काशीखण्डः - अध्याय २५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच ॥
शृणु सूत प्रवक्ष्यामि कथां कलशजन्मनः ॥
यामाकर्ण्य नरो भूयाद्विरजा ज्ञानभाजनम् ॥१॥
गिरिं प्रदक्षिणीकृत्य श्रीसंज्ञं कलशोद्भवः ॥
सपत्नीको ददर्शाथ रम्यं स्कंदवनं महत् ॥२॥
सर्वर्तं कुसुमाढ्यं च रसवत्फलपादपम् ॥
सुसेव्य कंदमूलाढ्यं सुवल्कलमहीरुहम् ॥३॥
निवीतश्वापदगणं ससरित्पल्वलावृतम् ॥
स्वच्छ गंभीरकासारं सारं सर्वभुवः परम् ॥४॥
नानापतत्रिसंघुष्टं नानामुनिजनोषितम् ॥
तपःसंकेतनिलयमिवैकं संपदां पदम् ॥५॥
लोहितो नाम तत्रास्ति गिरिः स्वर्णगिरिप्रभः ॥
सुकंदरप्रस्रवणः स्वसानु शिखरप्रभः ॥६॥
कैलासस्यैकशकलं कर्मभूमाविहागतम् ॥
तपस्तप्तुमिव प्रोच्चैर्नानाश्चर्यसमन्वितम् ॥७॥
तत्राद्राक्षीन्मुनिश्रेष्ठोऽगस्त्यः साक्षात्षडाननम् ॥
प्रणम्य दंडवद्भूमौ सपत्नीको महातपाः ॥८॥
तुष्टाव गिरिजासूनुं सूक्तैः श्रुतिसमुद्भवैः ॥
तथा स्वकृतया स्तुत्या प्रबद्ध करसंपुटः ॥९॥
अगस्तिरुवाच ॥
नमोस्तु वृंदारकवृंदवंद्य पादारविंदाय सुधाकराय ॥
षडाननायामितविक्रमाय गौरीहृदानंदसमुद्भवाय ॥१०॥
नमोस्तु तुभ्यं प्रणतार्तिहंत्रे कर्त्रे समस्तस्य मनोरथानाम् ॥
दात्रे रथानां परतारकस्य हंत्रे प्रचंडासुर तारकस्य ॥११॥
अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय ॥
अपारपाराय परापराय नमोस्तु तुभ्यं शिखिवाहनाय ॥१२॥
नमोस्तु ते ब्रह्मविदांवराय दिगंबरायांबर संस्थिताय ॥
हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥१३॥
तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय ॥
सदा कुमाराय हिमारमारिणे तणीकृतैश्वर्य विरागिणे नमः ॥१४॥
नमोस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदंतपंक्तये ॥
बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ॥१५॥
मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय ॥
नमोस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ॥१६॥
सर्वस्य नाथस्य कुमारकाय क्रौंचारये तारकमारकाय ॥
स्वाहेय गांगेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु ॥१७॥
इत्थं परिष्टुत्य स कार्तिकेयं नमो नमस्त्वित्यभिभाषमाणः ॥
द्विस्त्रिःपरिक्रम्य पुरो विवेश स्थितो मुनीशोपविशेति चोक्तः ॥१८॥
॥ कार्तिकेय उवाच ॥
क्षेमोस्ति कुंभज मुने त्रिदशैकसहायकृत् ॥
जाने त्वामिह संप्राप्तं तथा विंध्याचलोन्नतिम् ॥१९॥
अविमुक्ते महाक्षेत्रे क्षेमं त्र्यक्षेण रक्षिते ॥
यत्र क्षीणायुषां साक्षाद्विरूपाक्षोऽस्ति मोक्षदः ॥२०॥
भूर्भुवः स्वस्तले वापि न पातालतले मलम् ॥
नोर्ध्वलोके मया दृष्टं तादृक्क्षेत्रं क्वचिन्मुने ॥२१॥
अहमेकचरोप्यत्र तत्क्षेत्रप्राप्तये मुने ॥
तप्ये तपांसिनाद्यापि फलेयुर्मे मनोरथाः ॥२२॥
न तत्पुण्यैर्न तद्दानैर्न तपोभिर्न तज्जपैः ॥
न लभ्यं विविधैर्यज्ञैर्लभ्यमैशादनुग्रहात् ॥२३॥
ईश्वरानुग्रहादेव काशीवासः सुदुर्लभः ॥
सुलभः स्यान्मुने नूनं न वै सुकृतकोटिभिः ॥२४॥
अन्यैव काचित्सा सृष्टिर्विधातुर्याऽतिरेकिणी ॥
न तत्क्षेत्रगुणान्वक्तुमीश्वरोऽपीश्वरो यतः ॥२५॥
अहो मतेः सुदौर्बल्यमहोभाग्यस्य दौर्विधम् ॥
अहो मोहस्य माहात्म्यं यत्काशीह न सेव्यते ॥२६॥
शरीरं जीर्यते नित्यं संजीर्यंतींद्रियाण्यपि ॥
आयुर्मृगो मृगयुना कृतलक्ष्यो हि मृत्युना ॥२७॥
सापदं संपदं ज्ञात्वा सापायं कायमुच्चकैः ॥
चपला चपलं चायुर्मत्वा काशीं समाश्रयेत् ॥२८॥
यावन्नैत्यायुषश्चांतस्तावत्काशी न मुच्यते ॥
कालः कलालवस्यापि संख्यातुं नैव विस्मरेत् ॥२९॥
जरानिकटनिक्षिप्ता बाधंते व्याधयो भृशम् ॥
तथापि देहो नानेहो नाहो काशीं समीहते ॥३०॥
तीर्थस्नानेन जप्येन परोपकरणोक्तिभिः ॥
विनार्थं लभ्यते धर्मो धर्मादर्थः स्वयं भवेत् ॥३१॥
विनैवार्थार्जनोपायं धर्मादर्थो भवेद्ध्रुवम् ॥
अतोऽर्थचिंतामुत्सृज्य धर्ममेकं समाश्रयेत् ॥३२॥
धर्मादर्थोऽर्थतः कामः कामात्सर्वसुखोदयः ॥
स्वर्गोपि सुलभो धर्मात्काश्ये का दुर्लभा परम् ॥३३॥
उपायत्रयमेवात्र स्थाणुर्निर्वाणकारणम्॥
शर्वाण्यग्रेव भाणाद्धा परिनिर्णीय सर्वतः ॥३४॥
पूर्वं पाशुपतो योगस्ततस्तीर्थं सितासितम् ॥
ततोप्येकमनायासमविमुक्तं विमुक्तिदम् ॥३५॥
श्रीशैल हिमशैलाद्या नानान्यायतनानि च ॥
त्रिदंडधारणंचापि संन्यासः सर्वकर्मणाम् ॥३६॥
तपांसि नानारूपाणि व्रतानि नियमा यमाः ॥
सिंधूनामपि संभेदा अरण्यानि बहून्यपि ॥३७॥
मानसान्यपि भौमानि धारातीर्थादिकानि च ॥
ऊषराश्चापि पीठानि ह्यच्छिन्नाम्नायपाठनम् ॥३८॥
जपश्चापि मनूनां च तथाऽग्निहवनानि च ॥
दानानि नानाक्रतवो देवतोपासनानि च ॥३९॥
त्रिरात्रं पंचरात्राणि सांख्ययोगादयस्तथा ॥
विष्णोराराधनं श्रेष्ठं मुक्तयेऽभिहितं किल ॥४०॥
पुर्यश्चापि समाख्यातानृतजंतु विमुक्तिदा ॥
कैवल्यसाधनानीह भवंत्येव विनिश्चितम् ॥४१॥
एतानि यानि प्रोक्तानि काशीप्राप्तिकराणि च ॥
प्राप्य काशीं भवेन्मुक्तो जंतुर्नान्यत्रकुत्रचित् ॥४२॥
अतएव हि तत्क्षेत्रं पवित्रमतिचित्रकृत् ॥
विश्वेशितुः प्रियनित्यं विष्वग्ब्रह्माण्डमंडले ॥४३॥
इदमेव हि तत्क्षेत्रं कुशलप्रश्नकारणम् ॥
एह्येहि देहि मे स्पर्शं निजगात्रस्य सुव्रत ॥४४॥
अपि काश्याः समागच्छत्स्पर्शवत्स्पर्श इष्यते ॥
मयात्र तिष्ठता नित्यं किंतु त्वं तत आगतः ॥४५८॥
त्रिरात्रमपिये काश्यां वसंति नियतेंद्रियाः ॥
तेषां पुनंति नियतं स्पृष्टाश्चरणरेणवः ॥४६॥
त्वं तु तत्र कृतावासः कृतपुण्यमहोच्चयः ॥
उत्तरप्रवहा स्नान जातपिंगलमूर्धजः ॥४७॥
तव तत्र तु यत्कुंडमगस्तीश्वरसन्निधौ ॥
तत्र स्नात्वा च पीत्वा च कृतसर्वोदकक्रियः ॥४८॥
पितॄन्पिंडैः समभ्यर्च्य श्रद्धाश्राद्धविधानतः ॥
कृत्यकृत्यो भवेज्जंतुर्वाराणस्याः फलं लभेत् ॥४९॥
इत्युक्त्वा सर्वगात्राणि स्पष्ट्वा कुंभोद्भवस्य च ॥
स्कंदोऽमृतसरोवारि विगाह्य सुखमाप्तवान् ॥५०॥
जय विश्वेश नेत्राणि विनिमील्य वदन्नपि ॥
ततः किंचित्क्षणं दध्यौ गुहः स्थाणुसुनिश्चलः ॥५१॥
स्कंदे विसर्जितध्याने सुप्रसन्नमनोमुखे ॥
प्रतीक्ष्य वागवसरं पप्रच्छाथ मुनिर्गुहम् ॥५२॥
॥ अगस्तिरुवाच ॥
स्वामिन्यथा भगवता भगवत्यै पुराऽकथि ॥
वाराणस्यास्तु महिमा हिमशैलभुवे मुदा ॥५३॥
त्वया यथा समाकर्णि तदुत्संगनिवासिना ॥
तथा कथय षड्वक्त्र तत्क्षेत्रं मेऽतिरोचते ॥५४॥
॥ स्कंद उवाच ॥
शृणुष्व मैत्रावरुणे यथा भगवताऽकथि ॥
तत्क्षेत्रस्याविमुक्तस्य मम मातुः पुरः पुरा ॥५५॥
श्रुतं च यत्तदुत्संगे स्थितेन स्थिरचेतसा ॥
माहात्म्यं तच्छृणु मुने कथ्यमानं मयाऽनघ ॥५६॥
गुह्यानां परमं गुह्यमविमुक्तमिहेरितम् ॥
तत्र संनिहिता सिद्धिस्तत्र नित्यं स्थितो विभुः ॥५७॥
भूर्लोके नैव संलग्नं तत्क्षेत्रं त्वंतरिक्षगम् ॥
अयोगिनो न वीक्षंते पश्यंत्येव च योगिनः ॥५८॥
यस्तत्र निवसेद्विप्र संयतात्मा समाहितः ॥
त्रिकालमपि भुंजानो वायुभक्षसमो भवेत् ॥५९॥
निमेषमात्रमपि यो ह्यविमुक्तेऽतिभक्तिभाक् ॥
ब्रह्मचर्यसमायुक्तं तेन तप्तं महत्तपः ॥६०॥
यस्तु मासं वसेद्धीरो लघ्वाहारो जितेंद्रियः ॥
सर्वं तेन व्रतं चीर्णं दिव्यं पाशुपतं भवेत् ॥६१॥
संवत्सरं वसंस्तत्र जितक्रोधो जितेंद्रियः ॥
अपरस्वविपुष्टांगः परान्नपरिवर्जकः ॥६२॥
परापवादरहितः किंचिद्दानपरायणः ॥
समाः सहस्रमन्यत्र तेन तप्तं महत्तपः ॥६३॥
यावज्जीवं वसेद्यस्तु क्षेत्रमाहात्म्यविन्नरः ॥
जन्ममृत्यु भयं हित्वा स याति परमां गतिम् ॥६४॥
न योगैर्या गतिर्लभ्या जन्मांतरशतैरपि ॥
अन्यत्रहेलया साऽत्र लभ्येशस्य प्रसादतः ॥६५॥
ब्रह्महा योऽभिगच्छेद्वै दैवाद्वाराणसीं पुरीम् ॥
तस्य क्षेत्रस्य माहात्म्याद्ब्रह्महत्या निवर्तते ॥६६॥
आदेहपतनं यावद्योविमुक्तं न मुंचति ॥
न केवलं ब्रह्महत्या प्रकृतिश्च निवर्तते ॥६७॥
अनन्यमानसो भूत्वा तत्क्षेत्रं यो न मुंचति ॥
स मुंचति जरामृत्युं गर्भवासं सुदुःसहम् ॥६८॥
अविमुक्तं निषेवेत देवर्षिगणसेवितम् ॥
यदीच्छेन्मानवो धीमान्न पुनर्जननं भुवि ॥६९॥
अविमुक्तं न मुंचेत संसारभयमोचनम् ॥
प्राप्य विश्वेश्वरं देवं न स भूयोऽभिजायते ॥७०॥
कृत्वा पापसह्स्राणि पिशाचत्वं वरंत्विह ॥
न तु क्रतुशतप्राप्यः स्वर्गः काशीपुरीं विना ॥७१॥
अंतकाले मनुष्याणां भिद्यमानेषु मर्मसु ॥
वातेनातुद्यमानानां स्मृतिर्नैवोपजायते ॥७२॥
तत्रोत्क्रमणकाले तु साक्षाद्विश्वेश्वरः स्वयम् ॥
व्याचष्टे तारकं ब्रह्म येनासौ तन्मयो भवेत् ॥७३॥
अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्बिषम् ॥
अविमुक्तं निषेवेत संसारभयनाशनम् ॥७४ ।
विघ्रैरालोड्यमानोपि योऽविमुक्तं न मुंचति ॥
नैःश्रेयसी श्रियं प्राप्य दुःखांतं सोधिगच्छति ॥७५॥
महापापौघशमनीं पुण्योपचयकारिणीम् ॥
भुक्तिमुक्तिप्रदामंते को न काशीं सुधीः श्रयेत् ॥७६॥
एवं ज्ञात्वा तु मेधावी नाविमुक्तं त्यजेन्नरः ॥
अविमुक्तप्रसादेन विमुक्तो जायते यतः ॥७७॥
अविमुक्तस्य माहात्म्यं षड्भिर्वक्त्रैः कथं मया ॥
वक्तुं शक्यं न शक्नोति सहस्रास्योपि यत्परम् ॥७८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे स्कंदागस्त्यदर्शनं नाम पंचविशतितमोऽध्यायः ॥२५॥
N/A
References : N/A
Last Updated : November 25, 2024
TOP