संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ३१

काशीखण्डः - अध्याय ३१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अगस्त्य उवाच ॥
सर्वज्ञ हृदयानंद स्कंदस्कंदित तारक ॥
न तृप्तिमधिगच्छामि शृण्वन्वाराणसीकथाम् ॥१॥
अनुग्रहो यदि मयि योग्योस्मि श्रवणे यदि ॥
तदा कथय मे नाथ काश्यां भैरव संकथाम् ॥२॥
कोसौ भैरवनामात्र काशिपुर्यां व्यवस्थितः ॥
किं रूपमस्य किं कर्म कानि नामानि चास्य वै ॥३॥
कथमाराधितश्चैव सिद्धिदः साधकस्य वै ॥
आराधितः कुत्र काले क्षिप्रं सिद्ध्यति भैरवः ॥४॥
॥ स्कंद उवाच ॥
वाराणस्यां महाभाग यथा ते प्रेम वर्तते ॥
तथा न कस्यचिन्मन्ये ततो वक्ष्याम्यशेषतः ॥५॥
प्रादुर्भावं भैरवस्य महापातकनाशनम् ॥
यच्छ्रुत्वा काशिवासस्य फलं निर्विघ्रमाप्नुयात् ॥६॥
पाणिभ्यां परितः प्रपीड्य सुदृढं निश्चोत्य निश्चोत्य च ब्रह्मांडं सकलं पचेलिमरसालोच्चैः फलाभं मुहुः ॥
पायंपायमपायतस्त्रिजगतीमुन्मत्तवत्तै रसैर्नृत्यंस्तांडवडंबरेण विधिनापायान्महाभैरवः ॥७॥
कुंभयोने न वेत्त्येव महिमानं महेशितुः ॥
चतुर्भजोपि वैकुंठश्चतुर्वक्त्रोपि विश्वकृत् ॥८॥
न चित्रमत्र भूदेव भवमाया दुरत्यया ॥
तया संमोहिताः सर्वे नावयंत्यपि तं परम् ॥९॥
वेदयेद्यदिचात्मानं स एव परमेश्वरः ॥
तदा विंदंति ब्रह्माद्याः स्वेच्छयैव न तं विदुः ॥१०॥
स सर्वगोपि नेक्ष्येत स्वात्मारामो महेश्वरः ॥
देववद्बुध्यते मूढैरतीतो यो मनोगिराम् ॥११॥
पुरा पितामहं विप्र मेरुशृंगे महर्षयः ॥
प्रोचुः प्रणम्य लोकेशं किमेकं तत्त्वमव्ययम् ॥१२॥
समा यया महेशस्य मोहितो लोकसंभवः ॥
अविज्ञाय परं भावमात्मानं प्राह वर्पिणम् ॥१३॥
जगद्योनिरहं धाता स्वयंभूरेक ईश्वरः ॥
अनादिमदहं ब्रह्म मामनर्च्य न मु च्यते ॥१४॥
प्रवर्तको हि जगतामहमेको निवर्तकः ॥
नान्यो मदधिकः सत्यं कश्चित्कोपि सुरोत्तमाः ॥१५॥
तस्यैवं ब्रुवतो धातुः क्रतुर्नारायणांशजः ॥
प्रोवाच प्रहसन्वाक्यं रोषताम्रविलोचनः ॥१६॥
अविज्ञाय परं तत्त्वं किमेतत्प्रतिपाद्यते ॥
अज्ञानं योगयुक्तस्य न चैतदुचितं तव ॥१७॥
अहं कर्ता हि लोकानां यज्ञो नारायणः परः ॥
न मामनादृत्य विधे जीवनं जगतामज ॥१८॥
अहमेव परं ज्योतिरहमेव परा गतिः ॥
मत्प्रेरितेन भवता सृष्टिरेषा विधीयते ॥१९॥
एवं विप्र कृतौ मोहात्परस्परजयैषिणौ ॥
पप्रच्छतुः प्रमाणज्ञानागमांश्चतुरोपि तौ ॥२०॥
॥ विधिक्रतू ऊचतुः ॥
वेदाः प्रमाणं सर्वत्र प्रतिष्ठां परमामिताः ॥
यूयमेव न संदेहः किं तत्त्वं प्रतितिष्ठत ॥२१॥
श्रुतय ऊचुः ॥
यदि मान्या वयं देवौ सृष्टिस्थितिकरौ विभू ॥
तदा प्रमाणं वक्ष्यामो भवत्संदेहभेदकम् ॥२२॥
श्रुत्युक्तमिदमाकर्ण्य प्रोचतुस्तौ श्रुतीः प्रति ॥
युष्मदुक्तं प्रमाणं नौ किं तत्त्वं सम्यगुच्यताम् ॥२३॥
ऋगुवाच ॥
यदंतःस्थानि भूतानि यतः सर्वं प्रवर्तते ॥
यदाहुस्तत्परं तत्त्वं स रुद्रस्त्वेक एव हि ॥२४॥
॥ यजुरुवाच ॥
यो यज्ञैरखिलैरीशो योगेन च समिज्यते ॥
येन प्रमाणं हि वयं स एकः सर्वदृक्छिवः ॥२५॥
॥ सामोवाच ॥
येनेदं भ्रश्यते विश्वं योगिभिर्यो विचिंत्यते ॥
यद्भासा भासते विश्वं स एकस्त्र्यंबकः परः ॥२६॥
॥ अथर्वोवाच ॥
यं प्रपश्यंति देवेशं भक्त्यानुग्रहिणो जनाः ॥
तमाहुरेकं कैवल्यं शंकरं दुःखतस्करम् ॥२७॥
श्रुतीरितं निशम्येत्थं तावतीव विमोहितौ ॥
स्मित्वाहतुः क्रतु विधीमोहाध्येनांकितौ मुने ॥२८॥
कथं प्रमथनाथोसौ रममाणो निरंतरम्॥
दिगंबरः पितृवने शिवया धूलिधूसरः ॥२९॥
विटंकवेशो जटिलो वृषगोव्यालभूषणः ॥
परं ब्रह्मत्वमापन्नः क्व च तत्संगवर्जितम्॥३०॥
तदुदीरितमाकर्ण्य प्रणवात्मा सनातनः ॥
अमूर्तो मूर्तिमान्भूत्वा हसमान उवाच तौ ॥३१॥
प्रणव उवाच ॥
न ह्येष भगवाञ्छक्त्या स्वात्मनो व्यतिरिक्तया ॥
कदाचिद्रमते रुद्रो लीलारूपधरो हरः ॥३२॥
असौ हि भगवानीशः स्वयंज्योतिः सनातनः ॥
आनंदरूपा तस्यैषा शक्तिर्नागंतुकी शिवा ॥३३॥
इत्येवमुक्तेपि तदा मखमूर्तेरजस्य हि ॥
नाज्ञानमगमन्नाशं श्रीकंठस्यैव मायया ॥३४॥
प्रादुरासीत्ततो ज्योतिरुभयोरंतरे महत् ॥
पूरयन्निजया भासा द्यावाभूम्योर्यदंतरम् ॥३५॥
ज्योतिर्मंडलमध्यस्थो ददृशे पुरुषाकृतिः ॥
प्रजज्वालाथ कोपेन ब्रह्मणः पंचमं शिरः ॥३६॥
आवयोरंतरं कोसौ बिभृयात्पुरुषाकृतिम् ॥
विधिः संभावयेद्यावत्तावत्स हि विलोकितः ॥३७॥
स्रष्टा क्षणेन च महान्पुरुषो नीललोहितः ॥
त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः ॥३८॥
हिरण्यगर्भस्तं प्राह जाने त्वां चंद्रशेखरम् ॥
भालस्थलान्ममपुरा रुद्रः प्रादुरभूद्भवान् ॥३९॥
रोदनाद्रुद्रनामापि योजितोसि मया पुरा ॥
मामेव शरणं याहि पुत्र रक्षां करोमि ते ॥४०॥
अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम्॥
सकोपतः समुत्पाद्य पुरुषं भैरवाकृतिम् ॥४१॥
प्राह पंकजजन्मासौ शास्यस्ते कालभैरव ॥
कालवद्राजसे साक्षात्कालराजस्ततो भवान् ॥४२॥
विश्वं भर्तुं समर्थोऽसि भरणाद्भैरवः स्मृतः ॥
त्वत्तो भेष्यति कालोपि ततस्त्वं कालभैरवः ॥४३॥
आमर्दयिष्यति भवांस्तुष्टो दुष्टात्मनो यतः ॥
आमर्दक इति ख्याति ततः सर्वत्र यास्यति ॥४४॥
यतः पापानि भक्तानां भक्षयिष्यति तत्क्षणात् ॥
पापभक्षण इत्येव तव नाम भविष्यति ॥४५॥
या मे मुक्तिपुरी काशी सर्वाभ्योपि गरीयसी ॥
आधिपत्यं च तस्यास्ते कालराज सदैव हि ॥४६॥
तत्र ये पापकर्तारस्तेषां शास्ता त्वमेव हि ॥
शुभाशुभं न तत्कर्म चित्रगुप्तो लिखिष्यति ॥४७॥
एतान्वरान्प्रगृह्याऽथ तत्क्षणात्कालभैरवः ॥
वामांगुलिनखाग्रेण चकर्त च शिरो विधेः ॥४८॥
यदंगमपराध्नोति कार्यं तस्यैव शासनम् ॥
अतो येन कृता निंदा तच्छिन्नं पचमं शिरः ॥४९॥
यज्ञमूर्तिधरो विष्णुस्ततस्तुष्टाव शंकरम् ॥
भीतो हिरण्यगर्भोपि जजाप शतरुद्रियम् ॥५०॥
आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः ॥
प्राह स्वां मूर्तिमपरां भैरवं तं कपर्दिनम् ॥५१॥
मान्योऽध्वरोसौ भवता तथा शतधृतिस्त्वयम् ॥
कपालं वैधसं चापि नीललोहित धारय ॥५२॥
ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शयन्॥
चर त्वं सततं भिक्षां कापालव्रतमास्थितः ॥
इत्युक्त्वांऽतर्हितो देवस्तेजोरूपस्तदा शिवः ॥५३॥
उत्पाद्य कन्यामेकां तु ब्रह्महत्येति विश्रुताम् ॥
रक्तांबरधरां रक्तां रक्तस्रग्गंधलेपनाम्॥ ५४॥
दंष्टाकरालवदनां ललज्जिह्वातिभीषणाम् ॥
अंतरिक्षैकपादाग्रां पिबंतीं रुधिरं बहु ॥५५॥
कर्त्रीं कर्परहस्ताग्रां स्फुरत्पिंगोग्रतारकाम् ॥
गर्जयंतीं महावेगां भैरवस्यापिभीषणाम् ॥५६॥
यावद्वाराणसीं दिव्यां पुरीमेष गमिष्यति ॥
तावत्त्वं भीषणे कालमनुगच्छोग्ररूपिणि ॥५७॥
सर्वत्र ते प्रवेशोस्ति त्यक्त्वा वाराणसीं पुरीम्॥
नियोज्यतामिति शिवोप्यंतर्धानं गतस्ततः ॥५८॥
तत्सान्निध्याद्भैरवोपि कालोभूत्कालकालतः ॥
स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम्॥ ५९॥
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम्॥
नात्याक्षीच्चापि तं देवं ब्रह्महत्या सुदारुणा ॥६०॥
सत्यलोकेपि वैकुंठे महेंद्रादि पुरीष्वपि ॥
त्रिजगत्पतिरुग्रोपि व्रती त्रिजगतीश्वरः ॥६१॥
प्रतितीर्थं भ्रमन्नापि विमुक्तो ब्रह्महत्यया ॥६२॥
अनेनैवानुमानेन महिमा त्ववगम्यताम् ॥
ब्रह्महत्यापनोदिन्याः काश्याः कलशसंभव ॥६३॥
संति तीर्थान्यनेकानि बहून्यायतनानि च ॥
अधि त्रिलोकिनो काश्याः कलामर्हंति षोडशीम् ॥६४॥
तावद्गर्जंति पापानि ब्रहत्यादिकान्यलम् ॥
यावन्नाम न शृण्वंति काश्याः पापाचलाशनेः ॥६५॥
प्रमथैः सेव्यमानोऽयं त्रिलोकीं विचरन्हरः ॥
कापालिको ययौ देवो नारायणनिकेतनम् ॥६६॥
अथायांतं महाकालं त्रिनेत्रं सर्पकुंडलम् ॥
महादेवांशसंभूतं भैरवं भीषणाकृतिम् ॥६७॥
पपात दंडवद्भूमौ दृष्ट्वा तं गरुडध्वजः ॥
देवाश्च मुनयश्चैव देवनार्यः समंततः ॥६८॥
निपेतुः प्रणिपत्यैनं प्रणतः कमलापतिः ॥
शिरस्यंजलिमारोप्य स्तुत्वा बहुविधैः स्तवैः ॥६९॥
क्षीरोदमथनो तां प्राह पद्मालयां हरिः ॥
प्रिये पश्याऽब्जनयने धन्याऽसि सुभगेनघे ॥७०॥
धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ॥
अयं धाता विधाता च लोकानां प्रभुरीश्वरः ॥७१॥
अनादिः शरणः शांतः परः षड्विंशसंमितः ॥
सर्वज्ञः सर्वयोगीशः सर्वभूतैकनायकः ॥७२॥
सर्वभूतांतरात्माऽयं सर्वेषां सर्वदः सदा ॥
यं विनिद्रा विनिःश्वासाः शांता ध्यानपरायणाः ॥७३॥
धिया पश्यंति हृदये सोयमद्य समीक्ष्यताम्॥
यं विदुर्वेदतत्त्वज्ञा योगिनो यतमानसाः ॥७४॥
अरूपो रूपवान्भूत्वा सोयमायाति सर्वगः ॥
अहो विचित्रं देवस्य चेष्टितं परमेष्ठिनः ॥७४॥।
यस्याख्यां ब्रुवतां नित्यं न देहः सोपि देहधृक्॥
यं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि ॥७६॥
सोयमायाति भगवांस्त्र्यंबकः शशिभूषणः ॥
पुंडरीकदलायामे धन्येमेऽद्य विलोचने ॥७७॥
धिग्धिक्पदं तु देवानां परं दृष्ट्वाऽत्र शंकरम् ॥
लभ्यते यन्न निर्वाणं सर्वदुःखांतकृत्तु यत् ॥७८॥
देवत्वादशुभं किंचिद्देवलोके न विद्यते ॥
दृष्ट्वापि सर्वदेवेशं यन्मुक्तिं न लभामहे ॥७९॥
एवमुक्त्वा हृषीकेशः संप्रहृष्टतनूरुहः ॥
प्रणिपत्य महादेवमिदमाह वृषध्वजम् ॥८०॥
किमिदं देवदेवेन सर्वज्ञेन त्वया विभो ॥
क्रियते जगतां धात्रा सर्वपापहराऽव्यय ॥८१॥
क्रीडेयं तव देवेश त्रिलोचन महामते ॥
किं कारणं विरूपाक्ष चेष्टितं ते स्मरार्दन ॥८२॥
किमर्थं भगवत्र्छंभो भिक्षां चरसि शक्तिप ॥
संशयो मे जगन्नाथ नतत्रैलोक्यराज्यद ॥८३॥
एवमुक्तस्ततः शंभुर्विष्णुमेतदुदाहरत् ॥
ब्रह्मणस्तु शिरश्छिन्नमंगु्ल्यग्रनखेन ह ॥८४॥
तदघप्रतिघं विष्णो चराम्येतद्व्रतं शुभम् ॥
एवमुक्तो महेशेन पुंडरीकविलोचनः ॥८५॥
स्मित्वा किंचिन्नतशिराः पुनरेवं व्यजिज्ञपत् ॥
यथेच्छसि तथा क्रीड सर्वविष्टपनायक ॥८६॥
मायया मां महादेव नच्छादयितुमर्हसि ॥
नाभीकमलकोशात्तु कोटिशः कमलासनान् ॥८७॥
कल्पे कल्पे सृजामीश त्वन्नियोगबलाद्विभो ॥
त्यज मायामिमां देव दुस्तरामकृतात्मभिः ॥८८॥
मदाद्यो महादेव मायया तव मोहिताः ॥
यथावदवगच्छामि चेष्टितं ते शिवापते ॥८९॥
संहारकाले संप्राप्ते सदेवानखिलान्मुनीन् ॥
लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर ॥९०॥
तदा क्व ते महादेव पाप ब्रह्मवधादिकम् ॥
पारतंत्र्यं न ते शंभो स्वैरं क्रीडेत्ततो भवान् ॥९१॥
अतीतब्रह्मणामस्थ्नां स्रक्कंठे तव भासते ॥
तदातदा क्वानुगता ब्रह्महत्या तवानघ ॥९२॥
कृत्वापि सुमहत्पापं त्वां यः स्मरति भावतः ॥
आधारं जगतामीशं तस्य पापं विलीयते ॥९३॥
यथा तमो न तिष्ठेत संनिधावंशुमालिनः ॥
तथा न भवभक्तस्य पापं तस्य व्रजेत्क्षयम् ॥९४॥
यश्चिंतयति पुण्यात्मा तव पादांबुजद्वयम् ॥
ब्रह्महत्यादिकमपि पापं तस्य व्रजेत्क्षयम् ॥९५॥
तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ॥
अप्यद्रिकूटतुलितं नैनस्तमनुबाधते ॥९६॥
रजसा तमसा विवर्धितं क्व नु पापं परितापदायकम् ॥
क्व च ते शिव नाम मंगलं जनजीवातु जगद्रुजापहम् ॥९७॥
यदि जातुचिदंधकद्विषस्तवनामौष्ठपुटाद्विनिःसृतम् ॥
शिवशंकर चंद्रशेखरेत्यसकृत्तस्य न संसृतिः पुनः ॥९८॥
परमात्मन्परंधाम स्वेच्छा विधृत विग्रह ॥
कुतूहलं तवेशेदं क्व पराधीनतेश्वरे ॥९९॥
अद्य धन्योस्मि देवेश यं न पश्यति योगिनः ॥
पश्यामि तं जगन्मूलं परमेश्वरमक्षयम् ॥१००॥
अद्य मे परमो लाभस्त्वद्य मे मंगलं परम् ॥
त्वद्दृष्ट्यमृततृप्तस्य तृणं स्वर्गापवर्गदम् ॥१॥
इत्थं वदति गोविंदे विमला पद्मया तया ॥
मनोरथवती नाम भिक्षापात्रे समर्पिता ॥२॥
भिक्षाटनाय देवोपि निरगात्परया मुदा ॥
दृष्ट्वाऽनुयायिनीं तां तु समाहूय जनार्दनः ॥
संप्रार्थयद्ब्रह्महत्यां विमुंच त्वं त्रिशूलिनम् ॥३॥
॥ ब्रह्महत्योवाच ॥
अनेनापि मिषेणाऽहं संसेव्यामुं वृषध्वजम् ॥
आत्मानं पावयिष्यामि क्व पुनर्भवदर्शनम् ॥४॥
सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ॥
तमूचेऽथ हरिं शंभुः स्मेरास्यो वचनं शुभम् ॥५॥
त्वद्वाक्पीयूषपानेन तृप्तोस्मि बहुमानद ॥
वरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ॥६॥
न माद्यंति यथा भैक्षैर्भिक्षवोप्यतिसंस्कृतैः ॥
यथामानसुधापानैर्नुन्न भिक्षाटनज्वराः ॥७॥
महाविष्णुरुवाच ॥
एष एव वरः श्लाघ्यो यदहं देवताधिपम् ॥
पश्यामि त्वां देवदेवं मनोरथपथातिगम् ॥८॥
अनभ्रेयं सुधावृष्टिरनायासो महोत्सवः ॥
अयत्नो निधिलाभो यद्वीक्षणं हरते सताम् ॥९॥
अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै ॥
एष एव वरः शंभो नान्यं कंचिद्वरं वृणे ॥११०॥
ईश्वर उवाच ॥
एवं भवतु तेऽनंत यत्त्वयोक्तं महामते ॥
सर्वेषामपि देवानां वरदस्त्वं भविष्यसि ॥११॥
अनुगृह्येति दैत्यारिं केंद्रादि भुवने चरन् ॥
भेजे विमुक्तिजननीं नाम्ना वाराणसीं पुरीम् ॥१२॥
यत्र स्थितानां जंतूनां कलां नार्हंति षोडशीम्॥
अपि ब्रह्मादि देवानां पदानि विपदां पदम् ॥१३॥
वरं वाराणसी वासी जटी मुंडी दिगंबरः ॥
नान्यत्रच्छत्रसंछन्न वसुधामंडलेश्वरः ॥१४॥
वरं वाराणसी भिक्षा न लक्षाधिपतान्यतः ॥
लक्षाधीशो विशेद्गर्भं तद्भिक्षाशी न गर्भभाक् ॥१५॥
भिक्षापि यत्र भिक्षुभ्यो दत्तामलकसंमिता ॥
सुमेरुणापि तुलिता वाराणस्यां गुरुर्भवेत् ॥१६॥
वर्षाशनं हि यो दद्यात्काश्यां सीदत्कुटुंबिने ॥
यावंत्यब्दानि तावंति युगानि स दिवीज्यते ॥१७॥
वाराणस्यां वर्षभोज्यं यो दद्यान्निरुपायिने ॥
स कदाचित्तृट्क्षुधा नो दुःखं भुंक्ते नरर्षभः ॥१८॥
वाराणस्यां निवसतां यत्पुण्यमुपजायते ॥
तदेव संवासयितुः फलं त्वविकलं भवेत् ॥१९॥
ब्रह्महत्यादि पापानि यस्या नाम्नोपि कीर्तनात् ॥
त्यजंति पापिनं काशी सा केनेहोपमीयते ॥१२०॥
क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ॥
हाहेत्युक्त्वा ब्रह्महत्या पातालतलमाविशत् ॥२१॥
कपालब्रह्मणो रुद्रः सर्वेषामेव पश्यताम्॥
हस्तात्पतितमालोक्य ननर्त परया मुदा ॥२२॥
विधेः कपालं नामुंचत्करमत्यंतदुःसहम्॥
हरस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत् ॥२३॥
शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ॥
सा काश्यां क्षणतो नष्टा कथं काशी न दुर्लभा ॥२४॥
अतः प्रदक्षिणीकार्या पूजनीया पुरी त्वियम् ॥२५॥
वाराणसीति काशीति महामंत्रमिमं जपम् ॥
यावज्जीवं त्रिसंध्यं तु जंतुर्जातु न जायते ॥२६॥
अविमुक्तं महाक्षेत्रं स्मरन्प्राणांस्तु यस्त्वजेत् ॥
दूरदेशांतरस्थोपि सोपि जातु न जायते ॥२७॥
आनंदकानने यस्य चित्तं संस्मरते सदा ॥
तत्क्षेत्रनामश्रवणान्न स भूयोऽभिजायते ॥२८॥
रुद्रावासे वसेन्नित्यं नरो नियतमानसः ॥
एनसामपि संभारं कृत्वा कालाद्विमुच्यते ॥२९॥
महाश्मशानमासाद्य यदि देवाद्विपद्यते ॥
पुनः श्मशानशयनं न क्वापि लभते पुमान् ॥१३०॥
कपालमोचनं काश्यां ये स्मरिष्यंति मानवाः ॥
तेषां विनंक्ष्यति क्षिप्रमिहान्यत्रापि पातकम् ॥३१॥
आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ॥
तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया ॥३२॥
अशाश्वतमिदं ज्ञात्वा वाराणस्यां वसंति ये ॥
देहांते तत्परं ज्ञानं तेषां दास्यति शंकरः ॥३३॥
इयं काशीपुरी विप्र साक्षाद्रुद्रतनुः परा ॥
अनिर्वाच्या परानंदा दुष्प्राप्येशविरोधिभिः ॥३४॥
अस्यास्तत्त्वमहं जाने शिवभक्तिपरोपि वा ॥
मुच्यंते जंतवोऽत्रैव यथा योगेन योगिनः ॥३५॥
परंपदमियं काशी परानंद इयं पुरी ॥
इयमेव परं ज्ञानं सेव्याऽसौ मोक्षकांक्षिभिः ॥३६॥
अत्रोषित्वापीशभक्तान्विरुणद्धि तु यः कुधीः ॥
पुर्यैद्रुह्यति वा मूढस्तस्यान्यत्रात्र नो गतिः ॥३७॥
कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ॥
तत्रैव तस्थौ भक्तानां भक्षयन्नघसंततिम् ॥३८॥
पापभक्षणमासाद्य कृत्वापापशतान्यपि ॥
कुतो बिभेति पापेभ्यः कालभैरवसेवकः ॥३९॥
आमर्दयति पापानि दुष्टानां च मनोरथान् ॥
आमर्दक इति ख्यातस्ततोऽसौ कालभैरवः ॥४०॥
कलिकालं कलयति सदा काशी निवासिनाम्॥
अतः ख्यातिं परां प्राप्तः कालभैरवसंज्ञिताम् ॥४१॥
सदैव यस्य भक्तेभ्यो यमदूताः सुदारुणाः ॥
परमां भीरुतां प्राप्तास्ततोसौ भैरवः स्मृतः ॥४२॥
मार्गशीर्षासिताष्टम्यां कालभैरवसंनिधौ ॥
उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते ॥४३॥
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धितः ॥
तत्सर्वं विलयं याति कालभैरव दर्शनात् ॥४४॥
अनेकजन्मनियुतैर्यत्कृतं जंतुभिस्त्वघम्॥
तत्सर्वं विलयत्याशु कालभैरव दर्शनात् ॥४५॥
कृत्वा च विविधां पूजां महासंभारविस्तरैः ॥
नरो मार्गासिताष्टम्यां वार्षिकं विघ्नमुत्सृजेत् ॥४६॥
अष्टम्यां च चतुर्दश्यां रविभूमिजवासरे ॥
यात्रां च भैरवीं कृत्वा कृतैः पापैः प्रमुच्यते ॥४७॥
कालभैरव भक्तानां सदा काशीनिवासिनाम् ॥
विघ्नं यः कुरुते मूढः स दुर्गतिमवाप्नुयात् ॥४८॥
विश्वेश्वरेपि ये भक्ता नो भक्ताः कालभैरवे ॥
काश्यां ते विघ्नसंघातं लभंते तु पदे पदे ॥४९॥
तीर्थे कालोदके स्नात्वा कृत्वा तर्पणमत्वरः ॥
विलोक्य कालराजं च निरयादुद्धरेत्पितॄन् ॥१५०॥
अष्टौ प्रदक्षिणीकृत्य प्रत्यहं पापभक्षणम् ॥
नरो न पापैर्लिप्येत मनोवाक्कायसंभवैः ॥५१॥
तस्मिन्नामर्दके पीठे जप्त्वास्वाभीष्टदेवताम् ॥
षण्मासं सिद्धिमाप्नोति साधको भैरवाज्ञया ॥५२॥
वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ॥
तस्य पापानि वर्धंते शुक्लपक्षे यथा शशी ॥५३॥
यं यं संचितयेत्कामं पापभक्षणसेवया ॥
बलिपूजोपहारैश्च तं तं स समवाप्नुयात् ॥५४॥
कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ॥
भजेत्तस्यक्षयेत्पुण्यं कृष्णपक्षे यथा शशी ॥५५॥
श्रुत्वाध्यायमिमं पुण्यं ब्रह्महत्यापनोदकम् ॥
भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते ॥५६॥
बंधनागारसंस्थोपि प्राप्तोपि विपदं पराम् ॥
प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत संकटात् ॥५७॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे भैरवप्रादुर्भावोनामेकत्रिंशोध्यायः ॥३१॥

N/A

References : N/A
Last Updated : November 25, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP