काशीखण्डः - अध्याय ८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ लोपामुद्रोवाच ॥
जीवितेश कथामेतां पुण्यां पुण्यपुरीश्रिताम् ॥
न तृप्तिमधिगच्छामि श्रुत्वा त्वच्छ्रीमुखेरिताम् ॥१॥
मायापुर्यां मुक्तिपुर्यां शिवशर्मा द्विजोत्तमः ॥
मृतोपि मोक्षं नैवाप ब्रूहि तत्कारणं विभो ॥२॥
॥ अगस्त्य उवाच ॥
साक्षन्मोक्षो न चैतासु पुरीषु प्रियभाषिणि ॥
पुरोद्दिश्यामुमेवार्थमितिहासो मयाश्रुतः ॥३॥
शृणु कांते विचित्रार्थां कथां पापप्रणाशिनीम् ॥
पुण्यशीलसुशीलाभ्यां कथितां शिवशर्मणे ॥४॥
शिवशर्मोवाच ॥
अयि विष्णुगणौ पुण्यौ पुंडरीकदलेक्षणौ ॥
किंचिद्विज्ञप्तुकामोहं प्रवृद्धकरसंपुटः ॥५॥
न नाम युवयोर्वेद्मि वेद्म्याकृत्या च किंचन ॥
पुण्यशीलसुशीलाख्यौ युवां भवितुमर्हथः ॥६॥
॥ गणा वूचतुः ॥
भगवद्भक्तियुक्तानां किमज्ञातं भवादृशाम् ॥
एतदेव हि नौ नाम यदुक्तं श्रीमता त्वया ॥७॥
यदन्यदपि ते चित्ते प्रष्टव्यं तदशंकितम् ॥
संपृच्छस्व महाप्राज्ञ प्रीत्या तत्प्रब्रवावहे ॥८॥
इति श्रुत्वा स वचनं भगवद्गणभाषितम् ॥
अतिप्रीतिकरं हृद्यं ततस्तौ प्रत्युवाच ह ॥९॥
॥ दिव्य द्विज उवाच ॥
क एष लोको ऽल्पश्रीकः स्वल्पपुण्यजनाकृतिः ॥
क इमे विकृताकारा ब्रूतमेतन्ममाग्रतः ॥१०॥
॥ गणावूचतुः ॥
अयं पिशाचलोकोत्र वसंति पिशिताशनाः ॥
दत्त्वानुतापभाजो ये नोनो कृत्वा ददत्यपि ॥११॥
शिवं प्रसंगतोभ्यर्च्य सकृत्त्वशुचिचेतसः ॥
अल्पपुण्याल्पलक्ष्मी काः पिशाचास्त इमे सखे ॥१२॥
ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनावृतम् ॥
पिचंडिलैः स्थूलवक्त्रैर्मेघगंभीरनिःस्वनैः ॥१३॥
लोकैरप्युषितं लोकं श्यामलांगैश्च लोमशैः ॥
गणौ कथयतां केमी को लोकः पुण्यतः कुतः ॥१४॥
॥ गणावूचतुः ॥
गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः ॥
न्यायेनोपार्ज्य वित्तानि गूहयंति च ये भुवि ॥१५॥
स्वमार्गगाधनाढ्याश्च शूद्रप्रायाः कुटुंबिनः ॥
संविभज्य च भोक्तारः क्रोधासूयाविवर्जिताः ॥१६॥
न तिथिं नैव वारं च संक्रात्यादि न पर्व च ॥
नाधर्मं न च धर्मं च विदंत्येते सदा सुखाः ॥१७॥
एकमेव हि जानंति कुलपूज्यो हि यो द्विजः ॥
तस्मै गाः संप्रयच्छंति मन्यंते तद्वचःस्फुटम् ॥१८॥
समृद्धिभाजोह्यत्रापि तेन पुण्येन गुह्यकाः ॥
भुंजते स्वर्गसौख्यानि देववच्चाकुतोभयाः ॥१९॥
ततो विलोकयामास लोकं लोचनशर्मदम् ॥
केऽमी जनास्त्वसौ लोकः किंनामा वदतां गणौ ॥२०॥
॥ गणावूचतुः ॥
गांधर्वस्त्वेषलोकोऽमी गंधर्वाश्च शुभव्रताः॥
देवानां गायनाद्येते चारणाः स्तुतिपाठकाः ॥२१॥
गीतज्ञा अतिगीतेन तोषयंति नराधिपान् ॥
स्तुवंति च धनाढ्यांश्च धनलोभेन मोहिता. ॥२२॥
राज्ञां प्रसादलब्धानि सुवासांसि धनान्यपि॥
द्रव्याण्यपि सुगंधीनि कर्पूरादीन्यनेकशः ॥२३॥
ब्राह्मणेभ्यः प्रयच्छंति गीतं गायंत्यहर्निशम् ॥
श्रुतावेव मनस्तेषां नाट्यशास्त्रकृतश्रमाः ॥२४॥
तेन पुण्येन गांधर्वो लोकस्त्वेषां विशिष्यते ॥
ब्राह्मणास्तोषिता यद्वै गीतविद्यार्जितैर्धनैः ॥२५॥
गीतविद्याप्रभावेन देवर्षिर्नारदो महान् ॥
मान्यो वैष्णवलोके वै श्रीशंभोश्चातिवल्लभः ॥२६॥
तुंबुरुर्नारदश्चोभौ देवानामतिदुर्लभौ ॥
नादरूपी शिवः साक्षान्नादतत्त्वविदौ हि तौ ॥२७॥
यदि गीतं क्वचिद्गीतं श्रीमद्धरिहरांतिके ॥
मोक्षस्तु तत्फलं प्राहुः सान्निध्यमथवा तयोः ॥२८॥
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ॥
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥२९॥
अस्मिँल्लोके सदा कालं स्मृतिरेषा प्रगीयते ॥
तद्गीतमालया पूज्यौ देवौ हरिहरौ सदा ॥३०॥
इति शृण्वन्क्षणात्प्राप पुनरन्यन्मनोहरम् ॥
शिवशर्माथ पप्रच्छ किं संज्ञं नगरं त्विदम् ॥३१॥
गणावूचतुः ॥
असौ वैद्याधरो लोको नाना विद्या विशारदाः ॥
एते विद्यार्थिनामन्नमुपानद्वस्त्रकंबलम् ॥३२॥
औषधान्यपि यच्छंति तत्पीडाशमनानि हि ॥
नानाकलाः शिक्षयंति विद्यागर्वविवर्जिताः ॥३३॥
शिष्यं पुत्रेण पश्यंति वस्त्र तांबूल भोजनैः ॥
अलंकृताश्च सत्कन्या धर्मादुद्वाहयंति च ॥३४॥
अभिलाषधिया नित्यं पूजयंतीष्टदेवताः ॥
एतः पुण्यैर्वसंतीह विद्याधर वरा इमे ॥३५॥
यावदित्थं कथां चक्रुस्तावत्संयमिनीपतिः ॥
धर्मराजोभिसंप्राप्तो देवदुंदुभि निःस्वनैः ॥३६॥
सोम्यमूर्तिर्विमानस्थो धर्मज्ञैः परिवारितः ॥
सेवाकर्मसु चतुरैर्भृत्यैस्त्रिचतुरैः सह ॥३७॥
धर्मराज उवाच ॥
साधुसाधु महाबुद्धे शिवशर्मन्द्विजोत्तम ॥
कुलोचितं ब्राह्मणानां भवता प्रतिपादितम् ॥३८॥
वेदाभ्यासः कृतः पूर्वं गुरवश्चापि तोषिताः ॥
धर्मशास्त्रपुराणे षु दृष्टो धर्मस्त्वयाऽऽदृतः ॥३९॥
क्षालितं मुक्तिपुर्यद्भिराशुगंतृशरीरकम् ॥
कोविदोऽस्ति भवानेव जीविते जीवितेतरे ॥४०॥
कलेवरं पूतिगंधि सदैवाशुचिभाजनम् ॥
सुतीर्थपुण्य पण्येन सम्यग्विनिमितं त्वया ॥४१॥
अतएवाहि पांडित्यमाद्रिंयते विचक्षणाः ॥
अहःक्षेपं न क्षिपंति क्षणमेकं हि ते बुधाः ॥४२॥
निमेषान्पंचपान्मर्त्ये प्राणंति प्राणिनो ध्रुवम् ॥
तत्रापि न प्रवर्तेयुरघकर्मणि गर्हिते ॥४३॥
स्थिरापायः सदा कायो न धनं निधनेऽवति ॥
तन्मूढः प्रौढकार्ये किं न यतेत भवानिव ॥४४॥
सत्वरं गत्वरं चायुर्लोकः शोकसमाकुलः ॥
तस्माद्धर्मे मतिः कार्या भवतेव सुधार्मिकैः ॥४५॥
सत्कर्मणो विपाकोऽयं तव वंद्यौ ममाप्यहो ॥
यदेतौ भगवद्भक्तौ सखित्वं भवतो गतौ ॥४६॥
ममाज्ञा दीयतां तस्मात्साहाय्यं करवाणि किम् ॥
यत्कर्तव्यं मादृशैस्ते तत्कृतं भवतैवहि ॥४७॥
अद्य धन्यतरोस्मीह यद्दृष्टौ भगवद्गणौ ॥
सेवा सदैव मे ज्ञाप्या श्रीमच्चरणसन्निधौ ॥४८॥
ततः प्रस्थापितस्ताभ्यां प्राविशत्स्वपुरीं यमः ॥
अप्राक्षीच्च ततो विप्रस्तौ गणौ प्रस्थिते यमे ॥४९॥
॥ शिवशर्मोवाच ॥
साक्षादयं धर्मराजो ननु सौम्यतराकृतिः ॥
धर्म्याण्येव वचांस्यस्य मनः प्रीतिकराणि च ॥५०॥
पुरी संयमनी सेयमतीव शुभलक्षणा ॥
आकर्ण्य यस्य नामापि पापिनोऽतीव बिभ्यति ॥५१॥
यमरूपं वर्णयंति मर्त्यलोकेऽन्यथा जनाः ॥
अन्यथाऽयं मया दृष्टो ब्रूतं तत्कारणं गणौ ॥५२॥
केन पश्यंत्यमुं लोकं निवसंति तथात्र के ॥
इदमेवास्य किं रूपं किं चान्यच्च निवेद्यताम् ॥५३॥
॥ गणावूचतुः ॥
शृणु सौम्य सुसौम्योऽसौ दृश्यतेत्र भवादृशैः॥
धर्ममूर्तिः प्रकृत्यैव निःशंकैः पुण्यराशिभिः ॥५४॥
अयमेव हि पिंगाक्षः क्रोधरक्तांतलोचनः ॥
दंष्ट्राकरालवदनो विद्युल्ललनभीषणः ॥५५॥
ऊर्ध्वकेशोऽतिकृष्णांगः प्रलयांबुदनिःस्वनः ॥
कालदंडोद्यतकरो भुकुटी कुटिलाननः ॥५६॥
आनयैनं पातयैनं बधानामुंच दुर्दम ॥
घातयैनं सुदुर्वृत्तं मूर्ध्नि तीव्रमयोघनैः ॥५७॥
आताडयैनं दुर्वृत्तं धृत्वा पादौ शिलातले ॥
उत्पाटयास्य नेत्रे त्वं निधाय चरणं गले ॥५८॥
एतस्य गल्लावुत्फुल्लौ क्षुरेणाशुवि पाटय ॥
पाशेन कंठं बद्धास्य समुल्लंबय भूरुहे ॥५९॥
विदारयास्य मूर्धानं करपत्रेण दारुवत् ॥
पार्ष्णिघातैर्घ्नतास्यास्यं समुच्चूर्णय दारुणैः ॥६०॥
परदारप्रसृमरं करं छिंध्यस्य पापिनः ॥
परदारगृहं यातुः पादौ चास्य विखंडय ॥६१॥
सूचीभी रोमकूपेषु तनुं व्यधिहि सर्वतः ॥
दातुः परकलत्रांगे नखपंक्ती दुरात्मनः ॥६२॥
परदारमुखाघ्रातुर्मुखे निष्ठीवयास्य हि ॥
वक्तुः परापवादस्य कीलं तीक्ष्णं मुखे क्षिप ॥६३॥
भर्जयैनं चणकवत्तप्तवालुक कर्परैः ॥
भ्राष्ट्रे विकटवक्त्रत्वं परसंतापकारिणम् ॥६४॥
दोषारोपं सदाकर्तुरदोषे क्रूरलोचन ॥
निमज्जयास्य वदनं पूयशोणितकर्दमे ॥६५॥
अदत्तपरवस्तूनां गृह्णतः करपल्लवम् ॥
आप्लुत्याप्लुत्य तैलेन तप्तांगारे पचोत्कट ॥६६॥
अपवादं गुरोर्वक्तुर्निंदाकर्तुः सुपर्वणाम् ॥
तप्तलोहशलाकाश्च मुखे भीषण निक्षिप ॥६७॥
परमर्म स्पृशश्चास्य परच्छिद्रप्रकाशितुः॥
सुतप्तायोमयाञ्च्छंकून्सर्वसंधिषु रोपय ॥६८॥
अन्ये न दीयमाने स्वे निषेद्धुःपापकारिणः ॥
आच्छेत्तुः परवृत्तीनां जिह्वां छिंध्यस्य दुर्मुख ॥६९॥
देवस्वभोक्तुः क्रोडास्य ब्राह्मणस्वस्यभोजिनः ॥
विदार्योदरमस्याशु विट्कीटैः परिपूरय ॥७०॥
न देवार्थे न विप्रार्थे नातिथ्यर्थे पचेत्क्वचित् ॥
तममुं स्वार्थपक्तारं कुंभीपाके पचांधक ॥७१॥
उग्रास्य शिशुहंतारममुं विश्रंभघातिनम् ॥
कृतघ्नं नय वेगेन महारौरव रौरवम् ॥७२॥
ब्रह्मघ्नं चांधतामिस्रे सुरापं पूयशोणिते ॥
कालसूत्रे हेमचौरमवीचौ गुरुतल्पगम् ॥७३॥
तत्संसर्गिणमावर्षमसिपत्रवने तथा ॥
एतान्महापातकिनस्तप्ततैलकटाहके ॥७४॥
आप्लुत्याप्लुत्य दुर्दंष्ट्रकाकोलैर्लोहतुंडकैः ॥
संतोद्यमानान्पापिष्ठान्नित्यं कल्पं निवासय ॥७५॥
स्त्रीघ्नं गोघ्नं च मित्रघ्नं कूटशाल्मलिपादपे॥
उल्लंबय चिरंकालमूर्ध्वपादमधोमुखम् ॥७६॥
त्वचमस्य च संदंशैस्त्रोटय त्वं महाभुज॥
आश्लेषितुर्मित्रपत्न्या भुजावुत्पाटया शुच ॥७७॥
ज्वालाकीले महाघोरे नरकेऽमुं नि पातय ॥
यो वह्निना दाहयति परक्षेत्रं परालयम् ॥७८॥
कालकूटे च गरदं कूटसाक्ष्याभिवादिनम्॥
मानकूटं तुलाकूटं कंठमोटे निपातय ॥७९॥
लालापिबेच दुष्प्रेक्ष्य तीर्थासुष्ठीविनं(?) नय ॥
आमपाके च गर्भघ्नं शूलपाकेऽन्यतापिनम् ॥८०॥
रसविक्रयिणं विप्रमिक्षुयंत्रे प्रपीडय ॥
प्रजापीडाकरं भूपमंधकूपे निपातय ॥८१॥
गोतिलांश्च तुरंगांश्च विक्रेतारं द्विजाधमम् ॥
मातुलान्याः सुरायाश्च विक्रेतारं हलायुध ॥८२॥
मुसलोलूखले वैश्यं कंडयैनं पुनःपुनः ॥
शूद्रं द्विजावमंतारं द्विजाग्रे मंचसेविनम् ॥८३॥
अधोमुखे च नरके दीर्घग्रीवप्रपीड्य ॥८४॥
शूद्रं ब्राह्मणजेतारं वैश्यं बाह्मणमानिनम् ॥
क्षत्रियं याजकं चापि विप्रं वेदविवर्जितम् ॥८५॥
लाक्षालवणमांसानां सतैलविषसर्पिषाम् ॥
आयुधेक्षुविकाराणां विक्रेतारं द्विजाधमम् ॥८६॥
पाशपाणेकशापाणे बद्ध्वैतांश्चरणेदृढम् ॥
घातयंतौ कशाघातैर्नयतं तप्तकर्दमे ॥८७॥
इमां स्त्रियं श्लेषयाशु पुंश्चलीं कुलकल्मषाम् ॥
तेनोपपतिना सार्धं तप्तायसमयेन च ॥८८॥
स्वयं गृहीत्वा नियमं यस्त्यजेदजितेंद्रियः ॥
तं प्रापय दुराधर्षं बहुभ्रमरदंशके ॥८९॥
इत्यादिजल्पन्दुर्वृत्तैः श्रूयते दूरतो यमः ॥
स्वकर्मशंकितैः पापै र्दृश्यतेति भयंकरः ॥९०॥
ये प्रजाः पालयंतीह पुत्रानेव निजौरसान् ॥
दंडयंति च धर्मेण भूपास्तेऽस्य सभासदः ॥९१॥
वर्णाश्रमाश्च यद्राष्ट्रे ऽनुतिष्ठंति निजां क्रियाम् ॥
कालेनापन्ननिधना भूपास्तेऽस्य सभासदः ॥९२॥
नैव दीनो न दुर्वृत्तो नापद्ग्रस्तो न शोकभाक् ॥
येषां राष्ट्रे प्रदृश्यंते भूपास्तेऽस्य सभासदः ॥९३॥
ब्राह्मणाः क्षत्रिया वैश्याः स्वधर्म निरताः सदा ॥
अन्येपि ये संयमिनः संयमिन्यां वसंति ते ॥९४॥
उशीनरः सुधन्वा च वृषपर्वा जयद्रथः ॥
रजिः सहस्रजित्कुक्षिर्दृढधन्वा रिपुंजयः ॥९५॥
युवनाश्वो दंतवक्त्रो नाभागो रिपुमंगलः ॥
करंधमो धर्मसेनः परमर्दः परांतकः ॥९६॥
एते चान्ये च बहवो राजानो नीतिवर्तिनः ॥
धर्माधर्मविचारज्ञाः सुधर्मायां समासते ॥९७॥
अन्यच्च ते प्रवक्ष्यावो येन पश्यंति भास्करिम् ॥
दंडपाशोद्यतकरान्दूतानुग्राननान्क्वचित् ॥९॥
गोविंदमाधवमुकुंद हरेमुरारे शंभो शिवेश शशिशेखर शूलपाणे ॥
दामोदराच्युत जनार्दन वासुदेव त्याज्या भटाय इति संततमामनंति ॥९९॥
गंगाधरांधकरिपो हरनीलकंठ वैकुंठ कैटभरिपो कमठाब्जपाणे॥
भूतेशखंडपरशोमृडचंडिकेश त्याज्या भटाय इति संततमामनंति॥१००॥
विष्णोनृसिंहमधुसूदनचक्रपाणे गौरीपते गिरिश शंकर चंद्रचूड ॥
नारायणासुरनिबर्हणशार्ङ्गपाणे त्याज्या भटाय इति संततमामनंति ॥१॥
मृत्युंजयोग्रविषमेक्षणकामशत्रो श्रीकांतपीतवसनांबुद नीलशौरे ॥
ईशानकृत्तिवसनत्रिदशैकनाथ त्याज्या भटाय इति संततमामनंति ॥२॥
लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्यश्रीकंठदिग्वसन शांतपिनाकपाणे ॥
आनंदकंद धरणीधर पद्मनाभ त्याज्या भटाय इति संततमामनति ॥३॥
सर्वेश्वर त्रिपुरसूदन देवदेव ब्रह्मण्यदेवगरुडध्वज शंखपाणे ॥
त्र्यक्षोरगाभरणबालमृगांकमौले त्यज्या भटाय इति संततमामनंति ॥४॥
श्रीरामराघवरमेश्वररावणारे भूतेशमन्मथरिपो प्रमथाधिनाथ ॥
चाणूरमर्दनहृषीकपतेमुरारे[१] त्याज्या भटाय इति संततमामनति ॥५॥
शूलिन्गिरीश रजनीश कलावतं सकंसप्रणाशन सनातनकेशिनाश ॥
भर्गत्रिनेत्रभवभूतपते पुरारे त्याज्या भटाय इति संततमामनंति ॥६॥
गोपीपते यदुपते वसुदेवसूनो कर्पूरगौरवृषभध्वजभालनेत्र ॥
गोवर्धनोद्धरणधर्मधुरीणगोप त्याज्या भटाय इति संततमामनंति ॥७॥
स्थाणो त्रिलोचन पिनाकधरस्मरारे कृष्णानिरुद्धकमलाकरकल्मषारे ॥
विश्वेश्वर त्रिपथगार्द्रजटाकलाप त्याज्या भटाय इति संततमामनंति ॥८॥
अष्टोत्तराधिकशतेनसुचारुनाम्नां संदर्भितां ललितरत्नकदंबकेन ॥
सन्नायकां दृढगुणां द्धिजकंठगां यः कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥९॥
इत्थं द्विजेंद्र निजभृत्यगणान्सदैव संशिक्षयेदवनिगान्स हि धर्मराजः ॥
अन्येपि ये हरिहरांकधरा धरायां ते दूरतः पुनरहो परिवर्जनीयाः ॥११०॥
अगस्तिरुवाच ॥
यो धर्मराजरचितां ललितप्रबंधां नामावलिं सकलकल्मषबीजहंत्रीम् ॥
धीरोत्र कौस्तुभभृतः शशिभूषणस्य नित्यं जपेत्स्तनरसं स पिबेन्न मातुः ॥११॥
इति शृण्वन्कथां रम्यां शिवशर्माप्रियेऽनघाम ॥
प्रहृष्टवक्त्रः पुरतो ददर्शाप्सरसापुरीम् ॥११२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे यमलोकवर्णनंनामाऽष्टमोऽध्यायः ॥८॥
N/A
References : N/A
Last Updated : November 24, 2024
TOP