संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय १५

काशीखण्डः - अध्याय १५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


अगस्तिरुवाच ॥
शृणु पत्नि महाभागे लोपामुद्रे सधर्मिणि ॥
कथा विष्णुगणाभ्यां च कथितां शिवशर्मणे ॥१॥
शिवशर्मोवाच ॥
अहो गणौ विचित्रेयं श्रुता चांद्रमसी कथा ॥
उडुलोककथां ख्यातं विष्वगाख्यानकोविदौ ॥२॥
गणावूचतुः ॥
पुरा सिसृक्षतः सृष्टिं स्रष्टुरंगुष्ठपृष्ठतः ॥
दक्षः प्रजाविनिर्माणे दक्षो जातः प्रजापतिः॥
षष्टिर्दुहितरस्तस्य तपोलावण्यभूषणाः ॥
सर्वलावण्यरोहिण्यो रोहिणीप्रमुखाः शुभाः ॥४॥
ताभिस्तप्त्वा तपस्तीव्रं प्राप्य वैश्वेश्वरीं पुरीम् ॥
आराधितो महादेवः सोमः सोमविभूपणः ॥५॥
यदा तुष्टोयमीशानो दातुं वरमथाययौ ॥
उवाच च प्रसन्नात्मा याचध्वं वरमुत्तमम् ॥६॥
शंभोर्वाक्यमथाकर्ण्य ऊचुस्ताश्च कुमारिकाः ॥
यदि देयो वरोऽस्माकं वरयोग्याः स्म शंकर ॥७॥
भवतोपि महादेव भवतापहरो हि यः ॥
रूपेण भवता तुल्यः स नो भर्ता भवत्विति ॥८॥
लिंगं संस्थाप्य सुमहन्नक्षत्रेश्वर संज्ञितम् ॥
वारणायास्तटे रम्ये संगमेश्वरसन्निधौ। ॥९॥
दिव्यं वर्ष सहस्रं तु पुरुषायितसंज्ञितम् ॥
तपस्तप्तं महत्ताभिः पुरुषैरपि दुष्करम् ॥१०॥
ततस्तुष्टो हि विश्वेशो व्यतरद्वरमुत्तमम् ॥
सर्वासामेकपत्नीनामकत्रे(?) स्थिरचेतसाम् ॥११॥
श्री विश्वेश्वर उवाच ॥
न क्षांतं हि तपोत्युग्रमेतदन्याभिरीदृशम् ॥
पुराऽबलाभिस्तस्माद्वो नाम नक्षत्रमत्र वै ॥१२॥
पुरुषायितसंज्ञेन तप्तं यत्तपसाधुना ॥
भवतीभिस्ततः पुंस्त्वमिच्छया वो भविष्यति ॥१३॥
ज्योतिश्चक्रे समस्तेऽस्मिन्नग्रगण्या भविष्यथ ॥
मेषादीनां च राशीनां योनयो यूयमुत्तमाः ॥१४॥
ओषधीनां सुधायाश्च ब्राह्मणानां च यः पतिः ॥
पतिमत्यो भवत्योपि तेन पत्या शुभाननाः॥ १५॥
भवतीनामिदं लिंगं नक्षत्रेश्वर संज्ञितम् ॥
पूजयित्वा नरो गंता भवतीलोकमुत्तमम् ॥१६॥
उपरिष्टान्मृगांकस्य लोको वस्तु भविष्यति ॥
सर्वासां तारकाणां च मध्ये मान्या भविष्यथ ॥१७॥
नक्षत्रपूजका ये च नक्षत्रव्रतचारिणः ॥
ते वो लोके वसिष्यंति नक्षत्र सदृशप्रभाः ॥१८॥
नक्षत्रग्रहराशीनां बाधास्तेषां कदाचन ॥
न भविष्यंति ये काश्यां नक्षत्रेश्वरवीक्षकाः ॥१९॥
अगस्त्य उवाच ॥
अतिथित्वमवाप नेत्रयोर्बुधलोकः शिवशर्मणस्त्वथ ॥
गणयोर्भगणस्य संकथां कथयित्रो रिति विष्णुचेतसोः ॥२०॥
शिवशर्मोवाच ॥
कस्य लोकोयमतुलो ब्रूतं श्रीभगवद्गणौ ॥
पीयूषभानोरिव मे मनः प्रीणयतेतराम् ॥२१॥
॥ गणावूचतुः ॥
शिवशर्मञ्छृणु कथामेतां पापापहारिणीम्॥
स्वर्गमार्गविनोदाय तापत्रयविनाशिनीम् ॥२२॥
योसौ पूर्वं महाकांतिरावाभ्यां परिवर्णितः ॥
साम्राज्यपदमापन्नो द्विजराजस्तवाग्रतः ॥२३॥
दक्षिणा राजसूयस्य येन त्रिभुवनं कृता ॥
तपस्तताप योत्युग्रं पद्मानां दशतीर्दश ॥२४॥
अत्रिनेत्रसमुद्भूतः पौत्रो वै द्रुहिणस्य यः ॥
नाथः सर्वौषधीनां च ज्योतिषां पतिरेव च ॥२५॥
निर्मलानां कलानां च शेवधिर्यश्च गीयते ॥
उद्यन्परोपतापं यः स्वकरैर्गलहस्तयेत् ॥२६॥
मुदंकुमुदिनीनांयस्तनोति जगता सह ॥
दिग्वधू चारु शृंगारदर्शनादर्शमंडलः ॥२७॥
किमन्यैर्गुणसंभारैरतोपि न समं विधोः ॥
निजोत्तमांगे सर्वज्ञः कलां यस्यावतंसयेत् ॥२८॥
बृहस्पतेस्स वै भार्यामैश्वर्यमदमोहितः ॥
पुरोहितस्यापिगुरोर्भ्रातुरांगिरसस्य वै ॥२९॥
जहार तरसा तारां रूपवान्रूपशालिनीम्॥
वार्यमाणोपि गीर्वाणैर्बहुदेवर्षिभिः पुनः ॥३०॥
नायं कलानिधेर्दोषो द्विजराजस्य तस्य वै ॥
हित्वा त्रिनेत्रं कामेन कस्य नो खडितं मनः ॥३१॥
ध्वांतमेतदभितः प्रसारियत्तच्छमाय विधिनाविनिर्मितम्॥
दीपभास्करकरामहौषधं नाधिपत्य तमसस्तुकिंचन ॥३२॥
आधिपत्यमदमोहितं हितं शंसितं स्पृशति नो हरेर्हितम् ॥
दुर्जनविहिततीर्थमज्जनैः शुद्धधीरिव विरुद्धमानसम् ॥३३॥
धिग्धिगेतदधिकर्द्धि चेष्टितं चंक्रमेक्षणविलक्षितं यतः ॥
वीक्षते क्षणमचारुचक्षुषा घातितेन विपदःपदेन च ॥३४॥
कः कामेन न निर्जितस्त्रिजगतां पुष्पायुधेनाप्यहो कः क्रोधस्यवशंगतो ननच को लोभेन संमोहितः ॥
योषिल्लोचनभल्लभिन्नहृदयः को नाप्तवानापदं को राज्यश्रियमाप्यनांधपदवीं यातोपि सल्लोचनः ॥३५॥
आधिपत्यकमलातिचंचला प्राप्यतां च यदिहार्जितं किल ॥
निश्चलं सदसदुच्चकैर्हितं कार्यमार्यचरितैः सदैव तत् ॥३६॥
न यदांगिरसे तारां स व्यसर्जयदुल्बणः ॥
रुद्रोथ पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥३७॥
तेन ब्रह्मशिरोनाम परमास्त्रं महात्मना ॥
उत्सृष्टं देवदेवायतेन तन्नाशितं ततः ॥३८॥
तयोस्तद्युद्धमभवद्घोरं वै तारकामयम् ॥
ततस्त्वकांड ब्रह्मांड भंगाद्भीतोभवद्विधिः ॥३९॥
निवार्य रुद्रं समरात्संवर्तानलवर्चसम् ॥
ददावांगिरसे तारां स्वयमेव पितामहः ॥४०॥
अथांतर्गर्भमालोक्य तारां प्राह बृहस्पतिः ॥
मदीयायां न ते योनौ गर्भो धार्यः कथंचन ॥४१॥
इषीकास्तंबमासाद्य गर्भं सा चोत्ससर्ज ह ॥
जातमात्रः स भगवान्देवानामाक्षिपद्वपुः ॥४२॥
ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ॥
सत्यं बूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥४३॥
पृच्छमाना यदा देवै र्नाह ताराऽतिसत्रपा ॥
तदा सा शप्तुमारब्धा कुमारेणातितेजसा ॥४४॥
तं निवार्य तदा ब्रह्मा तारां पप्रच्छ संशयम्॥
प्रोवाच प्रांजलिः सा तं सोमस्येति पितामहम् ॥४५॥
तदा स मूर्ध्न्युपाघ्राय राजा गर्भं प्रजापतिः ॥
बुध इत्यकरोन्नाम तस्य बालस्य धीमतः ॥४६॥
ततश्च सर्वदेवेभ्यस्तेजोरूपबलाधिकः ॥
बुधः सोमं समापृच्छय तपसे कृतनिश्चयः ॥४७॥
जगाम काशीं निर्वाणराशिं विश्वेशपालिताम् ॥
तत्र लिगं प्रतिष्ठाप्य स स्वनाम्ना बुधेश्वरम् ॥४८॥
तपश्चचार चात्युग्रमुग्रं संशीलयन्हृदि ॥
वर्षाणामयुतं बालो बालेंदुतिलकं शिवम् ॥४९॥
ततो विश्वपतिः श्रीमान्विश्वेशो विश्वभावनः ॥
बुधेश्वरान्महालिंगादाविरासीन्महोदयः ॥५०॥
उवाच च प्रसन्नात्मा ज्योतीरूपो महेश्वरः ॥
वरं ब्रूहि महाबुद्धे बुधान्य विबुधोत्तमः ॥५१॥
तवानेनाति तपसा लिंगसंशीलनेन च ॥
प्रसन्नोस्मि महासौम्य नादेयं त्वयि विद्यते ॥५२॥
इति श्रुत्वा वचः सोथ मेघगंभीर निःस्वनम्॥
अवग्रहपरिम्लान सस्यसंजीवनोपमम्॥ ५३॥
उन्मील्यलोचने यावत्पुरः पश्यति बालकः ॥
तावल्लिंगे ददर्शाथ त्र्यंबकं शशिशेखरम् ॥५४॥
बुध उवाच ॥
नमः पूतात्मने तुभ्यं ज्योतीरूप नमोस्तु ते ॥
विश्वरूप नमस्तुभ्यं रूपातीताय ते नमः ॥५५॥
नमः सर्वार्ति नाशाय प्रणतानां शिवात्मने ॥
सर्वज्ञाय नमस्तुभ्यं सर्वकर्त्रे नमोस्तु ते ॥५६॥
कृपालवे नमस्तुभ्यं भक्तिगम्याय ते नमः ॥
फलदात्रे च तपसां तपोरूपाय ते नमः ॥५७॥
शंभो शिवशिवाकांत शांतश्री कंठशूलभृत् ॥
शशिशेखरशर्वेश शंकरेश्वर धूर्जटे ॥५८॥
पिनाकपाणे गिरिश शितिकंठ सदाशिव ॥
महादेव नमस्तुभ्यं देवदेव नमोस्तु ते ॥५९॥
स्तुतिकर्तुं न जानामि स्तुतिप्रिय महेश्वर ॥
तव पादांबुजद्वंद्वे निर्द्वंद्वा भक्तिरस्तु मे ॥६०॥
अयमेव वरो नाथ प्रसन्नोसि यदीश्वर ॥
नान्यं वरं वृणे त्वत्तः करुणामृतवारिधे ॥६१॥
ततः प्राह महेशानस्तत्स्तुत्या परितोषितः ॥
रौहिणेय महाभाग सौम्यसौम्यवचोनिधे ॥६२॥
नक्षत्रलोकादुपरि तव लोको भविष्यति ॥
मध्ये सर्वग्रहाणां च सपर्यां लप्स्यसे पराम् ॥६३॥
त्वयेदं स्थापितं लिंगं सर्वेषां बुद्धिदायकम् ॥
दुर्बुद्धिहरणं सौम्य त्वल्लोकवसतिप्रदम् ॥६४॥
इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ॥
बुधः स्वर्लोकमगमद्देवदेवप्रसादतः ॥६५॥
गणावूचतुः ॥
काश्यां बुधेश्वरसमर्चनलब्धबुद्धिः संसारसिंधुमधिगम्य नरो ह्यगाधम् ॥
मज्जेन्न सज्जनविलोचन चंद्रकांतिः कांताननस्त्वधिवसेच्च बुधेऽत्र लोके ॥६६॥
चंद्रेश्वरात्पूर्वभागे दृष्ट्वा लिंगं बुधेश्वरम् ॥
न बुद्ध्या हीयते जंतुरंतकालेपि जातुचित् ॥६७॥
गणौ यावत्कथामित्थं चक्राते बुधलोकगाम् ॥
तावद्विमानं संप्राप्तं शुक्रलोकमनुत्तमम् ॥६८॥
इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे नक्षत्रबुधलोकयोर्वर्णनं नाम पंचदशोध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 24, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP