संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ३६

काशीखण्डः - अध्याय ३६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


स्कंद उवाच ॥
पुनर्विशेषं वक्ष्यामि सदाचारस्य कुंभज ॥
यं श्रुत्वापि नरो धीमान्नाज्ञानतिमिरं विशेत् ॥१॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजाः स्मृताः ॥
प्रथमं मातृतो जाता द्वितीयं चोपनायनात् ॥२॥
एषां क्रियानिषेकादि श्मशानांता च वैदिकी॥
आदधीत सुधीर्गर्भमृतौमूलं मघां त्यजेत् ॥३॥
स्पंदनात्प्राक्पुंसवनं सीमंतोन्नयनं ततः ॥
मासि षष्ठेऽष्टमे वापि जातेथो जातकर्म च ॥४॥
नामाह्न्येकादशे गेहाच्चतुर्थेमासि निष्क्रमः ॥
मासेन्नप्राशनं षष्ठे चूडाब्दे वा यथाकुलम् ॥५॥
शममेनो व्रजेदेवं बैजं गर्भजमवे च ॥
स्त्रीणामेताः क्रियास्तूष्णीं पाणिग्राहस्तु मंत्रवान् ॥६॥
सप्तमेथाष्टमेवाब्दे सावित्रीं ब्राह्मणोर्हति ॥
नृपस्त्वेकादशे वैश्यो द्वादशे वा यथाकुलम् ॥७॥
ब्रह्मतेजोभिवृद्ध्यर्थं विप्रोब्देपंचमेर्हति ॥
षष्ठे बलार्थी नृपतिर्मौजीं वैश्योष्टमे ध्रियेत् ॥८॥
महाव्याहृतिपूर्वं च वेदमध्यापयेद्गुरुः ॥
उपनीय च तं शिष्यं शौचाचारे च योजयेत् ॥९॥
पूर्वोक्तविधिना शौचं कुर्यादाचमनं तथा ॥
दंताञ्जिह्वां विशोध्याथ कृत्वा मलविशोधनम् ॥१०॥
स्नात्वांबुदैवतैर्मंत्रैः प्राणानायम्य यत्नतः ॥
उपस्थानं रवेः कृत्वा संध्ययोरुभयोरपि ॥११॥
अग्निकार्यं ततः कृत्वा ब्राह्मणानभिवादयेत् ॥
ब्रुवन्नमुक गोत्रोहमभिवादय इत्यपि ॥१२॥
अभिवादनशीलस्य वृद्धसेवारतस्य च ॥
आयुर्यशोबलं बुद्धिर्वर्धतेऽहरहोधिकम् ॥१३॥
अधीते गुरुणा हूतः प्राप्तं तस्मै निवेदयेत् ॥
कर्मणा मनसा वाचा हितं तस्याचरेत्सदा ॥१४॥
अध्याप्याधर्मतोनार्थात्साध्वाप्तज्ञानवित्तदाः ॥
शक्ताः कृतज्ञाः शुचयोऽद्रोहकाश्चानसूयकाः ॥१५॥
धारयेन्मेखलादंडोपवीताजिनमेव च ॥
अनिंद्येषु चरेद्भैक्ष्यं ब्राह्मणेष्वात्मवृत्तये ॥१६॥
ब्राह्मणक्षत्रियविशामादिमध्यावसानतः ॥
भैक्ष्यचर्या क्रमेण स्याद्भवच्छब्दोपलक्षिता ॥१७॥
वाग्यतो गुर्वनुज्ञातो भुंजीतान्नमकुत्सयन् ॥
एकान्नं न समश्नीयाच्छ्राद्धेऽश्नीयात्तथापदि ॥१८॥
अनारोग्यमनायुष्यमस्वर्ग्यंचातिभोजनम् ॥
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥१९॥
न द्विर्भुंजीत चैकस्मिन्दिवा क्वापि द्विजोत्तमः ॥
सायंप्रातर्द्विजोऽश्नीयादग्निहोत्रविधानवित् ॥२०॥
मधुमांसं प्राणिहिंसां भास्करालोकनांजने ॥
स्त्रियं पर्युषितोच्छिष्टंपरिवादं विवजर्येत् ॥२१॥
औपनायनिकः कालो ब्रह्मक्षत्र विशां परः ॥
आ षोडशादाद्वाविंशादा चतुर्विंशदब्दतः ॥२२॥
इतोप्यूर्ध्वं न संस्कार्याः पतिता धर्मवर्जिताः ॥
व्रात्यस्तोमेन यज्ञेन तत्पातित्यं परिव्रजेत् ॥२३॥
सावित्रीपतितैः सार्धं संबंधं न समाचरेत् ॥
ऐणं च रौरवं वास्तं क्रमाच्चर्म द्विजन्मनाम् ॥२४॥
वसीरन्नानुपूर्व्येण शाण क्षौमाविकानि च॥
द्विजस्य मेखला मौंजी मौर्वी च भुजजन्मनः ॥
भवेत्त्रिवृत्समाश्लक्ष्णा विशस्तु शणतांतवी ॥२५॥
मुंजाभावे विधातव्या कुशाश्मंतकबल्वजैः ॥
ग्रंथिनैकेन संयुक्ता त्रिभिः पंचभिरेव वा ॥२६॥
उपवीतक्रमेण स्यात्कार्पासं शाणमाविकम् ॥
त्रिवृदूर्ध्ववृतं तच्च भवेदायुर्विवृद्धये ॥२७॥
बिल्वपालाशयोर्दंडो ब्राह्मणस्य नृपस्य तु ॥
न्यग्रोधबालदलयोः पीलूदुंबरयोर्विशः ॥२८॥
आमौलिं वाऽऽललाटंवाऽऽनासमूर्ध्वप्रमाणतः ॥
ब्रह्मक्षत्रविशां दंडस्त्वगाढ्योनाग्निदूषितः ॥२९॥
प्रदक्षिणं परीत्याग्निमुपस्थाय दिवाकरम् ॥
दंडाजिनोपवीताढ्यश्चरेद्भैक्ष्यं यथोदितम् ॥३०॥
मातृमातृष्वसृस्वसृपितृस्वसृपुरःसराः ॥
प्रथमं भिक्षणीयाः स्युरेतायाचन नो वदेत् ॥३१॥
यावद्वेदमधीते च चरन्वेदव्रतानि च ॥
ब्रह्मचारी भवेत्तावदूर्ध्वं स्नातो गृही भवेत् ॥३२॥
प्रोक्तोसावुपकुर्वाणो द्वितीयस्तत्र नैष्ठिकः ॥
तिष्ठेत्तावद्गुरुकुले यावत्स्यादायुषः क्षयः ॥३३॥
गृहाश्रमं समाश्रित्य यः पुनर्ब्रह्मचर्यभाक्॥
नासौ यतिर्वनस्थो वा स्यात्सर्वाश्रमवर्जितः ॥३४॥
अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः ॥
आश्रमं तु विना तिष्ठन्प्रायश्चित्ती यतो हि सः ॥३५॥
जपं होमं व्रतं दानं स्वाध्यायं पितृतर्पणम्॥
कुर्वाणोथाश्रमभ्रष्टो नासौ तत्फलमाप्नुयात् ॥३६॥
मेखलाजिनदंडाश्च लिंगं स्याद्ब्रह्मचारिणः ॥
गृहिणो वेदयज्ञादि नखलोमवनस्थितेः ॥३७॥
त्रिदंडादि यतेरुक्तमुपलक्षणमत्र वै ॥
एतल्लक्षणहीनस्तु प्रायश्चित्ती दिने दिने ॥३८॥
जीर्णं कमंडलुं दंडमुपवीताजिने अपि ॥
अप्स्वेव तानि निक्षिप्य गृह्णीतान्यच्च मंत्रवत् ॥३९॥
विदध्यात्षोडशे वर्षे केशांतकर्म च क्रमात् ॥
द्वाविंशे च चतुर्विंशे गार्हस्थ्य प्रतिपत्तये ॥४०॥
तपो यज्ञ व्रतेभ्यश्च सर्वस्माच्छुभकर्मणः ॥
द्विजातीनां श्रुतिर्ह्येका हेतुर्निश्रेयस श्रियः ॥४१॥
वेदारंभे विसर्गे च विदध्यात्प्रणवं सदा ॥
अफलोऽनोंकृतो यस्मात्पठितोपि न सिद्धये ॥४२॥
वेदस्य वदनं प्रोक्तं गायत्री त्रिपदा परा ॥
तिसृभिः प्रणवाद्याभिर्महाव्याहृतिभिः सह ॥४३॥
सहस्रं साधिकं किंचित्त्रिकमैतज्जपन्यमी ॥
मासं बहिः प्रतिदिनं महाघादपि मुच्यते ॥४४॥
अत्यब्दमिति योभ्यस्येत्प्रतिघस्रमनन्यधीः ॥
स व्योममूर्तिः शुद्धात्मा परं ब्रह्माधिगच्छति ॥४५॥
त्रिवर्णमयमोंकारं भूर्भुवःस्वरिति त्रयम् ॥
पादत्रयं च सावित्र्यास्त्रयोवेदा अदूदुहन् ॥४६॥
एतदक्षरमेनां च जपेद्व्याहृतिपूर्विकाम् ॥
संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥४७॥
विधिक्रतोर्दशगुणं जपस्यफलमश्नुते ॥
विधिक्रतोर्दशगुणो जपक्रतुरुदीरितः ॥४८॥
उपांशुस्तच्छतगुणः सहस्रो मानसस्ततः ॥४९॥
अधीत्यवेदान्वेदौ वा वेदं वा शक्तितो द्विजः ॥
सुवर्णपूर्ण धरणी दानस्य फलमश्नुते ॥५०॥
श्रुतिमेव सदाभ्यस्येत्तपस्तप्तुं द्विजोत्तमः ॥
श्रुत्यभ्यासो हि विप्रस्य परमं तप उच्यते ॥५१॥
हित्वा श्रुतेरध्ययनं योन्यत्पठितुमिच्छति ॥
स दोग्ध्रीं धेनुमुत्सृज्य ग्रामक्रोडीं दुधुक्षति ॥५२॥
उपनीय च वै शिष्यं वेदमध्यापयेद्द्विजः ॥
सकल्पं सरहस्यं च तमाचार्यं विदु्र्बुधाः ॥५३॥
योध्यापयेदेकदेशं श्रुतेरंगान्यथापि वा ॥
वृत्त्यर्थं स उपाध्यायो विद्वद्भिः परिगीयते ॥५४॥
यथाविधि निषेकादि यः कर्म कुरुते द्विजः ॥
संभावयेत्तथान्नेन गुरुः स इह कीर्त्यते ॥५९॥
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ॥
यः करोति वृतो यस्य स तस्यर्त्त्विगिहोच्यते ॥५६॥
उपाध्यायाद्दशाचार्य आचार्यात्तु शतं पिता ॥
सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥५७॥
विप्राणां ज्ञानतो ज्यैष्ठ्यं बाहुजानां तु वीर्यतः ॥
वैश्यानां धान्यधनतः पज्जातानां तु जन्मतः ॥५८॥
यथा दारुमयो हस्ती यथा कृत्तिमयो मृगः ॥
तथा विप्रोऽनधीयानस्त्रयोऽमी नामधारिणः ॥५९॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ॥
स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥६०॥
स्वधर्मनिरतानां च वेदयज्ञक्रियावताम् ॥
ब्रह्मचारी चरेद्भैक्ष्यं वेश्मसुप्रयतोऽन्वहम् ॥६१॥
अकृत्वा भैक्ष्यचरणमसमिध्य हुताशनम् ॥
अनातुरः सप्तरात्रमवकीर्णि व्रतं चरेत् ॥६२॥
यथेष्टचेष्टो नभवेद्गुरोर्नयनगोचरे ॥
न नामपरिगृह्णीयात्परोक्षेप्यविशेषणम् ॥६३॥
गुरुनिंदाभवेद्यत्र परिवादस्तु यत्र च ॥
श्रुती पिधाय वास्थेयं यातव्यं वा ततोन्यतः ॥६४॥
खरो गुरोः परीवादाच्छ्वा भवेद्गुरुनिंदकः ॥
मत्सरी क्षुद्रकीटःस्यात्परिभोक्ता भवेत्कृमिः ॥६५॥
नाभिवाद्या गुरोः पत्नी स्पृष्ट्वांघ्री युवती सती ॥
क्वापि विंशतिवर्षेण ज्ञातृणा गुणदोषयोः ॥६६॥
स्वभावश्चंचलः स्त्रीणां दोषः पुंसामतः स्मृतः ॥
प्रमदासु प्रमाद्यंति क्वचिन्नैव विपश्चितः ॥६७॥
विद्वांसमप्यविद्वांसं यतस्ताधर्षयंत्यलम् ॥
स्ववशं वापि कुर्वंति सूत्रबद्धशकुंतवत् ॥६८॥
न मात्रा न दुहित्रा वा न स्वस्रैकांतशीलता ॥
बलवंतीद्रियाण्यत्र मोहयंत्यपि कोविदान् ॥६९॥
प्रयत्नेन खनन्यद्वद्भूमेर्वार्यधिगच्छति ॥
शुश्रूषया गुरोस्तद्वद्विद्या शिष्योधिगच्छति ॥७०॥
शयानमभ्युदयते ब्रध्नश्चेद्ब्रह्मचारिणम् ॥
प्रमादादथ निम्लोचेज्जपन्नपवसेद्दिनम् ॥७१॥
सुतस्य संभवे क्लेशं सहेते पितरौ च यत् ॥
शक्या वर्षशतेनापि नो कर्तुं तस्य निष्कृतिः ॥७२॥
अतस्तयोः प्रियं कुर्याद्गुरोरपि च सर्वदा ॥
त्रिषु तेषु सुतुष्टेषु तपः सर्वं समाप्यते ॥७३॥
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ॥
तानतिक्रम्य यः कुर्यात्तन्नसिद्ध्येत्कदाचन ॥७४॥
त्रीनेवामून्समाराध्य त्रीँल्लोकान्स जयेत्सुधीः ॥
देववद्दिवि दीव्येत तेषां तोषं विवर्धयन् ॥७५॥
भूर्लोकं जननी भक्त्या भुवर्लोकं तथा पितुः ॥
गुरोः शुश्रूषणात्तद्वत्स्वर्लोकं च जयेत्कृती ॥७६॥
एतदेव नृणां प्रोक्तं पुरुषार्थचतुष्टयम् ॥
यदेतेषां हि संतोष उपधर्मोन्य उच्यते ॥७७॥
अधीत्य वेदान्वेदौ वा वेदं वापि क्रमाद्द्विजः ॥
अप्रस्खलद्ब्रह्मचर्यो गृहाश्रममथाश्रयेत् ॥७८॥
अविप्लुत ब्रह्मचर्यो विश्वेशानुग्रहाद्भवेत् ॥
अनुग्रहश्च वैश्वेशः काशीप्राप्तिकरः परः ॥७९॥
काशीप्राप्त्या भवेज्ज्ञानं ज्ञानान्निर्वाणमृच्छति ॥
निर्वाणार्थं प्रयत्नो हि सदाचारस्य धीमताम् ॥८०॥
सदाचारो गृहे यद्वन्न तथास्त्याश्रमांतरे ॥
विद्याजातं पठित्वांते गृहस्थाश्रममाश्रयेत् ॥८१॥
गृहाश्रमात्परं नास्ति यदि पत्नीवशंवदा ॥
आनुकूल्यं हि दंपत्योस्त्रिवर्गोदय हेतवे ॥८२॥
आनुकूल्यं कलत्रं चेत्त्रिदिवेनापि किं ततः ॥
प्रातिकूल्यं कलत्रं चेन्नरकेणापि किं ततः ॥८३॥
गृहाश्रमः सुखार्थाय भार्यामूलं च तत्सुखम् ॥
सा च भार्या विनीताया त्रिवर्गो विनयो धुवम् ॥८४॥
जलौकयोपमीयंते प्रमदा मंदबुद्धिभिः ॥
मृगीदृशां जलौकानां विचारान्महदतंरम् ॥८५॥
जलौका केवलं रक्तमाददाना तपस्विनी ॥
प्रमदा सर्वदा दत्ते चित्तं वित्तं बलं सुखम् ॥८६॥
दक्षा प्रजावती साध्वी प्रियवाक्च वशंवदा ॥
गुणैरमीभिः संयुक्ता सा श्रीः स्त्रीरूपधारिणी ॥८७॥
गुरोरनुज्ञया स्नात्वा व्रतं वेदं समाप्य च ॥
उद्वहेत ततो भार्यां सवर्णां साधुलक्षणाम् ॥८८॥
जने तु रसगोत्राया मातुर्याप्यसपिंडका ॥
दारकर्मणि योग्या सा द्विजानां धर्मवृद्धये ॥८९॥
स्त्रीसंबंधेप्यपस्मारि क्षयि श्वित्रि कुलं त्यजेत् ॥
अभिशस्तिसमायुक्तं तथा कन्याप्रसूं त्यजेत् ॥९०॥
रोगहीनां भ्रातृमतीं स्वस्मात्किंचिल्लघीयसीम् ॥
उद्वहेत द्विजो भार्यां सौम्यास्यां मृदुभाषिणीम् ॥९१॥
न पर्वतर्क्षवृक्षाह्वां न नदीसर्पनामिकाम् ॥
न पक्ष्यहिप्रेष्यनाम्नीं सौम्याख्यामुद्वहेत्सुधीः ॥९२॥
न चातिरिक्तहीनांगीं नातिदीर्घां न वा कृशाम् ॥
नालोमिकां नातिलोमां नास्निग्धस्थूलमौलिजाम् ॥९३॥
मोहात्समुपयच्छेत कुलहीनां न कन्यकाम् ॥
हीनोपयमनाद्याति संतानमपि हीनताम् ॥९४॥
लक्षणानि परीक्ष्यादौ ततः कन्यां समुद्वहेत् ॥
सुलक्षणा सदाचारा पत्युरायुर्विवर्धयेत् ॥९५॥
ब्रह्मचारि समाचार इति ते समुदी रितः ॥
घटोद्भव प्रसंगेन स्त्रीलक्षणमथ ब्रुवे ॥९६॥
इति श्री स्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे षट्त्रिंशत्तमोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : November 25, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP