अथ श्रीस्कान्दे महापुराणे चतुर्थं काशीखण्डम् ॥४||
अथ काशीखण्डे पूर्वार्धम् ॥ (४- १) ॥
१ मङ्गलाचरणम्, सूताग्रे व्यासस्य काशीखण्डकथोपक्रमकरणम्, नारदस्य नर्मदाम्भसि स्नात्वोंकारमभ्यर्च्य च पुरतो विन्ध्यपर्वतदर्शनम्. प्रसंगेन विन्ध्याचलवर्णनम्, मेरुस्त्वामवमन्यत इति नारदमुनेर्वचः श्रुत्वा विध्यस्य वर्धनेन श्रीसूर्यमार्गावरोधवर्णनं च ॥
२ एकतो नैशतिमिरसंबंधादन्यत्र दिवाकरचण्डातपात्त्रैलोक्योनवस्थावर्णनम्, देवैर्विधिस्तवनम्, सत्यलोके भयाभावं दर्शयितुं सत्यलोकागन्तृपुरुषपुण्याचारवर्णनपूर्वकं विधिकृतदेवसान्त्वनम्, ब्रह्मणो वचनात्त्रैलोक्यापन्निवारणाय श्रीक्षेत्रकाशीस्थागस्त्यमुनिसमीपे गन्तुं श्रीकाशीशकाशीदर्शनोत्सुकाऽमरप्रयाणवर्णनम्, संक्षेपतः काशीवर्णनं च ॥
३ काशीक्षेत्रे मणिकर्णिकास्नानविश्वेश्वरदर्शनादियात्रां विधाय सुराणामगस्त्यमुन्याश्रम गमनम्, सुराणां तदाश्रमे लोपामुद्रामुन्यगस्त्वरूपदर्शनं च. १५ १ ।
४ बृहस्पतिप्रणीतागस्यमुनिस्तुतिप्रसंगेन लोपामुद्रावर्णनम्, एतत्प्रसङ्गेन पतिव्रताचारनिरूपणम्, सूर्यमार्गनिरोधकविन्ध्यवृद्धिनिवारणाय प्रार्थयमानस्य सुराचार्यस्य वचनानुसारेणागस्त्येनामराश्वासनम्, अमराणां स्वर्गलोकगमनं च ॥
५ अमरप्रार्थनामङ्गीकृत्य विन्ध्यवृद्धिनिराकरणाय भार्यया सहाऽगस्त्यमुनेः काशीक्षेत्राद्बहिः प्रयाणम्, काशीवियोगदुःखितस्य मुनेर्विश्वनाथकालभैरवादिदेवताज्ञाग्रहणपूर्वकं विशेषतो विलापकरणम्, अगस्त्यमुनिमायान्तं दृष्ट्वा विन्ध्यस्य खर्वतास्वीकारः, यावन्ममागमनं पुनर्न भवेत्तावत्खर्वतरो भवेति मुनेरद्रिं प्रति कथनम्, मुनेर्महालक्ष्मीदर्शनम्, अगस्त्यमुनिनाः महालक्ष्मीस्तोत्रकरणम्, महालक्ष्म्याऽगस्त्याय वरप्रदानम्, अगस्तस्याग्रे प्रयाणं च ॥
६ परोपकारप्रशंसनम्, श्रीशैलशिखरादिपुण्यस्थानदर्शनेन मुक्तिश्चेत्किं काशीमहत्त्वमिति लोपामुद्राप्रश्नः, तीर्थमाहात्म्यवर्णनप्रसङ्गेन काशीक्षेत्रमहत्त्वकथनम्, सर्वतीर्थानि काशीक्षेत्रप्रापकाणीति काशीश्रैष्ठ्यद्योतनं च.. ॥
७ शिवशर्माख्यस्य मथुरापुरीस्थद्विजस्य स्वदेहे समागतां जरां दृष्ट्वा चिन्तोद्गाराः, सप्तपुरीयात्रार्थं गृहाद्बहिर्द्विजस्य प्रयाणम्, अयोध्यायात्रां समाप्य प्रयागे समागमनम्, प्रसङ्गेन प्रयागमाहात्म्यवर्णनम्, द्विजस्य काशीयात्राकथनम्, तस्य महाकालपुरीप्रयाणम्, तत्प्रसङ्गान्महाकालमाहात्म्यकथनम्, मायापुरीतीर्थयात्राकथनम्, द्विजस्य मायापुर्यां देहावसानम्, पुण्यशीलसुशीलनामकवैष्णवगणा-
धिष्ठितस्वर्णविमानमास्थाय द्विजस्य नभोवर्त्मारोहणं च ॥
८ मायाख्यायां मुक्तिपुर्यां मृतस्य शिवशमर्णो द्विजस्य कथं मोक्षानवाप्तिरिति लोपामुद्रासतीप्रश्नः, मायादिषु षट्पुरीषु साक्षात्सायुज्यं नास्तीति दर्शयितुं शिवशर्मविष्णुगणसंवादारम्भः, द्विजप्रश्नानुसारेण पिशाचगुह्यकगन्धर्वलोकस्थितपुरुषसंपादितसदाचारवर्णनम्, यमलोकमागतस्य द्विजस्य शिवशर्मणः सत्कारपूर्वकपूजनार्थं धर्मराजस्यागमनम्, धर्मराजस्य सौम्यमूर्तेः सौम्यवचांसि श्रुत्वा
कथमिदमिति द्विजप्रश्नः, यमस्य रूपद्वयनिरूपणप्रसङ्गेन संक्षेपतो यमलोकवर्णनं च ॥
९ अप्सरोलोकवर्णनम्, सूर्यलोकवर्णनम्, सूर्योपासनावर्णनप्रसङ्गेन गायत्रीमन्त्रमाहात्म्यनिरूपणम्, अर्घप्रदानविधिनिरूपणं च ॥
१० सहस्राक्षपुरवर्णनम्, अर्चिष्मत्याख्यवीतिहोत्रपुरीवर्णनम्, कृशानूत्पत्तिकथनप्रसंगेन ज्योतिष्मतीपुरीस्थविश्वानराख्यमुनीतिहासकथनम्, शुचिष्मतीकथनानुसारेण मुनेः काशीक्षेत्रे गत्वा वीरेश्वरशिवलिङ्गसमीपे तपोऽनुष्ठानकथनम्, त्रयोदशे मासिबालरूपेण लिङ्गे शिवदर्शनम्, अभिलाषाष्टकस्तोत्रकथनम्, शिवाद्वरलाभेन सन्तुष्टस्य मुनेः स्वगृहे प्रयाणं च ॥
११ कालान्तरेण विश्वानराच्छुचिष्मत्यां गर्भाधानम्, शुभमुहूर्ते सुतोत्पत्तिः, जातकर्मादसंस्कारनिरूपणम्, हस्तसामुद्रिकं वीक्ष्य नारदोक्तं वैश्वानराख्यस्य बालस्य गण्डान्तं श्रुत्वा मातापित्राः शोककरणम् , अपमृत्युहरणाय मुनिकुमारस्य काश्यां लिङ्ग संस्थाप्यानुष्ठानकरणम्, तृतीयसंवत्सरे वरप्रदानाय समागतस्य कुलिशायुधस्य मुनिकुमारं प्रतिं वचनम्, 'नाहं त्वत्तो वरान्ग्रहीतुमुत्सहे' इति वचः श्रुत्वा इन्द्रस्य कुलिशपातनोद्योगं विलोक्य मुनिकुमारस्य मूर्च्छावगमः, तत्रैव शिव-प्रादुर्भावः, शिववराद्वैश्वानरस्य दिक्पतित्वादिप्राप्तिवर्णनं च ॥
१२ नैर्ऋतलोकवणर्नम्, विन्ध्याटव्यां पल्लीपतेः पिंगाक्षस्य विश्वनाथपुरीं प्रतिं यातुकामस्य सार्थस्य प्राणपरिरक्षणार्थं प्राणदानाल्लोकपालत्वप्राप्तिः, वारुणलोकवर्णनम्, कर्दमस्य प्रजापतेः पुत्रस्य शुचिष्मतो जलक्रीडायां शिशुमारेण सरस्याहरणम्, सरसि मग्नं श्रुत्वाऽपि सुतं पूजायामधिकासक्तस्य मुनेः सविधे शिवगणेन सशिशुमारस्य बालकस्यानयनम्, शुचिष्मतो मुनिकुमारस्य काश्यां शिवलिंगं संस्थाप्य तपश्चरणम्, शिवप्रसादाद्वारुणलोकसंप्राप्तिश्च ॥
१३ जगत्प्राणस्य पवनस्य गंधवतीपुरीवर्णनम्, कश्यपपुत्रस्य पूतात्मनः श्रीकाशीक्षेत्रे लिंगं संस्थाप्य तपश्चरणम्, तस्य शिवाल्लोकपालत्वप्राप्तिकथनम्, गुह्यकेश्वरस्यालकावतीपुरीवर्णनम्, काम्पिल्यनगरे यज्ञदत्तनाम्नो ब्राह्मणस्य नाम्ना गुणंनिधिरप्यगुणनिधिर्द्युतासक्तो मद्यपः पुत्रो बभूव तस्य मात्रा बहुकालं प्रच्छन्नदुराचारस्य सुतस्य दुष्कृतिं संपश्यता पित्रा स्वगृहान्निष्कासनम्, स्वार्थं दीपदशोद्योतेन लिंगमौलितमोहरस्य बहूपोषितस्यास्य शिवरात्र्यां शिवालये ऽन्नापहरणाद्घातितस्य कलिङ्गदेशराजपुत्रत्वप्राप्तिवर्णनम्, तत्र तस्य शिवालयेषु दीपदानात्कल्पान्तरे विश्रवःसुतत्वमभिगभ्य दुःसहतपश्चरणतः शिवसख्यालकाराज्यादिला-
भवर्णनं च ॥
१४ रुद्रभक्तोषितैशानीपुरीवर्णनम् ,अजैकपादादिरुद्रगणस्थापितैशानलिॆगमाहात्म्यवर्णनम्, चन्द्रलोकवर्णनम्, ब्रह्मणो मानसात्समुद्भूतस्य सोमस्य वाराणस्यां लिंगं विधाय तत्पुरो महत्तपश्चरणम्, शिवप्रसादात्तस्य महैश्वर्यलाभकथनं च ॥
१५ दक्षप्रजापतेः षष्टिदुहितृमध्ये रोहिण्यादिभिः सप्तविंशतिभिः कन्याभिरेकपतिलाभाय लिंगं संस्थाप्य वाराणस्यां तपःकरणाच्छिववरानुसारतः सोमं पतिमासाद्य संपादितस्य नक्षत्रलोकस्य संक्षेपतो वर्णनम्, अत्रिपुत्रस्य सोमस्य गुरुभार्यापहरणम्, रुद्रचन्द्रमसोर्युद्धकथनम्, युद्धं निवार्य ब्रह्मणो वचनाच्चन्द्रस्य बृहस्पतये तारासमर्पणम्, तस्यां बुधस्योत्पत्तिः, बुधकृतशिवाराधनम्, बुधस्य शिववराल्लोकपालत्वादिवरैश्वर्यलाभवर्णनं च ॥
१६ समरे देवैर्घातितानां दानवेन्द्रान्धकसैनिकानां संजीवनीमन्त्रतो भार्गवशुक्रेण पुनरुज्जीवनम्, देवप्रार्थनया शिवेन नंदिकेश्वरद्वारा शुक्रमानाय्य स्वमुखे तस्य निक्षेपणम्, अन्धकस्य ससैन्यस्य प्रमथैः सह युद्धवर्णनम्, शुक्रतः शुक्रस्य बहिर्निःसरणम्, शुक्रस्य वाराणस्यां तपश्चरणाच्छिवप्रसादतो लोकाधिपत्यादिवरप्राप्तिवर्णनं च ॥
१७ श्रीशिवस्य भालस्थलतो भूमौ निपतितात्स्वेदबिन्दोर्लोहिताङ्गस्योत्पत्तिः, शिवप्रसादात्तस्य लोकाधिपत्यादिकथनम्, अङ्गिरसस्य शिवप्रसादार्थं वाराणस्यां तपःकरणम्, शिवस्य वरप्रसादाल्लोकपतित्वदेवगुरुत्वलाभः, मार्तण्डात्संज्ञाप्रतिकृतौ छायायां शनैश्चरोत्पत्तिकथनम्, तस्य वाराणस्यां तपश्चरणाल्लोकपालत्वग्रहमुख्यत्वलाभवर्णनं च ॥
१८ ब्रह्ममानससृष्टमरीच्यादिपुत्रसप्तर्षिलोकवर्णनम्, अरुन्धतीनक्षत्रस्थानदर्शनादिवर्णनं च ॥
१९ पितुरंकाधिष्ठितस्य सापत्नमात्रा तिरस्कृतस्य ध्रुवस्य मातृवचनात्तपस्यार्थं विपिनप्रवेशः, तत्र सप्तर्षिसमागमः, तस्मै द्वाद्शाक्षरमन्त्रमुपदिश्य मुनीनामन्तर्धानं च ॥
२० यमुनातटे मधुवने स्थितस्य ध्रुवस्य तपस्यावर्णनम्, इन्द्रप्रेषितनानाविधतपोविघ्न निरूपणम्, ध्रुवस्य साक्षाच्छ्रीभगवतो दर्शनं च ॥
२१ ध्रुवकृतश्रीभगवत्स्तोत्रनिरूपणम्, ज्योतिश्चक्रस्याधारपदं ते दास्यामि तथापि मया सह काशी याहि तत्र लिंगार्चनं कृत्वा कृतकृत्यो भव इति ध्रुवं सन्दिश्य तेन सह भगवतः काशीपुर्यां प्रयाणम्, तत्र ध्रुवस्य लिंगस्थापनेन कृतकृत्यत्वमासाद्य स्वगृहे प्रयाणं च ॥
२२ महर्जनतपोलोकवर्णनम्, सत्यलोके समागतानां ब्रह्मणा सह संवादाः, द्विजप्रशंसनपूर्वकं ब्रह्मकृतकाशीवर्णनं च ॥
२३ भूलोकाच्छिवलोकपर्यन्तं योजनप्रमाणकथनम्, शिवोपासनतो विष्णोरात्मसात्म्यप्राप्तिकथनपूर्वकं शिवकृतविष्ण्वभिषेकवर्णनं च ॥
२४ द्विजस्य मायापुर्यां मरणतो विष्णुलोके ब्रह्मणो वत्सरपर्यंतं बहुविधोपभोगप्राप्तिः, ततश्च पुण्यक्षये नन्दिवर्धनग्रामे भूपत्वमासाद्य प्रजारञ्जनकर्तुरस्य काशीमाहात्म्यश्रवणसंजातहर्षस्य काश्यां प्रयाणम्, विश्वेश्वरानुग्रहात्तत्र शिवप्रासादं विधाय वृद्धकालेश्वराख्यस्थापितशिवलिङ्गाग्रे तपस्यतः परीक्षणार्थमागतेन शिवेन परीक्षणोत्तरं सह तेन सस्त्रीकस्य राज्ञस्तस्मिन्नेव लिंगे लयो भविष्यति इति विष्णुगणप्रतिपादित शिवशर्मद्विजभाविस्थितिवर्णनम् ॥
२५ अगस्त्यमुनेः सभार्यस्य श्रीगिरिं प्रदक्षिणीकृत्य स्कन्दवने कुमारदर्शनम्, अगस्त्यकृतस्कन्दस्तोत्रम्, काशीमाहात्म्यविषये स्कन्दं प्रति मुनिप्रश्नः, स्कन्दनिरूपित काशीवासफलकथनं च ॥
२६ अविमुक्तक्षेत्रोत्पत्तिवर्णनम्, चक्रपुष्करिणीतीरे विष्णोस्तपोवर्णनम्, मणिकर्णिकाया उत्पत्तिवर्णनम्, मणिकर्णिकास्नानविधिकथनं च ॥
२७ गंगामाहात्म्यवर्णनम्, दशहरास्तोत्रकथनं च ॥
२८ शिवाधिष्ठानगौरवतः काश्यां गंगास्नानान्महापातकोपपातकशमनवर्णनम्, कलिंगदेशे वाहीकनाम्नः कस्यचिन्नाममात्रद्विजस्य वृषलीपतेररण्ये व्याघ्रेण मारणम्, सास्थि तन्मांसं समादाय गच्छतो गृध्रस्यान्यगृध्रेण युद्धम्, दैवतस्तदस्थ्नो गंगाजलेपतनेन गंगाजलसंगमान्महाश्चर्यम्, नानाविधपातकक्षालनाय कुम्भीपाकादिनरकेषु प्रक्षिप्तस्यापि तस्य वाहीकस्य सुखावाप्तिं विलोक्य सर्वेषां विस्मयकरणम्, अन्ते विमानमारुह्य वाहीकस्य स्वर्गलोकप्रयाणम्, गंगामाहात्म्यकथनं च ॥
२९ अशक्तानां स्नानतुल्यफलावाप्तिमिच्छूनां महाघौघनिवारकश्रीगंगासहस्रनामस्तोत्रवर्णनम् ॥
३० मणिकर्ण्यां भगीरथनृपानीतगंगासंगमात्क्षेत्रमाहात्म्याधिक्यकथनम्, दक्षिणोत्तरभागेऽसिवरणावस्थितिकथनम्, देहलीविनायकस्य शिवाज्ञां विना अन्तः प्रवेशं
कुर्वतां विघ्नोत्पादनाय नियोजनम्, धनंजयवणिगितिहासकथनम्, काश्या वाराणसीनामनिर्वचनं च ॥
३१ ब्रह्मणः शिरश्छेत्तुं शिवात्कालराजस्योत्पत्तिः, शिवीनिंदाकारिब्रह्मशिरश्छेदात्कालराजस्य कापालिकवेषेण काश्यां प्रयाणम्, तत्र गतस्य कालभैरवस्य पृष्ठलग्नाया ब्रह्महत्यायाः पातालगमनम्, तत्र कपालमोचनतीर्थे सर्वेषां पातकक्षालनाय कालभैरवस्थितिवर्णनं च ॥
३२ पूर्णभद्रनामकयक्षस्य शिवाराधनात्कनककुण्डलाख्यभार्यायां हरिकेशाभिधपुत्रजन्मकथनम्, बाल्यावस्थामारभ्य शिवासक्तस्य हरिकेशस्य पितुस्ताडनभयाद्गृहान्निर्गतस्य काश्यां प्रयाणम्, पार्वतीं प्रति शिवनिरूपितानन्दकाननवर्णनम्, आनन्दकानने हरिकेशस्य तपःसन्तुष्टमहेश्वराद्दृण्डपाणित्वकथनम्, दण्डपाण्यष्टककथनं च ॥
३३ ज्ञानवापीनामकतीर्थोत्पत्तिवर्णनपूर्वकतन्नाममाहात्म्यवर्णनम्, काशीनिवासिहरिस्वामिकन्याया ज्ञानवापीं सेवमानायास्तद्रूपमोहितविद्याधरेणाहरणम्, मलय-पर्वते विद्याधरेण साकं राक्षसस्य युद्धवर्णनम्, युद्धे राक्षसविद्याधरयोः परस्परप्रहारेणैव मरणाद्धरिस्वामिकन्याया विद्याधरं प्रति मन्यमानाया देहपरित्यागकथनम्, उभयो राजदेहमासाद्य तत्र चित्रपटीविलोकनानन्तरं विवाहः ॥
३४ माल्यकेतुकलावत्योस्तयोः काशीप्रयाणम्, तत्र काशीयात्रां विधाय ज्ञानवापीनिकटे शिवोपदेशाद्विमानमारुह्योभयोः शिवलोकगमनकथनम्, ज्ञानवापीमाहा-
त्म्यकथनं च ॥
३५ काशीप्रापकब्राह्मणसदाचारवर्णनप्रसङ्गेन नित्यकर्तव्यधर्मनिरूपणम् ॥
३६ सदाचारवर्णनप्रसङ्गेन द्विजानां ब्रह्मचर्यधर्मनिरूपणम् ॥
३७ सुलक्षणां स्त्रियं विना गृहस्थाश्रमस्य न सिद्धिस्तस्माद्विस्तरेण स्त्रीलक्षणनिरूपणम् ॥
३८ अष्टविधविवाहवर्णनम्, द्विजादीनां काशीप्राप्तिकरस्य शुभाचारस्य विस्तरेण कथनं च ॥
३९ दिवोदासनृपेतिहासकथनप्रसङ्गेनाविमुक्ते क्षेत्रे अविमुक्तेशशिवलिङ्गोत्पत्तिकथनम् ॥
४० काशिकाक्षेत्रगमनविघ्नविधायिद्विजादिनिषिद्धाचारस्वरूपवर्णनम्, गृहस्थाश्रमिणां विहिताचारनिरूपणं च ॥
४१ वानप्रस्थयतिधर्माणां विस्तरेण निरूपणे योगाख्यानम् ॥
४२. निकटासन्नमृत्युचिह्नकथनपूर्वकं श्रीक्षेत्रकाशीमाहात्म्यमिश्रितकालवञ्चनोपायकथनम् ॥
४३ दिवोदासे काश्यामुषित्वा भुवो राज्यं शासति सति सर्वेषां विश्वेश्वरादिदेवानां भुवं परित्यज्य मन्दराचलगमनम्, दिवोदासराज्ये प्रजासौख्यवर्णनम्, भुवं परित्यज्य अग्नेरपि स्वर्गगमनम्, तद्विलोक्य राज्ञा व्याहृतस्य स्वसामर्थ्यस्य वर्णनं च ॥
४४ विश्वनाथभवान्योर्मन्दरगिरिवरे स्थितयोः काशीवियोगदुःखवर्णनम्, दिवोदासनृपस्य काशीक्षेत्रपरित्यागार्थं शिवेन योगिनीगणप्रेषणवर्णनं च ॥
४५ चतुःषष्टियोगिनीतां शिवाज्ञया काशीपुरे राज्ञो दिवोदासस्य विघ्नार्थं प्रवेशकथनम्, तासां नामनिरूपणं च... ... ... -..... - .. २१० १
४६ दिवोदासस्य विघ्नमुत्पाद्य काश्यां बहिर्निष्कासनाय शिवादिष्टरव्यागमनम्, दिवोदासराज्ये नानाविधप्रयत्नेन च्छिद्रान्वेषणोद्यतस्य रवेर्द्वादशधा आत्मानं विभज्य काश्यामेव निवासकथनम्, लोलार्कस्थानकथनम्, तत्तीर्थयात्राविधिमाहात्म्यकथनं च ॥
४७ उत्तरार्ककुण्डनिरूपणम्, तत्र स्थिताया द्विजकन्याया मातापित्रोर्मरणानन्तरमुत्तरार्कसमीपे तपश्चरणम्, तस्यै गौर्या स्वसखीत्वरूपवरप्रदानम्, उत्तरार्ककुण्डमाहात्म्यनिरूपणं च ॥
४८ कृष्णपुत्रस्य सांबस्य नारदापमानात्कृष्णशापप्रभवकुष्ठरोगावगमकथनम्, तत्परिहाराय काश्यां तस्य स्वनाम्ना कुण्डं विधाय तपश्चरणाद्रोगनिवृत्तिः, कुण्डमाहात्म्यसहितसांबादित्यमाहात्म्यकथनं च ॥
४९ पाण्डवानां वनवासप्रसङ्गेन काश्यां गमनम्, तत्र द्रौपद्या सूर्याराधनम्, तस्यै सूर्यत्तः स्थालीप्राप्तिः, द्रौपद्याराधितरवेः स्थाननिरूपणम्, मयूखादित्यमाहात्म्यवर्णनं च ॥
५० उच्चैःश्रवसो वर्णविषये कद्रूविनतयोर्वादकथनम्, तत्र कापट्येन विनतायाः पराभवात्कद्रूदास्यकरणम्, मातुर्दास्यापनोदाय गरुडस्य सुधाहरणवर्णनम्, विनतागरुडयोः काश्यां शिवलिंगस्थापनपूर्वकं तपश्चरणम्, तयोर्वरप्रदानपूर्वकखखोल्कादित्यस्थानमाहात्म्यकथनं च ॥
इति श्रीकाशीखण्डपूर्वार्धम् ॥
॥ अथ काशीखण्डोत्तरार्धम् ॥
५१ अरुणादित्यमाहात्म्यवर्णनम्, विनतादास्यकारणकथनम्, वृद्धहारीतोपासितवृद्धादित्यमाहात्म्यकथनम्, विष्णुवचनात्काश्यां शिवलिंगं प्रतिष्ठाप्य सूर्यस्य तपश्चरणम्, तस्य केशवादित्यनामप्राप्तिपूर्वकमाहात्म्यवर्णनम्, विमलगंगायमादित्यानां संक्षेपतो वर्णनं च ॥
५२ दिवोदासनृपतिनिष्कासनाय शिवप्रेषितस्य चतुराननस्य द्विजवेषेण काश्यां दशसंख्याकाश्वमेधकरणात्तीर्थस्यदशाश्वमेधनामकरणकथनम्, तत्तीर्थमाहात्म्यवर्णनं च ॥
५३ शिवप्रेषितानां योगिनीभानुविधीनां काश्यामेव शिवलिंगानि संस्थाप्य तत्रैव स्थितानां स्थितिं परिज्ञातुं दिवोदासस्य निष्कासनाय च शंकुकर्णादीनां शिवाज्ञया काशीप्रयाणवर्णनम्, काशीवर्णनं च ॥
५४ शम्भोरत्यन्तप्रियकपर्दिगणस्थापितशिवलिंगमाहात्म्यवर्णनप्रसङ्गेन वाल्मीकिसंज्ञक द्विजेतिहासकथनम्, तत्कृतपिशाचोद्धारवर्णनम्, पिशाचमोचनतीर्थयात्रामाहात्म्यकथनं च ॥
५५ पिंगलादिगणस्थापितशिवलिंगमाहात्म्यनिरूपणम्, ये ये गणाद्याः काशीस्थितिं विलोकयितुं शिवेन प्रेषितास्तेषामषुनरावृत्तिं विलोक्य काश्यां शिवाज्ञया गणेशस्य प्रवेशवर्णनं च ॥
५६ गणेशस्य ज्यौतिषिकद्विजवेषमाश्रित्य काश्यां प्रवेशवर्णनम्, स्वमायया पुरीस्थितानेकजनमोहं विधाय राज्ञोऽन्तःपुरे गणेशस्य राजस्त्रीभिः सहाऽऽलापादिवर्णनम्, दिवोदासनृपसमागमे राज्ञो वर्णनपूर्वकं गणेशेन तस्मै ब्राह्मणागमनपूर्वक ब्राह्मणकृतोपदेशरूप भविप्यकथनं च ॥
५७ अथ शिवेन कृताया गणेशस्तुतेः प्रसंगतो वर्णनम्, गणेशस्य ढुंढिराजनामकथनम्, भगीरथहरिश्चन्द्रादिगणेशस्थानकथनं च ॥
५८ अथ गणेशेऽपि विलंबिते चिन्तापरवशेन शिवेन दिवोदासनृपस्य काशीत उच्चाटनाय विष्णुनिरूपणम्, काश्यां विष्णोर्नानाविधस्थाननिरूपणम् , विष्णुलक्ष्मीगरुडैः सौगतपरिव्राजिकाशिष्यरूपैर्बौद्धधर्मस्थापनप्रकारवर्णनम्, प्रजा अधर्मरुचीः कृत्वा गणेशवचनानुसारेण द्विजरूपस्य विष्णो राज्ञे शिवलिंगस्थापनोपदेशकथनम्, शिवलिङ्गमभ्यर्च्य राज्ञो दिवोदासस्य विमानमारुह्य कैलासपुर प्रयाणवर्णनं ॥
५९ वेदशिरसो मुनेः शुचिमप्सरसं दृष्ट्वा स्खलितवीर्यस्य वीर्यात्कन्योत्पत्तिकथनम्, तस्या धूतपापाख्यायाः कन्यायाः पितुर्वचनात्तपश्चर्याकरणम्, ब्रह्मणो वरदानात्तस्याः पावित्र्यविशेषताप्राप्तिकथनम्, तां दृष्ट्वा धर्मस्य कामोद्दीपनात्परस्परं शापप्रसङ्गेन तयोर्नदीनदत्वप्राप्तिकथनम्, गंगायमुनासरस्वतीकिरणाधूतपापाधर्मनदसंगमात्पञ्चनदीतीर्थकथनम्., तन्माहात्म्यकथनं च ॥
६० अग्निबिंदुमुनिकृतविष्णुस्तुतिवर्णनम्, तत्र बिदुमाधवावस्थानवर्णनम्, बिन्दुमाधवमाहात्म्यवर्णनं च ॥
६१ आदिकेशवतार्क्ष्यकेशवादिवैष्णवस्थानानां संक्षेपतो वर्णनम्, बिंदुमाधवनिरूपितनानास्थानतद्यात्रादिनिरूपणम्, बिंदुमाधवकथनादग्निबिंदुमुनेः सुदर्शनचक्रसंस्पर्शात्सायुज्यलाभनिरूपणं च ॥
६२ दिवोदासनृपे विष्णुकथनानुसारेण कैलासपुरं प्रविष्टे विष्ण्वादीनां मन्दरे हरसन्निधौ शिवानयनार्थं गमनम्, शिवकृतकपिलतीर्थवर्णनम्, कपिलतीर्थे वृषध्वजप्रादुर्भावकथनं च ॥
६३ जैगीषव्यमुनितपोवर्णनम्, तस्य शिवाद्वरप्राप्तिकथनम्, ज्येष्ठेशमाहात्म्यकथनं च ॥
६४ मन्दराचलादागतं शिवं सगणं साम्बं द्रष्टुं नानातीर्थागतानां द्विजानां शिवदर्शनम्, शिवप्रणीतकाशीक्षेत्ररहस्यकथनं च ॥
६५ पराशरेश्वरमांडव्येश्वरजाबालेश्वरकन्दुकेश्वरादिनानाविधशिवलिङ्गमाहात्म्यरूथनम ॥
६६ शैलेश्वरादीनां काशीक्षेत्रस्थितशिवलिङ्गानां निर्णयकथनम् ॥
६७ गौरीं प्रति शिवनिरूपितरत्नेश्वरशिवलिङ्गमाहात्म्यकथनम्, कस्याश्चिन्नर्तक्याः शिवरात्र्यां रत्नेश्वरसमीपे नर्तनगानादिना जागरणाच्च शिवप्रसादेन देहान्तरे वसुभूतिनामकगन्धर्वराजतनयात्वलाभवर्णनम्, रत्नावलीनाम्न्यास्तस्या गन्धर्वकन्याया रत्नेश्वरवरलिंगप्रभावात्परमाश्चर्यजनकविवाहादिचरितवर्णनम्, दाक्षायणीश्वरमाहात्म्यकथनं च ॥
६८ महिषासुरपुत्रस्य गजासुरस्य विधिवरादन्यावध्यस्य शिवेन शूलेन विनाशनम्, कृत्तिवासेश्वरोत्पत्तिकथनम्, कृत्तिवासेशमाहात्म्यकथनं च ॥
६९ नानाविधस्थानस्थितानां शुभदानामष्टषष्टिसंख्याकानामायतनानां काश्या समागमकथनम् ॥
७० वेतालादिपरिवारसहितानां नवकोटिसंख्यचण्डीनां काशीरक्षणाय स्थानेस्थाने स्थापनवर्णनं च ॥
७१ रुरुदैत्यपुत्रस्य पुंभिरजेयस्य दुर्गासुरस्य त्रैलोक्यराज्यकर्तुर्नाशाय स्वनिकटे तमानेतुं भगवत्याः कालरात्रेः प्रेषणम्, कालरात्रिवचनात्ससैन्यस्य दुर्गदैत्यस्य भगवत्याः समीप आगमनम्, युद्धोद्यतं दुर्गसैन्यं विलोक्य देवीशरीराच्छक्युद्गमवर्णनम्, दुर्गासुरस्य भगवत्या सह युद्धवर्णनं च ॥
७२ भगवतीशरीरोत्पन्नशक्तीनां नामनिरूपणम्, दैत्यदेवीयुद्धवर्णनम्, दुर्गदैत्यवधसन्तुष्टदेवकृतदुर्गादेवीस्तुतिकथनम्, दुर्गाभैरवपूजनफलकथनं च ॥
७३ पार्वतीं प्रति शिवनिरूपितोंकारादि चतुर्दशलिंगगणनम्, ओंकाररेशोत्पत्तिवर्णनप्रसंगेन ब्रह्मकृतोंकारस्तुतिकथनम् , ओंकारेशलिङ्गमाहात्म्यनिरूपणं च ॥
७४ पाद्मकल्पीयभरद्वाजसुतदमनस्य विद्यामधीत्य विरक्तस्य रेवातीरेऽमरकंटकक्षेत्रे गर्गनाम्नो मुनेर्दर्शनम्, गर्गमुनिनिरूपितोंकारमाहात्म्यवर्णनं च ॥
७५ सप्तजन्मार्जितपापनिवारणैकदक्षत्रिलोचनेश्वराविर्भावकथनम्, तन्माहात्म्यनिरूपणं च ॥
७६ मणिमाणिक्यनिर्मितत्रिलोचनप्रासादस्थितपारावतद्वन्द्वेतिहासकथनपूर्वकं त्रिलोच-नाख्यशिवलिंगमाहात्म्यकथनम् ॥
७७ केदारेश्वरमाहात्म्यकथनप्रसङ्गेनोज्जयिनीस्थितद्विजदारकेतिहासकथनम् ॥
७८ यमधर्माराधितधर्मेश्वराख्यशिवलिंगमाहात्म्यनिरूपणम् ॥
७९ धर्मतपःसाक्षिणां कीरशिशूनां शिववरात्कैलासपदाप्तिकथनपूर्वकं धर्मेशमाहात्म्यकथनम् ॥
८० पुलोमजां प्रति शिवनिरूपितस्य चैत्रशुक्लतृतीयामारभ्य फाल्गुनशुक्लतृतीयापर्यन्तं विश्वभुजाख्यगौरीविनायकदैवतमनोरथतृतीयाव्रतस्य विस्तरेण वर्णनम् ॥
८१ सुरगुरोर्वचनाद्वृत्रहत्योद्भवत्राससंतप्तेन्द्रस्य काश्यामुत्तरवाहिन्यां स्नात्वा घर्मेशाख्यशिवलिंगसंनिधौ तपश्चरणम्, ब्रह्महत्यानिवृत्तिपूर्वकमिंद्रस्य पूर्ववत्तेजःप्राप्तिकथनम्, दुर्दमभूपेतिहासकथनपूर्वकधर्मेशमाहात्म्यकथनं च ॥
८२ वीरेश्वराविर्भावप्रसङ्गेन मित्रजित्पराक्रमवर्णनम्, महावैष्णवस्य मित्रजिन्नृपस्य कंकालासुरं त्रिशूलेन हत्वा कंकालासुरहृतमलयगन्धिनी विद्याधरकन्यां गान्धर्वेणोद्वाह्य तया सह काश्यामागमनम्, अभीष्टतृतीयाव्रतविषये राज्ञीं प्रति नृपप्रश्नश्च ॥
८३ नृपप्रश्नानुसारेण मार्गशीर्षशुक्लतृतीयायां राज्ञीनिरूपितगौरीविधिदेवताभीष्टतृतीयाव्रतनिरूपणम्, व्रतकरणाद्राज्ञ्याः पुत्रलाभः मूलर्क्षे जातस्य मात्रा विकटादेवीपुरतः स्थापितस्य तस्य शिशोर्देव्यनुज्ञया माहेश्वर्यादिमातृसमीपे प्रेषणम्, मातृविसृष्टस्य बालकस्यानन्दकानने पञ्चमुद्रादेवीनिकटे तपश्चरणाच्छिवलिंगाविर्भावः, अस्यैव लिंगस्य वीरेश्वराख्याप्राप्तिस्तन्माहात्म्यकथनम्, वीरेश्वरशिवेन तस्मै राजपुत्राय नानाविधवरान्दत्त्वा कथितानामसिगंगासंगमस्थितपुण्यस्थानानां क्रमेण वर्णन च ॥
८४ मित्रजिन्नृपपुत्राय वीरेश्वराख्यशिवनिरूपितानां श्रीमदादिकेशवादिभगीरथतीर्थानां कथनम् ॥
८५ आनंदकानने शिवलिंगं संस्थाप्य बहुतपस्तत्वाऽपि फलाभावाद्दुर्वाससि काशीं शप्तुमुद्यते शिवस्य लिंगादाविर्भाववर्णनम्, दुर्वासःकामपूरणात्तच्छिवलिंगस्य कामे- श्वराभिधानं तन्माहात्म्यकथनं च ॥
८६ विश्वकर्मनिर्मितशिवलिंगस्य काश्यां विश्वकर्मेश्वराभिधानकथनपूर्वकमाहात्म्यवर्णनम् ॥
८७ दक्षेश्वरोत्पत्तिकथनपूर्वकं केनचित्प्रसङ्गेन शिववैरिणो दक्षप्रजापतेः शिवौ विना यज्ञारम्भवर्णनम् ॥
८८ नारदमुखादघ्वरवृत्तमाकर्ण्य शिववचनमनादृत्यैव सत्या दक्षयज्ञं प्रति गमनम्, तत्र शिवनिंदां पितुर्मुखादाकर्ण्य परमकुपितया तया देहविसर्जनम ॥
८९ शिवगणवीरभद्रकृतं यत्रविध्वंसनपूर्वकं दक्षशिरोनाशनम्, पुनर्वीरभद्रेण शिवाज्ञया दक्षस्य मेषवदनत्वं संपाद्य विमोचनम्, काश्यां शिवलिंगं संस्थाप्य दक्षस्य तपःकरणम्, दक्षेश्वरोत्पत्तिकथनं च ॥
९० पार्वतीकृतपार्वतीशशिवलिंगस्थापनम्, तन्माहात्म्यनिरूपणं च ॥
९१ विश्वनाथशिवलिंगात्पूर्वतो गंगास्थापितगंगेशलिंगमाहात्म्यवर्णनं च ॥
९२ ब्रह्मणः सकाशाद्गङ्गासाम्यरूपं वरमलब्ध्वा काश्यां शिवलिङ्गं संस्थाप्य रेवायास्तपःकरणम्, नर्मदेश्वरदत्तरेवावरदानकथनपूर्वक तल्लिङ्गमाहात्म्यवर्णनं च ॥
९३ शिवं पतिं लब्धुं काश्यां ,चीस्थापितसतीश्वरलिंगमाहात्म्यवर्णनम ॥
९४ अमृतेश्वरकरुणेश्वरज्योतीरूपेश्वराणां शिवलिंगानां माहात्म्यवर्णनम् ॥
९५ काश्यामपि भुजमूर्ध्वीकृत्य हरिः सेव्यो हरिः सेव्य इति व्सासवचनं श्रुत्वा शैलादिकृतव्यासभुजवाक्स्तम्भनवर्णनम् ततो विष्णोरुपदेशेन व्यासेन विष्णुकण्ठसंस्पर्शनात्स्तम्भनान्निवृत्य शिवस्तुतिकरणम्, .. ॥
९६ व्यासशापमोचनकथनम्, कृच्छ्रादिस्वरूपकथनम्, व्यासस्य काशीतो बहिर्निष्कासनवृत्तान्तवर्णनम् ॥
९७ सर्वपापापनोदनकाशीक्षेत्रस्थितसर्वतीर्थकथनम् ॥
९८ काश्यां मुक्तिमण्डपे श्रीविश्वेश्वरसमागमनमहोत्सवस्य विशेषेण वर्णनम् ॥
९९ श्रीशम्भुना ब्रह्मविष्ण्वादिदेवेभ्यः श्रोविश्वेश्वराख्यस्य काशीशेत्रपरमदैवतस्य माहात्म्यनिरूपणम् ॥
१०० काशीखण्डान्तर्गतेतिहासानुक्रमवर्णनम्, पञ्चतीर्थ्यादियात्रावर्णनन्, काशीखण्डश्रवणपठनफलवर्णनं च ॥
इति काशीखण्डोत्तरार्धम् ॥
इति श्रीस्कान्दे महापुराणे चतुर्थं काशीखण्डम् ॥