्तं कृपायुक्तस्त्वपि देशातंर स्थितम् ॥२१॥
असौ कामेश्वरो देवो यः कामान्पूरयेत्सताम् ॥
दुर्वासा अपि यत्राप निजकाममहोदयम् ॥२२॥
स्वयं लीनो महेशोत्र भक्तकामसमृद्धये ॥
तस्मात्स्वर्लीनसंज्ञास्य देवदेवस्य शूलिनः ॥२३॥
वाराणस्यां महादेवो यः पुराणेषु पठ्यते ॥
क्षेत्राभिमानी भगवांस्तत्प्रासादोयमद्भुतः ॥२४॥
असौ स्कंदेश्वरो देवः श्रद्धया यद्विलोकनात् ॥
आजन्मब्रह्मचर्यस्य फलमाप्नोति मानवः ॥२५॥
विनायकेश्वरश्चायं सर्वसिद्धि प्रदायकः ॥
यत्सेवया प्रणश्यंति नृणां सर्वे विनायकाः ॥२६॥
इयं वाराणसी देवी साक्षान्मूर्त्तिमयी शुभा ॥
यस्या विलोकनात्पुंसां भूयो नो गर्भसंभवः ॥२७॥
पार्वतीश्वरलिंगस्य महदायतनं त्विदम् ॥
यत्र नित्यं महेशानो गौर्या सह विमुक्तिदः ॥२८॥
एष भृंगीश्वरः श्रीमान्महापातकनाशनः ॥
जीवन्मुक्तोऽभवद्भृंगी यस्य लिंगस्य सेवया ॥२९॥
चतुर्वेदेश्वरश्चैष चतुर्वेदधरो विधिः ॥
लभेद्यद्वीक्षणाद्विप्रो वेदाध्ययनजं फलम् ॥१३०॥
यज्ञैः संस्थापितं चैतल्लिंगं यज्ञेश्वराभिधम् ॥
यदर्चनाल्लभेन्मर्त्यः सर्वयागफलं महत् ॥३१॥
पुराणेश्वर नामैतल्लिंगमष्टादशांगुलम् ॥
अष्टादशानां विद्यानां स्यादाधारो यदीक्षणात् ॥३२॥
धर्मशास्त्रेश्वरश्चायं स्मृतिभिश्च प्रतिष्ठितः ॥
स्मृत्यध्ययनजं पुण्यं यद्विलोकनतो भवेत् ॥३३॥
सारस्वतमिदं लिंगं सर्वजाड्यविनाशकृत् ॥
सर्वतीर्थेश्वरं लिंगमेतत्सद्यो विशुद्धिदम् ॥३४॥
शैलेश्वरस्य लिंगस्य मंडपोयं महाद्भुतः ॥
सर्वेषां रत्नजातानां यो बिभर्ति परां श्रियम् ॥३५॥
सप्तसागरसंज्ञं वै लिंगमेतन्मनोहरम् ॥
यद्वीक्षणाल्लभेन्मर्त्यः सप्ताब्धिस्नानजं फलम् ॥३६॥
असौ मंत्रेश्वरः श्रीमान्मंत्रजाप्यफलप्रदः ॥
सप्तकोटिमहामंत्रैः स्थापितो यः पुरा युगे ॥३७॥
त्रिपुरेशस्य लिंगस्य पुरः कुंडमिदं महत् ॥
त्रिपुरैः खानितं पूर्वं त्रिपुरारिप्रियं परम् ॥३८॥
इदं वाणेश्वरं लिंगं सहस्रभुजपूजितम् ॥
द्विभुजस्यापि बाणस्य सहस्रभुजहेतुकम् ॥३९॥
वैरोचनेश्वरश्चैष पुरः प्रह्लादकेशवात् ॥
बलिकेशवनामासावेष नारदकेशवः ॥१४०॥
आदिकेशव पूर्वेण त्वयमादित्यकेशवः ॥
भीष्मकेशवनामासौ दत्तात्रेयेश्वरस्त्वयम् ॥४१॥
दत्तात्रेयेश्वरात्पूर्वमेष आदि गदाधरः ॥
भृगुकेशवनामासावेष वामनकेशवः ॥४२॥
नरनारायणावेतौ यज्ञवाराहकेशवः ॥
विदारनारसिंहोयं गोपीगोविंद एष ह ॥४३॥
एष लक्ष्मीनृसिंहस्य प्रासादो रत्नकेतनः ॥
यस्य प्रसादात्प्रह्लादः पदमैंद्रमवाप्तवान् ॥४४॥
अखर्वसिद्धिदः पुंसामेष खर्वविनायकः ॥
शेषमाधवनामासौ शेषेण स्थापितः पुरा ॥४५॥
यस्य भक्ता न दह्यंते त्वपि संवर्तवह्निना ॥
शंखमाधवनामासौ शंखं हत्वात्र संस्थितः ॥४६॥
इदं सारस्वतं स्रोतः परं ब्रह्मरसायनम् ॥
सरस्वत्या महानद्याः संगमो यत्र गंगया ॥४७॥
यत्राप्लुता नरा भूयः संभवंति न भूतले ॥
श्रीबिंदुमाधवस्त्वेष साक्षाल्लक्ष्मीपतिः परः ॥४८॥
श्रद्धया यं नमन्मर्त्यो न वसेद्गर्भवेश्मनि ॥
न दारिद्र्यमवाप्नोति व्याधिभिर्नाभिभूयते ॥४९॥
बिंदुमाधवभक्तो यस्तं यमोपि नमस्यति ॥
प्रणवात्मा य एकोऽस्ति नादबिंदु स्वरूपधृक् ॥१५०॥
अमूर्तं यत्परं ब्रह्म बिंदुमाधव एव सः ॥
एतत्पंचनदं तीर्थं पंचब्रह्मात्मसंज्ञकम् ॥५१॥
यत्र स्नातो न गृह्णीयाच्छरीरं पांचभौतिकम् ॥
एषा सा मंगलागौरी काश्यां परममंगलम् ॥५२॥
यत्प्रसादादवाप्नोति नरोऽत्र च परत्र च ॥
मयूखादित्यसंज्ञोयं रश्मिमाली तमोपहः ॥५३॥
गभस्तीशो महालिंगमेतद्दिव्यमहःप्रदम् ॥
मृकंडुसूनुनाप्यत्र तपस्तप्तं पुरा महत् ॥५४॥
लिंगं संस्थाप्य परमं स्वनाम्नायुःप्रदं परम् ॥
किरणेश्वरनामैतल्लिंगं त्रैलोक्यविश्रुतम् ॥५५॥
सकृन्न तमिदं लोकं नयेत्किरणमालिनः ॥
धौतपापेश्वरं लिंगमेतत्पातकधावनम् ॥५६॥
निर्वाणनरसिंहोयं भक्तनिर्वाणकारणम् ॥
मणिप्रदीपनागोयं महामणिविभूषणः ॥५७॥
यदर्चनान्नरो जातु न नागैः परिभूयते ॥
कपिलेशमिदं लिंगं कपिलेन प्रतिष्ठितम्॥ ५८॥
मुच्यंते कपयोप्यस्य दर्शनात्किमु मानवाः ॥
प्रियव्रतेश्वरं लिंगं महदेतत्प्रकाशते ॥५९॥
यस्यार्चनाल्लभेज्जंतुः प्रियत्वं सर्वजन्तुषु ॥
इदमायतनं श्रेष्ठं मणिमाणिक्यनिर्मितम् ॥१६०॥
श्रीमतः कालराजस्य कलिकालार्तिहारिणः ॥
निजभक्तं जनं पाति यः पापात्पापभक्षणः ॥६१॥
क्षेत्रविघ्नकरान्पापान्यातयन्यातना शतैः ॥
इयं मंदाकिनी रम्या तपस्तप्तुमिहागता ॥६२॥
काशीवाससुखं प्राप्य नाद्यापि दिवमीहते ॥
स्नात्वात्र संतर्प्य पितॄञ्छ्राद्धं कृत्वा विधानतः ॥६३॥
नरो न नरकं पश्येदपि दुष्कृतकर्मकृत् ॥
यानि कानि च लिंगानि काश्यां संति सहस्रशः ॥६४॥
रत्नभूतमिदं तेषु लिंगं रत्नेश्वराभिधम् ॥
रत्नेश्वरप्रसादेन भुक्त्वा रत्नान्यनेकशः ॥६५॥
पुरुषार्थमहारत्नं निर्वाणं को न लब्धवान् ॥
कृत्तिवासेश्वरस्यैषा महाप्रासादनिर्मितिः ॥६६॥
यां दृष्ट्वापि नरो दूरात्कृत्तिवासः पदं लभेत् ॥
सर्वेषामपि लिंगानां मौलित्वं कृत्तिवाससः ॥६७॥
ॐकारेशः शिखा ज्ञेया लोचनानि त्रिलोचनः ॥
गोकर्णभारभूतेशौ तत्कर्णौ परिकीर्तितौ ॥६८॥
विश्वेश्वराविमुक्तौ च द्वावेतौ दक्षिणौ करौ ॥
धर्मेशमणिकर्णेशौ द्वौ करौ दक्षिणेतरौ ॥६९॥
कालेश्वरकपर्दीशौ चरणावतिनिर्मलौ ॥
ज्येष्ठेश्वरो नितंबश्च नाभिर्वै मध्यमेश्वरः ॥१७०॥
कपर्दोस्य महादेवः शिरोभूषा श्रुतीश्वरः ॥
चंद्रेशो हृदयं तस्य आत्मा वीरेश्वरः परः ॥७१॥
लिंगं तस्य तु केदारः शुक्रं शुक्रेश्वरं विदुः ॥
अन्यानि यानि लिंगानि परः कोटि शतानि च ॥७२॥
ज्ञेयानि नखलोमानि वपुषो भूषणान्यपि ॥
यावेतौ दक्षिणौ हस्तौ नित्यनिर्वाणदौ हि तौ ॥७३॥
जंतूनामभयं दत्त्वा पततां मोहसागरे ॥
इयं दुर्गा भगवती पितृलिंगमिदं परम् ॥७४॥
इयं हि चित्रघंटेशी घंटाकर्ण ह्रदस्त्वयम् ॥
इयं सा ललिता गौरी विशालाक्षीयमद्भुता ॥७५॥
आशाविनायकस्त्वेष धर्मकूपोयमद्भुतः ॥
यत्र पिंडान्नरो दत्त्वा पितॄन्ब्रह्मपदं नयेत् ॥७६॥
एषा विश्वभुजा देवी विश्वैकजननी परा ॥
असौ बंदी महादेवी नित्यं त्रैलोक्यवंदिता ॥७७॥
निगडस्थानपि जनान्पाशान्मोचयति स्मृता॥
दशाश्वमेधिकं तीर्थमेतत्त्रैलोक्यवंदितम् ॥७८॥
यत्राहुतित्रयेणापि अग्निहोत्रफलं लभेत् ॥
प्रयागाख्यमिदं स्रोतः सर्वतीर्थोत्तमोत्तमम् ॥७९॥
अशोकाख्यमिदं तीर्थं गंगाकेशव एष वै॥
मोक्षद्वारमिदं श्रेष्ठं स्वर्ग द्वारमिदं विदुः ॥१८०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ज्ञानवापीवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥३३॥
N/A
References : N/A
Last Updated : November 25, 2024
TOP