संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय २

काशीखण्डः - अध्याय २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


व्यास उवाच ॥
सूर्य आत्मास्य जगतस्तस्थुषस्तमसोरिपुः ॥
उदियायोदयगिरौ शुचिप्रसृमरैः करैः ॥१॥
संवर्धयन्सतां धर्मान्त्यक्कुर्वंस्तामसीं स्थितिम् ॥
पद्मिनीं बोधयंस्त्विष्टां रात्रौ मुकुलिताननाम् ॥२॥
हव्यं कव्यं भूतबलिं देवादीनां प्रवर्तयन् ॥
प्राह्णापराह्णमध्याह्न क्रियाकालं विजृंभयन् ॥३॥
असतां हृदि वक्त्रेषु निर्दिशंस्तमसः स्थितिम् ॥
यामिनीकालकलितं जगदुज्जीवयन्पुनः ॥४॥
यस्मिन्नभ्युदिते जातः सम्यक्पुण्यजनोदयः ॥
अहो परोपकरणं सद्यः फलति नेति चेत् ॥५॥
सायमस्तमितः प्रातः कथं जीवेद्रविः पुनः ॥
सानुरागकरस्पर्शैः प्राचीमाश्वास्य खंडिताम् ॥६॥
यामं भुक्त्वा तथाग्नेयीं ज्वलंतीं विरहादिव ॥
लवंगैलामृगमदचंद्रचंदनचर्चिताम ॥७॥
तांबूलीरागरक्तौष्ठीं द्राक्षास्तबकसुस्तनीम् ॥
लवलीवल्लिदोर्वल्ली कंको ली पल्लवांगुलिम् ॥८॥
मलयानिल निःश्वासां क्षीरोदकवरांबराम् ॥
त्रिकूटस्वर्णरत्नांगीं सुवेलाद्रि नितंबिनीम ॥९॥
कावेरीगौतमीजंघां चोलचोलां शुकावृताम् ॥
सह्यदर्दुरवक्षोजां कांतीकांचीविभूषणाम ॥१०॥
सुकोमलमहाराष्ट्रीवाग्विलासमनोहराम् ॥
अद्यापि न महालक्ष्मीर्या विमुंचति सद्गुणाम् ॥११॥
सुदक्षदक्षिणामाशामाशानाथः प्रतस्थिवान् ॥
क्रमतः सर्वमर्वन्तो हेलया हेलिकस्य खम् ॥१२॥
न शेकुरग्रतो गंतुं ततोऽनूरुर्व्यजिज्ञपत् ॥१३॥
अनूरुरुवाच ॥
भानो मानोन्नतो विन्ध्यो निद्ध्यय गगनं स्थितः ॥
स्पर्धते मेरुणाप्रेप्सु स्त्वद्दत्तां तु प्रदक्षिणाम् ॥१४॥
अन्रूरुवाक्यमाकर्ण्य सविता हृद्यचिन्तयत् ॥
अहो गगनमार्गोपि रुध्यते चातिविस्मयः ॥१५॥
व्यास उवाच ॥
सूरः शूरोपि किं कुर्यात्प्रांतरे वर्त्मनिस्थितः ॥
त्वरावानपि को रुद्धं मागर्मेको विलंघयेत् ॥१६॥
गृह्यत्राप्रत्यूष्टेः क्षणं नावतिष्ठति ॥
शून्यमार्गे निरुद्धः स किंकरोतु विधिर्बली ॥१७॥
योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ॥
योजनस्य निमेषार्धाद्याति सोपि चिरं स्थितः ॥१८॥
गते बहुतिथेकाले प्राच्यौदीच्यां भृशार्दिताः ॥
चण्डरश्मेः करव्रातपातसन्तापतापिताः ॥१९॥
पाश्चात्या दक्षिणात्याश्च निद्रामुद्रितलोचनाः ॥
शयिता एव वीक्षन्ते सतारग्रहमंबरम् ॥२०॥
अहोनाहस्कराभावान्निशानैवाऽनिशाकरात्॥
अस्तंगतर्क्षान्नभसः कः कालस्त्वेप नेक्ष्यते ॥२१॥
ब्रह्मांडं किमकांडे वै लयमेष्यति तत्कथम् ॥
परापतंति नाद्यापि पारावारा इतस्ततः ॥२२॥
स्वाहास्वधावषट्कारवर्जिते जगतीतले ॥
पंचयज्ञक्रियालोपाच्चकंपे भुवनत्रयम् ॥२३॥
सूर्योदयात्प्रवर्तंते यज्ञाद्याः सकलाः क्रियाः ॥
ताभिर्यज्ञभुजांतृप्तिः सविता तत्र कारणम् ॥२४॥
चित्रगुप्तादयः सर्वे कालं जानंति सूर्यतः ॥
स्थितिसर्गविसर्गाणां कारणं केवलं रविः ॥२५॥
तत्सूर्यस्य गतिस्तंभात्स्तंभितं भुवनत्रयम् ॥
यद्यत्रतत्स्थितं तत्र चित्रन्यस्तमिवा खिलम् ॥२६॥
एकतस्तिमिरान्नैशादेकतस्तु दिवातपात् ॥
बहूनां प्रलयो जातः कांदिशीकमभूज्जगत् ॥२७॥
इति व्याकुलिते लोके सुरासुरनरोरगे ॥
आःकिमेतदकांडेभूद्रुरुदुर्दुद्रुवुः प्रजाः ॥२८॥
ततः सर्वे समालोक्य ब्रह्माणं शरणं ययुः ॥
स्तुवंतो विविधैः स्तोत्रै रक्षरक्षेति चाब्रुवन् ॥२९॥
॥ देवा ऊचुः॥
नमो हिरण्यरूपाय ब्रह्मणे ब्रह्मरूपिणे ॥
अविज्ञातस्वरूपाय कैवल्यायामृताय च ॥३०॥
यन्न देवा विजानंति मनो यत्रापि कुंठितम्॥
न यत्र वाक्प्रसरति नमस्तस्मै चिदात्मने ॥३१॥
योगिनो यं हृदाकाशे प्रणिधानेन निश्चलाः ॥
ज्योतीरूपं प्रपश्यंति तस्मै श्रीब्रह्मणे नमः ॥३२॥
कालात्पराय कालाय स्वेच्छयापुरुषाय च ॥
गुणत्रय स्वरूपाय नमः प्रकृतिरूपिणे ॥३३॥
विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ॥
तमसे रुद्ररूपाय स्थितिसर्गांतकारिणे ॥३४॥
नमो बुद्धिस्वरूपाय त्रिधाहंकृतये नमः ॥
पंचतन्मात्र रूपाय पंचकर्मेद्रियात्मने ॥३५॥
नमो मनःस्वरूपाय पंचबुद्धींद्रियात्मने ॥
क्षित्यादि पंचरूपाय नमस्ते विषयात्मने ॥३५॥
नमो ब्रह्मांडरूपाय तदंतर्वर्तिने नमः ॥
अर्वाचीनपराची न विश्वरूपाय ते नमः ॥३७॥
अनित्यनित्यरूपाय सदसत्पतये नमः ॥
समस्तभक्तकृपया स्वेच्छाविष्कृतविग्रह ॥३६॥
तव निःश्वसितं वेदास्तव स्वे दोखिलं जगत् ॥
विश्वा भूतानि ते पादः शीर्ष्णो द्यौः समवर्तत ॥३९॥
नाभ्या आसीदंतरिक्षं लोमानि च वनस्पतिः ॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यस्तव प्रभो ॥४०॥
त्वमेव सर्वं त्वयि देव सर्वं स्तोता स्तुतिः स्तव्य इह त्वमेव ॥
ईश त्वयाऽवास्यमिदं हि सर्वं नमोस्तु भूयोपि नमो नमस्ते ॥४१॥
इति स्तुत्वा विधिं देवा निपेतुर्दंडवत्क्षितौ ॥
परितुष्टस्तदा ब्रह्मा प्रत्युवाच दिवौकसः ॥४२॥
॥ ब्रह्मोवाच ॥
यथार्थयाऽनया स्तुत्या तुष्टोस्मि प्रणताः सुराः ॥
उत्तिष्ठत प्रसन्नोस्मि वृणुध्वं वरमुत्तमम् ॥४३॥
यः स्तोष्यत्यनया स्तुत्या श्रद्धावान्प्रत्यहं शुचिः ॥
मां वा हरं वा विष्णुं वा तस्य तुष्टाः सदा वयम् ॥४४॥
दास्यामः सकलान्कामान्पुत्रान्पौत्रान्पशून्वसु ॥
सौभाग्यमायुरारोग्यं निर्भयत्वं रणे जयम् ॥४५॥
ऐहिकामुष्मिकान्भोगानपवर्गं तथाऽक्षयम् ॥
यद्यदिष्टतमं तस्य तत्तत्सर्वं भविष्यति ॥४६॥
तस्मात्सर्वप्रयत्नेन पठितव्यः स्तवोत्तमः ॥
अभीष्टद इति ख्यातः स्तवोयं सर्वसिद्धिदः ॥४७॥
पुनः प्रोवाच तान्वेधाः प्रणिपत्योत्थितान्सुरान् ॥
स्वस्थास्तिष्ठत भो यूयं किमत्रापि समाकुलाः ॥४८॥
एते वेदा मूर्तिधरा इमा विद्यास्तथाखिलाः ॥
सदक्षिणा अमी यज्ञाः सत्यं धर्मस्तपो दमः ॥४९॥
ब्रह्मचर्यमिदं चैषा करुणा भारतीत्वियम् ॥
श्रुतिस्मृतीतिहासार्थ चरितार्था अमीजनाः ॥५०॥
नेह क्रोधो न मात्सर्यं लोभः कामोऽधृतिर्भयम् ॥
हिंसा कुटिलता गर्वो निंदासूयाऽशुचिः क्वचित् ॥५१॥
ये ब्राह्मणा ब्रह्मरतास्तपोनिष्ठास्तपोधनाः ॥
मासोपवासषण्मासचातुर्मास्यादि सद्व्रताः ॥५२॥
पातिव्रत्यरता नार्यो ये चान्ये ब्रह्मचारिणः ॥
ते चामीपश्यत सुरा ये षंढाः परयोषिति ॥५३॥
मातापित्रोरमी भक्ता अमी गोग्रहणे हताः ॥
व्रते दाने जपे यज्ञे स्वाध्याये द्विजतर्पणे ॥५४॥
तीर्थे तपस्युपकृतौ सदाचारादिकर्मणि ॥
फलाभिलाषिणीबुद्धिर्न येषां ते जना अमी ॥५५॥
गायत्री जाप्यनिरता अग्निहोत्र परायणाः ॥
द्विमुखी गो प्रदातारः कपिलादान तत्पराः ॥५६॥
निस्पृहाः सोमपा ये वै द्विजपादोदपाश्च ये ॥
मृताः सारस्वते तीर्थे द्विजशुश्रूषकाश्च ये ॥५७॥
प्रतिग्रहे समर्था हि ये प्रतिग्रहवर्जिताः ॥
त एते मत्प्रिया विप्रास्त्यक्ततीर्थ प्रतिग्रहाः ॥५८॥
प्रयागे माघ मासो यैरुषः स्नातोऽमलात्मभिः ॥
मकरस्थे रवौ शुद्धास्त इमे सूर्यवर्चसः ॥५९॥
वाराणस्यां पांचनदे त्र्यहं स्नातास्तु कार्तिके ॥
अमी ते शुद्धवपुषः पुण्यभाजोतिनिर्मलाः ॥६०॥
स्नात्वा तु मणिकर्णिक्यां प्रीणिता ब्राह्मणा धनैः ॥
त एते सर्वभोगाढ्याः कल्पं स्थास्यंति मत्पुरे ॥६१॥
ततः काशीं समासाद्य तेन पुण्येन नोदिताः ॥
विश्वेश्वरप्रसादेन मोक्षमेष्यंत्यसंशयम् ॥६२॥
अविमुक्ते कृतं कर्म यदल्पमपि मानवैः ॥
श्रेयोरूपं तद्विपाको मोक्षो जन्मांतरेष्वपि ॥६३॥
अहो वैश्वेश्वरे क्षेत्रे मरणादपिनोभयम् ॥
यत्र सर्वे प्रतीक्षंते मृत्युं प्रियमिवाति थिम् ॥६४॥
ब्राह्मणेभ्यः कुरुक्षेत्रे यैर्दत्तं वसु निर्मलम् ॥
निर्मलांगास्त एते वै तिष्ठंति मम संनिधा ॥६५॥
पितामहं समासाद्य गयायां यैः पितामहाः ॥
तर्पिता ब्राह्मणमुखे तेषामेते पितामहाः ॥६६॥
न स्नानेन न दानेन न जपेन न पूजया ॥
मल्लोकः प्राप्यते देवाः प्राप्यते द्विज तर्पणात् ॥६७॥
सोपस्कराणिवेश्मानिमु सलोलूखलादिभिः ॥
यैर्दत्तानि सशय्यानि तेषां हर्म्याण्यमूनि वै ॥६८॥
ब्रह्मशालां कारयंति वेदमध्यापयंति च ॥
विद्यादानं च ये कुर्युः पुराणं श्रावयंति च ॥६९॥
पुराणानि च ये दद्युः पुस्तकानि ददत्यपि ॥
धर्मशास्त्राणि ये दद्युस्तेषां वासोत्र मे पुरे ॥७०॥
यज्ञार्थं च विवाहार्थं व्रतार्थं ब्राह्मणाय वै ॥
अखंडं वसु ये दद्युस्तेत्र स्युर्वसुवर्चसः ॥७१॥
आरोग्यशालां यः कुर्याद्वैद्यपोषणतत्परः ॥
आकल्पमत्र वसति सर्वभोग समन्वितः ॥७२॥
मुक्ती कुर्वंति तीर्थानि ये च दुष्टावरोधतः ॥
ममावरोधे ते मान्या औरसास्तनया इव ॥७३॥
विष्णोर्वाममवाशंभोर्ब्राह्मणा एव सुप्रियाः ॥
तेषां मूर्त्या वयं साक्षाद्विचरामो महीतले ॥७४॥
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम् ॥
एकत्र मंत्रास्तिष्ठंति हविरेकत्र तिष्ठति ॥७५॥
ब्राह्मणा जंगमं तीर्थं निर्मितं सार्वभौमिकम् ॥
येषां वाक्योदकेनैव शुद्ध्यंति मलिना जनाः ॥७६॥
गावः पवित्रमतुलं गावो मंगलमुत्तमम् ॥
यासां खुरोत्थितो रेणुर्गंगावारिसमो भवेत् ॥७७॥
शृंगाग्रे सर्वतीर्थानि खुराग्रे सर्व पर्वताः ॥
शृंगयोरंतरे यस्याः साक्षाद्गौरीमहेश्वरी ॥७८॥
दीयमानां च गां दृष्ट्वा नृत्यंति प्रपितामहाः ॥
प्रीयंते ऋषयः सर्वे तुष्यामो दैवतैः सह ॥७९॥
रोरूयंते च पापानि दारिद्र्यं व्याधिभिः सह ॥
धात्र्यः सर्वस्य लोकस्य गावो मातेव सर्वथा ॥८०॥
गवां स्तुत्वा नमस्कृत्य कृत्वा चैव प्र दक्षिणाम्॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥८१॥
या लक्ष्मीः सवर्भूतानां या देवेषु व्यवस्थिता ॥
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥८२॥
विष्णोर्वक्षसि या लक्ष्मीः स्वाहा चैव विभावसोः ॥
स्वधा या पितृमुख्यानां सा धेनुर्वरदा सदा ॥८३॥
गोमयं यमुना साक्षाद्गोमूत्रं नर्मदा शुभा ॥
गंगा क्षीरं तु यासां वै किं पवित्रमतः परम् ॥८४॥
गवामंगेषु तिष्ठंति भुवनानि चतुर्दश ॥
यस्मात्तस्माच्छिवं मे स्यादिहलोके परत्र च ॥८५॥
इति मंत्रं समुच्चार्य धेनूर्वाधेनुमेव वा ॥
यो दद्याद्द्विजवर्याय स सर्वेभ्यो विशिष्यते ॥८६॥
मया च विष्णुना सार्धं शिवेन च महर्षिभिः ।
विचार्य गोगुणान्नित्यं प्रार्थनेति विधीयते ॥८७॥
गावो मे पुरतः संतु गावो मे संतु पृष्ठतः ॥
गावो मे हृदये संतु गवां मध्ये वसाम्यहम् ॥८८॥
नीराजयति योंगानि गवां पुच्छेन भाग्यवान् ॥
अलक्ष्मीः कलहो रोगास्तस्यांगाद्यांति दूरतः ॥८९॥
गोभिर्विप्रश्च वेदैश्च सतीभिः सत्यवादिभिः॥
अलुब्धैर्दा नशीलैश्च सप्तभिर्धार्यते मही ॥९०।
मम लोकात्परोलोको वैकुंठ इति गीयते॥
तस्योपरिष्टात्कौमार उमालोकस्ततः परम् ॥९१॥
शिवलोकस्तदुपरि गोलो कस्तत्समीपतः ॥
गोमातरः सुशीलाद्यास्तत्र संति शिवप्रियाः ॥९२॥
गवां शुश्रूरूषकाये च गोप्रदाये च मानवाः ॥
एषामन्यतमे लोके ते स्युः सर्वसमृद्धयः ॥९३॥
यत्र क्षीरवहा नद्यो यत्र पायस कर्दमाः ॥
न जरा बाधते यत्र तत्र गच्छंति गोप्रदाः ॥९४॥
श्रुतिस्मृतिपुराणज्ञा ब्राह्मणाः परिकीर्तिताः॥
तदुक्ताचारचरणा इतरे नामधारकाः ॥९५॥
श्रुतिस्मृती तु नेत्रे द्वे पुराणं हृदयं स्मृतम् ॥
श्रुतिस्मृतिभ्यां हीनोंधः काणः स्यादेकया विना॥
पुराणहीनाद्धृच्छून्यात्काणांधावपि तौ वरौ ॥
श्रुतिस्मृत्युदितोधर्मः पुराणे परिगीयते ॥९७॥
तद्बाह्मणाय गोर्देया सर्वत्र सुखमिच्छता ॥
न देया द्विजमात्राय दातारं सोप्यधो नयेत् ॥९८॥
यस्य धर्मेऽस्ति जिज्ञासा यस्य पापाद्भयं महत्॥
श्रोतव्यानि पुराणानि धमर्मूलानि तेन वै ॥९९॥
चतुर्दशसु विद्यासु पुराणं दीप उत्तमः॥
अंधोपि न तदा लोकात्संसाराब्धौ क्वचित्पतेत् ॥१००॥
श्रोतव्यानि पुराणानि वस्तव्यं जाह्नवी तटे ॥
तर्पणीया द्विजा नित्यं ममलोकेप्सुभिः सदा ॥१॥
इत्युद्देशान्मयाख्याता सत्यलोकव्यवस्थितिः ॥
अभयं यद्भयार्तानां न भेतव्यं च हे सुराः ॥२॥
स्पर्धते मेरुणा विंध्यो ब्रध्नाध्व परिरोधकृत ॥
तदर्थमागता यूयं तदुपायं दिशामि वः॥३॥
अस्त्यगस्त्यस्तप्यमानस्तप उग्रं महातपाः ॥
मैत्रावरुणिराधाय चित्तं विश्वेश्वरे विभौ ॥४॥
अविमुक्तमहाक्षेत्रे सर्वेषां मुक्तिहेतुके ॥
तारकस्योपदेशार्थं विश्वेशाऽधिष्ठिते स्वयम् ॥५॥
याचध्वं तत्र गत्वा तं स वः कार्यं विधास्यति ॥
तेनैकदाविता लोका वातापील्वलभक्षणात् ॥६॥
अतिमित्रं तत्र तेजो मित्रावरुणजे मुनौ॥
तदाप्रभृति लोकेषु कोगस्त्यान्नैव बिभ्यति ॥७॥
इत्युक्त्वांतर्दधे वेधास्तेपि प्रमुदिताननाः ॥
देवाः परस्परं प्रोचुरहोधन्य तमा वयम् ॥८॥
प्रसंगतोपि द्रष्टव्यौ काशीकाशीपती शिवौ॥।
अहो अहोभिर्बहुभिः फलितो नो मनोरथः ॥९॥
उत्फुल्लपद्मनयना निर्मिताः सुकृतार्थिनः॥
तावेव चरणौ धन्यौ काशीमभिप्रयायिनौ ॥११०॥
येयं कथा श्रुतास्माभिर्वेधसा समुदीरिता ॥
तस्याः श्रवणजात्पुण्यात्प्राप्नुमस्त्वद्य काशिकाम्॥ ११॥
एका क्रिया द्व्यर्थकरी प्राप्यते पुण्यगौरवात् ॥
एवं वदंतो हृष्टास्याः सुराः काशीं समाययुः ॥१२॥
व्यास उवाच ॥
इदं पुण्यतमाख्यानं ये श्रोष्यंतीह मानवाः ॥
विधूय सर्वपापानि पुत्रदारसमन्विताः ॥१३॥
इह वंशं परिस्थाप्य भुक्त्वा सर्व सुखानि च ॥
सत्यलोके चिरं स्थित्वा ततो यास्यंति शाश्वतम् ॥११४॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे सत्यलोकवर्णनंनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP