संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय १२

काशीखण्डः - अध्याय १२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


शिवशर्मोवाच ॥
नैर्ऋतादीन् क्रमाल्लोकानाख्यातं पुरुषोत्तमौ ॥
पुरुषोत्तमपादाब्जपरागोद्धूसरालकौ ॥१॥
गणावूचतुः ॥
आकर्णय महाभाग संयमिन्याः पुरीं पराम् ॥
दिक्पतेर्निर्ऋतस्यासौ पुण्यापुण्यजनोषिता ॥२॥
राक्षसानिवसंत्यस्यामपरद्रोहिणः सदा ॥
जातिमात्रेण रक्षांसि वृत्तैः पुण्यजना इमे ॥३॥
स्मृत्युक्तश्रुतिवर्त्मानो जातवर्णावरेष्वपि ॥
नाद्रियंतेऽन्नपानानामस्मृत्युक्तं कदाचन ॥४॥
परदार परद्रव्य परद्रोहपराङ्मुखाः ॥
जाताजातौ निकृष्टायामपिपुण्यानुसारिणः ॥५॥
द्विजातिभक्त्युत्पन्नार्थैरात्मानं पोषयंति ये ॥
सदा संकुचितांगाश्च द्विजसंभाषणादिषु ॥६॥
आहूता वस्त्रवदना वदंति द्विजसंनिधौ ॥
जयजीवभगोनाथ स्वामिन्निति हि वादिनः ॥७॥
तीर्थस्नानपरानित्यं नित्यं देवपरायणाः ॥
द्विजेषु नित्यं प्रणताः स्वनामाख्यानपूर्वकम् ॥८॥
दम दान दया क्षांति शौचेंद्रिय विनिग्रहाः ॥
अस्तेय सत्याहिंसाश्च सर्वेषां धर्महेतवः ॥९॥
आवश्येषु सदोद्युक्ता ये जाता यत्रकुत्रचित् ॥
सर्वभोगसमृद्धास्ते वसंत्यत्र पुरोत्तमे ॥१०॥
म्लेच्छा अपि सुतीर्थेषु ये मृतानात्मघातकाः ॥
विहाय काशीं निर्वाण विश्राणांतेऽत्र भोगिनः ॥११॥
अंधं तमो विशेयुस्ते ये चैवात्महनो जनाः ॥
भुक्त्वा निरयसाहस्रं ते च स्युर्ग्रामसूकराः ॥१२॥
आत्मघातो न कर्तव्यस्तस्मात्क्वापि विपश्चिता ॥
इहापि च परत्रापि न शुभान्यात्मघातिनाम् ॥१३॥
यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः ॥
प्रयागे सर्वतीर्थानां राज्ञिसर्वाभिलाषदे ॥१४॥
अंत्यजा अपि ये केचिद्दयाधर्मानुसारिणः ॥
परोपकृतिनिष्ठास्ते वसंत्यत्र तु सत्तमाः ॥१५॥
अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतः शृणु ॥
मध्ये विंध्याटवि पुरा पक्कणस्थजनाग्रणीः ॥१५॥
पल्लीपतिरभूदुग्रः पिंगाक्ष इति विश्रुतः ॥
निर्विंध्यायास्तटे शूरः क्रूरकर्मपराङ्मुखः ॥१७॥
घातयेद्दूरसंस्थोपि यः पांथपरिपंथिनः ॥
व्याघ्रादीन् दुष्टसत्त्वांश्च स हिनस्ति प्रयत्नतः ॥१८॥
जीवेन्मृगयु धर्मेण तत्रापि करुणापरः ॥
न विश्वस्तान्पक्षिमृगान्न सुप्तान्न व्यवायिनः ॥१९॥
न तोयगृध्नून्न शिशून्नांतर्वर्त्नित्वलक्षणान् ॥
स घातयति धर्मज्ञो जातिधर्मपराङ्मुखः ॥२०॥
श्रमातुरेभ्यः पांथेभ्यः स विश्रामं प्रयच्छति ॥
हरेत्क्षुधा क्षुधार्तानामुपानद्दोऽनुपानहे ॥२१॥
मृगत्त्वचोतिमृदुला विवस्त्रेभ्यातिसर्जति ॥
अनुव्रजति कांतारे प्रांतरे पथिकान्पथि ॥२२॥
न जिघृक्षति तेभ्योर्थमभयं चेति यच्छति ॥
आविंध्याटवि मे नाम ग्राह्यं दुष्टभयापहम् ॥२३॥
नित्यं कार्पटिकान्सर्वान् स पुत्रेण प्रपश्यति ॥
तेपि च प्रतितीर्थं हि तमाशीर्वादयं ति वै ॥२४॥
इति तिष्ठति पिंगाक्षे साटवी नगरायिता ॥
अध्वनीने ऽध्वगान्कोपि न रुणद्धि ससाध्वसः ॥२५॥
कदाचित्तत्पितृव्येण समीप ग्रामवासिना ॥
श्रुतः कार्पटिकानां हि सार्थः सार्थो महास्वनः ॥२०५॥
लुब्धकस्तद्धने लुब्धः क्षुद्रस्तन्निधनोद्यतः ॥
स रुरोध तमध्वानमग्रे गत्वाऽतिगूढवत् ॥२७॥
तदा युप्यस्यशेषेण पिंगाक्षो मृगयां गतः ॥
तस्मिन्नरण्ये तन्मार्गं निकषाध्युषितो निशि ॥२८॥
परप्राणद्रुहां पुंसां न सिद्ध्येयुर्मनोरथाः ॥
विश्वं कुशलितेनैतद्विश्वेशपरिरक्षितम् ॥२९॥
न चिंतयेदनिष्टानि तस्मात्कृष्टिः कदाचन ॥
विधिदृष्टं यतो भावि कलुषंभावि केवलम् ॥३०॥
तस्मादात्मसुखंप्रेप्सु रिष्टानिष्टं न चिंतयेत् ॥
चिंतयेच्चेत्तदाचिंत्यो मोक्षोपायो न चेतरः ॥३१॥
व्युष्टायामथयामिन्यामभूत्कोलाहलो महान् ॥
घातयध्वं पातयध्वं नग्नयध्वं द्रुतं भटाः ॥३२॥
मा मारयध्वं त्रायध्वं भटाः कार्पटिका वयम् ॥
अनायासं लुंठयध्वं नयध्वं च यदस्ति नः ॥३३॥
वयं पांथा अनाथाः स्मो विश्वनाथपरायणाः ॥
सनाथास्ते न दूरं सनाथतां पथिकोऽपरः ॥३४॥
वयं पिंगाक्षविश्वासादस्मिन्मार्गेऽकुतोभयाः ॥
यातायातं सदा कुर्मः स च दूर इतो वनात् ॥३५॥
इति श्रुत्वाऽथ पिंगाक्षो भटः कार्पटिकेरितम ॥
दूरान्मा भैष्ट माभैष्ट ब्रुवन्निति समागतः ॥३६॥
तत्कर्मसूत्रैराकृष्टो भिल्लःकार्पटिकप्रियः ॥
तूर्णं तदायुष्यमिव तत्रोपस्थितवान् क्षणात् ॥३७॥
कोयंकोयं दुराचारः पिंगाक्षे मयि जीवति ॥
उल्लुलुंठयिषुः पांथान्प्राणलिंगसमान्मम ॥३८॥
इति तद्वाक्यमाकर्ण्य ताराक्षस्तत्पितृव्यकः ॥
धनलोभेन पिंगाक्षे पापं पापो व्यचिंतयत् ॥३९॥
कुलधर्मं व्यपास्यैष वर्तते कुलपांसनः ॥
चिरं चिंतितमद्यामुं घातयिष्याम्यसंशयम् ॥४०॥
विचार्येति स दुष्टात्मा भृत्यानाज्ञापयत्क्रुधा ॥
आदावेनं घातयंतु ततः कार्पटिकानिमान् ॥४१॥
ततो ऽयुध्यन्दुराचारास्तेनैकेन च तेऽखिलाः ॥
यथाकथंचित्ताननयत्स च स्वावसथांतिकम् ॥४२॥
आच्छिन्नं हि धनुर्वाणं छिन्नं सन्नहनं शरैः ॥
असूदयिष्यमेतांस्तदभविष्यं यदीश्वरः ॥४३॥
अभिलप्यन्निति प्राणानत्याक्षीत्स परार्थतः ॥
तेपि कार्पटिकाः प्राप्तास्तत्पल्लीं गतसाध्वसाः ॥४४॥
या मतिस्त्वंतकाले स्याद्गतिस्तदनुरूपतः ॥
दिगीशत्वमतः प्राप्तो निर्ऋत्यां नैर्ऋतेश्वरः ॥४५॥
इत्थमस्य स्वरूपं ते आवाभ्यां समुदीरितम् ॥
एतस्योत्तरतो लोको वरुणस्यायमद्भुतः ॥४६॥
कूपवापीतडागानां कर्तारो निर्मलैर्धनैः ॥
इह लोके महीयंते वारुणे वरुणप्रभाः ॥४७॥
निर्जले जलदातारः परसंतापहारिणः ॥
अर्थिभ्यो ये प्रयच्छंति चित्रच्छत्रकमंडलून् ॥४८॥
पानीयशालिकाः कुर्युर्नानोपस्करसंयुताः ॥
दद्युर्धर्मघटांश्चापि सुगंधोदकपूरितान् ॥४९॥
अश्वत्थसेकं ये कुर्युः पथि पादपरोपकाः ॥
विश्रामशालाकर्तारः श्रांतसंतापनोदकाः ॥५०॥
ग्रीष्मोष्प्रहंति मायूरपिच्छादि रचितान्यपि ॥
चित्राणि तालवृंतानि वितरंति तपागमे ॥५१॥
रसवंति सुगंधीनि हिमवंति तपर्तुषु ॥
विश्राणयंति वा तृप्ति पानकानि प्रयत्नतः ॥५२॥
इक्षुक्षेत्राणि संकल्प्य ब्राह्मणेभ्यो ददत्यपि ॥
तथा नानाप्रकारांश्च विकारानैक्षवान्बहून् ॥५३॥
गोरसानां प्रदातारस्तथा गोमहिषीप्रदाः ॥
धारामंडपकर्तारश्छायामंडपकारिणः ॥५४॥
देवालयेषु ये दद्युर्बहुधारागलंतिकाः ॥
तीर्थे वा करहर्तारस्तीर्थमार्गावनेजका. ॥५५॥
अभयं ये प्रयच्छंति भयार्तोद्यत पाणयः ॥
निर्भया वारुणे लोके ते वसंति लसंति च ॥५६॥
विपाशयंति ये पुण्या दुर्वृतैः कंठपाशितान् ॥
ते पाशपाणे लोकेस्मिन्निवसंत्यकुतोभयाः ॥५७॥
नौकाद्युपायैर्न द्यादौ पांथान्ये तारयंत्यपि ॥
तारयंत्यपि दुःखाब्धेस्तत्र नागरिका द्विज ॥५८॥
घट्टान्पुण्यतटिन्यादेर्बंधयंति शिलादिभिः ॥
तोयार्थिसुखसिद्ध्यर्थं ये नरास्तेत्र भोगिनः ॥५९॥
वितर्पयंति ये पुण्यास्तृषिताञ्शीतलैर्जलैः ॥
तेऽत्र वै वारुणे लोके सुखसंततिभागिनः ॥६०॥
जलाशयानां सर्वेषामयमेकतमः पतिः ॥
प्रचेता यादसांनाथः साक्षी सर्वेषुकर्मसु ॥६१॥
अस्योत्पत्तिं शृणु पतेर्वरुणस्यमहात्मनः ॥
आसीन्मुनिरमेयात्मा कर्दमस्य प्रजापतेः ॥६२॥
शुचिष्मानिति विख्यातस्तनयो विनयोचितः ॥
स्थैर्य माधुर्य धैर्याद्यैर्गुणैरुपचितोहितः ॥६३॥
अच्छोदे सरसि स्नातुं स गतो बालकैः सह ॥
जलक्रीडनसंसक्तं शिशुमारो हरच्च तम् ॥६४॥
ततस्तस्मिन्मुनिसुते हृतेऽत्याहितशंसिभिः ॥
तैः समागत्य शिशुभिः कथितं तत्पितुः पुरः ॥६५॥
हरार्चनोपविष्टस्य समाधौ निश्चलात्मनः ॥
श्रुतबालविपत्तेश्च चचाल न मनोहरात् ॥६६॥
अधिकं शीलयामास स सर्वज्ञं त्रिलोचनम् ॥
पश्यञ्शंभोः समीपे स भुवनानि चतुर्दश ॥६७॥
नाना भूतानि भूतानि ब्रह्मांडांतर्गतानि च ॥
चंद्रसूर्यर्क्षताराश्च पर्वतान्सरितो द्रुमान् ॥६८॥
समुद्रानंतरीयाणि ह्यरण्यानीस्सरांसि च ॥
नाना देवनिकायांश्च बह्वीर्दिविषदां पुरीः ॥६९॥
वापीकूपतडागानि कुल्याः पुष्करिणीर्बहु ॥
एकस्मिन्क्वापि सरसि जलक्रीडापरायणान् ॥७०॥
बहून्मुनिकुमारांश्च मज्जनोन्मज्जनादिभिः ॥
करयंत्रविनिर्मुक्ततोयधाराभिषेचनैः ॥७१॥
करताडितपानीयशब्ददिङ्मुखनादिभिः ॥
जलखेलनकैरित्थं संसक्तान्बहुबालकान् ॥७२॥
तेषां मध्ये ददर्शाथ समाधिस्थः स कर्दमः ॥
स्वं शिशुं शिशुमारेण नीयमानं सुविह्वलम् ॥७३॥
कयाचिज्जलदेव्याथ तस्माच्चक्रूरयादसः ॥
प्रसह्य नीत्वोदधये दृष्टवांस्तं समर्पितम् ॥७४॥
निर्भर्त्स्य सरितांनाथं केनचिद्रुद्ररूपिणा ॥
त्रिशूलपाणिनेत्युक्तं क्रोधताम्राननेनच ॥७५॥
कुतो जलानामधिप शिवभक्तस्य बालकः ॥
प्रजापतेः कर्दमस्य महाभागस्य धीमतः ॥७६॥
अज्ञात्वा शिवसामर्थ्यं भवताचिरमासितः ॥
भयत्रस्तेन तद्वाक्यश्रवणात्तमुदन्वता ॥७७॥
बालं रत्नैरलंकृत्य बद्ध्वा तं शिशुमारकम् ॥
समर्पितं समानीय शंभुपादाब्जसंनिधौ ॥७८॥
नत्वा विज्ञापयत्तं च नापराध्याम्यहं विभो ॥
अनाथनाथविश्वेश भक्तापत्तिविनाशन ॥७९॥
भक्तकल्पतरो शंभोऽनेनायं दुष्टयादसा ॥
अनायिन मया नाथ भवद्भक्तजनार्भकः ॥८०॥
गणेन तेन विज्ञाय शंभोरथ मनोगतम् ॥
पाशेन बद्ध्वा तद्यादः शिशुहस्ते समर्पितम् ॥८१॥
गृहाणेमं स्वतनयं पार्षदे शंकराज्ञया ॥
याहि स्वभवनं वत्स ब्रुवतीति स कर्दमः ॥८२॥
समाधिसमये सर्वमिति शृण्वन्नुदारधीः॥
उन्मील्य नयने यावत्प्रणिधानं विसृज्य च ॥८३॥
संपश्यते शिशुं तावत्पुरतः समवैक्षत ॥
गृहीतशिशुमारं च पार्श्वेऽलंकृतकर्णिकम् ॥८४॥
तोयार्द्रकाकपक्षाग्रं कषायनयनांचलम् ॥
किंचिद्विरूक्षं त्वक्क्षोभं संभ्रमापन्नमानसम् ॥८५॥
कृतप्रणाममालिंग्य जिघ्रंस्तन्मुखपंकजम् ॥
पुनर्जातमिवामंस्त पश्यंश्चापि मुहुर्मुहुः ॥८६॥
शतानिपंचवर्षाणि प्रणिधानस्थितस्य हि ॥
कर्दमस्य व्यतीतानि शंभुमर्चयतस्तदा ॥८७॥
कर्दमोपि च तत्कालमज्ञासीत्क्षणसंगतम् ॥
यतो न प्रभवेत्कालो महाकालस्य संनिधौ ॥८८॥
ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च ॥
जगाम तूर्णं तपसे श्रीमद्वाराणसीं पुरीम् ॥८९॥
तत्र तप्त्वा तपो घोरं लिंगं संस्थाप्य शांभवम् ॥
पंचवर्षसहस्राणि स्थितः पाषाणनिश्चलः ॥९०॥
आविरासीन्महादेवस्तुष्टस्तत्तपसा ततः ॥
उवाच कार्दमे ब्रूहि कं ददामि वरोत्तमम् ॥९१॥
कार्दमिरुवाच ॥
यदि नाथ प्रसन्नोसि भक्तानामनुकंपक ॥
सर्वासामाधिपत्यं मे देह्यपां यादसामपि ॥९२॥
इति श्रुत्वा महेशानः सर्वचिंतितदः प्रभुः ॥
अभ्यषिंचत तं तत्र वारुणे परमे पदे ॥९३॥
रत्नानामब्धिजातानामब्धीनां सरितामपि ॥
सरसां पल्वलानां च वाप्यंबु स्रोतसा पुनः ॥९४॥
जलाशयानां सर्वेषां प्रतीच्याश्चापि वैदिशः ॥
अधीश्वरः पाशपाणिर्भव सर्वामरप्रियः ॥९५॥
ददामि वरमन्यं च सर्वेषां हितकारकम् ॥
त्वयैतत्स्थापितं लिंगं तव नाम्ना भविष्यति ॥९६॥
वरुणेशमिति ख्यातं वाराणस्यां सुसिद्धिदम् ॥
मणिकर्णेश लिंगस्य नैर्ऋत्यां दिशि संस्थितम् ॥९७॥
आराधितं सदा पुंसां सर्वजाड्यविनाशकृत् ॥
वरुणेशस्य ये भक्ता न तेषामब्भयं क्वचित् ॥९८॥
न संतापभयं तेषां नापायमरणं क्वचित् ॥
जलोदरभयं नैव न भयं वै तृषः क्वचित् ॥९९॥
नीरसान्यन्नपानानि वरुणेश्वर संस्मृतेः ॥
सरसानि भविष्यंति नात्र कार्या विचारणा ॥१००॥
इत्युक्त्वांतर्दधे शंभुर्वरुणोपि स्वबंधुभिः ॥
इमं लोकमलंकुर्वंस्तदारभ्य स्थितो द्विजः ॥१॥
इदं वरुणलोकस्य स्वरूपं ते निरूपितम् ॥
यच्छ्रुत्वा न नरः क्वापि दुरपायैः प्रबाध्यते ॥१०२॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे निर्ऋतिवरुणलोकवर्णनंनाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : November 24, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP