काशीखण्डः - अध्याय ५७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कंद उवाच ॥
विश्वेशो विश्वया सार्धं मया च मुनिसत्तम ॥
महाशाखविशाखाभ्यां नंदिभृंगिपुरोगमः ॥१॥
नैगमेयेन सहितो रुद्रैः सर्वत्र संवृतः ॥
देवर्षिभिः समायुक्तः सनकाद्यैरभिष्टुतः ॥२॥
समस्तायतनाधीशैर्दिक्पालैरभिनंदितः ॥
तीर्थैर्दर्शित तीर्थश्च गंधर्वैर्गीतमंगलः ॥३॥
कृतपूजोप्सरोभिश्च नृत्यहस्तकपल्लवैः ॥
वियत्यनाहतैर्वाद्यैः समंतादनुमोदितः ॥४॥
ऋषीणां ब्रह्मनिर्घोषैर्बधिरीकृतदिङ्मुखः॥
कृतस्तुतिश्चारणौघैर्विमानैरभितोवृतः ॥५॥
त्रिविष्टप वधूमुष्टिभ्रष्टैर्लाजैरितस्ततः ॥
अभिवृष्टो महादेवः संप्रहृष्टतनूरुहः ॥६॥
दत्तमाल्योपहारश्च बहुविद्याधरी गणैः ॥
यक्षगुह्यकसिद्धैश्च खेचरैरभिनंदितः ॥७॥
कृतप्रवेश शकुनो मृगैः शकुनिभिः पुरः ॥
किंनरीभिः प्रहष्टास्यैः किंनरैरुपवर्णितः ॥८॥
विष्णुना च महालक्ष्म्या ब्रह्मणा विश्वकर्मणा ॥
नंदिनाथ गणेशेन आविष्कृतमहोत्सवः ॥९॥
नागांगनाभिः परितः कृतनीराजनाविधिः ॥
प्रविवेश महादेवः पुरीं वाराणसीं शुभाम् ॥१०॥
पश्यतां सर्वदेवानामवरुह्य वृषेंद्रतः ॥
परिष्वज्य गणाधीशं प्रोवाच वृषभध्वजः ॥११॥
यदहं प्राप्तवानस्मि पुरीं वाराणसीं शुभाम् ॥
मयाप्यतीव दुष्प्राप्यां स प्रसादो स्य वै शिशोः ॥१२॥
यद्दुष्प्रसाध्यं हि पितुरपि त्रिजगतीतले ॥
तत्सूनुना सुसाध्यं स्यादत्र दृष्टांतता मयि ॥१३॥
अनेन गजवक्त्रेण स्वबुद्धिविभवेरिह ॥
काशीप्राप्तिर्यथा मे स्यात्तथा किंचिदनुष्ठितम् ॥१४॥
पुत्रवानहमेवास्मि यच्च मे चिरचिंतितम् ॥
स्वपौरुषेण कृतवानभिलाषं करस्थितम् ॥१५॥
इत्युक्त्वा त्रिपुरीहर्ता पुरुहूतादिभिः स्तुतः ॥
परितुष्टावसंहृष्टः स्पष्टगीर्भिर्गजाननम् ॥१६॥
॥ श्रीकंठ उवाच ॥
जय विघ्नकृतामाद्य भक्तनिर्विघ्नकारक ॥
अविघ्नविघ्नशमन महाविघ्नैकविघ्नकृत् ॥१७॥
जय सर्वगणाधीश जय सर्व गणाग्रणीः ॥
गणप्रणतपादाब्ज गणनातीतसद्गुण ॥१८॥
जय सर्वग सर्वेश सर्वबुद्ध्येकशेवधे ॥
सर्वमायाप्रपंचज्ञ सर्वकर्माग्रपूजित ॥१९॥
सर्वमंगलमांगल्य जय त्वं सर्वमंगल ॥
अमंगलोपशमन महामंगलहेतुक ॥२०॥
जय सृष्टिकृतां वंद्य जय स्थितिकृतानत ॥
जय संहृतिकृत्स्तुत्य जयसत्कर्मसिद्धिद ॥२१॥
सिद्धवंद्यपदांभोज जयसिद्धिविधायक ॥
सर्वसिद्ध्येकनिलय महासिद्ध्यृद्धिसूचक ॥२२॥
अशेषगुणनिर्माण गुणातीत गुणाग्रणी ॥
परिपूर्णचरित्रार्थ जय त्वं गुणवर्णित ॥२३॥
जय सर्वबलाधीश बलाराति बलप्रद ॥
बलाकोज्ज्वल दंताग्र बालाबालपराकम ॥२४॥
अनंतमहिमाधार धराधर विदारण॥
दंताग्रप्रोतां दङ्नाग जयनागविभूषण ॥२५॥
ये त्वांनमंति करुणामय दिव्य मूर्ते सर्वैनसामपि भुवो भुविमुक्तिभाजः॥
तेषां सदैव हरसीहमहोपसर्गान्स्वर्गापवर्गमपि संप्रददासि तेभ्यः ॥२६॥
ये विघ्नराज भवता करुणाकटाक्षैः संप्रेक्षिताः क्षितितले क्षणमात्रमत्र ॥
तेषां क्षयंति सकलान्यपिकिल्विषाणि लक्ष्मीः कटाक्षयतितान्पुरुषोत्तमान्हि ॥२७॥
ये त्वां स्तुवंति नतविघ्नविघातदक्ष दाक्षायणीहृदयपंकजतिग्मरश्मे ॥
श्रूयंत एव त इह प्रथिता न चित्रं चित्रं तदत्र गणपा यदहो त एव ॥२८॥
ये शीलयंति सततं भवतोंघ्रियुग्मं ते पुत्रपौत्रधनधान्यसमृद्धिभाजः ॥
संशीलितांघ्रिकमला बहुभृत्यवर्गैर्भूपालभोग्यकमलां विमलां लभंते ॥२९॥
त्वं कारणं परमकारणकारणानां वेद्योसि वेदविदुषां सततं त्वमेकः ॥
त्वं मार्गणीयमसि किंचन मूलवाचां वाचामगोचरचराचरदिव्यमूर्ते ॥३०॥
वेदा विदंति न यथार्थतया भवंतं ब्रह्मादयोपि न चराचर सूत्रधार ॥
त्वं हंसि पासि विदधासि समस्तमेकः कस्तेस्तुतिव्यतिकरो मनसाप्यगम्य ॥३१॥
त्वद्दुष्टदृष्टिविशिखैर्निहतान्निहन्मि दैत्यान्पुरांधकजलंधरमुख्यकांश्च॥
कस्यास्ति शक्तिरिह यस्त्वदृतेपि तुच्छं वांछेद्विधातु मिह सिद्धिदकार्यजातम् ॥३२॥
अन्वेषणे ढुंढिरयं प्रथितोस्तिधातुः सर्वार्थढुंढिततया तव ढुंढि नाम ॥
काशीप्रवेशमपि को लभतेत्र देही तोषं विना तव विनायकढुंढिराज ॥३३॥
ढुंढे प्रणम्यपुरतस्तवपादपद्मं यो मां नमस्यति पुमानिह काशिवासी ॥
तत्कर्णमूलमधिगम्य पुरा दिशामि तत्किंचिदत्र न पुनर्भवतास्ति येन ॥३४॥
स्नात्वा नरः प्रथमतो मणिकर्णिकायामुद्धूलितांघ्रियुगलस्तु सचैलमाशु ॥
देवर्षिमानवपितॄनपि तर्पयित्वा ज्ञानोदतीर्थमभिलभ्य भजेत्ततस्त्वाम् ॥३५॥
सामोदमोदकभरैर्वरधूपदीपैर्माल्यैः सुगंधबहुलैरनुलेपनैश्च ॥
संप्रीण्यकाशिनगरीफलदानदक्षं प्रोक्त्वाथ मां क इह सिध्यति नैव ढुंढे ॥३६॥
तीर्थांतराणि च ततः क्रमवर्जितोपि संसाधयन्निह भवत्करुणाकटाक्षैः ॥
दूरीकृतस्वहितघात्युपसर्गवर्गो ढुंढे लभेदविकलं फलमत्र काश्याम् ॥३७॥
यः प्रत्यहं नमति ढुं ढिविनायकं त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसंघः ॥
नो तस्य जातु जगतीतलवर्ति वस्तु दुष्प्रापमत्र च परत्र च किंचनापि ॥३८॥
यो नाम ते जपति ढुंढिविनायकस्य तं वै जपंत्यनुदिनं हृदि सिद्धयोष्टौ ॥
भोगान्विभुज्य विविधान्विबुधोपभोग्यान्निर्वाणया कमलया व्रियते स चांते ॥३९॥
दूरे स्थितोप्यहरहस्तव पादपीठं यः संस्मरेत्सकलसिद्धिद ढुंढिराज ॥
काशीस्थिते रविकलं सफलं लभेत नैवान्यथा न वितथा मम वाक्कदाचित् ॥४०॥
जाने विघ्नानसंख्यातान्विनिहंतुमनेकधा ॥
क्षेत्रस्यास्य महाभाग नानारूपैरिहस्थितः ॥४१॥
यानि यानि च रूपाणि यत्रयत्र च तेनघ ॥
तानि तत्र प्रवक्ष्यामि शृण्वंत्वेते दिवौकसः ॥४२॥
प्रथमं ढुंढिराजोसि मम दक्षिणतो मनाक् ॥
-आढुंढ्य सर्वभक्तेभ्यः सर्वार्थान्संप्रयच्छसि ॥४३॥
अंगारवासरवतीमिह यैश्चतुर्थीं संप्राप्य मोदकभरैः परिमोदवद्भिः ॥
पूजा व्यधायि विविधा तव गंधमाल्यैस्तानत्र पुत्रविदधामि गणान्गणेश ॥४४॥
ये त्वामिह प्रति चतुर्थि समर्चयंति ढुंढे विगाढमतयः कृतिनस्त एव ॥
सर्वापदां शिरसि वामपदं निधाय सम्यग्गजानन गजाननतां लभंते ॥४५॥
माघशुक्लचतुर्थ्यां तु नक्तव्रतपरायणाः ॥
ये त्वां ढुंढेर्चयिष्यंति तेऽर्च्याः स्युरसुरद्रुहाम् ॥४६॥
विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य तापसीम् ॥
शुक्लां शुक्लतिलैर्बद्ध्वा प्राश्नीयाल्लड्डुकान्व्रती ॥४७॥
कार्या यात्रा प्रयत्नेन क्षेत्रसिद्धिमभीप्सुभिः ॥
तस्यां चतुर्थ्यां त्वत्प्रीत्यै ढुंढे सर्वोपसर्गहृत् ॥४८॥
तां यात्रां नात्रयः कुर्यान्नैवेद्यतिललडुकैः ॥
उपसर्गसहस्रैस्तु स हंतव्यो ममाज्ञया ॥४९॥
होमं तिलाज्यद्रव्येण यः करिष्यति भक्तितः ॥
तस्यां चतुर्थ्यां मंत्रज्ञस्तस्य मंत्रः प्रसेत्स्यति ॥५०॥
वैदिकोऽवैदिको वापि यो मंत्रस्ते गजानन ॥
जप्तस्त्वत्संनिधौ ढुंढे सिद्धिं दास्यति वांछिताम् ॥५१॥
॥ ईश्वर उवाच ॥
इमां स्तुतिं ममकृतिं यः पठिष्यति सन्मतिः ॥
न जातु तं तु विघ्नौघाः पीडयिष्यंति निश्चितम् ॥५२॥
ढौंढीं स्तुतिमिमां पुण्यां यः पठेड्ढुंढि संनिधौ ॥
सान्निध्यं तस्य सततं भजेयुः सर्वसिद्धयः ॥५३॥
इमां स्तुतिं नरो जप्त्वा परं नियतमानसः ॥
मानसैरपि पापैस्तैर्नाभिभूयेत कर्हिचित् ॥५४॥
पुत्रान्कलत्रं क्षेत्राणि वराश्वान्वरमंदिरम्॥
प्राप्नुयाच्च धनं धान्यं ढुंढिस्तोत्रं जपन्नरः ॥५५॥
सर्वसंपत्करं नाम स्तोत्रमेतन्मयेरितम् ॥
प्रजप्तव्यं प्रयत्नेन मुक्तिकामेन सर्वदा ॥५६॥
जप्त्वा स्तोत्रमिदं पुण्यं क्वापि कार्ये गमिष्यतः ॥
पुंसः पुरः समेष्यंति नियतं सर्वसिद्धयः ॥५७॥
अन्यच्च कथयाम्यत्र शृण्वंत्वेते दिवौकसः ॥
ढुंढिना क्षेत्ररक्षार्थं यत्रयत्र स्थितिः कृता ॥५८॥
काश्यां गंगासि संभेदे नामतोर्कविनायकः ॥
दृष्टोर्कवासरे पुंभिः सर्वतापप्रशांतये ॥५९॥
दुर्गो नाम गणाध्यक्षः सर्वदुर्गतिनाशनः ॥
क्षेत्रस्य दक्षिणे भागे पूजनीयः प्रयत्नतः ॥६०॥
भीमचंडी समीपे तु भीमचंडविनायकः ॥
क्षेत्रनैर्ऋतदेशस्थो दृष्टो हंति महाभयम् ॥६१॥
क्षेत्रस्य पश्चिमे भागे स देहलिविनायकः ॥
सर्वान्निवारयेद्विघ्नान्भक्तानां नात्र संशयः ॥६२॥
क्षेत्रवायव्यदिग्भागे उद्दंडाख्यो गजाननः ॥
उद्दंडानपि विघ्नौघान्भक्तानां दंडयेत्सदा ॥६३॥
काश्याः सदोत्तराशायां पाशपाणिर्विनायकः ॥
विनायकान्पाशयति भक्त्या काशीनिवासिनाम् ॥६४॥
गंगावरणयोः संगे रम्यः खर्वविनायकः ॥
अखर्वानपि विघ्नौघान्भक्तानां खर्वयेत्सताम् ॥६५॥
प्राच्यां तु क्षेत्ररक्षार्थं सिद्धः सिद्धिविनायकः ॥
पश्चिमे यमतीर्थस्य साधकक्षिप्रसिद्धिदः ॥६६॥
बाह्यावरणगाश्चैते काश्यामष्टौ विनायकाः ॥
उच्चाटयत्यभक्तांश्च भक्तानां सर्वसिद्धिदाः ॥६७॥
द्वितीयावरणे चैव ये रक्षंति विनायकाः ॥
अविमुक्तमिदं क्षेत्रं तानहं कथयाम्यतः ॥६८॥
स्वर्धुन्याः पश्चिमे कूले उत्तरेर्कविनायकात् ॥
लंबोदरो गणाध्यक्षः क्षालयेद्विघ्नकर्दमम् ॥६९॥
तत्पश्चिमेकूटदंत उदग्दुर्गविनायकात् ॥
दुर्गोपसर्गसंहर्ता रक्षेत्क्षेत्रमिदं सदा ॥७०॥
भीमचंड गणाध्यक्षात्किंचिदीशानदिग्गतः ॥
क्षेत्ररक्षोगणाध्यक्षः पूज्यः शालकटंकटः ॥७१॥
प्राच्या देहलिविघ्नेशात्कूश्मांडाख्यो विनायकः ॥
पूजनीयः सदा भक्तेर्महोत्पात प्रशांतये ॥७२॥
उद्दंडाख्याद्गणपतेराशुशुक्षणिदिक्स्थितः ॥
महाप्रसिद्धः संपूज्यो भक्तैर्मुंडविनायकः ॥७३॥
पाताले तस्य देहोस्ति मुंडं काश्यां व्यवस्थितम ॥
अतः स गीयते काश्यां देवो मुंडविनायकः ॥७४॥
पाशपाणेर्गणेशानाद्दक्षिणे विकटद्विजम् ॥
पूजयित्वा गणपतिं गाणपत्यपदं लभेत् ॥७५॥
खर्वाख्यान्नैर्ऋतेभागे राजपुत्रो विनायकः ॥
भ्रष्टराज्यं च राजानं राजानं कुरुतेऽर्चितः ॥७६॥
गंगायाः पश्चिमे कूले प्रणवाख्यो गणाधिपः ॥
अवाच्यां राजपुत्राच्च प्रणतः प्रणयेद्दिवम् ॥७७॥
द्वितीयावरणे काश्यामष्टावेते विनायकाः ॥
उत्सादयेयुर्विघ्नौघान्काशी स्थितिनिवासिनाम् ॥७८॥
क्षेत्रे तृतीयावरणे क्षेत्ररक्षाकृतः सदा ॥
ये विघ्नराजाः संतीह ते वक्तव्या मयाधुना ॥७९॥
उदग्वहायाः स्वर्धुन्या रम्ये रोधसि विघ्नराट् ॥
लंबोदरादुदीच्यां तु वक्रतुंडोघसंघहृत् ॥८०॥
कूटदंताद्गणपतेरुदीच्यामेकदंतकः ॥
सदोपसर्गसंसर्गात्पायादानंदकाननम् ॥८१॥
काशीभयहरो नित्यमैश्यां शालकटंकटात् ॥
त्रिमुखो नाम विघ्नेशः कपिसिंहद्विपाननः ॥८२॥
कूश्मांडात्पूर्वदिग्भागे पंचास्यो नाम विघ्नराद् ॥
पंचास्यस्यंदनवरः पाति वाराणसीं पुरीम् ॥८३॥
हेरंबाख्यः सदाग्नेय्यां पूज्यो मुंडविनायकात् ॥
अंबावत्पूरयेत्कामान्सर्वेषां काशिवासिनाम् ॥८४॥
अवाच्यामर्चयेद्धीमान्सिद्ध्यै विकटदंततः ॥
विघ्नराजं गणपतिं सर्वविघ्नविनाशनम् ॥८५॥
विनायकाद्राजपुत्रात्किंचिद्रक्षोदिशिस्थितः ॥
वरदाख्यो गणाध्यक्षः पूज्यो भक्तवरप्रदः ॥८६॥
याम्यां प्रणवविघ्नेशाद्गणेशो मोदकप्रियः ॥
पूज्यः पिशंगिला तीर्थे देवनद्यास्तटे शुभे ॥८७॥
चतुर्थावरणे काश्यां भक्तविघ्नविनाशकाः ॥
द्रष्टव्या हृष्टचेतोभिः स्पष्टमष्टौ विनायकाः ॥८८॥
वक्रतुंडादुदग्दिक्स्थः स्वःसिंधो रोधसिस्थितः ॥
विनायकोस्त्यभयदः सर्वेषां भयनाशनः ॥८९॥
कौबेर्यामेकदशनात्सिंहतुंडो विनायकः ॥
उपसर्गगजान्हंति वाराणसि निवासिनाम् ॥९०॥
कूणिताक्षो गणाध्यक्षस्त्रितुंडादीश दिक्स्थितः ॥
महाश्मशानं सततं पायाद्दुष्टकुदृष्टितः ॥९१॥
प्राच्यां पंचास्यतः पायात्पुरीं क्षिप्रप्रसादनः ॥
क्षिप्रप्रसादनार्चातः क्षिप्रं सिध्यंति सिद्धयः ॥९२॥
हेरंबाद्वह्निदिग्भागे चिंतामणि विनायकः ॥
भक्तचिंतामणिः साक्षाच्चिंतितार्थ समर्पकः ॥९३॥
विघ्नराजादवाच्यां तु दंतहस्तो गणेश्वरः ॥
लिखेद्विघ्नसहस्राणि नृणां वाराणसीद्रुहाम् ॥९४॥
वरदाद्यातुधान्यां च यातुधानगणावृतः ॥
देवः पिचिंडिलो नाम पुरीं रक्षेदहर्निशम् ॥९५॥
दृष्टः पिलिपिलातीर्थे दक्षिणे मोदकप्रियात् ॥
उद्दंड मुंडो हेरंबो भक्तेभ्यः किं न यच्छति ॥९६॥
प्राकारे पंचमे काश्यां द्विचतुष्क विनायकाः ॥
कुर्वंति रक्षां क्षेत्रस्य ये तानत्र ब्रवीम्यहम् ॥९७॥
तीरे स्वर्गतरंगिण्या उत्तरे चाभयप्रदात् ॥
स्थूलदंतो गणेशानः स्थूलाः सिद्धीर्दिशेत्सताम् ॥९८॥
सिंहतुडादुदग्भागे कलिप्रिय विनायकः ॥
कलहं कारयेन्नित्यमन्योन्यं तैर्थिकद्रुहाम् ॥९९॥
कूणिताक्षात्तथैशान्यां चतुर्दंतो विनायकः ॥
तस्य दर्शनमात्रेण विघ्नसंघः क्षयेत्स्वयम् ॥१००॥
क्षिप्रप्रसादनादैंद्र्यां द्वितुंडो गणनायकः ॥
अग्रतः पृष्ठतश्चापि बिभर्ति सदृशीं श्रियम् ॥१॥
तस्य संदर्शनात्पुसां भवेच्छ्रीः सर्वतोमुखी ॥
ज्येष्ठो नाम गणाध्यक्षो ज्येष्ठो मे पुत्रसंपदि ॥२॥
ज्येष्ठशुक्लचतुर्दश्यां संपूज्यो ज्येष्ठताप्तये ॥
स्थितो वह्निदिशो भागे चिंतामणि विनायकात् ॥३॥
दंतहस्ताद्यमाशायां पूज्यो गजविनायकः ॥
तस्य संपूजनाद्भक्त्या गजांता श्रीरवाप्यते ॥४॥
पिचिण्डिलाद्गणपतेर्याम्यां कालविनायकः ॥
भयं न कालकलितं तस्य संसेवनान्नृणाम्॥ ५॥
उद्दंडमुंडाद्गणपात्की नाशदिशि संस्थितम् ॥
नागेशं गणपं दृष्ट्वा नागलोके महीयते ॥६॥
अथ षष्ठावरणगाः प्रोच्यंते विघ्ननायकाः ॥
तेषां नामश्रवादेव पुंसां सिद्धिः प्रजायते ॥७॥
मणिकर्णो गणपतिः प्राच्यां विघ्नविघातकृत् ॥
आशाविनायको वह्न्यां भक्ताशां पूरयन्स्थितः ॥८॥
याम्यांसृष्टिगणेशश्च सृष्टिसंहारसूचकः ॥
नैर्ऋत्यां यक्षविघ्नेशः सर्वविघ्नहरः परः ॥९ [
प्रतीच्यां गजकर्णश्च सर्वेषां क्षेमकारकः ॥
चित्रघंटो गणपतिर्वायव्यां पालयेत्पुरीम् ॥११०॥
स्थूलजंघउदीच्यां च शमयेच्छमिनामघम् ॥
ऐश्यामैशीपुरीं पायात्समंगलविनायकः ॥११॥
यमतीर्थादुदीच्यां च पूज्यो मित्रविनायकः ॥
सप्तमावरणे ये च तांश्च वक्ष्ये विनायकान् ॥१२॥
मोदाद्याः पंचविघ्नेशाः षष्ठो ज्ञानविनायकः ॥
सप्तमो द्वारविघ्नेशो महाद्वारपुरश्चरः ॥१३॥
अष्टमः सर्वकष्टौघानविमुक्तविनायकः ॥
अविमुक्ते मम क्षेत्रे हरेत्प्रणतचेतसाम् ॥१४॥
षट्पंचाशद्गजमुखानेतान्यः संस्मरिष्यति॥
दूरदेशांतरस्थोपि स मृतो ज्ञानमाप्नुयात् ॥१५॥
ढुंढिस्तुतिं महापुण्यां षट्पंचाशद्गजाननाम् ॥
यः पठिष्यति पुण्यात्मा तस्य सिद्धिः पदेपदे ॥१६॥
इमे गणेश्वराः सर्वे स्मर्तव्या यत्र कुत्रचित् ॥
महाविपत्समुद्रांतः पतंतं पांति मानवम् ॥१७॥
इति स्तुतिं महापुण्यां श्रुत्वा चैतान्विनायकान् ॥
जातुविघ्नैर्नबाध्येत पापेभ्योपि प्रहीयते ॥१८॥
इत्युक्त्वा देवदेवोपि महोत्सवितमानसः ॥
कृताभिषेको ब्रह्माद्यैस्तेभ्यो दत्त्वाभिवांछितम्॥ १९॥
संप्रसाद्य यथायोगं सर्वानुचित चंचुरः ॥
अविशद्राजसदनं विश्वकर्मविनिर्मितम् ॥१२०
॥ स्कंद उवाच ॥
एवं स्तुतो भगवता देवदेवेन विघ्नजित् ॥
इत्थं च बहुधात्मानं स चकार विनायकः ॥२१॥
एतानि तस्य नामानि ढुंढिराजस्य कुंभज ॥
जपित्वा यानि मनुजो लप्स्यते निजवांछितम् ॥२२॥
अन्येपि तत्र वै भेदास्तस्य ढुंढेर्गणेशितुः ॥
भक्तैः समर्चिता भक्त्या ह्यसंख्याताः सहस्रशः ॥२३॥
भगीरथगणाध्यक्षो हरिश्चंद्रविनायकः ॥
कपर्दाख्यो गणपतिस्तथा बिंदुविनायकः ॥२४॥
इत्याद्यास्तत्र विघ्नेशाः प्रतिभक्तप्रतिष्ठिताः ॥
तेषामप्यर्चनात्पुंसां जायंते सर्वसंपदः ॥२५॥
श्रुत्वाध्यायमिमं पुण्यं नरः श्रद्धासमन्वितः ॥
सर्वविघ्नान्समुत्सृज्य लभते वांछितं पदम् ॥१२६॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे ढुंढिविनायकप्रादुर्भावो नाम सप्तपंचाशत्तमोऽध्यायः ॥५७
N/A
References : N/A
Last Updated : November 27, 2024
TOP