काशीखण्डः - अध्याय ३२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ अगस्त्य उवाच ॥
बर्हियान समाचक्ष्व हरिकेशसमुद्भवम् ॥
कोसौ कस्य सुतः श्रीमान्कीदृगस्य तपो महत् ॥१॥
कथं च देवदेवस्य प्रियत्वं समुपेयिवान् ॥
काशीवासिजनीनोभूत्कथं वा दंडनायकः ॥२॥
एतदिच्छाम्यहं श्रोतुं प्रसादं कुरु मे विभो ॥
अन्नदत्वं च संप्राप्तः कथमेष महामतिः ॥३॥
संभ्रमो विभ्रमश्चोभौ कथं तदनुगामिनौ ॥
विभ्रांतिकारिणौ क्षेत्रवैरिणां सर्वदा नृणाम् ॥४॥
॥ स्कंद उवाच ॥
सम्यगापृच्छि भवता काशीवासिसमाहितम् ॥
कुंभसंभव विप्रर्षे दंडपाणि कथानकम् ॥५॥
यदाकर्ण्य नरः प्राज्ञ काशीवासस्य यत्फलम् ॥
निष्प्रत्यूहं तदाप्नोति विश्वभर्त्तुरनुग्रहात् ॥६॥
रत्नभद्र इति ख्यातः पर्वते गंधमादने ॥
यक्षः सुकृतलक्षश्रीः पुरा परम धार्मिकः ॥७॥
[१]पूर्णभद्रं सुतं प्राप्य सोऽभूत्पूर्णमनोरथः ॥
वयश्चरममासाद्य भुक्त्वा भोगाननेकशः ॥८॥
शांभवेनाथ योगेन देहमुत्सृज्य पार्थिवम् ॥
आससादाशवं शांतं शांतसर्वेंद्रियार्थकः ॥९॥
पितर्युपरतेसोऽथ पूर्णभद्रो महायशाः ॥
सुकृतोपात्तविभव भवसंभोगभुक्तिभाक् ॥१०॥
सर्वान्मनोरथाँल्लेभे विना स्वर्गैकसाधनम् ॥
गार्हस्थ्याश्रम नेपथ्यं पथ्यं पैतामहं महत् ॥११॥
संसारतापसंतप्तावयवामृतसीकरम् ॥
अपत्यं पततां पोतं बहुक्लेशमहार्णवे ॥१२॥
पूर्णभद्रोऽथ संवीक्ष्य मंदिरं सर्वसुंदरम् ॥
तद्बालकोमलालाप विकलं त्यक्तमंगलम्॥ १३॥
शून्यं दरिद्रहृदिव जीर्णारण्यमिवाथवा ॥
पांथवत्प्रांतरमिव खिन्नोऽतीवानपत्यवान् ॥१४॥
आहूय गृहिणी सोऽथ यक्षः कनककुंडलाम् ॥
उवाच यक्षिणीं श्रेष्ठां पूर्णभद्रो घटोद्भव ॥१५॥
न हर्म्यं सुखदं कांते दर्पणोदरसुंदरम् ॥
मुक्ता गवाक्षसुभगं चंद्रकांतशिलाजिरम् ॥१६॥
पद्मरागेंद्रनीलार्चिरर्चिताट्टालकं क्वणत् ॥
विद्रुमस्तंभशोभाढ्यं स्फुरत्स्फटिककुड्यवत् ॥१७॥
प्रेंखत्पताकानिकरं मणिमाणिक्यमालितम्॥
कृष्णागुरुमहाधूप बहुलामोदमोदितम् ॥१८॥
अनर्घ्यासनसंयुक्तं चारुपर्यंकभूषितम् ॥
रम्यार्गलकपाटाढ्यं दुकूलच्छन्नमंडपम् ॥१९॥
सुरम्यरतिशालाढ्यं वाजिराजिविराजितम् ॥
दासदासीशताकीर्णं किंकिणीनादनादितम् ॥२०॥
नूपुरारावसोत्कंठ केकिकेकारवाकुलम् ॥
कूजत्पारावत कुलं गुरुसारीकथावरम् ॥२१॥
खेलन्मरालयुगलं जीवं जीवककांतिमत् ॥
माल्याहूत द्विरेफाणां मंजुगुंजारवावृतम् ॥२२॥
कर्पूरैण मदामोद सोदरानिलवीजितम् ॥
क्रीडामर्कटदंष्ट्राग्री कृतमाणिक्यदाडिमम् ॥२३॥
दाडिमीबीजसंभ्रांतशुकतुंडात्तमौक्तिकम् ॥
धनधान्यसमृद्धं च पद्मालयमिवापरम् ॥२४॥
कमलामोदगर्भं च गर्भरूपं विना प्रिये ॥
गर्भरूपमुखं प्रेक्ष्ये कथं कनककुडले ॥२५॥
यद्युपायोऽस्ति तद्ब्रूहि धिगपुत्रस्य जीवितम् ॥
सर्वशून्यमिवाभाति गृहमेतदनंगजम् ॥२६॥
धिगेतत्सौधसौंदर्यं धिगेतद्धनसंचयम् ॥
विनापत्यं प्रियतमे जीवितं च धिगावयोः ॥२१७॥
प्रलपंतमिव प्रोच्चैः प्रियं कनककुंडला ॥
बभाषेंऽतर्विनिःश्वस्य यक्षिणी सा पतिव्रता ॥२८॥
॥ कनककुंडलोवाच ॥
किमर्थं खिद्यसे कांत ज्ञानवानसि यद्भवान् ॥
अत्रोपायोऽस्त्यपत्याप्त्यै विस्रब्धमवधारय ॥२९॥
किमुद्यमवतां पुंसां दुर्लभं हि चराचरे ॥
ईश्वरार्पितबुद्धीनां स्फुंरंत्यग्रे मनोरथाः ॥३०॥
दैवं हेतुं वदंत्येवं भृशं कापुरुषाः पते ॥
स्वयं पुराकृतं कर्म दैवं तच्च न हीतरत् ॥३१॥
ततः पौरुषमालंब्य तत्कर्म परिशांतये ॥
ईश्वरं शरणं यायात्सर्वकारणकारणम् ॥३२॥
अपत्यं द्रविणं दारा हारा हर्म्य हया गजाः ॥
सुखानि स्वर्गमोक्षौ च न दूरे शिवभक्तितः ॥३३॥
विधातुः शांभवीं भक्तिं प्रिय सर्वे मनोरथाः ॥
सिद्धयोष्टौ गृहद्वारं सेवंते नात्र संशयः ॥३४॥
नारायणोपि भगवानंतरात्मा जगत्पतिः ॥
चराचराणामविता जातः श्रीकंठसेवया ॥३५॥
ब्रह्मणः सृष्टिकर्त्तृत्वं दत्तं तेनैव शंभुना ॥
इंद्रादयो लोकपाला जाता शंभोरनुग्रहात् ॥३६॥
मृत्युंजयं सुतं लेभे शिलादोप्यनपत्यवान् ॥
श्वेतकेतुरपि प्राप जीवितं कालपाशतः ॥३७॥
क्षीरार्णवाधिपतितामुपमन्युरवाप्तवान् ॥
अंधकोप्यभवद्भृंगी गाणपत्यपदोर्जितः ॥३८॥
जिगाय शार्ङ्गिणं संख्ये दधीचिः शंभुसेवया ॥
प्राजापत्यपदं प्राप दक्षः संशील्य शंकरम् ॥३९॥
मनोरथपथातीतं यच्च वाचामगोचरम्॥
गोचरो गोचरीकुर्यात्तत्पदं क्षणतो मृडः ॥४०॥
अनाराध्य महेशानं सर्वदं सर्वदेहिनाम् ॥
कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम् ॥४१॥
तस्मात्सर्वप्रयत्नेन शंकरं शरणं व्रज ॥
यदिच्छसि प्रियं पुत्रं प्रियसर्वजनीनकम् ॥४२॥
इति श्रुत्वा वचः पत्न्याः पूर्णभद्रः स यक्षराट् ॥
आराध्य श्रीमहादेवं गीतज्ञो गीतविद्यया ॥४३॥
दिनैः कतिपयैरेव परिपूर्णमनोरथः ॥
पुत्रकाममवापोच्चैस्तस्यां पत्न्यां दृढव्रतः ॥४४॥
नादेश्वरं समभ्यर्च्य कैः कैर्नापि स्वचिंतितम् ॥
तस्मात्काश्यां प्रयत्नेन सेव्यो नादेश्वरो नृभिः ॥४५॥
अंतर्वत्न्यथ कालेन तत्पत्नी सुषुवे सुतम् ॥
तस्य नाम पिता चक्रे हरिकेश इति द्विज ॥४६॥
प्रीतिदायं ददौ चाथ भूरिपुत्राननेक्षणात् ॥
पूर्णभद्रस्तथागस्त्य हृष्टा कनककुंडला ॥४७॥
बालोऽपि पूर्णचंद्राभ वदनो मदनोपमः ॥
वृद्धिं प्रतिक्षणं प्राप शुक्लपक्ष इवोडुराट् ॥४८॥
यदाष्टवर्षदेशीयो हरिकेशोऽभवच्छिशुः ॥
नित्यं तदाप्रभृत्येवं शिवमेकममन्यत ॥४९॥
पांसुक्रीडनसक्तोपि कुर्याल्लिंगं रजोमयम् ॥
शाद्वलैः कोमलतृणैः पूजयेच्च स कौतुकम् ॥५०॥
आकारयति मित्राणि शिवनाम्नाऽखिलानि सः ॥
चंद्रशेखरभूतेश मृत्युंजय मृडेश्वरः ॥५१॥
धूर्जटे खंडपरशो मृडानीश त्रिलोचन ॥
भर्गशंभोपशुपते पिनाकिन्नुग्रशंकर ॥५२॥
श्रीकंठनीलकंठेश स्मरारे पार्वतीपते ॥
कपालिन्भालनयन शूलपाणे महेश्वर ॥५३॥
अजिनांबरदिग्वासः स्वर्धुनी क्लिन्नमौलिज ॥
विरूपाक्षाहिनेपथ्य गृणन्नामावलीमिमाम् ॥५४॥
सवयस्कानिति मुहुः समाह्वयति लालयन् ॥
शब्दग्रहौ न गृह्णीतस्तस्यान्याख्यां हरादृते ॥५५॥
पद्भ्यां न पद्यते चान्यदृते भूतेश्वराजिरात् ॥
द्रष्टुं रूपांतरं तस्य वीक्षणेन विचक्षणे ॥५६॥
रसयेत्तस्य रसना हरनामाक्षरामृतम्॥
शिवांघ्रिकमलामोदाद्घ्राणं नैव जिघृक्षति ॥५७॥
करौ तत्कौतुककरौ मनो मनति नापरम् ॥
शिवसात्कृत्यपेयानि पीयते तेन सद्धिया ॥५८॥
भक्ष्यते सर्वभक्ष्याणि त्र्यक्षप्रत्यक्षगान्यपि ॥
सर्वावस्थासु सर्वत्र न स पश्येच्छिवं विना ॥५९॥
गच्छन्गायन्स्वपंस्तिष्ठञ्च्छयानोऽदन्पिबन्नपि ॥
परितस्त्र्यक्षमैक्षिष्ट नान्यं भावं चिकेति सः ॥६०॥
क्षणदासु प्रसुप्तोपि क्व यासीति वदन्मुहुः ॥
क्षणं त्र्यक्ष प्रतीक्षस्व बुध्यतीति स बालकः ॥६१॥
स्पष्टां चेष्टां विलोक्येति हरिकेशस्य तत्पिता ॥
अशिक्षयत्सुतं सोऽथ गृहकर्मरतो भव ॥६२॥
एते तुरंगमा वत्स तवैतेऽश्वकिशो रकाः ॥
चित्राणीमानि वासांसि सुदुकूलान्यमूनि च ॥६३॥
रत्नान्याकरशुद्धानि नानाजातीन्यनेकशः ॥
कुप्यं बहुविधं चैतद्गोधनानि महांति च ॥६४॥
अमत्राणि महार्हाणि रौप्य कांस्यमयानि च ॥
पणनीयानि वस्तूनि नानादेशोद्भवान्यपि ॥६५॥
चामराणि विचित्राणि गंधद्रव्याण्यनेकशः ॥
एतान्यन्यानि बहुशस्त्वनेके धान्यराशयः ॥६६॥
एतत्त्वदीयं सकलंवस्तुजातं समंततः ॥
अर्थोपार्जनविद्याश्च सर्वाः शिक्षस्व पुत्रक ॥६७॥
चेष्टास्त्यज दरिद्राणां धूलिधूसरिणाममूः ॥
अभ्यस्यविद्याः सकला भोगान्निर्विश्य चोत्तमान् ॥६८॥
तां दशां चरमां प्राप्य भक्तियोगं ततश्चर ॥
असकृच्छिक्षितः पित्रेत्यवमन्य गुरोर्गिरम्॥ ६९॥
रुष्टदृष्टिं च जनकं कदाचिदवलोक्य सः ॥
निर्जगाम गृहाद्भीतो हरिकेश उदारधीः ॥७०॥
ततश्चिंतामवापोच्चैर्दिग्भ्रांतिमपि चाप्तवान् ॥
अहो बालिशबुद्धित्वात्कुतस्त्यक्तं गृहं मया ॥७१॥
क्व यामि क्व स्थिते शंभो मम श्रेयो भविष्यति ॥
पित्रा निर्वासितश्चाहं न च वेद्म्यथ किंचन ॥७२॥
इति श्रुतं मया पूर्वं पितुरुत्संगवर्तिना ॥
गदतस्तातपुरतः कस्यचिद्वचनं स्फुटम् ॥७३॥
मात्रा पित्रा परित्यक्ता ये त्यक्ता निजबंधुभिः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥७४॥
जरया परिभूता ये ये व्याधिविकलीकृताः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥७५॥
पदे पदे समाक्रांता ये विपद्भिरहर्निशम् ॥
येषां क्वापि गतिर्नास्ति तेषांवाराणसी गतिः ॥७६॥
पापराशिभिराक्रांता ये दारिद्र्य पराजिताः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥७७॥
संसार भयभीताय ये ये बद्धाः कर्मबंधनैः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥७८॥
श्रुतिस्मृतिविहीना ये शौचाचारविवर्जिताः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥७९॥
ये च योगपरिभ्रष्टास्तपो दान विवर्जिताः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥८०॥
मध्ये बंधुजने येषामपमानं पदे पदे ॥
तेषामानंददं चैकं शंभोरानंदकाननम् ॥८१॥
आनंदकानने येषां रुचिर्वै वसतां सताम् ॥
विश्वेशानुगृहीतानां तेषामानंदजोदयः ॥८२॥
भर्ज्यते कर्मबीजानि यत्र विश्वेशवह्निना ॥
अतो महाश्मशानं तदगतीनां परा गतिः ॥८३॥
हरिकेशो विचार्येति यातो वाराणसीं पुरीम् ॥
यत्राविमुक्ते जंतूनां त्यजतां पार्थिवीं तनुम् ॥८४॥
पुनर्नो तनुसंबंधस्तनुद्वेषिप्रसादतः ॥
आनंदवनमासाद्य स तपः शरणं गतः ॥८५॥
अथ कालांतरे शंभुः प्रविश्यानंदकानमम् ॥
पार्वत्यै दर्शयामास निजमाक्रीडकाननम् ॥८६॥
अमंदामोदमंदारं कोविदारपरिष्कृतम् ॥
चारुचंपकचूताढ्यं प्रोत्फुल्लनवमल्लिकम् ॥८७॥
विकसन्मालतीजालं करवीरविराजितम् ॥
प्रस्फुटत्केतकिवनं प्रोद्यत्कुरबकोर्जितम् ॥८८॥
जृंभद्विचकिलामोदं लसत्कंकेलिपल्लवम्॥
नवमल्लीपरिमलाकृष्टषट्पदनादितम् ॥८९॥
पुष्प्यपुन्नागनिकरं बकुलामोदमोदितम् ॥
मेदस्विपाटलामोद सदामोदित दिङ्मुखम् ॥९०॥
बहुशोलंबिरोलंब मालामालितभूतलम् ॥
चलच्चंदनशाखाग्र रममाणपि काकुलम् ॥९१॥
गुरुणाऽगुरुणामत्त भद्रजातिविहंगमम् ॥
नागकेसरशाखास्थ शालभंजि विनोदितम् ॥९२॥
मेरुतुंग नमेरुस्थच्छायाक्रीडितकिंनरम् ॥
किंनरीमिथुनोद्गीतं गानवच्छुककिंशुकम् ॥९३॥
कदंबानां कदंबेषु गुंजद्रोलंबयुग्मकम् ॥
जितसौवर्णवर्णोच्च कर्णिकारविराजितम् ॥९४॥
शालतालतमालाली हिंताली लकुचावृतम् ॥
लसत्सप्तच्छदामोदं खर्जूरीराजिराजितम् ॥
नारिकेल तरुच्छन्न नारंगीरागरंजितम् ॥९५॥
फलिजंबीरनिकरं मधूकमधुपाकुलम् ॥
शाल्मली शीतलच्छायं पिचुमंद महावनम् ॥९६॥
मधुरामोद दमनच्छन्नं मरुबनोदितम् ॥
लवलीलोललीलाभृन्मंदमारुतलोलितम् ॥९७॥
भिल्ली हल्लीसकप्रीति झिल्लीरावविराविणम् ॥
क्वचित्सरः परिसरक्रीडत्क्रोडकदंबकम् ॥९८॥
मरालीगलनालीस्थ बिसासक्तसितच्छदम् ॥
विशोककोकमिथुनक्रीडाक्रेंकारसुंदरम् ॥९९॥
बकशावकसंचारं लक्ष्मणासक्त सारसम् ॥
मत्तबर्हिणसंघुष्टं कपिंजलकुलाकुलम् ॥१००॥
जीवंजीवलसज्जीवं क्वणत्कारंडवोत्कटम् ॥
दीर्घिकावारिसंचारि शीतमारुत वीजितम्॥ १॥
मदांदोलितकह्लार परागपरिपिंगलम् ॥
उल्लसत्पंकजमुखं नीलेंदीवरलोचनम् ॥२॥
तमालकबरीभारं विलसद्दाडिमीरदम् ॥
भ्रमरालीलसद्भ्रूकं शुकनासाविराजितम् ॥३॥
महांधुश्रवणं दूर्वा श्मश्रुभिः परिशोभितम् ॥
कमलामोदनिःश्वासं बिंबीफल रदच्छदम् ॥४॥
सुपद्मपत्रवसनं कर्णिकारविभूषणम् ॥
कम्रकंबु लसत्कंठं शंकरस्कंध बंधुरम् ॥५॥
गंधसारसमासक्ता हीन दोर्दंडमंडितम् ॥
अशोकपल्लवांगुष्ठं केतकीनखरोज्ज्वलम् ॥६॥
लसत्कंठीरवोरस्कं गंडशैलपृथूदरम् ॥
जलावर्तलसन्नाभि तरुजंघा युगान्वितम् ॥७॥
स्थलभाक्पद्मचरणं मत्तमातंगगामिनम् ॥
लसत्कदलिकेदारदलच्चीनांशुकावृतम् ॥८॥
नानासुकुममालाभिर्मालितं च समंततः ॥
अकंटकितरुच्छन्नं महिष श्वापदावृतम् ॥९॥
चंद्रकांतशिलासुप्तकृष्णैणहरितोडुपम् ॥
तरुप्रकीर्णकुसुम जितस्वर्लोकतारकम् ॥
दर्शयन्नित्थमाक्रीडं देव्यै देवोविशद्वनम् ॥११०॥
॥ देवदेव उवाच ॥
यथाप्रियतमा देवि मम त्वं सर्वसुंदरि ॥
तथा प्रियतरं चैतन्मे सदानंदकाननम् ॥११॥
अत्रानंदवने देवि मृतानां मदनुग्रहात् ॥
वपुस्त्वमृततां प्राप्तमपुनर्भविनस्तु ते ॥१२॥
भविनो ये विपद्यंते वाराणस्यां ममाज्ञया ॥
तेषां बीजानि दग्धानि श्मशानज्वलदग्निना ॥१३॥
महाश्मशाने ये प्राप्ता दीर्घनिद्रां गिरींद्रजे ॥
न पुनर्गर्भशयने ते स्वपंति कदाचन ॥१४॥
ब्रह्मज्ञानेन मुच्यंते नान्यथा जंतवः क्वचित् ॥
ब्रह्मज्ञानमये क्षेत्रे प्रयागे वा तनुत्यजः ॥१५॥
ब्रह्मज्ञानं तदेवाहं काशीसंस्थितिभागिनाम् ॥
दिशामि तारकं प्रांते मुच्यंते ते तु तत्क्षणात् ॥१६॥
गृह्णीयुः पापकर्माणि काशीमृतविनिंदकाः ॥
सुकृतानि स्तुतिकृतो मुच्यंते तेऽत्र जंतवः ॥१७॥
ब्रह्मज्ञानं कुतो देवि कलिनोपहतात्मनाम् ॥
स्वभावचंचलाक्षाणां तद्ब्रह्मेह दिशाम्यहम् ॥१८॥
योगिनो योगविभ्रष्टाः पतंत्यैश्वर्यमोहिताः ॥
काश्यां पतित्वा न पुनः पतंत्यपि महालये ॥१९॥
ब्रह्मज्ञानं न विंदंति योगैरेकेन जन्मना ॥
जन्मनैकेन मुच्यंते काश्यामंतकृतो जनाः ॥१२०॥
यथेह मुच्यते जंतुर्गिरिजे मदनुग्रहात् ॥
अविमुक्ते महाक्षेत्रे न तथान्यत्र कुत्रचित् ॥२१॥
बहुजन्मसमभ्यासाद्योगी मुच्येत वा न वा ॥
मृतमात्रो विमुच्येत काश्यामेकेन जन्मना ॥२२॥
न सिध्यति कलौ योगो न सिध्यति कलौ तपः ॥
न्यायार्जितधनोत्सर्गः सद्यः सिध्येत्कलौ नरः ॥२३॥
न व्रतं न तपो नेज्या न जपो न सुरार्चनम् ॥
दानमेव कलौ मुक्त्यै काशीदानैरवाप्यते ॥२४॥
कलौ विश्वेश्वरो देवः कलौ वाराणसी पुरी ॥
कलौ भागीरथी गंगा कलौ दानं विशिष्यते ॥२५॥
गंगोत्तरवहाकाश्यां लिंगं विश्वेश्वरं मम ॥
उभे विमुक्तिदे पुंसां प्राप्ये दानबलात्कलौ ॥२६॥
पुण्यवानितरो वापि मम क्षेत्रस्य सेवया ॥
मुक्तो भवति देवेशि नात्र कार्या विचारणा ॥२७॥
अविमुक्तस्य माहात्म्यात्पुण्यपापेन कर्मणा ॥
देवि प्रभवतः पुंसामपिजन्मशतार्जिते ॥२८॥
अविमुक्तं न मोक्तव्यं तस्माद्देवि मुमुक्षुणा ॥
हन्यमानेन बहुधा ह्युपसर्गशतैरपि ॥२९॥
विधाय क्षेत्रसंन्यासं ये वसंतीह मानवाः ॥
जीवन्मुक्तास्तु ते देवि तेषां विघ्नं हराम्यहम् ॥१३०॥
न योगिनां हृदाकाशे न कैलासे न मंदरे ॥
तथा वासरतिर्मेऽस्ति यथा काश्यां रतिर्मम ॥३१॥
काशीवासि जनो देवि मम गर्भे वसेत्सदा ॥
अतस्तं मोचयाम्यंते प्रतिज्ञेयं यतो मम ॥३२॥
तामसीं प्रकृतिं प्राप्य कालो भूत्वा चराचरम् ॥
ग्रसामि लीलया देवि काशीं रक्षामि यत्नतः ॥३३॥
प्रेमपात्रद्वयं देवि नितरां नेतरन्मम ॥
त्वं वा तपोधने गौरि काशी वानंदभूमिका ॥३४॥
विना काशी न मे स्थानं विना काशी न मे रतिः ॥
विना काशी न निर्वाणं सत्यं सत्यं वदाम्यहम् ॥३५॥
ब्रह्मांडगोलके यद्वन्मुक्तिः काश्यां व्यवस्थिता ॥
अष्टांगयोगयुक्त्या वा न तथा हेलयाऽन्यतः ॥३६॥
इति ब्रुवाणो देवेशो हरिकेशमवैक्षत ॥
मध्ये वनं तपस्यंतमशोकतरुमूलगम् ॥३७॥
शुष्कस्नायुपिनद्धास्थि संचयं निश्चलाकृतिम् ॥
वल्मीककीटकाकोटिशोषितासृगसृग्धरम् ॥३८॥
निर्मांसकीकसचयं स्फटिकोपलनिश्चलम् ॥
शंखकुंदेंदुतुहिन महाशंखलसच्छ्रियम् ॥३९॥
सत्वावलंबितप्राणमायुःशेषेणरक्षितम् ॥
निःश्वासोच्छासपवनवृत्तिसूचितजीवितम् ॥१४०॥
निमेषोन्मेषसंचार पिशुनीकृतजंतुकम् ॥
पिंगतारस्फुरद्रश्मि नेत्रदीपित दिङ्मुखम् ॥४१॥
तत्तपोग्निशिखादाव चुंबितम्लानकाननम्॥
तत्सौम्यदृक्सुधावर्ष संसिक्ताऽखिलभूरुहम् ॥४२॥
साक्षात्तपस्यंतमिव तपो धृत्वा नराकृतिम् ॥
निराकृतिं निराकांक्षं कृत्वा भक्तिं च कांचन ॥४३॥
कुरंगशावैर्गणशो भ्रमद्भिः परिवारितम् ॥
नितांतभीषणास्यैश्च पंचास्यैः परिरक्षितम् ॥४४॥
तं तथाभूतमालोक्य देवी देवं व्यजिज्ञपत् ॥
वरेणच्छंदयेशामुं निजभक्तं तपस्विनम् ॥४५॥
त्वदेकचित्तं त्वदधीनजीवितं त्वदेककर्माणममुं त्वदाश्रयम् ॥
तीव्रैस्तपोभिः परिशुष्कविग्रहं कुरुष्व यक्षस्य वरैरनुग्रहम् ॥४६॥
देवो वृषेंद्रादवरुह्य देव्या शैलादिना दत्तकरावलंबः ॥
समाधिसंकोचितनेत्रपत्रं पस्पर्श हस्तेन दयार्द्रचेताः ॥४७॥
ततः स यक्षो विनिमील्य चक्षुषी त्र्यक्षं पुरो वीक्ष्य समक्षमात्मनः ॥
उद्यत्सहस्रांशु सहस्रतेजसं जगाद हर्षाकुल गद्गदाक्षरम् ॥४८॥
जयेश शंभो गिरिजेश शंकर त्रिशूलपाणे शशिखंडशेखर ॥
स्पर्शत्कृपालो तव पाणिपंकजं प्राप्यामृतीभूततनूलतोऽभवम् ॥४९॥
श्रुत्वोदितां तस्य महेश्वरो गिरं मृद्वीकया साम्यमुपेयुषीं मृदु ॥
भक्तस्य धीरस्य महातपोनिधे ददौ वराणां निकर तदा मुदा ॥१५०॥
क्षेत्रस्य यक्षास्य मम प्रियस्य मे भवाधुना दंडधरो वरान्मम ॥
स्थिरस्त्वमद्यादि दुरात्मदंडकः सुपालकः पुण्यकृतां च मत्प्रियः ॥५१॥
त्वं दंडपाणिर्भव नामतोऽधुना सर्वान्गणाञ्छाधि ममाज्ञयोत्कटान् ॥
गणाविमौ त्वामनुयायिनौ सदा नाम्ना यथार्थौ नृषु संभ्रमोद्भ्रमौ ॥५२॥
त्वमंत्यभूषां कुरु काशिवासिनां गले सुनीलां भुजगेंद्र कंकणाम् ॥
भालेसु नेत्रां करिकृत्तिवाससं वामेक्षणालक्षित वामभागाम् ॥५३॥
मौलौ लसत्पिंगकपर्दभारिणी विभूतिसंक्षालित पुण्यविग्रहाम् ॥
अहोहिमांशोः कलया लसच्छ्रियं वृषेंद्रलीला गतिमंदगामिनीम् ॥५४॥
त्वमन्नदः काशिनिवासिनां सदा त्वं प्राणदो ज्ञानद एक एव हि ॥
त्वं मोक्षदो मन्मुखसूपदेशतस्त्वं निश्चलां सद्वसतिं विधास्यसि ॥५५॥
त्वं विघ्नपूगैः परिपीड्य पापिनः संभ्रातिमुत्पाद्य विनेष्यसे बहिः ॥
आनीय भक्तान्क्षणतोपिदूरतो मुक्तिं परां दापयितासि पिंगल ॥५६॥
त्वत्सात्कृते क्षेत्रवरे हि यक्षराट्कस्त्वामनाराध्य विमुक्तिभाजनम् ॥
सभाजनं पूर्वत एव ते चरेत्ततः समर्चां मम भक्त आचरेत् ॥५७॥
त्वं ग्रामवासप्रद एव मे पुरेऽध्यक्षस्त्वमेधीह च दंडनायकः ॥
दुष्टान्समुद्घाटय काशिवैरिणः काशीं पुरीं रक्ष सदा मुदान्वितः ॥५८॥
पूर्णभद्रसुतदंडनायक त्र्यक्षयक्षहरिकेश पिंगल ॥
काशिवास वसतां सदान्नदज्ञानमोक्षदगणाग्रणीर्भव ॥५९॥
मद्भक्तियुक्तोपि विना त्वदीयां भक्तिं न काशी वसतिं लभेत ॥
गणेषु देवेषु हि मानवेषु तदग्रमान्यो भव दंडपाणे ॥१६०॥
ज्ञानोदतीर्थे विहितोदकक्रियो यस्त्वां समाराधयिता गणेशम् ॥
स एव लोके कृतकृत्यतामगान्ममातुलानुग्रहतोऽत्र पुण्यवान् ॥६१॥
त्वं दक्षिणस्यां दिशि दंडपाणे सदैव मे नेत्रसमक्षमत्र ॥
त्वं दंडयन्प्राणभृतो दुरीहानिहास्वनॄन्स्वानभयं दिशन्वै ॥६२॥
॥ स्कंद उवाच ॥
इति दत्त्वा वरान्विप्र गिरीशो दंडपाणये ॥
वृषेंद्रमधिरुह्याथ विवेशानंदकाननम् ॥६३॥
कुंभोद्भव तदारभ्य यक्षराड्दंडनायकः ॥
पुरीं वाराणसीं सम्यगनुशास्ति निदेशतः ॥६४॥
अहमप्यत्र वसतिं चक्रे तदनुसूयया ॥
वसन्नपि मया काश्यां यतः संभावितो न सः ॥६९॥
मुने क्षेत्रं यदत्याक्षीस्त्वमप्येवंविधो वशी ॥
शंके तत्राहमेवाद्धा कामं तस्यैव विक्रियाम् ॥६६॥
मनाग्विरुद्धाचरणं यदि द्विज विलक्षयेत् ॥
हरिकेशस्तदा काश्यां क्व स्थितिः क्व च निर्वृतिः ॥६७॥
दंडपाणिमनाराध्य कः काश्यां सुखमाप्नुयात् ॥
प्रविविक्षुरहं काशीं दूरगोपि भजामि तम् ॥६८॥
रत्नभद्रांगजोद्भूतं पूर्णभद्रसुतोत्तम ॥
निर्विघ्नं कुरु मे यक्ष काशीवासं शिवाप्तये ॥६९॥
धन्यो यक्षः पूर्णभद्रो धन्या कांचनकुंडला ॥
ययोर्जठरपीठेभूर्दंडपाणे महामते ॥१७०॥
जय यक्षपते धीर जय पिंगललोचन ॥
जय पिंगजटाभार जय दंड महायुध ॥७१॥
अविमुक्त महाक्षेत्र सूत्रधारोग्रतापस ॥
दंडनायक भीमास्य जय विश्वेश्वरप्रिय ॥७२॥
सौम्यानां सौम्यवदन भीषणानां भयानक ॥
क्षेत्रपापधियां काल महाकालमहाप्रिय ॥७३॥
जयप्राणद यक्षेंद्र काशीवासान्नमोक्षद ॥
महारत्नस्फुरद्रश्मि चयचर्चित विग्रह ॥७४॥
महासंभ्रातिजनक महोद्भ्रांति प्रदायक ॥
अभक्तानां च भक्तानां संभ्रात्युद्भ्रांति नाशक ॥७५॥
प्रांतनेपथ्यचतुर जयज्ञाननिधिप्रद ॥
जयगौरीपदाब्जाले मोक्षेक्षणविचक्षण ॥७६॥
यक्षराजाष्टकं पुण्यमिदं नित्यं त्रिकालतः ॥
जपामि मैत्रावरुणे वाराणस्याप्तिकारणम् ॥७७॥
दंडपाण्यष्टकं धीमाञ्जपन्विघ्नैर्न जातुचित् ॥
श्रद्धया परिभूयेत काशीवासफलं लभेत ॥७८॥
प्रादुर्भावं दंडपाणेः शृण्वन्तोत्रमिदं गृणन् ॥
विपत्तिमन्यतः प्राप्य काशीं जन्मांतरे लभेत् ॥७९॥
श्रुत्वाध्यायमिमं पुण्यं दंडपाणिसमुद्भवम् ॥
पठित्वा पाठयित्वापि न र्विघ्रैरभिभूयतै ॥८०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे दंडपाणिप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥३२॥
N/A
References : N/A
Last Updated : November 25, 2024
TOP