मंगलाचरण
जन्माद्यस्त्य यतोऽन्वयादितरत श्चार्थेष्वभिज्ञ स्वराट तेने ब्रह्मा हृदाअ य आदिकवये मुह्रान्ति यत्सुरयः ।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्रा स्वेन सदा निरस्तकुहकं सत्य परं धीर्माहि ॥१॥
धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मुलनम ।
श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृदयारुध्यतेऽत्र कृतिभिः शुश्रुषुभिस्तत्क्षणात ॥२॥
निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम ।
पिबत भागवंत रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥३॥
कथाप्रारम्भः
नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।
सत्रं स्वर्गायलोकाय सहस्त्रसममासत ॥४॥
त एकदा तु मुनयः प्रातर्हतहुताग्नयः ।
सत्कृतं सुतमासीनं पप्रच्छुरिदमादरात ॥५॥
ऋषय ऊचुः
त्वय खलु पुराणानि सेतिहासानि चानघ ।
आख्यातान्यप्यधीतानि धर्माशास्त्राणि यान्तुत । \६॥
यानि वेदविदां श्रेष्ठो भगवान बादरायणह ।
अन्ये च मुनयह सुत परावरविदो विदुः ॥७॥
वेत्थ त्वं सौम्य तत्सर्व्स तत्त्वस्तदनुग्रहात ।
ब्रुयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यामप्युत ॥८॥
तत्र तत्रात्र्जसाऽऽयुष्मन भवता युद्विनिश्चितम ।
पुंसामेकन्तताः श्रेयस्तन्नः शंसितुमर्हसि ॥९॥
प्रायेणाल्पायुषः सभ्य कलावस्मिन युगे जनाः ।
मन्दा सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥१०॥
भूरिणी भुरिकर्माणि श्रोतव्यानि विभागशः ।
अतः साधोऽत्र यत्सारं समुदधृत्य मनीषया ।
ब्रुहि नः श्रद्दधानांना येनात्मा सम्प्रसीदति ॥११॥
सुत जानासि भद्रं ते भगवान सात्वतां पतिः ।
देवक्यां वसुदेववस्य जातो यस्य चिकर्षिया ॥१२॥
तन्नः शुक्षुषमाणानामर्हस्यंगानुवर्णितुम ।
यस्यावतारो भुतांना क्षेमाय च भवाच च ॥१३॥
आपन्नः संसृत्तिं घोरां यन्नाम विवशो गृणन ।
ततः सद्यो विमुच्येत यद्विभेति स्वयं भयन ॥१४॥
यत्पादसंश्रयाः सुत मुनयः प्रसमायनाः ।
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवद्या ॥१५॥
को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मण ।
शुद्धीकामो न श्रृणुयाद्यशः कलिमलापहम ॥१६॥
तस्य कर्माण्युदाराणि परिगीतानि सुरिभिः ।
ब्रुहि नः श्रद्धाधानांना लीलया दधतः कलाः ॥१७॥
अथाख्याहि हरेधीमन्नवतारकथाः शुभाः ।
लीला विदधतः स्वैरमीश्वरस्त्यात्ममायया ॥१८॥
वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥१९॥
कृतवाना किल वीर्याणि सह रामेण केशवः ।
अतिमर्त्यानि भगवान गूढः कपटमानुषः ॥२०॥
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन वैष्णवे वयम ।
आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥२१॥
त्वं नः संदर्शितो धात्रा दुस्तरं निस्तितीर्षताम ।
कलिं सत्त्वहरं पुसां कर्णधार इवार्णवम ॥२२॥
ब्रूहि योगेश्वरे कृष्णे ब्रह्माण्ये धर्मवर्मणि ।
स्वां काष्ठामधुनोपेत धर्मः कं शरणं गतः ॥२३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने प्रथमोऽध्यायः ॥१॥