व्यास उवाच
इति ब्रुवाणं संस्तुय मुनीनां दीर्घसत्रिणाम ।
वृद्धः कुलपतिः सुतं बहृवृचः शौनकोऽब्रवीत ॥१॥
शौनक उवाच
सुत सुत महाभाग वद नो वदतां वर ।
कथा भागवंतीं पुण्यां यदाह भगवात्र्छुकः ॥२॥
कस्मिन युगे प्रवृत्तेय स्थाने वा केन हेतुना ।
कुतः सत्र्चोदितः कृष्ण कृतवान संहिता मुनिः ॥३॥
तस्य पुत्रो महायोगी समदृड निर्विकल्पकः ।
एकान्तमतिरुन्निदो गुढो मुढ इवेयते ॥४॥
दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्निया परिदर्धुनं सुतस्य चित्रम ।
तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥५॥
कथमालक्षितः पौरेः सम्प्राप्तः कुरुजांगलान ।
उन्मत्तमुकजडवद्विचरण गजसाह्वये ॥६॥
कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।
संवादः समभुत्तात यत्रैषा सात्वती श्रुतिः ॥७॥
स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम ।
अवेक्षते महाभागस्तीर्थीकुर्वस्तदाश्रमम ॥८॥
अभिमन्युसुतं सुत प्राहुर्भागवतोत्तमम ।
तस्य जन्म महाश्चर्य कर्माणि च गृणीहि नः ॥९॥
स सम्राट कस्य वा हेतो ; पाण्डुनां मानवर्धनः ।
प्रायोपविष्टो गंगायामनादृत्याधिराटश्रियम ॥१०॥
नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः ।
कथं स वीरः श्रीयमंग दुस्त्यजां युवैषतोत्स्रष्टुमहो सहासुभिः ॥११॥
शिवाय लोकस्य भवाय भुतये य उत्तमश्लोकपरायणा जनाः ।
जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम ॥१२॥
तत्सर्व्स नः समाचक्ष्व पृष्टो यदिह कित्र्चन ।
मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात ॥१३॥
सुत उवाच
द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।
जातः पराशराद्योगी वास्व्यां कलया हरेः ॥१४॥
स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचि ।
विविक्तदेश आसीन उदिते रविमण्डले ॥१५॥
परावज्ञः स ऋषिः कालेनाव्यक्तरंहसा ।
युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥१६॥
भौतिकानां च भावानां शक्तिह्यांस च तत्कृतम ।
अश्रद्दधानान्निः सत्त्वान्दुर्मेधान ह्रसितायुषः ॥१७॥
दुर्भगांश्च जनान वीक्ष्य मुनिर्दिव्येन चक्षुषा ।
सर्ववर्नाश्रमाणां यद्दध्यौ हितममोघदृक ॥१८॥
चातुर्होत्रं कर्म शुद्धं प्रजांना वीक्ष्य वैदिकम ।
व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम ॥१९॥
ऋग्यजुः सामाथर्वाख्या वेदाश्चत्वार उदधृता ।
इतिहासपुरणं च पंचमो वेद उच्यते ॥२०॥
तत्रर्ग्वेदधरः पैलः सामगो जैमिनेः कवि ।
वैशम्यापन एवैको निष्णातो यजुषामुत ॥२१॥
अथर्वांगिरसामासीत्सुमन्तुर्दारुणो मुनिः ।
इतिहासपुराणांनां पिता मे रोमहर्षणः ॥२२॥
त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।
शिष्यैः प्रशिष्यैस्तच्छिर्वेदास्ते शाखिनोऽभवन ॥२३॥
त एव वेदा दुर्मेधैर्यन्ते पुरुषैर्यथा ।
एवं चकार भगवान व्यासः कृपणवत्सलः ॥२४॥
स्त्रीशुद्रद्विजबन्धुनां त्रयी न श्रुतिगोचरा ।
कर्मश्रेयासि मुढांना श्रेय एवं भवेदिह ।
इति भारतमाख्यानं कॄपया मुनिना कॄतम ॥२५॥
एवं प्रवृत्तस्य सदा भुतांना श्रेयसि द्विजाः ।
सर्वात्मकेनापि यदा नातुष्यदधृदयं ततः ॥२६॥
नातिप्रसीददधृदयः सरस्वत्यास्तटे शुचौ ।
वितर्कयन विविक्तस्थ इदं प्रोवाच धर्मवित ॥२७॥
धृतव्रतेन ही मया छन्दांसि गुरवोऽग्नयः ।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम ॥२८॥
भारतव्यपरदेशेन ह्याम्नायार्थश्च दर्शितः ।
दृश्यते यत्र धर्मादि स्त्रीशुद्रादिभिरप्युत ॥२९॥
तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः ।
असम्पन्न इवभाति ब्रह्मवर्चस्यसत्तमः ॥३०॥
किम्वा भागवता धर्मा न प्रायेणा निरुपिताः ।
प्रियाः परमहंसानां त एव ह्याच्युतप्रियाः ॥३१॥
तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यंतः ।
कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम ॥३२॥
तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः ।
पूजयामास विधिवन्नारदं सुरपुजितम ॥३३॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः ॥४॥