काशीखण्डः - अध्याय १

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीगणेशाय नमः ॥
तं मन्महे महेशानं महेशानप्रियार्भकम् ॥
गणेशानं करिगणेशानाननमनामयम् ॥१॥
भूमिष्ठापि न यात्रभूस्त्रिदिवतोप्युच्चैरधःस्थापि या या बद्धा भुवि मुक्तिदास्युरमृतं यस्यां मृता जंतवः ॥
या नित्यं त्रिजगत्पवित्रतटिनी तीरे सुरैः सेव्यते सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत् ॥२॥
नमस्तस्मै महेशाय यस्य संध्यात्त्रयच्छलात् ॥
यातायातं प्रकुर्वंति त्रिजगत्पतयोऽनिशम् ॥३॥
अष्टादशपुराणानां कर्त्ता सत्यवतीसुतः ॥
सूताग्रे कथयामास कथां पापापनोदिनीम् ॥४॥
श्रीव्यास उवाच ॥
कदाचिन्नारदः श्रीमान्स्नात्वा श्रीनर्मदांभसि ॥
श्रीमदोंकारमभ्यर्च्य सर्वदं सर्वदेहिनाम् ॥५॥
व्रजन्विलोकयांचक्रे पुरोविंध्यं धराधरम् ॥
संसारतापसंहारि रेवावारिपरिष्कृतम् ॥६॥
द्वैरूप्येणापि कुर्वंतं स्थावरेण चरेण च ॥
साभिख्येन यथार्थाख्यामुच्चैर्वसु मतीमिमाम् ॥७॥
रसालयं रसालैस्तैरशोकैः शोकहारिणाम् ॥
तालैस्तमालेर्हिंतालैः सालैः सर्वत्रशालितम् ॥८॥
खपुरैः खपुराकारं श्रीफलं श्रीफलैः किल ॥
गुरुश्रियंत्वगुरुभिः कपिपिंगं कपित्थकैः ॥९॥
वनश्रियः कुचाकारैर्लकुचैश्च मनोहरम् ॥
सुधाफलसमारंभि रंभाभिः परिभासितम् ॥१०॥
सुरंगैश्चापि नारंगैरंगमंडपवच्छियः ॥
वानीरैश्चापि जंबीरैर्बीजपूरैः प्रपूरितम् ॥११॥
अनिलालोल कंकोल वल्लीहल्ली सकायितम् ॥
लवलीलवलीलाभिर्लास्यलीलालयं किल ॥१२॥
मंदांदोलितकर्पूर कदलीदल संज्ञया ॥
विश्रमाय श्रमापन्नानाहूयंतमिवाध्वगान् ॥१३॥
पुन्नागमिव पुन्नागपल्लवैःकरपल्लवैः ॥
कलयंतमिवाऽलोलैर्मल्लिकास्तबकस्तनम् ॥१४॥
विदीर्णदाडिमैः स्वांतं दर्शयंतं तु रागवत् ॥
माधवीं धवरूपेण श्लिष्यंतमिव कानने ॥१५॥
उदुंबरैरंबरगैरनंतफलमालितैः ॥
ब्रह्मांडकोटीर्बिभ्रंतमनंतमिव सर्वतः ॥१६॥
पनसैर्वनासाभैः शुकनासैः पलाशकैः॥
पलाशनाद्विरहिणां पत्रत्यक्तैरिवावृतम्॥१७॥
कदंबवादिनो नीपान्दृष्ट्वा कंटकितैरिव॥
समंततो भ्राजमानं कदंबककदंबकैः ॥१८॥
नमेरुभिश्च मेरूच्चशिखरैरिव राजितम् ॥
राजादनैश्च मदनैः सदनैरिव कामिनाम् ॥१९॥
तटेतटेपटुवटैरुच्चैःपटकुटी वृतम् ॥
कुटजस्तबकैर्भांतमधिष्ठितबकैरिव ॥२०॥
करमर्दैः करीरैश्च करजैश्चकरंबकैः ॥
सहस्रकरवद्भांतमर्थिप्रत्युद्गतैः करैः ॥२१॥
नीराजितमिवोद्दीपैराजचंपककोरकैः ॥
सपुष्पशाल्मलीभिश्च जितपद्माकरश्रियम् ॥२२॥
क्वचिच्चलदलैरुच्चैः क्वचित्कांचनकेतकैः ॥
कृतमालैर्न क्तमालैः शोभमानं क्वचित्क्वचित् ॥२३॥
कर्कंधु बंधुजीवैश्च पुत्रजीवैर्विराजितम् ॥
सतिंदुकेंगुदीभिश्च करुणैःकरुणालयम् ॥२४ !।
गलन्मधू ककुसुमैर्धरारूपधरंहरम् ॥
स्वहस्तमुक्तमुक्ताभिरर्चयंतमिवानिशम् ॥२५॥
सर्जार्जुनांजनैर्बीजैर्व्यजनैर्वीज्यमानवत् ॥
नारिकेलैः सखर्जूरैर्धृतच्छत्रमिवांबरे ॥२६॥
अमंदैः पिचुमंदैश्च मंदारैः कोविदारकैः ॥
पाटलातिंतिणीघोंटाशाखोटैः करहाटकैः ॥२७॥
उद्दंडैश्चापि शेहुंडैरेरंडैर्गुडपुष्पकैः ॥
बकुलैस्तिलकैश्चैव तिलकांकितमस्तकम् ॥२८॥
अक्षैः प्लक्षैः शल्लकीभिर्देवदारुहरिद्रुमैः ॥
सदाफलसदापुष्प वृक्षवल्लीविराजितम् ॥२९॥
एलालवंग मरिचकुलुं जनवनावृतम् ॥
जंब्वाम्रातकभल्लातशेलुश्रीपर्णिवर्णितम् ॥३०॥
शाकशंखवनैरम्यं चदनैरक्तचंदनैः ॥
हरीतकीकर्णिकार धात्रीवनविभूषणम् ॥३१॥
द्राक्षावल्लीनागवल्लीकणावल्लीशतावृतम् ॥
मल्लिकायूथिकाकुंदम दयंती सुगंधिनम् ॥३२॥
भ्रमद्भ्रमरमालाभिर्मालतीभिरलंकृतम् ॥
अलिच्छलागतंकृष्णं गोपीरंतुमनेकशः ॥३३॥
नानामृगगणाकीर्णं नानापक्षिविनादितम् ॥
नानासरित्सरः स्रोतः पल्वलैः परितो वृतम् ॥३४॥
तुच्छश्रियः स्वर्गभूमीः परिहायागतैरिव ॥
नानासुरनिकायैश्च विष्वग्भोगेच्छयोषितम् ॥३५॥
उत्सृजंतमिवार्घ्यं वै पत्रपुष्पैरितस्ततः ॥
केकिकेकारवैर्दूरात्कुर्वंतं स्वागतं किल ॥३६॥
अथ सूर्यशताभासं नभसि द्योतितांबरम् ॥
नारदं दृष्टवाञ्छैलो दूरात्प्रत्युज्जगाम तम् ॥३७॥
ब्रह्मसूनुवपुस्तेजो दूरीकृतदरीतमाः ॥
तमागच्छंतमालोक्य मानसं तम उज्जहौ ॥३८॥
ब्रह्मतेजःसमुद्भूत साध्वसः साधुस त्क्रियः ॥
कठिनोपि परित्यज्य धत्ते मृदुलतां किल ॥३९॥
दृष्ट्वा मृदुलतां तस्य द्वैरूप्येपि स नारदः ॥
मुमुदे सुतरां संतः प्रश्रयग्राह्यमानसाः ॥४०॥
गृहानायांतमालोक्य गुरुंवाऽगुरुमेव वा ॥
योऽगुरुर्नम्रतां धत्ते स गुरुर्न गुरुर्गुरुः ॥४१॥
तं प्रत्युच्चैः शिराःसोपि विनम्रतरकंधरः ॥
शैलस्त्विलामिलन्मौलिः प्रणनाम महामुनिम् ॥४२॥
तमुत्थाप्य कराग्राभ्यामाशीर्भिरभिनंद्य च ॥
तदुद्दिष्टासनं भेजे मनसोपि समुच्छ्रितम् ॥४३॥
स दध्नामधुनाज्येन नीरार्द्राक्षतदूर्व या ॥
तिलैः कुशैः प्रसूनैस्तमष्टांगार्घ्यैरपूजयत् ॥४४॥
गृहीतार्घ्यंकिल श्रांतं पादसंवाहनादिभिः ॥
गतश्रममथालोक्य बभाषे ऽवनतो गिरिः ॥४५॥
अद्य सद्यः परिहृतं त्वदंघ्रिरजसारजः ॥
त्वदंगसंगिमहसा सहसाऽप्यांतरंतमः ॥४६॥
सफलर्धिरहं चाद्य सुदिवाद्यच मे मुने ॥
प्राक्कृतैः सुकृतैरद्य फलितं मे चिरार्जितैः ॥४७॥
धराधरत्वं कुलिषुमान्यं मेऽद्य भविष्यति ॥
इति श्रुत्वा तदा किंचिदुच्छुस्य स्थितवान्मुनिः ॥४८॥
पुनरूचे कुलिवरः संभ्रमाप न्नमानसः ॥
उच्छ्वासकारणं ब्रह्मन्ब्रूहि सर्वार्थकोविद ॥४९॥
अदृष्टं तव नोदृष्टं यदिष्टंविष्टपत्रये ॥
अनुक्रोशोत्र मयिचेदुच्यतां प्रणतोस्म्यहम् ॥५०॥
त्वदागमनजानन्दसंदोहैर्मे दुरारवः ॥
अलं न वक्तुमसकृत्तथाप्येकं वदाम्यहम् ॥५१॥
धराधरणसामर्थ्यं मेर्वादौ पूर्वपूरुषैः ॥
वर्ण्यते समुदायात्तदहमेको दधे धराम् ॥५२॥
गौरीगुरुत्वाद्धिमवानादिपत्याच्च भूभृताम् ॥
संबंधित्वात्पशुपतेः स एको मान्यभृत्सताम्॥ ५३॥
नमेरुः स्वर्णपूर्णत्वाद्रत्नसानुतयाथवा ॥
सुरसद्मतयावापि क्वापि मान्यो मतो मम ॥५४॥
परं शतं न किंशैला इलाकलनकेलयः ॥
इह संति सतां मान्या मान्यास्ते तु स्वभूमिषु ॥५५॥
मन्देहदेहसंदेहादुदयैकदयाश्रितः ॥
निषधो नौषधिधरोऽप्यस्तोप्यस्तमितप्रभः ॥५६॥
नीलश्च नीलीनिलयो मन्दरो मन्दलोचनः ॥
सर्पालयः समलयो रायं नावैति रैवतः ॥५७॥
हेमकूटत्रिकूटाद्याः कूटोत्तरपदास्तुते ॥
किष्किंधक्रौंचसह्याद्या भारसह्या न ते भुवः ॥५८॥
इति विंध्यवचः श्रुत्वा नारदोऽचिन्तयद्धृदि ॥
अखर्वगर्वसंसर्गो न महत्त्वाय कल्पते ॥५९॥
श्रीशैलमुख्याः किंशैलानेह संत्यमलश्रियः ॥
येषां शिखरमात्रादि दर्शनं मुक्तये सताम् ॥६०॥
अद्यास्य बलमालोक्यमिति ध्यात्वाब्रवीन्मुनिः ॥
सत्यमुक्तं हि भवता गि रिसारंविवृण्वता ॥६१॥
परं शैलेषु शैलेंद्रो मेरुस्त्वामवमन्यते ॥
मया निःश्वसितं चैतत्त्वयि चापि निवेदितम् ॥६२॥
अथवा मद्विधानां हि केयं चिंता महात्मनाम् ॥
स्वस्त्यस्तु तुभ्यमित्युक्त्वा ययौ स व्योमवर्त्मनि ॥६३॥
गते मुनौ निनिंदस्वमतीवोद्विग्नमानसः ॥
चिन्तामवाप महतीं विंध्यो र्वंध्यमनोरथः ॥६४॥
विंध्य उवाच ॥
धिग्जीवितंशास्त्रकलोज्झितस्य धिग्जीवितं चोद्यमवर्जितस्य ॥
धिग्जीवितं ज्ञातिपराजितस्य धिग्जीवितं व्यथर्मनोरथस्य ॥६५॥
कथं भुनक्ति स दिवा कथं रात्रौ स्वपित्यहो ॥
रहः शर्म कथं तस्य यस्याभिभवनं रिपोः ॥६६॥
अहोदवाग्निदवथुस्तथामां न स बाधते ॥
बाधते तु यथा चित्ते चिन्तासंतापसंततिः ॥६७॥
युक्तमुक्तं पुराविद्भिश्चिन्तामूर्तिः सुदारुणा ॥
न भेषजैर्लंघनैर्वा न चान्यैरुपशाम्यति ॥६८॥
चिन्ताज्वरो मनुष्याणां क्षुधांनिद्रांबलं हरेत् ॥
रूपमुत्साहबुद्धिं श्री जीवितं च न संशयः ॥६९॥
ज्वरो व्यतीते षडहे जीर्णज्वर इहोच्यते ॥
असौ चिन्ताज्वरस्तीव्रः प्रत्यहं नवतां व्रजेत् ॥७०॥
धन्यो धन्वतरिर्नात्र चरकश्चरतीह न ॥
नासत्यावपिनाऽ सत्यावत्र चिन्ताज्वरे किल ॥७१॥
किं करोमि क्व गच्छामि कथं मेरुं जयाम्यहम् ॥
उत्प्लुत्य तस्य शिरसि पतामि न पताम्यतः ॥७२॥
शक्रं कोपयता पूर्वमस्मद्गोत्रेण केनचित् ॥
पक्षहीनः कृतो यत्र धिगपक्षस्यचेष्टितम् ॥७३॥
अथवा स कथं मेरुस्तथोच्चैः स्पर्द्धते मया ॥
भूमेर्भारभृतःप्रायो भवंति भ्रांति भूमयः ॥७४॥
अलीकवाक्त्वमथवा संभाव्यं नारदे कथम् ॥
ब्रह्मचारिणि वेदज्ञे सत्यलोकनिवासिनि ॥७५॥
युक्तायुक्तविचारोथ मादृशेनोपयुज्यते ॥
पराक्रमेष्वशक्तानां विचारं गाहते मनः ॥७६॥
अथवा चिन्तनैरेतैः किंव्यर्थैर्विश्वकारकम् ॥
विश्वेशं शरणं यायां समे बुद्धिं प्रदास्यति ॥७७॥
अनाथनाथः सर्वेषां विश्वनाथो हि गीयते ॥
क्षणं मनसि संचित्य भवेदित्थमसंशयम् ॥७८॥
एतदेव करिष्यामि नेष्टं कालविलंबनम् ॥
विचक्षणैरुपेक्ष्यौ न वर्द्धमानौ परामयौ ॥७९॥
मेरुं प्रदक्षिणीकुर्यान्नित्यमेव दिवाकरः ॥
सग्रहर्क्षगणो नूनं मन्यमानो बलाधिकम् ॥८०॥
इति निश्चित्य विन्ध्याद्रिर्ववृधे स मृधेक्षणः ॥
अनंतगगनस्यांतं कुर्वद्भिः शिखरैरिव ॥८१॥
कैश्चित्सार्द्धं विरोधो न कर्तव्यः केनचित्क्वचित् ॥
कर्तव्यश्चेत्प्रयत्नेन यथा नोपहसेज्जनः ॥८२॥
निरुध्य ब्राध्नमध्वानं कृतकृत्य इवाद्रिराट् ॥
स्वस्थोऽभवद्भवाधीना प्राणिनां हि भविष्यता ॥८३॥
यमद्ययमकर्तासौ दक्षिणं प्रक्रमिष्यति ॥
सकुलीनः स च श्रीमान्समहान्महितः स च ॥८४॥
यावत्स्वश क्तिं शक्तोपि न दर्शयति कर्हिचित् ॥
तावत्स लंघ्यः सर्वेषां ज्वलनो दारुगो यथा ॥८५॥
इति चिंतामहाभारं त्यक्त्वा तस्थौ स्थिरोद्यमः ॥
आकांक्षमाणस्तरणे रुदयं ब्राह्मणो यथा ॥८६॥
इति श्रीस्कान्देमहापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे विन्ध्यवर्धनंनाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP