संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ८३ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ८३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८३ Translation - भाषांतर राज्ञ्युवाच ॥अवधेहि धरानाथ कथयामि यथातथम् ॥व्रतस्यास्य विधानं च फलं चाभीष्टदेवताम् ॥१॥पुरा पुरः श्रीदपत्न्याः श्रीमुख्या ब्रह्मसूनुना ॥नारदेन सुतार्थिन्या व्रतमेतदुदीरितम् ॥२॥चीर्णं चाथ तया देव्या पुत्रोभून्नलकूबरः ॥अन्याभिरपि बह्वीभिः पुत्राः प्राप्ता व्रतादितः ॥३॥विधिनाप्यत्र संपूज्या गौरी सर्वविधानवित् ॥स्तनंधयेन सहिता धयता स्तनमुन्मुखम् ॥४॥मार्गशीर्ष तृतीयायां शुक्लायां कलशोपरि ॥ताम्रपात्रं निधायैकं तंडुलैः परिपूरितम् ॥५॥अविच्छिन्नं नवीनं च रजनीरागरंजितम् ॥वासः पात्रोपरि न्यस्य सूक्ष्मात्सूक्ष्मतरं परम् ॥६॥तस्योपरि शुभं पद्मं रविरश्मिविकासितम् ॥तत्कर्णिकाया उपरि चतुःस्वर्णविनिर्मितम् ॥७॥विधिं संपूजयेद्भक्त्या रत्नपट्टाबंरादिभिः ॥पुष्पैर्नानाविधै रम्यैः फलैर्नारंगमुख्यकैः ॥८॥सुगंधैश्चंदनाद्यैश्च कर्पूर मृगनाभिभिः ॥परमान्नादि नैवेद्यैः पक्वान्नैर्बहुभंगिभिः ॥९॥धूपैरगुरुमुख्यैश्च रम्ये कुसुममंडपे ॥रात्रौ जागरणं कार्यं विनिंद्रैः परमोत्सवैः ॥१०॥हस्तमात्रमिते कुंडे जातवेदस इत्यृचा ॥घृतेन मधुनाप्लुत्य जुहुयान्मंत्रविद्द्विजः ॥११॥सहस्रकमलानां च स्मेराणां स्वयमेव हि ॥नवप्रसूतां कपिलां सुशीलां च पयस्विनीम् ॥१२॥दद्यादाचार्यवर्याय सालंकारां सलक्षणाम् ॥उपोष्य दंपती भक्त्या नवांबरविभूषितौ ॥१३॥प्रातःस्नात्वा चतुर्थ्यां च संपूज्याचार्यमादृतः ॥वस्त्रैराभरणैर्माल्यैर्दक्षिणाभिर्मुदान्वितौ ॥१४॥सोपस्करां च तां मृर्तिमाचार्याय निवेदयेत् ॥समुच्चरन्निमं मंत्रं व्रतकृन्मिथुनं मुदा ॥१५॥नमो विश्वविधानज्ञे विधे विविधकारिणि ॥सुतं वंशकरं देहि तुष्टामुष्माद्व्रताच्छुभात् ॥१६॥सहसं भोजयित्वाथ द्विजानां भक्तिपूर्वकम् ॥भुक्तशेषेण चान्नेन कुर्याद्वै पारणं ततः ॥१७॥इत्थमेतद्व्रतं राजंश्चिकीर्षामि त्वया सह ॥कुरु चैतत्प्रियं मह्यमभीष्टफललब्धये ॥१८॥इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा ॥मुनेव तं समाचीर्णं सांतर्वत्नी बभूव ह ॥१९॥तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता ॥पुत्रं देहि महामाये साक्षाद्विष्ण्वंशसंभवम् ॥२०॥जातमात्रो व्रजेत्स्वर्गं पुनगयाति चात्र वै ॥भक्तः सदाशिवेऽत्यर्थं प्रसिद्धः सर्वभूतले ॥२१॥विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात् ॥एवंभूतः सुतो गौरि यथा मे स्यात्तथाकुरु ॥२२॥मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया ॥अथ कालेन तनयं मूलर्क्षे साप्यजीजनत् ॥२३॥हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता ॥देवि राजार्थिनी चेत्त्वं त्यज दुष्टर्क्षजं सुतम् ॥२४॥सा मंत्रिवाक्यमाकर्ण्य केवलं पतिदेवता ॥अत्याक्षीत्तं तथा प्राप्तं तनयं नयकोविदा ॥२५॥धात्रेयिकां समाकार्य प्राहेदं सा नृपांगना ॥पंचमुद्रे महापीठे विकटा नाम मातृका ॥२६॥तदग्रे स्थापयित्वामुं बालं धात्रेयिके वद ॥गौर्यादत्तः शिशुरसौ तवाग्रे विनिवेदितः ॥२७॥राज्ञ्या पत्युः प्रियेषिण्या मंत्रिविज्ञप्तिनुन्नया ॥सापि राज्ञ्युदितं श्रुत्वा शिशुं लास्य शशिप्रभम् ॥२८॥विकटायाः पुरः स्थाप्य गृहं धात्रेयिका गता ॥अथ सा विकटा देवी समाहूय च योगिनीः ॥२९॥उवाच नयत क्षिप्रं शिशुं मातृगणाग्रतः ॥तासामाज्ञां च कुरुत रक्षतामुं प्रयत्नतः ॥३०॥योगिन्यो विकटावाक्यात्खेचर्यस्ताः क्षणेन तम् ॥निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः ॥३१॥प्रणम्य योगिनीवृंदं तं शिशुं सूर्यवर्चसम् ॥पुरो निधाय मातॄणां प्रोवाच विकटोदितम् ॥३२॥ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका ॥कौमारी चापि माहेंद्री चामुंडा चैव चंडिका । ३३॥दृष्ट्वा तं बालकं रम्यं विकटाप्रेषितं ततः ॥पप्रच्छुर्युगपड्डिंभं कस्ते तातः प्रसूश्च कः ॥३४॥मातृभिश्चेति पुष्टः स यदा किंचिन्न वक्ति च ॥तदा तद्योगिनीचक्रं प्राह मातृगणस्त्विति ॥३५॥राज्ययोग्यो भवत्येष महालक्षणलक्षितः ॥पुनस्तत्रैव नेतव्यो योगिन्यस्त्वविलंबितम् ॥३६॥पंचमुद्रा महादेवी तिष्ठते यत्र काम्यदा ।यस्याः संसेवनान्नृणां निर्वाणश्रीरदूरतः ॥३७॥सर्वत्रशुभजन्मिन्यां काश्यां मुक्तिः पदेपदे ॥तथापि सविशेषं हि तत्पीठं सर्वसिद्धिकृत् ॥३८॥तत्पीठसेवनादस्य षोडशाब्दाकृतेः शिशोः ॥सिद्धिर्भवित्री परमा विश्वेशानुग्रहात्परात् ॥३९॥एवं मातृगणाशीर्भिर्योगिनीभिः क्षणेन हि ॥प्रापितो मातृवाक्येन पंचमुद्रांकितं पुनः ॥४०॥संप्राप्य तन्महापीठं स्वर्गलोकादिहागतः ॥आनंदकानने दिव्यं तताप विपुलं तपः ॥४१॥तपसातीव तीव्रेण निश्चलेंद्रियचेतसः ॥तस्य राजकुमारस्य प्रसन्नोभूदुमाधवः। ॥४२॥आविर्बभूव पुरतो लिंगरूपेण शंकरः ॥प्रोवाच च प्रसन्नोस्मि वरं ब्रूहि नृपांगज ॥४३॥॥ स्कंद उवाच ॥सर्वज्योतिर्मयं लिंगं पुरतो वीक्ष्य वाङ्मयम् ॥सप्तपातालमुद्भिद्य स्थितं बृहदनुग्रहात ॥४४॥प्रणम्य दंडवद्भूमौ परितुष्टाव धूर्जटिम् ॥सूक्तैर्जन्मांतराभ्यस्तैः सुहृष्टो रुद्रदेवतैः ॥४५॥ततः प्रसन्नो भगवान्देवदेवो महेश्वरः ॥संतुष्टस्तपसा तस्य प्रोवाच वृषभध्वजः॥ ४६॥॥ देवदेव उवाच ॥वरं वरय संतप्त तपसा क्लेशितं वपुः ॥त्वयेदं बालवपुषा वशीकृतं मनो मम ॥४७॥शिवोक्तं च समाकर्ण्य वरदानं पुनःपुनः ॥वरं च प्रार्थयांचक्रे परिहृष्टतनूरुहः ॥४८॥॥ कुमार उवाच ॥देवदेवमहादेव यदि देयो वरो मम ॥तदत्र भवता स्थेयं भवतापहृता सदा ॥४९॥अस्मिँल्लिंगे स्थितः शंभो कुरु भक्तसमीहितम् ॥विना मुद्रादिकरणं मंत्रेणापि विना विभो ॥५०॥दिश सिद्धिं परामत्र दर्शनात्स्पर्शनान्नतेः ॥अस्य लिंगस्य ये भक्ता मनोवाक्कायकर्मभिः ॥५१॥सदैवानुग्रहस्तेषु कर्तव्यो वर एष मे ॥इति तद्व्रतमाकर्ण्य लिंगरूपोवदत्प्रभुः ॥५२॥एवमस्तु यदुक्तं ते वीरवैष्णव सूनुना ॥जनेतुर्विष्णुभक्ताच्च राज्ञोऽमित्रज्जितो भवान् ॥५३॥विष्ण्वंश एवमुत्पन्नो मम भक्तिपरांगज ॥वीरवीरेश्वरं नाम लिंगमेतत्त्वदाख्यया ॥५४॥काश्यां दास्यत्यभीष्टानि भक्तानां चिंतितान्यहो ॥अस्मिँल्लिंगे सदा वीर स्थास्याम्यद्यदिनावधि ॥५५॥दास्यामि च परां सिद्धिमाश्रितेभ्यो न संशयः ॥परं न महिमानं मे कलौ कश्चिच्च वेत्स्यति ॥५६॥यस्तु वेत्स्यति भाग्येन स परां सिद्धिमाप्स्यति ॥अत्र जप्तं हुतं दत्तं स्तुतमर्चितमेव वा ॥५७॥जीर्णोद्धारादिकरणमक्षय्यफलहेतुकम् ॥त्वं तु राज्यं परं प्राप्य सर्वभूपालदुर्लभम्॥ ५८॥भुक्त्वा भोगांश्च विपुलानंते सिद्धिमवाप्स्यसि ॥पुरी वाराणसी रम्या सर्वस्मिञ्जगतीतले ॥५९॥पुण्यस्तत्रापि संभेदः सरितोरसि गंगयोः ॥ततोऽपि च हयग्रीवं तीर्थं चैवाति पुण्यदम् ॥६०॥यत्र विष्णुर्हयग्रीवो भक्तचिंतितमर्पयेत् ॥हयग्रीवाच्च वै तीर्थाद्गजतीर्थं विशिष्यते ॥६१॥यत्र वै स्नानमात्रेण गजदानफलं लभेत् ॥कोकावराहतीर्थं च पुण्यदं गजतीर्थतः ॥६२॥कोकावराहमभ्यर्च्य तत्र नो जन्मभाग्जनः ॥अपि कोकावराहाच्च दिलीपेश्वरसन्निधौ ॥६३॥दिलीपतीर्थं सुश्रेष्ठं सद्यः पापहरं परम् ॥ततः सगरतीर्थं च सगरेश समीपतः ॥६४॥यत्र मज्जन्नरो मज्जेन्न भूयो दुःखसागरे ॥सप्तसागरतीर्थं च शुभं सगरतीर्थतः ॥६५॥सप्ताब्धिस्नानजं पुण्यं यत्र स्नात्वा नरो लभेत् ॥महोदधीति विख्यातं तीर्थं सप्ताब्धितीर्थतः ॥६६॥सकृद्यत्राप्लुतो धीमान्दहेदघमहोदधिम् ॥चौरतीर्थं ततः पुण्यं कपिलेश्वर सन्निधौ ॥६७॥पापं सुवर्णचौर्यादि यत्र स्नात्वा क्षयं व्रजेत् ॥हंसतीर्थ ततोपीड्यं केदारेश्वर सन्निधौ ॥६८॥हंस स्वरूपी यत्राहं नयामि ब्रह्मदेहिनः ॥६९॥ततस्त्रिभुवनाख्यस्य केशवस्याति पुण्यदम् ॥तीर्थं यत्राप्लुता मर्त्या मर्त्यलोकं विशंति न ॥७०॥गोव्याघ्रे श्वर तीर्थं च ततोप्यधिकमेव हि ॥स्वभाववैरमुत्सृज्य यत्रोभौ सिद्धिमापतुः ॥७१॥ततोपि हि वरं वीर तीर्थं मांधातुसंज्ञितम् ॥चक्रवर्तिपदं यत्र प्राप्तं तेन महीभुजा ॥७२॥ततोपि मुचुकुंदाख्यं तीर्थं चातीव पुण्यदम् ॥यत्र स्नातो नरो जातु रिपुभिर्नाभिभूयते ॥७३॥पृथु तीर्थं ततोप्युच्चैः श्रेयसां साधनं परम् ॥पृथ्वीश्वरं यत्र दृष्ट्वा नरः पृथ्वीपतिर्भवेत् ॥७४॥ततः परशुरामस्य तीर्थं चातीव सिद्धिदम् ॥यत्र क्षत्रवधात्पापाज्जामदग्न्यो विमुक्तवान् ॥७५।अद्यापि क्षत्रवधजं पापं तत्र प्रणश्यति ॥एकेन स्नानमात्रेण ज्ञानाज्ञानकृतेन च ॥७६॥ततोपि श्रेयसां कर्तृ तीर्थं कृष्णाग्रजस्य हि ॥यत्र सूतवधात्पापाद्बलदेवो विमुक्तवान् ॥७७॥दिवोदासस्य वै तीर्थं तत्र राज्ञोऽतिमेधसः ॥तत्र स्नातो नरो जातु न ज्ञानाच्च्यवतेंऽततः ॥७८॥ततोपि हि महातीर्थं सर्वपापप्रणाशनम् ॥यत्र भागीरथी साक्षान्मूर्तिरूपेण तिष्ठति ॥७९॥स्नात्वा भागीरथी तीर्थे कृत्वा श्राद्धं विधानवित् ॥दत्त्वा दानं च पात्रेभ्यो न भूयो गर्भभाग्भवेत् ॥८०॥हरपापं च भो वीर तीर्थं भागीरथीतटे ॥तत्र स्नात्वा क्षयं यांति महापापकुलान्यपि ॥८१॥यो निष्पापेश्वरं लिंगं तत्र पश्यति मानवः ॥निष्पापो जायते वीर स तल्लिंगेक्षणात्क्षणात् ॥८२॥दशाश्वमेधतीर्थं च ततोपि प्रवरं मतम् ॥दशानामश्वमेधानां यत्र स्नात्वा फलं लभेत् ।८३॥ततोपि शुभदं वीर बंदीतीर्थं प्रचक्षते ॥यत्र स्नातो नरो मुच्येदपि संसारबंधनात् ॥८४॥हिरण्याक्षेण दैत्येन बहुशो देवताः पुरा ॥बंदीकृता निगडिता स्तुष्टुवुर्जगदंबिकाम् ॥८५॥ततो विशृंखलीभूतैर्वंदिता यज्जगज्जनिः ॥तदा प्रभृति बंदीति गीयतेद्यापि मानवैः ॥८६॥बंदीतीर्थस्तु तत्रैव महानिगडखंडनम् ॥तत्र स्नातो विमुच्येत सर्वस्मात्कर्मपाशतः ॥८७॥बंदीतीर्थं महाश्रेष्ठं काशिपुर्यां विशांपते ॥तत्र स्नातो नरो यायाद्विमुक्तिं देव्यनुग्रहात् ॥८८॥ततोपि हि श्रेष्ठतरं प्रयागमिति विश्रुतम् ॥प्रयागमाधवो यत्र सर्वयागफलप्रदः ॥८९॥क्षोणीवराहतीर्थं च ततोपि शुभदं परम् ॥तत्र स्नातो नरो जातु तिर्यग्योनिं न गच्छति ॥९०॥ततः कालेश्वरं तीर्थं वीरश्रेष्ठतरं परम् ॥कलिकालौ न बाधेते यत्र स्नातं नरोत्तमम् ॥९१॥अशोकतीर्थं तत्रैव ततोप्यतितरां शुभम् ॥यत्र स्नातो नरो जातु नापतेच्छोकसागरे ॥९२॥ततोति निर्मलतरं शुक्रतीर्थं नृपांगज ॥शुक्रद्वारा न जायेत यत्र स्नातो नरोत्तमः ॥९३॥ततोऽपि पुण्यदं राजन्भवानीतीर्थमुत्तमम् ॥यत्र स्नात्वा भवानीशौ दृष्ट्वा नैव पुनर्भवेत् ॥९४॥प्रभासतीर्थं विख्यातं ततोपि शुभदं नृणाम् ॥सोमेश्वरस्य पुरतस्तत्र स्नातो न गर्भभाक् ॥९५॥ततो गरुडतीर्थं च संसारविषनाशनम् ॥गरुडेशं समभ्यर्च्य तत्र स्नात्वा न शोचति ॥९६॥ब्रह्मतीर्थं ततः पुण्यं वीरब्रह्मेश्वरात्पुरः ॥ब्रह्मविद्यामवाप्नोति तत्र स्नानेन मानवः ॥९७॥ततो वृद्धार्कतीर्थं च विधितीर्थं ततः परम् ॥तत्राप्लुतो नरो याति रविलोकं सुनिर्मलम् ॥९८॥ततो नृसिंहतीर्थं च महाभयनिवारणम् ॥कालादपि कुतस्तत्र स्नात्वा परिबिभेति च ॥९९॥ततोपि पुण्यदं नृणां तीर्थं चित्ररथेश्वरम् ॥यत्र स्नात्वा च दत्त्वा च चित्रगुप्तं न पश्यति ॥१ ० ०॥धर्मतीर्थं ततः पुण्यं धर्मेश पुरतः स्थितम् ॥तत्र श्राद्धदिकं कृत्वा पितॄणामनृणो भवेत् ॥१॥विशालतीर्थं विमलं विशालफलदं ततः ॥तत्र स्नात्वा विशालाक्षी दृष्ट्वा गर्भेन जायते ॥२॥जरासंधेश तीर्थं च जरासंधेशसन्निधौ ॥संसारज्वरपीडाभिस्तत्र स्नातो न मुह्यति ॥३॥ततोऽपि ललितातीर्थं महासौभाग्यवर्धनम् ॥स्नात्वार्चयित्वा ललितां न दरिद्रो न दुःखभाक् ॥४॥ततो गौतमतीर्थं च सर्वपापविशोधनम् ॥स्नात्वा पिंडान्विनिर्वाप्य यत्र शोचति न क्वचित् ॥५॥गंगाकेशवतीर्थं च तीर्थं चागस्त्य संज्ञकम् ॥ततस्तु योगिनीतीर्थं त्रिसंध्याख्यं ततः परम् ॥६॥ततस्तु नार्मदं तीर्थं तत आरुंधतेयकम् ॥वासिष्ठं च ततस्तीर्थं मार्कंण्डेयमनुत्तमम् ॥७॥ज्ञेयान्येतानि तीर्थानि पुण्यदान्युत्तरोत्तरम ॥खुरकर्तरि संज्ञं च ततस्तीर्थमनुत्तमम् ॥८॥तत्र श्राद्धादिकरणान्नरोमुच्येत किल्बिषैः ॥ततो भगीरथं तीर्थं राजर्षेरतिपुण्यदम् ॥९॥तत्राल्पमपि यच्छेद्यत्कल्पांतेप्यक्षयं हि तत् ॥एतेभ्योपि हि तीर्थेभ्यो लिंगकोटित्रयादपि ॥११०॥वीरवीरेश्वरं लिंगं महाश्रेष्ठं भविष्यति ॥वीरतीर्थे नरः स्नात्वा वीरेशं परिपूज्य च ॥११॥तीर्थेष्वेतेषु सर्वेषु स्नातो भवति नान्यथा ॥यस्तु वीरेश्वरं लिंगं नक्तमभ्यर्चयिप्यति ॥तेन त्रिकोटिसंख्यानि लिंगानीहार्चितानि वै ॥१२॥यस्तु कामयते लक्ष्मीं मुक्तिदां भुक्तिदामपि ॥तेन वीरेश्वरं लिंगं संसेव्यमतियत्नतः ॥१३॥विधायैकं जागरणं नरो वीरेशमर्चयन् ॥भूतायां नैव गृह्णाति शरीरं पांचभौतिकम् ॥१४॥इदं लिंगं सदाभ्यर्च्यं सिद्धैः संसिद्धिकामुकैः ॥ऐहिकामुष्मिकान्यस्मात्सर्वान्कामान्समर्थयेत् ॥१५॥पंचामृतेन स्नपनं यः करिष्यति मानवः ॥पलेपले फलं तस्य वीरेशे घटकोटिजम् ॥१६॥यदन्यत्र फलं लिंगे कोटिपुष्प प्रदानतः ॥तदेकेनैव पुष्पेण वीरेशे नात्र संशयः ॥१७॥एकामप्याहुतिं दत्त्वा वीरेश्वरसमीपतः ॥कोटिहोमफलं सम्यङ्नात्र कार्या विचारणा ॥१८॥सिक्थेसिक्थे च नैवैद्यै कोटिसिक्थफलं भवेत् ॥अत्यल्पमपि वीरेशे कृतमक्षयतां व्रजेत् ॥१९॥अप्येकं यो महारुद्रं जपेद्वीरेश सन्निधौ ॥जापयेद्वा भवेत्तस्य कोटिरुद्रफलं ध्रुवम् ॥१२०॥व्रतोत्सर्गादि वीरेशे यत्कृतं व्रतिभिर्नृभिः ॥तत्कोटिगुणसंख्याकं भवत्येव न संशयः ॥२१॥कृता अष्टौ नमस्कारा येन वीरेश्वराग्रतः ॥अष्टकोटि नमस्कारफलं तस्य न संशयः ॥२२॥सर्वासां संपदां स्थानमिदं लिंगं भविष्यति ॥वीरश्वेरं न संदेहो वीर मे वरदानतः ॥२३॥ज्ञानमुत्पत्स्यते पुंसां तारकाख्यं ममाज्ञया ॥जीवतामेव तत्सेव्यमेतल्लिंगं शुभार्थिभिः ॥२४॥एतच्छ्रुत्वा पुनः प्राह वीरो मित्रजितः सुतः ॥प्रणम्य देवदेवेशं परिपूर्णमनोरथः ॥२५॥तीर्थान्येतानि देवेश यान्युक्तानि ममाग्रतः ॥कृपया पुनरप्येव तदन्यानि वद प्रभो ॥२६॥आदिकेशवमारभ्य तत्तीर्थाच्च भगीरथात् ॥येषां श्रवणमात्रेण निष्पापो जायते नरः ॥२७॥इति श्रुत्वा महेशानो महीप तनयोदितम् ॥पुनस्तीर्थानि गंगायां वक्तुं समुपचक्रमे ॥१२८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे वीरेश्वराविर्भावोनाम त्र्यशीतितमोऽध्यायः ॥८३॥ N/A References : N/A Last Updated : November 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP