संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ४२

काशीखण्डः - अध्याय ४२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अगस्तिरुवाच ॥
कथं निकटतः कालो ज्ञायते हरनंदन ॥
तानि चिह्नानि कतिचिद्ब्रूहि मे परिपृच्छतः ॥१॥
॥ कुमार उवाच ॥
वदामि कालचिह्नानि जायंते यानि देहिनाम् ॥
मृत्यौ निकटमापन्ने मुने तानि निशामय ॥२॥
याम्यनासापुटे यस्य वायुर्वाति दिवानिशम् ॥
अखंडमेव तस्यायुः क्षयत्यब्दत्रयेण हि ॥३॥
अहोरात्रं त्र्यहोरात्रं रविर्वहति संततम् ॥
अब्दमेकं च तस्येह जीवनावधिरुच्यते ॥४॥
वहेन्नासापुटयुगे दशाहानि निरंतरम् ॥
वातश्चेत्सह संक्रांतिस्तया जीवेद्दिनत्रयम् ॥५॥
नासावर्त्म द्वयं हित्वा मातरिश्वा मुखाद्वहेत् ॥
शंसेद्दिनद्वयादर्वाक्प्रयाणं तस्य चाध्वनि ॥६॥
अकस्मादेवयत्काले मृत्युः सन्निहितो भवेत् ॥
चिंतनीयः प्रयत्नेन स कालो मृत्युभीरुणा ॥७॥
सूर्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशाकरे ॥
पौष्णः स कालो द्रष्टव्यो यदा याम्ये रविर्वहेत् ॥८॥
अकस्माद्वीक्षते यस्तु पुरुषं कृष्णपिंगलम् ॥
तस्मिन्नेव क्षणेऽरूपं स जीवेद्वत्सरद्वयम् ॥९॥
यस्य बीजं मलं मूत्रं क्षुतं मूत्रं मलं तु वा ॥
इहैकदा पतेद्यस्य अब्दं तस्यायुरिष्यते ॥१०॥
इंद्रनीलनिभं व्योम्नि नागवृंदं य ईक्षते ॥
इतस्ततः प्रसृमरं षण्मासं न स जीवति ॥।१॥
व्यभ्रेह्नि वारिपूर्णास्यः पृष्ठीकृत्य दिवाकरम् ॥
फूत्कृत्याश्विंद्रचापं न पश्येत्षण्मासजीवितः ॥१२॥
अरुंधतीं ध्रुवं चैव विष्णोस्त्रीणिपदानि च ॥
आसन्नमृत्युर्नोपश्येच्चतुर्थं मातृमंडलम् ॥१३॥
अरुंधती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते ॥
विष्णोः पदानि भ्रूमध्ये नेत्रयोर्मातृमंडलम् ॥१४॥
वेत्ति नीलादिवर्णस्य कटम्लादिरसस्यहि ॥
अकस्मादन्यथाभावं षण्मासेन स मृत्युभाक् ॥१५॥
षण्मासमृत्योर्मर्त्यस्य कंठोष्ठरसना रदाः ॥
शुष्यंति सततं तद्वद्विच्छायास्तालुपंचमाः ॥१६॥
रेतः करजनेत्रांता नीलिमानं भजंति चेत् ॥
तर्हि कीनाशनगरीं षष्ठेमासि व्रजेन्नरः ॥१७॥
संप्रवृत्ते निधुवने मध्येंते क्षौति चेन्नरः ॥
निश्चितं पंचमे मासि धर्मराजातिथिर्भवेत् ॥१६॥
द्रुतमारुह्यशरठस्त्रिवर्णो यस्य मस्तके ॥
प्रयाति याति तस्यायुः षण्मासेन परिक्षयम् ॥१९॥
सुस्नातस्यापि यस्याशु हृदयं परिशुष्यति ॥
चरणौ च करौ वापि त्रिमासं तस्य जीवितम् ॥२०॥
प्रतिबिंबं भवेद्यस्य पदखंडपदाकृति ॥
पांसौ वा कर्दमे वापि पंचमासान्स जीवति ॥२१॥
छाया प्रकंपते यस्य देहबंधेपि निश्चले ॥
कृतांतदूता बध्नंति चतुर्थे मासि तं नरम् ॥२२॥
निजस्य प्रतिबिंबस्य नीराज्यमुकुरादिषु ॥
उत्तमांगं न यः पश्येत्समासेन विनश्यति ॥२३॥
मतिर्भ्रश्येत्स्खलेद्वाणी धनुरैद्रं निरक्षितै ॥
रात्रौ चंद्रद्वयं चापि दिवा द्वौ च दिवाकरौ ॥२४॥
दिवा च तारकाचक्रं रात्रौ व्योमवितारकम् ॥
युगपच्च चतुर्दिक्षु शाक्रं कोदंडमंडलम् ॥२५॥
भूरुहे भूधराग्रे च गंधर्वनगरालयम् ॥
दिवापिशाच नृत्यं च एते पंचत्वहेतवः ॥२६॥
सर्वेष्वेतेषु चिह्नेषु यद्येकमपि वीक्षते ॥
तदा मासावधिं मृत्युः प्रतीक्षेत न चाधिकम् ॥२७॥
करावरुद्ध श्रवणः शृणोति न यदा ध्वनिम् ॥
स्थूलः कृशः कृशस्थूलस्तदामासान्निवर्तते ॥२८॥
यः पश्येदात्मनश्छायां दक्षिणाशा समाश्रिताम् ॥
दिनानि पंच जीवित्वा पंचत्वमुपयाति सः ॥२९॥
प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः ॥
भूतैः प्रेतैः श्वभिर्गृध्रैर्गोमायुखरसूकरैः ॥३०॥
रासभैः करभैः कीशैः श्वेनैरश्वतरैर्बकैः ॥
स्वप्ने स जीवितं त्यक्त्वा वर्षांते यममीक्षते ॥३१॥
गंधपुष्पांशुकैः शोणैः स्वां तनुं भूषितां नरः ॥
यः पश्येत्स्वप्नसमये सोऽष्टौ मासाननित्यहो ॥३२॥
पांसुराशि च वल्मीकं यूपदंडमथापि वा ॥
योधिरोहति वै स्वप्ने स षष्ठे मासि नश्यति ॥३३॥
रासभारूढमात्मानं तैलाभ्यक्तं च मुंडितम् ॥
नीयमानं यमाशां यः स्वप्ने पश्येत्स्वपूर्वजान् ॥३४॥
स्वमौलौ स्वतनौ वापि यः पश्येत्स्वप्नगो नरः ॥
तृणानि शुष्ककाष्ठानि षष्ठे मासि न तिष्ठति ॥३५॥
लोहदंडधरं कृष्णं पुरुषं कृष्णवाससम् ॥
स्वयं योग्रे स्थितं पश्येत्स त्रीन्मासान्न लंघयेत् ॥३६॥
काली कुमारी यं स्वप्ने बद्नीयाद्बाहु पाशकैः ॥
स मासेन समीक्षेत नगरींशमनोषिताम् ॥३७॥
नरो यो वानरारूढो यायात्प्राचीदिशं स्वपन् ॥
दिनैः स पंचभिरेव पश्येत्संयमिनीं पुरीम् ॥३८॥
कृपणोपि वदान्यः स्याद्वदान्यः कृपणो यदि ॥
प्रकृतेर्विकृतिश्चेत्स्यात्तदा पंचत्वमृच्छति ॥३९॥
एतानि कालचिह्नानि संत्यन्यानि बहून्यपि ॥
ज्ञात्वाभ्यसेन्नरो योगमथवाकाशिकां श्रयेत् ॥४०॥
न कालवंचनोपायं मुनेन्यमवयाम्यहम् ॥
विना मृत्युजयं काशीनाथं गर्भावरोधकम् ॥४१॥
तावद्गर्जंति पापानि तावद्गर्जेद्यमो नृपः ॥
यावद्विश्वेशशरणं नरो न निरतो व्रजेत् ॥४२॥
प्राप्तविश्वेश्वरावासः पीतोत्तरवहापयाः ॥
स्पृष्ट विश्वेशसल्लिंगः कश्च याति न वंद्यताम् ॥४३॥
करिष्येत्कुपितःकालः किंकाशीवासिनां नृणाम् ॥
काले शिवः स्वयं कर्णे यत्र मंत्रोपदेशकः ॥४४॥
यथा प्रयाति शिशुता कौमारं च यथा गतम् ॥
सत्वरं गत्वरं तद्वद्यौवनं चापि वार्धकम ॥४५॥
यावन्नहि जराक्रांतिर्यावन्नेंद्रियवैक्लवम् ॥
तावत्सर्वं फल्गुरूपं हित्वा काशीं श्रयेत्सुधीः ॥४६॥
अन्यानि काललक्ष्माणि तिष्ठंतु कलशोद्भव ॥
जरैव प्रथमं लक्ष्म चित्रं तत्रापि भीर्नहि ॥४७॥
पराभूतो हि जरया सर्वैश्च परिभूयते ॥
हृततारुण्यमाणिक्यो धनहीनः पुमानिव ॥४८॥
सुतावाक्यं न कुर्वंति पत्नी प्रेमापि मुंचति ॥
बांधवा नैव मन्यंते जरसाश्लेषितं नरम् ॥४९॥
आश्लिष्टं जरया दृष्ट्वा परयोषिद्विशंकिता ॥
भवेत्पराङ्मुखी नित्यं प्रणयिन्यपि कामिनी ॥५०॥
न जरा सदृशो व्याधिर्न दुःखं जरया समम् ॥
कारयित्र्यपमानस्य जरैव मरणं नृणाम् ॥५१॥
न जीयते तथा कालस्तपसा योगयुक्तिभिः ॥
यथा चिरेणकालेन काशीवासाद्विजीयते ॥५२॥
विनायज्ञैर्विनादानैर्विना व्रतजपादिभिः ॥
विनातिपुण्यसंभारैः कः काशीं प्राप्तुमीहते ॥५३॥
काशीप्राप्तिरयं योगःकाथीप्राप्तिरिदं तपः ॥
काशीप्राप्तिरिदं दानं काशीप्राप्तिः शिवैकता ॥५४॥
कः कलिकोथवा कालः का जरा किं च दुष्कृतम् ॥
का रुजः केंतराया वा श्रिता वाराणसी यदि ॥५५॥
कलिस्तानेव बाधेत कालस्तांश्च जिघांसति ॥५६॥
एनांसि तांश्च बाधंते ये न काशीं समाश्रिताः ॥
काशीसमाश्रिता यैश्च यैश्च विश्वेश्वरोर्चितः ॥
तारकं ज्ञानमासाद्य ते मुक्ताः कर्मपाशतः ॥५७॥
धनिनो न तथा सौख्यं प्राप्नुवंति नराः क्वचित् ॥
यथा निधनतः काश्यां लभते सुखमव्ययम् ॥५८॥
वरं काशीसमावासी नासीनो द्युसदां पदम्॥
दुःखांतं लभते पूर्वः सुखांतं लभते परः ॥५९॥
स्थितोपि भगवनीशो मंदरं चारुकंदरम् ॥
काशीं विना रतिं नाऽऽप दिवोदासनृपोषिताम् ॥६०॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे कालवंचनोपायोनाम द्विचत्वारिंशोध्यायः ॥४२॥

N/A

References : N/A
Last Updated : November 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP