सूत उवाच
यो वै द्रौण्यस्त्रविल्पुष्टो न मातूरुदरे मृतः ।
अनुग्रहाद भगवतः कॄष्णास्याद्भुतकर्मणः ॥१॥
ब्रह्माकोपोत्थितद यस्तू तक्षकात्प्राविप्लवात ।
न सम्मुमोहोरुभायाद भगवत्यर्पिताशयः ॥२॥
उत्सुज्य सर्वतः संगं विज्ञाताजितसंस्थितिः ।
वैयासकेर्जहौ शिष्यो गंगायां स्वं कलेवरम ॥३॥
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम ।
स्यात्मम्भ्राऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम ॥४॥
तावत्कलिर्न प्रभवत प्रविष्टऽपीह सर्वहः ।
यादवदीशो महानुर्व्यामाभिमन्यव एकराट ॥५॥
यस्मिन्नहनि यर्होव भगवानुत्ससर्ज गाम ।
तदैवेहानुवृत्तोऽसावधर्मप्रभवः कलिः ॥६॥
ननुद्वेष्टि कलिं सम्राट सारंग इव ससारभुक ।
कुशलन्याशु सिद्धन्ति नेतराणि कृतानि यत ॥७॥
किं नु बालेषु शुरेण कलिना धीरभीरुणा ।
अप्रमतः प्रमत्तेषु यो वृको नृषु वर्तते ॥८॥
उपवर्णितमेतद वः पूण्यं पारिक्षितं मया ।
वासुदेवक कथोपेतमाख्यानं यदपृच्छत ॥९॥
या या कथा भगवतः कथनीयोरुकर्मणाः ।
गुणकर्मश्रयाः पुम्भिः संसेव्यास्ता बुभुषुभिः ॥१०॥
ऋषय ऊचुः
सुत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।
यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि नः ॥११॥
कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनं भवान ।
आपाययति गोविन्दपादपद्मासवं मधु ॥१२॥
तूलयाम लवेनापि न स्वर्ग नापुनर्भवम ।
भगवत्संगिसंगस्य मर्त्यांनां किमुताशिषः ॥१३॥
को नाम तृप्येद रसवित्कथांयां महत्तमैकान्तपरायणस्य ।
नान्त गुणानामगुणस्य जग्मु र्योगेश्वरा ये भवपाद्ममुख्याः ॥१४॥
तन्नो भवान वै भगवत्प्रधानो महत्तमैक्जान्तपरयणस्य ।
हरेरुदारं चरितं विशुद्धं शुश्रुषतां नो वितनोतू विद्वन ॥१५॥
स वै महाभागवतः परीक्षिद येनापवर्गाख्यमदभ्रबुद्धिः ।
ज्ञानेन वैयासकिशद्बितेन भेजे खगेन्द्रध्वजपादमुलम ॥१६॥
तन्नः परं पुण्यमसंवृतार्थ माख्यानमत्यद्भुतयोगनिष्ठम ।
आख्यह्ननन्ताचरितोपपन्नं पारिक्षितं भागवताभिरामम ॥१७॥
सुत उवाच
अहो वयं जन्म भृतोऽद्य हास्म वृद्धानृवृत्यापि विलोमजाताः ।
दौष्कुल्यमाधिं विधुनोति शीघ्र महत्तमानामभिधानयोगः ॥१८॥
कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य ।
योऽनन्तशक्तिर्भगवननन्तो महदृगुणत्वाद यमनन्तमाहुः ॥१९॥
एतावतालं ननु सुचितेन गुणैरसाम्यानतिशायनस्य ।
हित्वेतरान प्रार्थयतो विभुतिर्यस्यांघ्रिरेणूं जुषतेऽनभीप्सोः ॥२०॥
अथापि यत्पादनखावसृष्टं जगदविरित्र्चोपहृतार्हणाम्भः ।
सेशं पुनात्यन्यतमो मुकुन्दात को नाम लोके बह्गवत्पदार्थ ॥२१।
यत्रानुरक्ताः सहसैव धीरा व्यापोह्या देहादीषु संगमुढम ।
व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिम्सापोशम स्वधर्म ॥२२॥
अहं हि पुष्टिऽर्यमयो भवद्धिराचक्ष आत्मावगमोऽत्र यावान ।
नभः पतन्त्यात्मसमं पतात्त्रिणस्तथा समं विष्णूगतिं विपश्चितः ॥२३॥
एकदा धनुरुद्याम्य विचरन मृगयां वने ।
मृगाननुगातः श्रान्तः क्षुधितस्तूषितो भृशम ॥२४॥
जलाशयमचक्षाणः प्राविवेश तमाश्रमम ।
ददर्श मुनिमासीनं शान्तं मीलितलोचनम ॥२५॥
प्रतिरुद्धेन्द्रियप्राणमनोबुद्धीमुपारतम ।
शानत्रयात्परं प्राप्तं ब्रह्मभुतमविक्रियम ॥२६॥
विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।
विशुष्यत्तालुरुदकं तथाभुतमयाचत ॥२७॥
अलब्धतृणभुम्यादिरसम्प्रात्पार्घ्यसुनृतः ।
अवज्ञातमिवात्मानं मन्यमन श्चुकोप ह ॥२८॥
अभूतपूवः सहसा क्षुत्तृंभ्यामर्दितात्मनः ।
ब्राह्मणं प्रत्यभूद ब्रह्मान मत्सरो मन्युरेव च ॥२९॥
स तू ब्रह्माऋषेरंसे गतासुमुरंग रुषा ।
विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागमत ॥३०॥
एष कीं निभृताशेककरणो मीलतेक्षणः ।
मृषा समाधिकारोस्वीत्किम नु स्यात्क्षत्रबन्धुभिः ॥३१॥
तस्य पुत्रोऽतितेजस्वी विहरन बालकोऽर्भकैः ।
राज्ञाघं प्रापितं ततं श्रुत्वा तत्रेदमब्रवीत ॥३२॥
अहो अधर्म पालांना पीवां बलिभुजामिव ।
स्वामिन्यघं यद दासांना द्वारपाना शुनामिव ॥३३॥
ब्राह्मणैः क्षत्रबन्धुर्हि द्वारपालो निरुपितः ।
स कथं तदगृहे द्वाः स्थः सभांण्डं भोक्तूमर्हति ॥३४॥
कृष्णे गते भगवति शास्तर्युप्तथागामिनाम ।
तद्भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम ॥३५॥
इत्युक्त्त्वा रोषताम्राक्षो वयस्यानृषिबालकः ।
कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥३६॥
इति लंघितमर्यादं तक्षकः सप्तमेऽहनि ।
दंडक्ष्यति स्म कुलांदांग चोदितो मे ततद्रुहम ॥३७॥
ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम ।
पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥३८॥
स वा आंगिरसो ब्रह्मन श्रुत्वा सुतविलापनम ।
उन्मील्य शनकैर्नेत्रे दृष्ट्वा स्वासें मृतोरगम ॥३९॥
विसृज्य पुत्रं पप्रच्छ वत्स कस्माद्धि रोदिषि ।
केन वा तेऽपकृतामित्युक्तः स न्यदेवदयत ॥४०॥
निशम्य शत्पमतदर्हं नरेन्द्रं स ब्राह्मणॊ नात्मजमभ्यनन्दत ।
अहो बातांहो महदज्ञ ते कृत मल्पीयसि द्रोह उरुर्दमो धृतः ॥४१॥
न वै नृभिर्नरदेव पराख्यं सम्मातूमर्हस्यविपक्वबुद्धे ।
यत्तेजसा दुर्विषहेण गुप्ता विन्दति भद्राण्यकुतोभयाः प्रजाः ॥४२॥
अलक्ष्यामाणे नरदेवामि रथागंपणावयमंग लोकः ।
तदा ही चौरप्रचुरो विनंक्ष्य त्यरक्ष्यमाणोऽविविरुथवत क्षणात ॥४३॥
तदद्यः पापमुपत्यनन्वयं यन्नष्टनाथस्य वसोर्विलम्पकात ।
परस्परं घ्रन्ति शपन्ति वृत्र्जते पशुन स्त्रियोऽर्थानपुरुदस्यवो जनाः ॥४४॥
तदाऽऽर्यधर्मश्च विलीयते नृणां वर्णा श्रमाचारयुतस्त्रयीमयः ।
ततोऽर्थकामभिनिवेशितात्मनां शुनांकपीनमिव वर्णसंकरः ॥४५॥
धर्मपालो नरपतिः स तू सम्राड् बृहच्छ्रवाः ।
साक्शान्महाभागवतो राजर्षिर्हयमेधयट ।
क्षुत्तृटश्रमयुतो दीनो नैवास्मच्छापमर्हति ॥४६॥
अपापेतू स्वभृत्येषु बालेनापक्कबुद्धेना ।
पापंकृतं तद भगवान सर्वात्मा क्षन्तूमर्हति ॥४७॥
तिरस्कृता विप्रलब्धाः शत्पाः क्षिप्ता हता अपि ।
नस्य तत प्रतिकृर्वन्ति तद्भक्ताः प्रभवोऽपि हि ॥४८॥
इति पुत्रकॄताघेन सोऽनुतत्पो महामुनि ।
स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत ॥४९॥
प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।
न व्यथन्ति ह हृष्यन्ति यत आत्माऽगुणाश्रयः ॥५०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायं प्रथमस्कन्धे विप्रशापोपलम्भनं नाम अष्टादशोऽध्यायः ॥१८॥