काशीखण्डः - अध्याय २८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
उमोवाच ॥
किंचित्प्रष्टुमना नाथ स्वसंदेहापनुत्तये ॥
वद खेदो यदि न ते त्रिकालज्ञानकोविद ॥१॥
तदा भगीरथो राजा क्व क्व भागीरथी तदा ॥
यदा विष्णुस्तपस्तेपे चक्रपुष्करिणी तटे ॥२॥
॥ शिव उवाच ॥
संदेहोऽत्र न कर्तव्यो विशालाक्षि सदामले ॥
श्रुतौ स्मृतौ पुराणेषु कालत्रयमुदीर्यते ॥३॥
भूतं भावि भवच्चापि संशयं मा वृथा कृथाः ॥
इत्युक्त्वा पुनराहेशो गंगामाहात्म्यमुत्तमम् ॥४॥
॥ अगस्त्य उवाच ॥
पार्वतीनंदन पुनर्द्युनद्याः परितो वद ॥
महिमोक्तो हरौ यद्वद्देवदेवेन वै तदा ॥५॥
स्कंद उवाच ॥
मुनऽत्र मैत्रावरुणे यथा देवेन भाषितम् ॥
शुणु त्रिपथगामिन्या माहात्म्यं पातकापहम् ॥६॥
त्रिस्रोतसं समासाद्य सकृत्पिंडान्ददाति यः ॥
उद्धृताः पितरस्तेन भवांभोधेस्तिलोदकैः ॥७॥
यावंतश्च तिला मर्त्यैर्गृहीता पितृकर्मणि॥
तावद्वर्षसहस्राणि पितरः स्वर्गवासिनः ॥८॥
देवाः सपितरो यस्माद्गंगायां सर्वदा स्थिताः ॥
आवाहनं विसर्गं च तेषां तत्र ततो नहि ॥९॥
पितृवंशे मृता ये च मातृवंशे तथैव च ॥
गुरु श्वशुर बंधूनां ये चान्ये बांधवा मृताः ॥१०॥
अजातदंता ये केचिद्ये च गर्भे प्रपीडिताः ॥
अग्निविद्युच्चोरहता व्याघ्रदंष्ट्रिभिरेव च ॥११॥
उद्बंधन मृता ये च पतिता आत्मघातकाः ॥
आत्मविक्रयिणश्चोरा ये तथाऽयाज्ययाजकाः ॥१२॥
रसविक्रयिणो ये च ये चान्ये पापरोगिणः ॥
अग्निदा गरदाश्चैव गोघ्नाश्चैव स्ववंशजाः ॥१३॥
असिपत्रवने ये च कुंभीपाके च ये गताः ॥
रौरवेप्यंधतामिस्रे कालसूत्रे च ये गताः ॥१४॥
जात्यंतरसहस्रेषु भ्राम्यंते ये स्वकर्मभिः ॥
ये तु पक्षिमृगादीनां कीटवृक्षादि वीरुधाम् ॥१५॥
योनिं गतास्त्वसंख्याताः संख्यातानामशोभनाः ॥
प्रापिता यमलोकं तु सुघोरैर्यमकिंकरैः ॥१६॥
येऽबांधवा बांधवा वा येऽन्यजन्मनि बांधवाः ॥
येपि चाज्ञातनामानो ये चापुत्राः स्वगोत्रजाः ॥१७॥
विषेण च मृता वै ये ये वै शृंगिभिराहताः ॥
कृतघ्नाश्च गुरुघ्नाश्च ये च मित्रद्रुहस्तथा ॥१८॥
स्त्री बालघातका ये च ये च विश्वासघातकाः ॥
असत्यहिंसानिरता सदा पापरताश्च ये ॥१९॥
अश्वविक्रयिणो ये च परद्रव्यहराश्च ये ॥
अनाथाः कृपणा दीना मानुष्यं प्राप्तुमक्षमाः ॥२०॥
तर्पिता जाह्नवीतोयैर्नरेण विधिना सकृत् ॥
प्रयांति स्वर्गतिं तेपि स्वर्गिणो मुक्तिमाप्नुयुः ॥२१॥
एतान्मंत्रान्समुच्चार्य यः कुर्यात्पितृतर्पणम् ॥
श्राद्धं पिंडप्रदानं च स विधिज्ञ इहोच्यते ॥२२॥
कामप्रदानि तीर्थानि त्रैलोक्ये यानि कानिचित् ॥
तानि सर्वाणि सेवंते काश्यामुत्तरवाहिनीम् ॥२३॥
स्वःसिंधुः सर्वतः पुण्या ब्रह्महत्यापहारिणी ॥
काश्यां विशेषतो विष्णो यत्र चोत्तरवाहिनी ॥२४॥
गायंति गाथामेतां वै दैवर्षिपितरोगणाः ॥
अपि दृग्गोचरा नः स्यात्काश्यामुत्तरवाहिनी ॥२५॥
यत्रत्यामृतसंतृप्तास्तापत्रितयवर्जिताः ॥
स्याम त्वमृतमेवाद्धा विश्वनाथप्रसादतः ॥२६॥
गंगैव केवला मुक्त्यै निर्णीता परितो हरे ॥
अविमुक्ते विशेषेण ममाधिष्ठानगौरवात् ॥२७॥
ज्ञात्वा कलियुगं घोरं गंगाभक्तिः सुगोपिता ॥
न विंदतिं जना गंगां मुक्तिमागैर्कदायिकाम् ॥२८॥
अनेकजन्मनियुतं भ्राम्यमाणस्तु योनिषु ॥
निर्वृतिं प्राप्नुयात्कोत्र जाह्नवीभजनं विना ॥२९॥
नराणामल्पबुद्धीनामेनो विक्षिप्तचेतसाम् ॥
गंगेव परमं विष्णो भेषजं भवरोगिणाम् ॥३०॥
खंडस्फुटितसंस्कारं गंगातीरे करोति यः ॥
मम लोके चिरं कालं तस्याक्षय सुखं हरे ॥३१॥
गंतुमुद्दिश्य यो गंगां परार्थस्वार्थमेव वा ॥
न गच्छति परं मोहात्स पतेत्पितृभिः सह ॥३२॥
सर्वाणि येषां गांगेयैस्तोयैः कृत्यानि देहिनाम् ॥
भूमिस्था अपि ते मर्त्या अमर्त्या एव वै हरे ॥३३॥
चरमेपि वयोभागे स्वःसिंधुं यो निषेवते ॥
कृत्वाप्येनांसि बहुशः सोपि यायाच्छुभां गतिम् ॥३४॥
यावदस्थि मनुष्याणां गंगातोयेषु तिष्ठति ॥
तावदब्दसहस्राणि स्वर्गलोके महीयते॥३५॥
विष्णुरुवाच ॥
देवदेवजगन्नाथ जगतां हितकृत्प्रभो ॥
कीकसं चेत्पतेद्दैवाद्दुर्वृत्तस्य दुरात्मनः ॥३६॥
जले द्युनद्या निष्पापे कथं तस्य परा गतिः ॥
अपमृत्यु विपन्नस्य तदीश विनिवेद्यताम् ॥३७॥
॥ महेश्वर उवाच ॥
अत्रार्थे कथयिष्यामि पुरावृत्तमधोक्षज ॥
शृणुष्वैकमना विष्णो वाहीकस्य द्विजन्मनः ॥३८॥
पुरा कलिंगविषये द्विजो लवणविक्रयी ॥
संध्यास्नानविहीनश्च वेदाक्षरविवर्जितः ॥३९॥
वाहीको नामतो यज्ञसूत्रमात्रपरिग्रहः ॥
परिग्रहश्च तस्यासीत्कौविंदी विधवा नवा ॥४०॥
दुर्भिक्षपीडितेनाथ वृषलीपतिना विना ॥
प्राणाधारं तदा तेन देशाद्देशांतरं ययौ ॥४१॥
मध्येऽथ दंडकारण्यं क्षुत्क्षामः संगवर्जितः ॥
व्याघ्रेण घातितस्तत्र नरमांसप्रियेण सः ॥४२॥
तस्य वामपदं गृध्रो गृहीत्वोदपतत्ततः ॥
मांसाशिनाऽन्य गृध्रेण तस्य युद्धमभूद्दिवि ॥४३॥
गृध्रयोरामिषं गृध्न्वोः परस्परजयैषिणोः ॥
अवापतत्पादगुल्फं कंकचंचुपुटात्तदा ॥४४॥
तस्य वाहीक विप्रस्य व्याघ्रव्यापादितस्य ह ॥
मध्ये गंगं दैवयोगादपतद्द्वंद्वकारिणोः ॥४५॥
यदैव हतवान्द्वीपी तं वाहीकमरण्यगम् ॥
तस्मिन्नेव क्षणे बद्धः स पाशैः क्रूरकिंकरैः ॥४६॥
कशाभिर्घातितोत्यंतमाराभिः परितोदितः ॥
वमन्रुधिरमास्येन नीतस्तैः स यमाग्रतः ॥४७॥
आपृच्छि धर्मराजेन चित्रगुप्तोथ मापते ॥
धर्माधर्मं विचार्यास्य कथयाशु द्विजन्मनः ॥४८॥
वैवस्वतेन पृष्टोथ चित्रगुप्तो विचित्रधीः ॥
सर्वदा सर्वजंतूनां वेदिता सर्वकर्मणाम् ॥४९॥
जगाद यमुनाबंधुं वाहीकस्य द्विजन्मनः ॥
जन्मकर्मदिनारभ्य दुर्वृत्तस्य शुभेतरम् ॥५०॥
चित्रगुप्त उवाच ॥
गर्भाधानादिकं कर्म प्राक्कृतं नास्य केनचित् ॥
जातकर्मकृतं नास्य पित्राऽज्ञानवता हरे ॥५१॥
गर्भैनः शमने हेतुः समस्तायुः सुखप्रदम् ॥
एकादशेह्नि नामास्य न कृतं विधिपूर्वकम् ॥५२॥
ख्यातः स्याद्येन विधिना सर्वत्र विधिपावनम् ॥
नाकार्षीन्निर्गमं चास्य चतुर्थे मासि मंदधीः ॥५३॥
जनकः शुभतिथ्यादौ विदेशगमनापहम् ॥
षष्ठेऽन्नप्राशनंमासि न कृतं विधिपूर्वकम् ॥५४॥
सर्वदा मिष्टमश्नाति कर्मणा येन भास्करे ॥
न चूडाकरणं चास्य कृतमब्दे यथाकुलम् ॥५५॥
कर्मणा येन केशाः स्युः स्निग्धाः कुसुमवर्षिणः ॥
नाकारि कर्णवेधोस्य जनित्रा समये शुभे ॥५६॥
सुवर्णग्राहिणौ येन कर्णौ स्यातां च सुश्रुती ॥
मौंजीबंधोप्यभूदस्य व्यतीतेब्देऽष्टमे हरे ॥
ब्रह्मचर्याभिवृद्ध्यै यो ब्रह्मग्रहणहेतुकः ॥५७॥
मौंजीमोक्षणवार्तापि कृता नास्य जनुःकृता ॥
गार्हस्थ्यं प्राप्यते यस्मात्कर्मणोऽनंतरं वरम् ॥५८॥
यथाकथंचिदूढाऽथ पत्नी त्यक्तकुलाध्वगा ॥
वृषलीपतिना तेन परदारापहारिणा ॥५९॥
आरभ्य पंचमाद्वर्षात्परस्वस्यापहारकः ॥
अभूदेष दुराचारो दुरोदरपरायणः ॥६०॥
रुमायां वसताऽनेन हतागौरेकवार्षिकी ॥.लवणाकरे भूप्रदेशे
एकदा दृढदंडेन लिहंती लवणं मृता ॥६१॥
जननीं पादपातेन बहुशोऽसावताडयत् ॥
कदाचिदपि नो वाक्यं पितुः कृतमनेन वै ॥६२॥
विषं भक्षितवानेष बहुशः कलहप्रियः ॥
जनोपतापशीलोसौ कृतोदरविदारणः ॥५३॥
धत्तूरकरवीरादि बहुधोपविषाणि च ॥
क्रीडाकलहमात्रेण भक्षयच्चैष दुर्मतिः ॥६४॥
दग्धोसावग्निना सौरे श्वभिश्च कवलीकृतः ॥
शृंगिभिः परितः प्रोतो विषाणाग्रैरसौ बहु ॥६५॥
दंदशूकैर्भृशं दष्टो दुष्टः शिष्टैर्विगर्हितः ॥
काष्ठेष्टलोष्टैः पापिष्ठः कृतानिष्टः सदात्मनः ॥६६॥
आस्फालितं शिरोनेनासकृच्चापि दुरात्मना ॥
यदर्च्यते सदा सद्भिरुत्तमांगमनेकधा ॥६७॥
असौ हि ब्राह्मणो मंदो गायत्रीमपिवेदन ॥
कामतो मत्स्यमांसानि जग्धान्येतेन दुर्धिया ॥६८॥
आत्मार्थं पायसमसौ पर्यपाक्षीदनेकधा ॥
लाक्षालवणमांसानां सपयोदधिसर्पिषाम् ॥६९॥
विषलोहायुधानां च दासीगोवाजिनामपि ॥
विक्रेताऽसौ सदा मूढस्तथा वै केशचर्मणाम् ॥७०॥
शूद्रान्न परिपुष्टांगः पर्वण्यहनि मैथुनी ॥
पराङ्मुखो दैवपित्र्यकर्मण्येष दुरात्मवान् ॥७१॥
पक्षिणो घातितानेन मृगाश्चापि परः शतम् ॥
अकारण द्रुमच्छेदी सदा निर्दयमानसः ॥७२॥
उद्वेगजनको नित्यं निजबंधुजनेष्वपि ॥
असत्यवादी सततं सदा हिंसापरायणः ॥७२॥
अदत्तदानः पिशुनः शिश्नोदरपरायणः ॥
किं बहूक्तेन रविज साक्षात्पातक मूर्तिमान् ॥७४॥
रौरवेप्यंधतामिस्रे कुंभीपाकेऽतिरौरवे ॥
कालसूत्रे कृमिभुजि पूयशोणितकर्दमे ॥७५॥
असिपत्रवने घोरे यंत्रपीडे सुदंष्ट्रके ॥
अधोमुखे पूतिगंधे विष्ठागर्त्तेष्वभोजने ॥७६॥
सूचीभेद्येऽथ संदंशे लालापे क्षुरधारके ॥
प्रत्येकं नरके त्वेष पात्यतां कल्पसंख्यया ॥७७॥
धर्मराजः समाकर्ण्य चित्रगुप्तमुखादिति ॥
निर्भर्त्स्य तं दुराचारं किंकरानादिदेश ह ॥७८॥
भ्रू संज्ञया हृतैर्नीतः स बद्ध्वा निरयालयम् ॥
आक्रंदरावो यत्रोच्चैः पापिनां रोमहर्षणः ॥७९॥
॥ ईश्वर उवाच ॥
यातनास्वतितीव्रासु वाहीके संस्थिते तदा ॥
तत्कालपुण्यफलदे गाङ्गेयांभसि निर्मले ॥८०॥
पतितं तद्धि गृध्रास्याद्वाहीकस्य द्विजन्मनः ॥
हरे विमानं तत्कालमापन्नं सुरसद्मतः ॥८१॥
घंटावलंबितं दिव्यं दिव्यस्त्रीशतसंकुलम् ॥
आरुह्य देवयानं स दिव्यवेषधरो द्विजः ॥८२॥
वीज्यमानोऽप्सरोवृंदैर्दिव्यगंधानुलेपनः ॥
जगाम स्वर्गभुवनं गंगास्थिपतनाद्धरे ॥८३॥
स्कंद उवाच ॥
वस्तुशक्तिविचारोयमद्भुतः कोपि कुंभज ॥
द्रवरूपेण काप्येषा शक्तिः सादाशिवी परा ॥८४॥
करुणामृतपूर्णेन देवदेवेन शंभुना ॥
एषा प्रवर्तिता गंगा जगदुद्धरणाय वै ॥८५॥
यथान्याः सरितो लोके वारिपूर्णाः सहस्रशः ॥
तथैषानानुमंतव्या सद्भिस्त्रिपथगामिनी ॥८६॥
श्रुत्यक्षराणि निश्चित्य कारुण्याच्छंभुना मुने ॥
निर्मिता तद्द्रवैरेषा गंगा गंगाधरेण वै ॥८७॥
योगोपनिषदामेतं सारमाकृष्य शंकरः ॥
कृपया सर्वजंतूनां चकार सरितां वराम् ॥८८॥
अकलानिधयो रात्र्यो विपुष्पाश्चैव पादपाः ॥
यथा तथैव ते देशा यत्र नास्त्यमरापगा ॥८९॥
अनयाः संपदो यद्वन्मखा यद्वददक्षिणाः ॥
तद्वद्देशा दिशः सर्वा हीना गंगांभसा हरे ॥९०॥
व्योमांगणमनर्कं च नक्तेऽदीपं यथा गृहम ॥
अवेदा ब्राह्मणा यद्वद्गंगाहीनास्तथा दिशः ॥९१॥
चांद्रायणसहस्रं तु यः कुर्याद्देहशोधनम् ॥
गंगामृतं पिबेद्यस्तु तयोर्गंगाबुपोऽधिकः ॥९२॥
पादेनैकेन यस्तिष्ठेत्सहस्रं शरदां शतम् ॥
अब्दं गंगांबुपो यस्तु तयोर्गंगांबुपोऽधिकः ॥९३॥
अवाक्छिराः प्रलंबेद्यः शतसंवत्सरान्नरः ॥
भीष्मसूवालुकातल्पशयस्तस्माद्वरो हरे ॥९४॥
पापतापाभितप्तानां भूतानामिह जाह्ववी ॥
पापतापहरा यद्वद्गंगा नान्यत्तथा कलौ ॥९५॥
तार्क्ष्यवीक्षणमात्रेण फणिनौ निर्विषा यथा ॥
निष्प्रभाणि तथेनांसि भागीरथ्यवलोकनात् ॥९६॥
गंगातटोद्भवां मृत्स्नां यो मौलौ बिभृयान्नरः ॥
बिभर्ति सोऽर्कबिंबं वै तमोनाशाय निश्चितम् ॥९७॥
व्यसनैरभिभूतस्य धनहीनस्य पापिनः ॥
गंगैव केवलं तस्य गतिरुक्ता न चान्यथा ॥९८॥
श्रुताभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता ॥
पुंसां वंशद्वयं गंगा तारयेन्नात्र संशयः ॥९९॥
कीर्तनाद्दर्शनात्स्पर्शाद्गंगापानावगाहनात् ॥
दशोत्तरगुणा ज्ञेया पुण्यापुण्यर्द्धिनाशयोः ॥१००॥
न सुतैर्न च वा वित्तैर्नान्येनापि सुकर्मणा ॥
तत्फलं प्राप्यते मर्त्ये गंगामाप्य यदाप्यते ॥१॥
जात्यंधाः पंगवस्ते वै जीवंतोप्यथ ते मृताः ॥
समर्था अपि ये गंगां न स्नायुर्मोक्षगर्भिणीम् ॥२॥
श्रुतिं निशामय हरे गंगामाहात्म्यभाषिणीम् ॥
विनिश्चितार्थां यां श्रुत्वा श्रयेद्गंगां नरोत्तमः ॥३॥
इरावतीं मधुमतीं पयस्विनीममृतरूपामूर्जस्वतीम् ॥
त्रिदिवप्रसूतां गंगां श्रितासस्त्रिदिवं व्रजंति ॥४॥
ऋषिजुष्टां विष्णुपदीं पुराणां सुपुण्यधारां मनसा हि लोके ॥
सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणः सदनं संप्रयांति ॥५॥
लोकानिमान्नयति या जननीव पुत्रान्स्वर्गं सदा सर्वगुणोपपन्ना ॥
स्थानमिष्टं ब्राह्ममभीप्समानैर्गंगा सदैवात्मवशैरुपास्या ॥६॥
उस्रैर्जुष्टामिषतीं विश्वरूपामिरावतीं जनयित्रीं गुहस्य ॥
शिष्टैः सेव्याममृतां ब्रह्मकांतां गंगां श्रयेदात्मविशुद्धिकामः ॥७॥
गंगायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ॥
विधूतपापो भवति वाजपेयं च विंदति ॥८॥
अशुभैः कर्मभिर्ग्रस्तान्मज्जमानान्महार्णवे ॥
पततो निरये गंगा संश्रितानुद्धरेत्सदा ॥९॥
ब्रह्मलोकस्तु लोकानां सर्वेषामुत्तमो यथा ॥
सरितां सरसां वापि वरिष्ठा जाह्नवी तथा ॥११०॥
अन्यत्र सम्यक्संकल्प्य तपः कृत्वा समा त्रयम् ॥
यत्फलं तद्भवेद्भक्त्या गंगायां घटिकाऽर्धतः ॥११॥
स्वर्गस्थस्य न सा प्रीतिर्भुंजतः सुखमक्षयम् ॥
या स्याद्गंगातटे पुंसां रात्रौ चंद्रोदये सति ॥१२॥
जरारोगाभिपन्नं तु कुणपं जाह्नवी जले॥
धैर्येण तृणवत्त्यक्त्वा प्रविशेदमरावतीम्॥ १३॥
वार्योघैः सततं यस्याः प्लाव्यते शशिमंडलम्॥
भूयोधिकतरां शोभां बिभर्ति तदहः क्षये॥ १४॥
आहुतस्य जले यस्याः सद्यो नश्यंति पातकम् ॥
महतः श्रेयसः प्राप्तिस्तत्क्षणादेव जायते ॥१५॥
पितृभ्यः श्रद्धया यत्र दत्तास्त्वापः स्ववंशजैः॥
प्रयच्छंति परां तृप्तिं शरदां त्रयमच्युत॥ १६॥
तारयेत्क्षितियान्मर्त्यानधःस्थांश्च सरीसृपान्॥
स्वर्गे स्वर्गसदो विष्णोर्गं(?)गा त्रिपथगा ततः॥ १७॥
तीर्थानामुत्तमं तीर्थं सरितामुत्तमा सरित् ॥
स्वर्गदा सर्वजंतूनां महापातकिनामपि ॥१८॥
अध्युष्टाः कोटयो विष्णो संति तीर्थानि सर्वतः ॥
दिवि भुव्यंतरिक्षे च जाह्नव्यां तानि कृत्स्नशः ॥१९॥
ज्ञात्वाज्ञात्वा च गंगायां यः पंचत्वमवाप्नुयात् ॥
अनात्मघाती स्वर्गी स्यान्नरकान्स न पश्यति ॥१२०॥
गंगैव सर्वतीर्थानि गंगैव च तपोवनम् ॥
गंगैव सिद्धिक्षेत्रं हि नात्र कार्या विचारणा ॥२१॥
यत्र कामफला वृक्षा मही यत्र हिरण्मयी ॥
जाह्नवी स्नायिनस्तत्र निवसंति घटोद्भव ॥२२॥
धेनुं भागीरथी तीरे सुशीलां च पयस्विनीम् ॥
वासोरत्नैरलंकृत्वा ब्राह्मणाय ददाति यः ॥२३॥
यावंति तस्या लोमानि मुने तत्संततेरपि ॥
तावद्वर्षसहस्राणि स स्वर्गसुखभुग्भवेत् ॥१२४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंगामहिमानामाष्टाविंशतितमोऽध्याय ॥२८॥
N/A
References : N/A
Last Updated : November 25, 2024
TOP