काशीखण्डः - अध्याय १७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ शिवशर्मोवाच ॥
शुक्रसंबंधिनी देवौ कथा श्रावि मया शुभा ॥
यस्याः श्रवणमात्रेण प्रीणिते श्रवणे मम ॥१॥
कस्य पुण्यनिधेर्लोकः शोकहृत्त्वेष निर्मलः ॥
एतदाख्यातुमुद्युक्तौ भवंतौ भवतां मम ॥२॥
धयित्वा श्रोत्रपात्राभ्यां वाणीममृतरूपिणीम् ॥
न तृप्तिमधिगच्छामि भवन्मुखसुखोद्गताम् ॥३॥
॥ गणावूचतुः ॥
लोहितांगस्य लोकोयं शिवशर्मन्निबोध ह ॥
उत्पत्तिं चास्य वक्ष्यावो भूसुतोयं यथाभवत् ॥४॥
पुरा तपस्यतः शंभोर्दाक्षायण्या वियोगतः ॥
भालस्थलात्पपातैकः स्वेदबिंदुर्महीतले ॥५॥
ततः कुमारः संजज्ञे लोहितांगो महीतलात् ॥
स्नेहसंवर्धितः सोथ धात्र्या धात्रीस्वरूपया ॥६॥
माहेय इत्यतः ख्यातिं परामेष गतः सदा ॥
ततस्तेपे तपोत्युग्रमुग्रपुर्यां पुरानघ ॥७॥
असिश्च वरणा चापि सरितौ यत्र शोभने ॥
द्युनद्योत्तरवाहिन्या मिलितेऽत्र जगद्धिते ॥८॥
सर्वगोपि हि विश्वेशो यत्र नित्यं प्रकाशते ॥
मुक्तये सर्वजंतूनां कालोज्ज्ञित स्ववर्ष्मणाम् ॥९॥
अमृतं हि भवंत्येव मृता यत्र शरीरिणः ॥
अनुग्रहं समासाद्य परं विश्वेश्वरस्य ह ॥१०॥
अपुनर्भवदेहास्ते येऽविमुक्रेतनुत्यजः ॥
विना सांख्येन योगेन विना नानाव्रतादिभिः ॥११॥
संस्थाप्य लिंगं विधिना स्वनाम्नांगारकेश्वरम् ॥
पांचमुद्रे महास्थाने कंबलाश्वतरोत्तरे ॥१२॥
ज्वलदंगारवत्तेजो यावत्तस्यशरीरतः ॥
विनिर्ययौ तपस्तावत्तेन तप्तं महात्मना ॥१३॥
ततोंगारक नाम्ना स सर्वलोकेषु गीयते ॥
तस्य तुष्टो महादेवो ददौ ग्रहपदं महत् ॥१४॥
अंगारक चतुर्थ्यां ये स्नात्वोत्तरवहांभसि ॥
अभ्यर्च्यांगारकेशानं नमस्यंति नरोत्तमाः ॥१५॥
न तेषां ग्रहपीडा च कदाचित्क्वापि जायते ॥
अंगांरकेन संयुक्ता चतुर्थी लभ्यते यदि ॥१६॥
उपरागसमं पर्व तदुक्तं कालवेदिभिः ॥
तस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥१७॥
श्रद्धया श्राद्धदा ये वै चतुर्थ्यंगारयोगतः ॥
तेषां पितॄणां भविता तृप्तिर्द्वादशवार्षिकी ॥१८॥
अंगारकचतुर्थ्यां तु पुरा जज्ञे गणेश्वरः ॥
अतएव तु तत्पर्व प्रोक्तं पुण्यसमृद्धये ॥१९॥
एकभक्तव्रती तत्र संपूज्य गणनायकम्॥
किंचिद्दत्त्वा तमुद्दिश्य न विघ्नैरभिभूयते ॥२०॥
अंगारेश्वर भक्ता ये वाराणस्यां नरोत्तमाः ॥
तेऽस्मिन्नंगारके लोके वसंति परमर्द्धयः ॥२१॥
अगस्त्य उवाच ॥
इत्थं कथयतोरेव रम्यां पुण्यवतीं कथाम् ॥
भगवद्गणयोः प्राप नेत्रातिथ्यं गुरोः पुरी ॥२२॥
नेत्रानंदकरीं दृष्ट्वा शिवशर्माऽथ तां पुरीम् ॥
पप्रच्छाचार्यवर्यस्य कस्येयं पूरनुत्तमा ॥२३॥
॥ गणावूचतुः ॥
सखे सुखं समाख्यावो नानाख्येयं तवाग्रतः ॥
अध्वखेदापनोदाय पुनरस्याः पुरः कथाम् ॥२४॥
विधेर्विधित्सतः पूर्वं त्रिलोकीरचनां मुदा ॥
आविरासुः सुताः सप्त मानसाः स्वस्यसंनिभाः ॥२५॥
मरीच्यत्र्यंगिरो मुख्याः सर्वे सृष्टिप्रवर्तकाः ॥
प्रजापतेरंगिरसस्तेष्वभूद्देवसत्तमः ॥२६॥
सुतश्चांगिरसो नाम बुद्ध्या विबुधसत्तमः ॥
शांतो दांतो जितक्रोधो मृदुवाङ्निर्मलाशयः ॥२७॥
वेदवेदार्थतत्त्वज्ञः कलासु कुशलोऽमलः ॥
पारदृश्वा तु सर्वेषां शास्त्राणां नीतिवित्तमः ॥२८॥
हितोपदेष्टा हितकृदहितात्यहितः सदा ॥
रूपवाञ्छीलसंपन्नो गुणवान्देशकालवित् ॥२९॥
सर्वलक्षणसंभार संभृतो गुरुवत्सलः ॥
तताप तापसीं वृत्तिं काश्यां स महतीं दधत ॥३०॥
महल्लिंगं प्रतिष्ठाप्य शांभवं भूरिभावनः ॥
अयुतं शरदां दिव्यं दिव्यतेजा महातपाः ॥३१॥
ततः प्रसन्नो भगवान्विश्वेशो विश्वभावनः ॥
आविर्भूय ततो लिंगान्महसां राशिरब्रवीत् ॥३२॥
प्रसन्नोस्मि वरं ब्रूहि यत्ते मनसि वर्तते ॥
इति शंभुं समालोक्य तुष्टावेति स हृष्टवान् ॥३३॥
॥ आंगिरस उवाच ॥
जय शंकर शांत शशांकरुचे रुचिरार्थद सर्वद सर्वशुचे ॥
शुचिदत्त गृहीत महोपहृते हृतभक्तजनोद्धततापतते ॥३४॥
ततसर्वहृदंबर वरदनते नतवृजिनमहावन दाहकृते ॥
कृतविविधचरित्रतनोसुतनो तनुविशिखविशोषणधैर्यनिधे ॥३५॥
निधनादि विवर्जितकृतनतिकृत्कृतिविहितमनोरथपन्नगभृत् ॥
नगभर्तृसुतार्पितवामवपुः स्ववपुःपरिपूरितसर्वजगत् ॥३६॥
त्रिजगन्मयरूपविरूपसुदृग्दृगुदंचनकुंचन कृतहुतभुक् ॥
भवभूतपतेप्रमथैकपते पतितेष्वपिदत्तकरप्रसृते ॥३७॥
प्रसूताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर ॥
वरराजकुमारिकया परया परितः परितुष्ट नतोस्मि शिव ॥३८॥
शिवदेव गिरीश महेश विभो विभवप्रद गिरिश शिवेशमृड ॥
मृडयोडुपतिध्र जगत्त्रितयं कृतयंत्रणभक्तिविघातकृताम् ॥३९॥
न कृतांत त एष बिभेभि हरप्रहराशु महाघममोघमते ॥
नमतांतरमन्यदवैनि शिवं शिवपादनतेः प्रणतोस्मि ततः ॥४०॥
विततेऽत्र जगत्यखिलेऽघहरं हर तोषणमेव परं गुणवन् ॥
गुणहीनमहीन महावलयं प्रलयांतकमीश नतोस्मि ततः ॥४१॥
इति स्तुत्वा महादेवं विररामांगिरः सुतः ॥
व्यतरच्च महेशानः स्तुत्या तुष्टो वरान्बहून् ॥४२॥
॥ श्रीमहादेव उवाच ॥
बृहता तपसानेन बृहतां पतिरेध्यहो ॥
नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्योभव द्विज ॥४३॥
अस्माल्लिंगार्चनान्नित्यं जीवभूतोसि मे यतः ॥
अतो जीव इति ख्यातिं त्रिषु लोकेषु यास्यसि ॥४४॥
वाचां प्रपंचैश्चतुरैर्निष्प्रपंचो यतः स्तुतः ॥
अतो वाचां प्रपंचस्य पतिर्वाचस्पतिर्भव ॥४५॥
अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम् ॥
तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षैस्त्रिकालतः ॥४६॥
समुत्पन्ने महाकार्ये न स बुद्ध्या प्रहीयते ॥
यः पठिष्यत्यदः स्तोत्रं वायव्याख्यं दिनेदिने ॥४७॥
अस्यस्तोत्रस्य पठनान्नियतं मम संनिधौ ॥
न दुर्वृत्तौ प्रवृत्तिः स्यादविवेकवतां नृणाम् ॥४८॥
अदः स्तोत्रं पठञ्जंतुर्जातुपीडां ग्रहोद्भवाम् ॥
न प्राप्स्यति ततो जप्यमिदं स्तोत्रं ममाग्रतः ॥४९॥
नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः ॥
इमां स्तुतिं हरिष्येऽहं तस्य बाधाः सुदारुणाः ॥५०॥
त्वत्प्रतिष्ठितलिंगस्य पूजां कृत्वा प्रयत्नतः ॥
इमां स्तुतिमधीयानो मनोवांछामवाप्स्यति ॥५१॥
इति दत्त्वा वराञ्छंभुः पुनर्ब्रह्माणमाह्वयत् ॥
सेंद्रान्देवगणान्सर्वान्सयक्षोरगकिन्नरान् ॥५२॥
तानागतान्समालोक्य शिवो व्रह्माणमब्रवीत् ॥
विधेविधेहि मद्वाक्यादमुं वाचस्पतिं मुनिम् ॥५३॥
गुरुं सर्वसुरेंद्राणां परितः स्वगुणैर्गुरुम् ॥
अभिषिंच विधानेन देवाचार्य पदे मुदे ॥५४॥
अतीव धिषणाधीशो ममप्रीतोभविष्यति ॥
महाप्रसाद इत्याज्ञां शिरस्याधाय तत्क्षणात् ॥५५॥
सुरज्येष्ठः सुराचार्यं चकारांगिरसं तदा ॥
देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥५६॥
गुरुपूजां व्यधुः सर्वे गीर्वाणा मुदिताननाः ॥
अभिषिक्तो वसिष्ठाद्यैर्मंत्रपूतेन वारिणा ॥५७॥
पुनरन्यं वरं प्रादाद्गिरीशः पतये गिराम् ॥
शृण्वांगिरस धर्मात्मन् देवेज्यकुलनंदन ॥५८॥
भवतास्थापितं लिंगं सुबुद्धिपरिवर्धनम् ॥
बृहस्पतीश्वर इति ख्यातं काश्यां भविष्यति ॥५९॥
गुरुपुष्यसमायोगे लिंगमेतत्समर्च्य च ॥
यत्करिष्यंति मनुजास्तत्सिद्धिमधियास्यति ॥६०॥
बृहस्पतीश्वरं लिंगं मया गोप्यं कलौ युगे ॥
अस्य संदर्शनादेव प्रतिभा प्रतिलभ्यते ॥६१॥
चंद्रेश्वराद्दक्षिणतो वीरेशान्नैर्ऋते स्थितम् ॥
आराध्य धिषणेशं वै गुरुलोके महीयते ॥६२॥
गुर्वंगना गमनजं पापं षण्मास सेवनात् ॥
अवश्यं विलयं याति तमः सूर्योदयाद्यथा ॥६३॥
अतएव हि गोप्तव्यं महापातकनाशनम् ॥
बृहस्पतीश्वरं लिंगं नाख्येयं यस्यकस्यचित् ॥६४॥
इति दत्त्वा वरान्देवस्तत्रैवांतर्हितो भवत् ॥
द्रुहिणो गुरुणा सार्धं सेंद्रोपेंद्रो बृहस्पतिम् ॥६५॥
अस्मिन्पुरेभिषिच्याथ विसृज्येंद्रादिकान्सुरान् ॥
अलंचकार स्वं लोकं विष्णुनाऽनुमतो द्विज ॥६६॥
॥ अगस्त्य उवाच ॥
अतिक्रम्य गुरोर्लोकं लोपामुद्रे ददर्श सः ॥
शिवशर्मा पुरी सौरेः प्रभामंडल मंडिताम् ॥६७॥
पृष्टौ तेन च तौ तत्र तां पुरीं प्रददर्शतुः ॥
द्विजेन द्विजवर्याय गणवर्यौ शुचिस्मिते ॥६८॥
गणावूचतुः ॥
मारीचेः कश्यपाज्जज्ञे दाक्षायण्यां द्विजोष्णगुः ॥
तस्यभार्याभवत्संज्ञा पुत्री त्वष्टुः प्रजापतेः ॥६९॥
भर्तुरिष्टा ततस्तस्माद्रूपयौवनशालिनी ॥
संज्ञा बभूव तपसा सुदीप्तेन समन्विता ॥७०॥
आदित्यस्य हि तद्रूपं मंडलस्य तु तेजसा ॥
गात्रेषु परिदध्यौ वै नातिकांतमिवाभवत् ॥७१॥
न खल्वयमृतोंऽडस्थ इति स्नेहादभाषत ॥
तदा प्रभृति लोकेयं मार्तंड इति चोच्यते ॥७२॥
तेजस्त्वभ्यधिकं तस्य साऽसहिष्णुर्विवस्वतः ॥
येनातितापयामास त्रैलोक्यं तिग्मरश्मिभृत् ॥७३॥
त्रीण्यपत्यानि भो ब्रह्मन्संज्ञायां महसां निधिः ॥
आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥७४॥
वैवस्वतं मनुं ज्येष्ठं यमं च यमुनां ततः ॥
नातितेजोमयं रूपं सोढुं साऽलं विवस्वतः ॥७५॥
मायामयीं ततश्छायां सवर्णां निर्ममे स्वतः ॥
प्रांजलिः प्रणता भूत्वा संज्ञां छाया तदाब्रवीत् ॥७६॥
तवाज्ञाकारिणीं देवि शाधि मां करवाणि किम् ॥
संज्ञोवाच ततश्छायां सवर्णे शृणु सुंदरि ॥७७॥
अहं यास्यामि सदनं त्वष्टुस्त्वं पुनरत्र मे ॥
भवने वस कल्याणि निर्विशंकं ममाज्ञया ॥७८॥
मनुरेष यमावेतौ यमुना यम संज्ञकौ ॥
स्वापत्यदृष्ट्या द्रष्टव्यमेतद्बालत्रयं त्वया ॥७९॥
अनाख्येयमिदं वृत्तं त्वया पत्यौ शुचिस्मिते ॥
इत्याकर्ण्याथ सा त्वाष्ट्रीं देवीं छाया जगाद ह ॥८०॥
आकचग्रहणान्नाहमाशापाच्च कदाचन ॥
आख्यास्यामि चरित्रं ते याहि देवि यथासुखम् ॥८१॥
इत्यादिश्य सवर्णां सा तथेत्युक्ता सवर्णया ॥
पितुरंतिकमासाद्य नत्वा त्वष्टारमब्रवीत् ॥८२॥
पितः सोढुं न शक्नोमि तेजस्तेजोनिधेरहम् ॥
तीव्रं तस्यार्यपुत्रस्य काश्यपस्य महात्मनः ॥८३॥
निशम्योदीरितं तस्याः पित्रानिर्भर्त्सिता बहु ॥
भर्तुः समीपं याहीति नियुक्ता सा पुनःपुनः ॥८४॥
चिंतामवाप महतीं स्त्रीणां धिक्चेष्टितं त्विति ॥
निनिंद बहुधात्मानं स्त्रीत्वं चाति निनिंद सा ॥८५॥
स्वातंत्र्यं न क्वचित्स्त्रीणां धिगस्वातंत्र्यजीवितम् ॥
शैशवे यौवने प्रांते पितृभर्तृसुताद्भयम् ॥८६॥
त्यक्तं भर्तृगृहं मौग्ध्याद्धंत दुवृर्त्तया मया ॥
अविज्ञातापि चेद्यायामथ पत्युर्निकेतनम् ॥८७॥
तत्रास्ति सा सवर्णा वै परिपूर्णमनोरथा ॥
अथावतिष्ठे सात्रैव पित्रा निर्भर्त्सिताप्यहम् ॥८८॥
ततोति चंडश्चंडाशुः पित्रोरतिभयंकरः ॥
अहो यदुच्यते लोकैरुपाख्यानमिदं हि तत् ॥८९॥
स्फुटं दृष्टं मयाद्येति स्वकरांगारकर्ष(र्प?)णम् ॥
नष्टं भर्तृगृहं मौग्ध्याच्छ्रेयो वा न पितुर्गृहम् ॥९०॥
वयश्च प्रथमं चारु रूपं त्रैलोक्यकांक्षितम् ॥
सर्वाभिभवनं स्त्रीत्वं कुलं चातीव निर्मलम् ॥९१॥
पतिश्च तादृक्सर्वज्ञो लोकचक्षुस्तमोपहः ॥
सर्वेषां कर्मणां साक्षी सर्वः सर्वत्रसंचरः ॥९२॥
मह्यं श्रेयः कथं वा स्यादिति सा परिचिंत्य च ॥
अगच्छद्वडवा भूत्वा तपसे पर्यनिंदिता ॥९३॥
उत्तरांश्च कुरून्प्राप चरंती नीरसंतृणम् ॥
व्युत्तेपे च तपस्तीव्रं पतिमाधाय चेतसि ॥
तपोबलेन तत्पत्युः सहिष्ये तेज इत्यलम् ॥९४॥
मन्यमानोथ तां संज्ञां सवर्णायां तदा रविः ॥
सावर्णिं जनयामास मनुमष्टममुत्तमम् ॥९५॥
शनैश्चरं द्वितीयं च सुतां भद्रां तृतीयिकाम् ॥
सवर्णा स्वेष्वपत्येषु सापत्न्यात्स्त्रीस्वभावतः ॥९६॥
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेष्वथ ॥
मनुस्तत्क्षांतवाञ्ज्येष्ठो भक्ष्यालंकारलालने ॥९७॥
कनिष्ठेष्वधिकं दृष्ट्वा सावर्ण्यादिषु नो यमः ॥
कदाचिद्रोषतो बाल्याद्भाविनोर्थस्य गौरवात् ॥९८॥
पदा संतर्जयामास यमः संज्ञासरूपिणीम् ॥
तं शशाप च सा क्रोधात्सावर्णेर्जननी तदा ॥९९॥
जिघांसता त्वया पाप मां यदंघ्रिः समुद्यतः॥
अचिरात्तत्पतत्वेष तवेति भृशदुःखिता ॥१००॥
मातृशाप परित्रस्तो यमोपि पितुरग्रतः ॥
शशंस सर्वं तद्वृत्तं रक्षरक्षेत्युवाच च ॥१॥
मात्रासु तेषु सर्वेषु वर्तनीयं समं यतः ॥
तस्यां मयोद्यतः पादो न देहे परिपातितः ॥२॥
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षंतुमर्हसि ॥
गोपते शापतो मातुर्मा पतत्वंघ्रिरेष मे ॥३॥
॥ विवस्वानुवाच ॥
अपराधसहस्रेपि जननी न शपेत्सुतम् ॥
तस्मात्किमपि भो बाल भविष्यत्यत्र कारणम् ॥४॥
येन त्वां साऽशपत्क्रोधाद्धर्मज्ञं सत्यवादिनम् ॥
मातृशापोन्यथाकर्तुं न शक्यः केनचित्क्वचित् ॥५॥
कृमयो मांसमादाय यास्यंत्यस्मान्महीतलम् ॥
इत्थं तु चरितार्थः स्याच्छापस्त्रातो भवानपि ॥६॥
इति पुत्रं समाश्वास्य रविरंतःपुरं ययौ ॥
चिरमालोक्य तां भार्यामुवाच सविता वचः ॥७॥
अयि भामिनि बालेषु समेष्वपि कुतस्त्वया ॥
विधीयतेऽधिकः स्नेहः सावर्ण्यादिष्वनादिषु ॥८॥
नाचचक्षे यदासाऽथ भास्वते परिपृच्छते ॥
तदात्मानं समाधाय सोज्ञासीत्सर्वमेव हि ॥९॥
ततो भगवते शप्तुमुद्यते सा शशंस ह ॥
यथावृत्तं तथा तथ्यं तुतोष भगवानपि ॥११०॥
तथ्यभाषणतस्तां तु रविर्ज्ञात्वा निरागसम् ॥
न शशाप च संक्रुद्धो ययौ च त्वष्टुरंतिकम् ॥११॥
त्वष्टापि च यथान्यायं सान्वयं तिग्मतेजसम्॥
निर्दग्धुकामं कोपेन प्रागानर्च मुदा तदा ॥
विज्ञाय तदभिप्रायं त्वष्टोवाचाऽशु तं रविम् ॥१२॥
त्वष्टोवाच ॥
तवातितेजसो भीता प्राप्योत्तरकुरून् रवे ॥
वडवारूपमास्थाय वने चरति शाद्वले॥ १३॥
द्रष्टा हि तां भवानद्य स्वां भार्यामार्यचारिणीम् ॥
अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥१४॥
त्वष्ट्रा यत्तक्षितः सूर्यस्तस्यैवानुमतेन च ॥
भ्रमिमारोप्य यत्नेन सोतिकांततरोऽभवत् ॥१५॥
लब्धानुज्ञोऽथ सविता गत्वोत्तरकुरूनरम् ॥
साक्षात्तपोमयीं लक्ष्मीं चरंतीं च तपो महत् ॥१६॥
ददर्श वडवारूपां वाडवानलतेजसम् ॥
नीरसा नितृणान्येव वृण्वंतीं योगमायया ॥१७॥
अनेनसं स विज्ञाय तां त्वाष्ट्रीमश्वरूपिणीम् ॥
सहरिर्हरिरूपेण मुखेन समभावयद् ॥१८॥
त्वरमाणा च परितः परपूरुषशंकया ॥
सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ॥१९॥
देवौ तस्मादजायेतामश्विनौ भिषजांवरौ ॥
स्वरूपमनुरूपं च द्युमणिस्तामदर्शयत ॥१२०॥
तुतोष सापि तं दृष्ट्वा मित्रं नेत्रमुदावहम् ॥
पतिं पतिव्रता कां तं स्वांतसंतापहारिणम् ॥२१॥
निर्वृत्तिं च परां प्राप दुष्प्रापं तपसाथ किम् ॥
तप एव परं श्रेयस्तप एव परं धनम् ॥२२॥
तप एव हि देवत्वे कारणं परमं मतम् ॥
शिवशर्मन्यदेतद्वै दृश्यते चातिदीप्तिमत् ॥२३॥
ज्योतिश्चक्रस्वरूपं च व्योम्न्युपर्यध एव च ॥
तत्सर्वमिह जानीहि सुमहत्तापसं महः ॥२४॥
एवं शनैश्चरो जज्ञे सवर्णायां विवस्वतः ॥
सोऽथ वाराणसीं गत्वा सर्वत्रिदशवंदिताम् ॥२५॥
तप्त्वा तपोऽतिविपुलं लिंगं संस्थाप्य शांकरम् ॥
इमं लोकमवापोच्चैर्ग्रहत्वं च हरार्चनात ॥२६॥
शनैश्चरेश्वरं दृष्ट्वा वाराणस्यां सुशोभनम् ॥
शनिबाधा न जायेत शनिवारे तदर्चनात् ॥२७॥
विश्वेशाद्दक्षिणेभागे शुक्रेशादुत्तरेण हि ॥
शनैश्चरेशमभ्यर्च्य लोकेऽत्र परिमोदते ॥२८॥
श्रुत्वाऽध्यायमिमं पुण्यं ग्रहपीडा न जायते ॥
नोपसर्गभयं तस्य काश्यां निवसतः सतः ॥१२९॥
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे भौमगुरुशनिलोकवर्णनं नाम सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : November 24, 2024
TOP